भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ३०

विकिस्रोतः तः

।। सूत उवाच ।। ।।
यदा ते चीनदेशस्थास्तदाहूतो नृपेण वै ।।
कामपालेन भो विप्र लक्षणो नकुलांशकः ।। १ ।।
जयचंद्र महाभाग सावधानं वचः शृणु ।।
वैशाखशुक्ल सप्तम्यां मुहूर्तोऽयं दिनागमे ।। २ ।।
अतो वै लक्षणो वीरश्चैकाकी मां समाप्नुयात् ।।
गृहीत्वा मत्सुतां दोलां गमिष्यति तवांतिकम् ।। ३ ।।
सेनान्वितं च तं ज्ञात्वा महीराजो महाबलः ।।
ग्रहीष्यति पराजित्य तस्माद्योग्यं वचो मम ।। ४ ।।
इति तत्रत्यवचनं मत्वा राजा प्रसन्नधीः ।।
लक्षणं हस्तिनीसंस्थं शतशूरसमन्वितम् ।। ५ ।।
आहूय प्रेषयामास कामपालाय धीमते ।।
मार्गे पंचदिनं वीर उषित्वा तद्गृहं ययौ ।। ६ ।।
तदा पद्माकरः श्यालो ज्ञात्वा लक्षणमागतम् ।।
भूमिराजं समाहूय तेन युद्धमचीकरत् ।। ७ ।।
लक्षणो नकुलांशश्च दृष्ट्वा शत्रुमुपस्थितम् ।।
स्वशरैस्तर्पयामास राजराजं महाबलम् ।। ८ ।।
मूर्च्छयित्वा महीराजं हत्वा पंचशतं बली ।।
कामपालं समागम्य नत्वा वासमकारयत् ।। ९ ।।
उत्थितश्च महीराजो गत्वा पद्माकरं प्रति ।।
वचनं प्राह कार्यार्थी शृणु मित्र वचो मम ।। 3.3.30.१० ।।
लक्षणो मे महाञ्छत्रुस्स च त्वद्गेहमागतः ।।
यदि दास्यसि तं बद्ध्वा त्वां मदंगं करोम्यहम् ।। ११ ।।
इति श्रुत्वा स लोभात्मा दत्त्वा हालाहलं विषम् ।।
बद्ध्वा तं लक्षणं वीरं महीराजाय चार्पयत् ।।
हत्वा ताञ्छतशूरांश्च गुप्तवार्तामकारयन् ।। १२ ।।
ज्ञात्वा तत्पद्मिनी नारी दुःखितालप्य वै भृशम् ।।
चंडिकां पूजयामास पतिमंगलहेतवे ।। १३ ।।
तदा प्रसन्ना सा देवी वरदा सर्वमंगला ।।
आश्वास्य पद्मिनीं नारीं लक्षणांतमुपाययौ ।। १४ ।।
स्वप्ने तमाह सा देवी ह्रीं फट् घेघे जपं कुरु ।।
अस्य मंत्रप्रभावाच्च सर्वविघ्नः प्रणश्यति ।। १५ ।।
स बुद्ध्वा लक्षणो वीरस्तं मंत्रं च जजाप ह ।।
आषाढे मासि संप्राप्ते कृष्णांशाद्या गृहं ययुः ।। १६ ।।
तालनश्च युतस्ताभ्यां कल्यकुब्जमुपाययौ ।।
न दृष्टो लक्षणो वीरो जयचंद्रप्रियंकरः ।।
ज्ञात्वा तत्कारणं तैश्च कृतं योगमयं वपुः ।। १७ ।।
धान्यपालः कांस्यधारी वीणाधारी च तालनः ।।
लल्लसिंहो मृदंगांको ययुस्ते वै महावतीम् ।। १८ ।।
सभां परिमलस्यैव गत्वा ते योगरूपिणः ।।
चक्रुर्गानं मुदा युक्ताः सर्वे ते मोहमागताः ।। १९ ।।
प्रसन्नश्च तदा राजा मुक्तामालां स्वकण्ठगाम् ।।
तालनाय ददौ प्रीत्या ताभ्यां स्वर्णांगुलीयके ।। 3.3.30.२० ।।
तदा ते हर्षिताः सर्वे कृष्णांशं प्रति चाययुः ।।
ज्ञात्वा कृष्णांश एवापि धृत्वा योगमयं वपुः ।।
ययौ बिंदुगढं वीरस्तालनाद्यैस्समन्वितः ।। २१ ।।
हट्टमध्ये समागम्य कृत्वा रासोत्सवं शुभम् ।।
गेहं पद्माकरस्यैव गत्वा ते ननृतुर्मुदा ।। ।। २२ ।।
एतस्मिन्नंतरे सर्वा योषितस्तत्र चागताः ।।
वेणुवाद्यवृतंवीरं कृष्णांशं ददृशुर्मुहुः ।।
मोहितास्तस्य गानेन जडीभूता धनं ददुः ।। ।। २३ ।।
तदा तु पद्मिनी नारी सर्वलक्षणसंयुता ।।
ज्ञात्वा कृष्णांशमेवापि रुरोद चिरमातुरा ।। २४ ।।
उवाच च विलप्याशु मत्पतिर्ल क्षणो बली ।।
महीराजेन शूरेण कारागारे बलात्कृतः ।।
अहं योषा भवान्योगी कथं कार्यं भविष्यति ।। २५ ।।
इति श्रुत्वा तु स नृपो भुजमुत्थाप्य सत्वरम् ।।
आश्वास्य पद्मिनीं नारीं ययुस्ते देहलीं प्रति ।।
राजद्वारमुपागम्य कृष्णांशस्स ननर्त ह ।। २६ ।।
महीराजस्तु बलवान्प्रसन्नस्तस्यलीलया ।।
वांछितं ब्रूहि कृष्णांश सर्वं योगिन्ददाम्यहम् ।। २७ ।।
इति श्रुत्वा भूपवचो विहस्योवाच तं प्रति।।
कारागारं लोहमयं नृपयोग्यं च मे नृप ।।
दर्शयाशु स्वकीयं वै भवान्भूपशिरोमणिः ।। २८ ।।
इति श्रुत्वा स नृपतिर्मोहितः कृष्णलीलया ।।
दर्शयित्वा च वै शीप्रं पुनस्तेभ्यो ददौ धनम् ।। २९ ।।
ततस्ते योगिनस्सर्वे संप्राप्य च महावतीम् ।।
नत्वा परिमलं भूपं गदित्वा सर्वकारणम् ।। ।। 3.3.30.३० ।।
स्वसेनां सज्जयामास चाह्लादश्च नृपाज्ञया ।।
पञ्चलक्षं महावत्या हयारूढास्समास्थिताः ।। ३१ ।।
तालनस्सप्त लक्षाणि सैन्यान्याहूय चागतः ।।
एवं द्वादशलक्षाणि क्षत्रिया रणदुर्मदाः ।।
देहलीं च समाजग्मुस्सर्वशस्त्रसमन्विताः ।। ३२ ।।
एतस्मिन्नंतरे मन्त्री चद्रभट्टो विशारदः ।।
सर्वशास्त्रार्थकुशलो वैष्णवीशक्तिपूजकः ।।३३।।
महीराजं समागम्य वचः प्राह शृणुष्व भोः ।।
मया वै च रहः क्रीडा दृष्टा देवीप्रसादतः ।।३४।।
तत्रोदयश्च कृष्णांशः पूर्णब्रह्माणमागमत् ।।
वचः प्राह प्रसन्नात्मा शृणु त्वं सत्त्वविग्रह ।। ३५ ।।
अग्निवंशविनाशाय चाद्य यास्यामि देहलीम् ।।
हत्वाहं कौरवांशांश्च स्थापयित्वा कलिं भुवि ।। ३६ ।।
पुनस्तवान्तिकं प्राप्य रहः क्रीडां करोम्यहम् ।।
इत्युक्त्वा बिंदुलारूढः स वीरस्त्वामुप स्थितः ।।
इत्यहं दृष्टवान्भूप कृष्णांशं योगनिद्रया ।। ३७ ।।
इति तस्य वचः श्रुत्वा स भूपो विस्मयान्वितः ।।
भयभीतः सहस्राणि शूरानाहूय सत्वरम् ।।
तेभ्यश्च लक्षणं दत्त्वा वचनं प्राह तान्प्रति ।। ३८ ।।
पद्माकराय भूपाय गत्वा दत्त्वाशु लक्षणम् ।।
ममान्तिकमुपागम्य कारणं वदताशु तत् ।। ३९ ।।
इति श्रुत्वा तु ते सर्वे वह्निवंश्या महाबलाः ।।
गत्वा तत्र तथा कृत्वा महीराजमुपागमन् ।। 3.3.30.४० ।।
भगदंतश्च तेषां तु सहस्राणां च नायकः।।
महीराजं वचः प्राह शृणु तन्नृपभाषितम् ।।४१।।
पद्मिनी मे स्वसा राजन् गुप्तविद्याविशारदा ।।
तया यज्ञपतिर्देवः सम्यगाराधितः पुरा ।। ४२ ।।
दत्तस्तेन वरो रम्यो ह्यन्तर्धानमयः परः ।।
सा तु तं लक्षणं कांतमंतर्धानं करिष्यति ।।
इति श्रुत्वा स नृपतिः परमानन्दमाप्तवान् ।। ४३ ।।
एतस्मिन्नंतरे प्राप्ताः कृष्णांशाद्या महाबलाः ।।
रुरुधुर्देहलीं सर्वां महीराजेन पालिताम् ।। ४४ ।।
स तदा पृथिवीराजो गृहीत्वा बहुभूषणम् ।।
सर्वेभ्यश्च ददौ प्रेम्णा वचनं प्राह नम्रधीः ।। ४५ ।।
लक्षणो नाम ते राजा कारागारे न वै मम ।।
यदि मन्नगरे चास्ति तर्हि ते रोष ईदृशः ।। ४६ ।।
इत्युक्त्वा तं च कृष्णांशं दर्शयामास वै गृहम्। ।।
महादेवस्य शपथं कृतवान्भूपतिर्भयात् ।। ४७ ।।
तदोदयो भूपवचः सत्यं मत्वा सुदुःखितः ।।
स्वकीयैः सह संप्राप्तो ग्रामं बिंदुगढं शुभम् ।। ४८।
कामपालस्तु तच्छ्रुत्वा कृष्णांशागमनं बली ।।
बलिं बहुं गृहीत्वाशु कृष्णांशं शरणं ययौ ।।
प्रांजलिः प्रणतो भूत्वा वचनं प्राह भीरुकः ।। ४९ ।।
सुता मे पद्मिनी नारी लक्षणेन समन्विता ।।
न ज्ञात्वा क्व गताऽस्माभिस्सत्यं सत्यं ब्रवीम्यहम् ।।3.3.30.५०।।
इति तद्वचनं श्रुत्वा कृष्णांशः स्वबलैस्सह ।।
कान्यकुब्जं समागत्य जयचन्द्रमुवाच ह ।। ५१ ।।
भ्रातृजस्तव भूपाल पद्मिन्या लक्षणोऽन्वितः ।।
कामपालगृहे नास्ति निश्चितो बहुधा मया ।। ५२ ।।
न जाने क्व गतो राजा मम प्राणसमो भुवि ।।
यदि भूप न पश्यामि सत्यं प्राणांस्त्यजाम्यहम् ।। ५३ ।।
हा रत्नभानुतनय विष्णुभक्त शुभंकर ।।
स्वमित्रं मां परित्यज्य कां दिशं गतवान्भवान् ।।
इत्युक्त्वा मूर्छितश्चासीत्कृष्णांशो वैष्णवप्रियः ।। ५४ ।।
तदा स्वर्णवती देवी स्वदास्या शोभया सह ।।
धृत्वा शुकमयं रूपं तत्रागत्य स्वमूर्तिगा ।। ५५ ।।
तया संप्रेषिता शोभा म्लेच्छमायाविशारदा ।।
जयचंद्रमुपागम्य धृत्वा दिव्यमयं वपुः ।। ५६ ।।
उवाच वचनं तत्र शृणु भूपशिरोमणे ।।
मायाविनी च मां विद्धि शोभनां नाम विश्रुताम् ।। ५७।।
दंपती तव भूपाल संहृतौ येन यत्र वै ।।
तत्राहं च गमिष्यामि महामदसमन्विता ।। ५८ ।।
आह्लादश्चेन्दुलो वीरो देवो वै तालनो बली ।।
कृष्णांशपालितास्सर्वे यास्यामो भूपते वयम् ।। ५९।।
इत्युक्त्वा शोभना वेश्या कृत्वा योगमयं वपुः ।।
महामदं समारुह्य पैशाचं रुद्रकिंकरम् ।।
प्रययौ तान्पुरस्कृत्य योगिवेषान्महाब लान्।। 3.3.30.६० ।।
आह्लादो गजसंस्थो वै करालारूढ इन्दुलः ।।
तालनः सिंहिनीसंस्थो देवसिंहो मनोरथे ।।
कृष्णांशो बिन्दुलारूढो नर्तयामास तं हयम्।। ६१ ।।
कामरूपमयं देशं शतयोजनगामिनः ।।
बलवंतश्च संप्राप्ता गेहेगेहे जनेजने ।।
लक्षणं शोधयामासुर्न प्राप्तास्तत्र तं नृपम् ।। ६२ ।।
पुनर्मयूरनगरं शोभना तैः समन्विता ।।
चिन्वती तं मनुष्येषु न प्राप्ता तत्र वै नृपम् ।। ६३ ।।
पुनरिन्नगढग्रामं शोभना च जनेजने ।।
लक्षणं मृगयामास न प्राप तत्र लक्षणम्।। ६४ ।।
गत्वा बाह्लीकनगरं शोभना तैस्समन्विता ।।
लक्षणं च नृपश्रेष्ठं नापश्यत्तत्र दुःखिता ।। ६५ ।।
पुनः स्वदेशमागम्य बाह्लीकं म्लेच्छवासिनम् ।।
मर्कटेश्वरमीशानं तत्राह वनवासिनम् ।।
पूजयित्वा च सा वेश्या गाननृत्यपराभवत् ।। ६६ ।।
स देवो भूमिमध्यात् समागम्य मुदान्वितः ।।
कृष्णांशं प्रणतो भूत्वाऽब्रवीन्म्लेच्छप्रपूजितः ।। ६७ ।।
अहं कालाग्निरुद्रेण भूमिगर्ते सुरोपितः ।।
असमर्थं च मां विद्धि गच्छ वीर यथासुखम् ।। ६८ ।।
इति श्रुत्वा च सा शोभा निराशाभूत्तदा स्वयम् ।। ६९ ।।
पुनः स्वर्णवतीं प्राप्य सर्वमेवा दितोऽब्रवीत् ।।
त्रिंशदब्दैश्च कृष्णांशे चैत्रशुक्ल समागते ।। 3.3.30.७० ।।
तानाश्वास्य सुवर्णांगी पूजयामास चंडिकाम् ।।
नवरात्रं गतं तस्या भोजनाच्छादनं विना ।।
निशीथान्ते तमःप्राप्ते गत्वाह जगदम्बिका ।। ७१ ।।
पद्मिनी नाम या नारी मणिदेवस्य वै प्रिया ।।
जाता सा कामपालस्य गृहे यज्ञावमानिता ।। ७२ ।।
सेनापतिः कुबेरस्य मणिदेवो हि स स्मृतः ।।
पूर्वं हि भीमसेनेन यक्षयुद्धेषु घातितः ।। ७३ ।।
तदा तत्पद्मिनी नारी देवदेवमुमापतिम् ।।
तुष्टाव च निराहारा मत्पतिं देहि शंकर ।। ७४ ।।
शतवर्षांतरे देवो महादेव उवाच ताम् ।।
कलौ विक्रमकाले हि शतद्वादशकेऽन्तिके ।। ७५ ।।
नकुलांशं च संप्राप्य भुक्त्वा तेन महत्सुखम् ।।
तद्वियोगेन संत्यज्य देहं पद्मानुवासितम् ।।
स्वपतिं च तदा प्राप्य कैलासं पुनरेष्यसि ।। ७६ ।।
महावतीं पुरीं रम्यां राष्ट्रपालाय शारदा ।।
करिष्यति तदा देवी मणिदेवस्तु त्वत्पतिः ।। ७७ ।।
तया विरचितो भूमौ ग्रामरक्षार्थमुद्यतः ।।
प्राप्तस्त्वां पद्मिनीं नारीं कैलासं पुनरेष्यति ।। ७८ ।।
अतः स्वर्णवति त्वं वै कैलासं गुह्यकालयम् ।।
गत्वाशु पद्मिनीं तत्र बोधयाशु वचः कुरु ।। ७९ ।।
इति श्रुत्वा स्वर्णवती पद्मिनीं प्रति चागमत् ।।
वृत्तांतं कथयित्वाग्रे पद्मिनीं तु दयातुरा ।। 3.3.30.८० ।।
कामपालगृहं प्राप्य तत्र वासमकारयत् ।।
स्वर्णवत्यपि संप्राप्ता तदा शीघ्रं महावतीम् ।। ८१ ।।
तस्यां गतायां गेहे वै पद्मिन्या लिखितं शुभम् ।।
पत्रं परिमलो राजा वर्तयामास हर्षितः ।।८३।।
आगच्छ सेनया सार्द्धं कृष्णांश बलवत्तर ।।
जित्वा पद्माकरं बंधुं मत्पतिं मोचयाशु वै।।
भूतले लक्षणो राजा स्थितः पद्माकरार्तिगः ।। ८३ ।।
इति ज्ञात्वा च कृष्णांशो लक्षद्वादशसेनया ।।
रुरोध नगरीं सर्वां कामपालेन रक्षिताम् ।। ८४ ।।
कामपालस्तु बलवांस्त्रिलक्षबलसंयुतः ।।
सुताज्ञया ययौ युद्धं सार्द्धं पद्माकरेण वै ।। ८५।।
तयोश्चासीन्महद्युद्धं सेनयोरुभयोस्तदा ।।
अहोरात्रप्रमाणेन भूपसेना पराजिता ।। ८६ ।।
पद्मिनीं शरणं प्राप्य तदा भ्राता पिता स्थितः ।।
तयोर्विजयमेवाशु यथाप्राप्तं चकार सा ।।
अन्तर्द्धानमयं पत्रं तयोरर्थे च सा ददौ ।। ८७ ।।
तौ तत्रान्तर्हितौ भूत्वा स्वखड्गेन रिपोर्बलम् ।।
अयुतं जघ्नतुर्मत्तौ तदा ते विस्मयं गताः ।।८८।।
तालनाद्या रणं त्यक्त्वा कृष्णांणशं शरणं ययुः ।।
कृष्णांशोऽपि तदा दुःखी ध्यात्वा सर्वमयीं शिवाम् ।। ८९ ।।
दिव्यदृष्टिस्ततो जातः संप्राप्य तमयुध्यत ।।
नभोगतं कामपालं तथा पद्माकरं नृपम् ।। 3.3.30.९० ।।
बद्ध्वा तत्र मुदाविष्टो लक्षणं प्राप्य निर्भयः ।।
दोलामारोप्य तां देवीं स्वगेहाय मुदा ययौ ।। ९१ ।।
जयचंद्राय भूपाय दत्त्वा वै तौ च दंपती ।।
लक्षणं पद्मिनीं चैव कृतकृत्यस्तदाभवत् ।। ९२ ।।
जयचंद्रोऽपि बलवान्दृष्ट्वा गेहे स्वदंपती ।।
ददौ दानं द्विजातिभ्यो भूपतिं सममोचयत् ।।
ज्येष्ठे मासि सिते पक्षे कृष्णांशो गेहमागतः ।। ९३ ।।
इति ते कथितं विप्र कृष्णांशचरितं शुभम् ।।
पुनस्ते कथयिष्यामि दृष्टं योगबलेन वै ।।९४।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये त्रिंशोऽध्यायः ।।३०।।