भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १३

विकिस्रोतः तः

।। ऋषय ऊचुः ।। ।।
कस्मिन्मास्यभवद्युद्धं तयोः कतिदिनानि च ।।
तत्पश्चात्स्व पुरीं प्राय तदा किमभवन्मुने ।। १ ।।
।। सूत उवाच ।। ।।
पौषमास्यभवद्युद्धं तयोः शतदिनानि च ।।
ज्येष्ठे मासि गृहं प्राप्ता दध्मुर्वाद्यान्यनेकशः।। २ ।।
श्रुत्वा परिमलो राजा स्वसुताञ्जयिनो बलीन् ।।
ददौ दानानि विप्रेभ्यः सुखं जातं गृहेगृहे ।। ३ ।।
इति श्रुत्वा महीराजो बलखानिं महाबलम् ।।
तत्रागत्य नमस्कृत्य वचनं प्राह नम्रधीः ।। ४ ।।
अर्द्धकोटिमितं द्रव्यं मत्तः प्राप्य सुखी भव ।।
माहिष्मत्याश्च राष्ट्रं मे देहि वीर नमोस्तु ते ।। ५ ।।
वर्षे वर्षे च तद्द्रव्यं गृहाण बलवन्प्रभो ।।
इति श्रुत्वा तथा मत्वा बलखानिर्गृहं ययौ ।।६।।
वयस्त्रयोदशाब्दे च कृष्णांशे बलवत्तरे ।।
यथा जाता हरेर्लीला भृगुश्रेष्ठ तथा शृणु ।। ७ ।।
भाद्रे शुक्ले त्रयोदश्यां चाह्लादः सानुजो ययौ ।।
गयार्थे धनमादाय हस्त्यश्वरथसंकुलम् ।। ।। ८ ।।
कृष्णांशो बिन्दुलारूढो वत्सजो हरिणीस्थितः ।।
देवः पपीहकारूढः सुखखानिः करालके ।। ९ ।।
चत्वारो द्विदिनान्ते च गयाक्षेत्रं समाययुः ।।
पूर्णिमांते पुरस्कृत्य षोडशश्राद्धकारिणः ।। 3.3.13.१० ।।
शतं शतं गजांश्चैव भूषितांश्च रथास्तथा ।।
ददुर्हयान्सहस्रं च हेममालाविभूषि तान् ।। ११ ।।
धेनूर्हिरण्यरत्नानि वासांसि विविधानि च ।।
दत्त्वा ते सुफलीभूय स्वगेहाय दधुर्मनः ।। १२ ।।
लक्षावर्तिस्तु या वेश्या ययौ बदरिकाश्रमम् ।।
प्राणांस्तत्र परित्यज्य साप्सरस्त्वमुपागता ।। १३ ।।
राकां चंद्रे तु संप्राप्तं राहुग्रस्ते तमोमये ।।
काश्यां समागता भूपा नाना देश्याः कुलैः सह ।। १४ ।।
हिमालयगिरौ रम्ये नानाधातुविचित्रिते ।।
तत्र शार्दूलवंशीयो नेत्रसिंहो महीपतिः ।। १५ ।।
रत्नभानो हते शूरे नेत्रसिंहो भयातुरः ।।
नवतुंगे समासाद्य तोषयामास वासवम् ।। १६ ।।
द्वादशाब्दान्तरे देवो ददौ ढक्कामृतं मुदा ।।
पार्वत्या निर्मितं यत्तु वासवाय स्वसेविने ।। १७ ।।
ददौ ढक्कामृतं राज्ञे पुनः प्राह शुभं वचः ।।
अस्य शब्देन भूपाल त्वं सैन्यं जीवयिष्यसि ।। १८ ।।
क्षयं शीघ्रं गमिष्यंति शत्रवस्ते महाभटाः।।
प्राप्ते ढक्कामृते तस्मिन्नेत्रसिंहो महाबलः ।। १९ ।।
नगरं कारयामास तत्र सर्वजनैर्युतम् ।।
योजनान्तं चतुर्द्वारं दुराधर्षं परैः सदा ।। 3.3.13.२० ।।
नेत्रसिंहगढं नाम्ना विख्यातं भारते भुवि ।।
काश्मीरान्ते कृतं राज्ये तेन शृंगसमं ततः ।। २१ ।।
पालितं नेत्रसिंहेन तत्पुरः पुत्रवन्मुने ।।
नेत्रपाल इति ख्यातो ग्रामोऽसौ दुर्गमः परेः ।। २२ ।।
सोऽपि राजा समायातो नेत्रसिंहो महाबलः ।।
कन्या स्वर्णवती तस्य रेवत्यंशसमन्विता ।।
कामाक्ष्या वरदानेन सर्वमायाविशारदा ।। २३ ।।
दृष्ट्वा तां सुंदरीं कन्यां बालेन्दुसदृशाननाम् ।।
मूर्च्छिताश्चाभवन्भूपा रूपयौवनमोहिताः ।। २४ ।।
दृष्ट्वा तां च तथाह्रादः सर्वरत्नविभूषिताम् ।।
षोडशाब्दवयोयुक्तां कामिनीं रतिरूपिणीम् ।।
मूर्च्छितश्चापतद्भूमौ सा तं दृष्ट्वा मुमोह वै ।। २५ ।।
दोलामारुह्य तत्सख्यौ नृपान्तिकमुपाययुः ।।
आह्लादस्तु समुत्थाय महामोहत्वमागतः ।। २६ ।।
दृष्ट्वा तथाविधं बंधुं कृष्णांशः प्राह दुःखितः ।।
किमर्थं मोहमायातो भवाँस्तत्वविशारदः ।। २७ ।।
रजो रागात्मकं विद्धि प्रमादं मोहजं तथा ।।
ज्ञानासिना शिरस्तस्य छिंधि त्वमजितः सदा ।। २८ ।।
इति श्रुत्वा वचो भ्रातुस्त्यक्त्वा मोहं ययौ गृहम् ।।
भोजयित्वा द्विजश्रेष्ठान्सहस्रं वेदतत्परान् ।। २९ ।।
दुर्गामाराधयामास जप्त्वा मध्यचरित्रकम् ।।
मासान्ते च तदा देवी दत्त्वाभीष्टं हृदि स्थितम् ।। 3.3.13.३० ।।
मोहयामास तां कन्यां विवाहार्थमनिन्दिता ।।
स्वप्ने ददर्श सा बाला रामांशं देवकीसुतम् ।। ३१ ।।
प्रातर्बुद्ध्वा तु संचिंत्य महामोहमुपाययौ ।।
तदा ध्यात्वा च कामाक्षीं सर्वाभीष्टप्रदायिनीम् ।। ।। ३२ ।।
पौषमासे तु संप्राप्ते शुककंठे सुपत्रिकाम् ।।
बद्ध्वा तं प्रेषयामास शुकं पत्रस्थितं प्रियम् ।। ३३ ।।
स गत्वा पुष्पविपिनं महावतिपुरीस्थितम् ।।
नरशब्देन वचनं कृष्णांशाय शुकोब्रवीत ।। ३४ ।।
वीर तेऽवरजो बंधुर्नाम्नाह्लादो महाबलः ।।
तस्मै हि प्रेषिता पत्री स्वर्णवत्या हितप्रदा ।। ३५ ।।
तां ज्ञात्वा च पुनस्तस्या उत्तरं देहि मत्प्रियम् ।।
अथ वा पत्रमालिख्य तत्त्वं मे कुरु कंठके ।। ३६ ।।
इति श्रुत्वोदयो वीरो गृहीत्वा पत्रमुत्तमम् ।।
ज्ञातवांस्तत्र वृत्तांतमाह्लादाय पुनर्ददौ ।। ३७ ।।
जम्बुकश्च नृपो वीरो रुद्रदत्तवरो बली ।।
अजेयोन्यनृपैर्वीर त्वया युधि निपातितः ।। ३८ ।।
तथाविधं मत्पितरमिंद्रदत्तवरं रिपुम् ।।
तमेवं जहि संग्रामे मम पाणिग्रहं कुरु ।। ।। ३९ ।।
इति ज्ञात्वा स आह्लादस्तामाश्वास्य हृदि स्थिताम् ।।
शुककंठे बबंधाशु लिखित्वा पत्रमुत्तमम् ।। 3.3.13.४० ।।
स शुकः पन्नगः पूर्वं पुंडरीकेन शापितः ।।
रेवत्यंशस्य कार्यं च कृत्वा मोक्षत्वमागतः ।। ४१ ।।
मृते तस्मिञ्छुके रम्ये देवी स्वर्णवती तदा ।।
दाहयित्वा ददौ दानं विप्रेभ्यस्तस्य तृप्तये ।। ४२ ।।
माघमासि च संप्राप्ते पंचम्यां कृष्णपक्षके ।।
आह्लादः सप्तलक्षैश्च सैन्यैः सार्द्धं ययौ मुदा ।। ४३ ।।
तालनाद्याश्च ते शूराः स्वंस्वं वाहनमाश्रिताः ।।
आह्लादं रक्षयन्तस्ते ययुः पंचदशाहकम् ।। ४४ ।।
वंगदेशं समुल्लंघ्य शीघ्रं प्राप्ता हिमालयम् ।।
रूपणं पत्रकर्त्तारं बलखानिरुवाच तम् ।। ४५ ।।
गच्छ त्वं वीर कवची करालाश्वं समास्थितः ।।
पंचशस्त्रसमायुक्तो राजानं शीघ्रमावह ।। ४६ ।।
युद्धचिह्नं तनौ कृत्वा मामागच्छ त्वरान्वितः ।।
तथा मत्वा शिखंड्यंशो ययौ शीघ्रं स रूपणः ।।४७।।
स ददर्श सभां राज्ञो बहुशूरसमन्विताम्।।
पार्वतीयैर्नृपैः सार्द्धं सहस्रैर्बलवत्तरैः ।। ४८ ।।
स उवाच नृपश्रेष्ठं नेत्रसिंहं महाबलम् ।।
त्वत्सुताया विवाहाय बलखानिर्महाबलः ।।
सप्तलक्षबलैर्गुप्तः संप्राप्तस्तव राष्ट्रके ।। ४९ ।।
तस्मात्त्वं स्वसुतां शीघ्रमाह्लादाय समर्पय ।।
शुल्कं मे देहि नृपते युद्धरूपं सुदारुणम् ।। 3.3.13.५० ।।
इति श्रुत्वा वचस्तस्य स राजा क्रोधमूर्छितः ।।
पट्टनाधिपमाज्ञाय भूपं पूर्णबलं रुषा ।।
अरुधत्स कपाटं च तस्य बंधनहेतवे ।। ५१ ।।
पाशहस्ताञ्छूरशतं पट्टनाधिपरक्षितान् ।।
दृष्ट्वा स रूपणो वीरः खड्गयुद्धमचीकरत् ।। ५२ ।।
हत्वा तन्मुकुटं राज्ञो गृहीत्वाकाशगो बली ।।
बलखानिं तु संप्राप्य चिह्नं तस्मै न्यवेदयत् ।। ५३ ।।
इति श्रुत्वा प्रसन्नात्मा सप्त लक्षदलैर्युतः ।।
अरुधन्नगरीं सर्वां नेत्रसिंहेन रक्षिताम् ।। ५४ ।।
नेत्रसिंहस्तु बलवान्पार्वतीयैर्नृपैः सह ।।
हिमतुंगतलं प्राप्य युद्धार्थी तान्समाह्वयत् ।। ५५ ।।
सहस्रं च गजास्तस्य हया लक्षं महाबलाः ।।
सहस्रं च नृपाः शूराश्चतुर्लक्ष पदातिभिः ।। ५६ ।।
योगसिंहो गजैः सार्द्धं बलखानिं समाह्वयत् ।।
भोगसिंहो हयैः सार्द्धं कृष्णांशं च समाह्वयत् ।। ५७ ।।
विजयो नृपपुत्रश्च सर्वभूपतिभिः सह ।।
देवसिंहस्तथा म्लेच्छै रूपणं च समाह्वयत् ।। ५८ ।।
तयोश्चासीन्महद्युद्धं सेनयोस्तत्र दारुणम् ।।
निर्भयाश्चैव ते शूराः पार्वतीयाः समंततः ।।
जघ्नुस्ते शात्रवीं सेनां द्विलक्षां वीरपालिताम् ।। ५९ ।।
प्रभग्नं स्वबलं दृष्ट्वा चत्वारो मदमत्तकाः ।।
दिव्यानश्वान्समारुह्य चक्रुः शत्रोर्महावधम् ।।
पुनरुजीवितं सर्वं ढक्कामृतरवाद्बलम् ।। 3.3.13.६० ।।
युद्धाय संमुखं प्राप भृगुश्रेष्ठ पुनः पुनः ।।
अहोरात्रं रणश्चासीत्तेषां तत्रैव दारुणः ।। ६१ ।।
एवं सप्ताह्नि संजाते युद्धे भीरुभयंकरे ।।
उपायैर्बहुभिर्वीराश्चक्रुश्चैव रणं बहुम् ।। ६२ ।।
पुनस्ते जीवमापन्ना जघ्नुस्तान्रिपुसैन्यपान्।।
तालनाद्यास्तु ते शूरा दुःखितास्तत्र चाभवन् ।।
निराशां विजये प्राप्य कृष्णांशं शरणं ययुः ।। ६३ ।।
तानाश्वास्य स कृष्णांशस्तत्र दिव्यहये स्थितः ।।
नभोमार्गेण बलवान्स्वर्णवत्यंतिकं ययौ ।। ६४ ।।
हर्म्योपरि स्थितां देवीं सर्वशोभासमन्विताम् ।।
नत्वोवाच वचः श्लक्ष्णं किंकरोहमिहोदयः ।।
शरण्यां त्वामुपागच्छं कामाक्षीमिव भामिनि ।। ६५ ।।
वृत्तान्तं कथयामास यथासीच्च महारणः ।।
श्रमेण कर्शिता वीरा निराशां जीवनेऽगमन् ।। ६६ ।।
साह चोदयसिंह त्वं कामाक्ष्या मंदिरं व्रज ।।
अहं च स्वालिभिः सार्धं नवम्यां पूजने रता ।। ६७ ।।
ढक्कामृतस्य वाद्येन पूजये सर्वकामदाम् ।।
इति श्रुत्वा स बलवान्स्वसैन्यं प्रति चागमत् ।। ६८ ।।
अर्धशेषां रणात्सेनां पराजाप्य च दुद्रुवुः ।।
पट्टनाख्यपुरे प्राप्तां जयं प्राप्य महाबलाः ।। ६९ ।।
पराजिते रिपौ तस्मिन्नेत्रसिंहसुतैः सह ।।
गृहमागत्य बलवान्विप्रेभ्यो गोधनं ददौ ।। 3.3.13.७० ।।
नवम्यां पितरं प्राह देवी स्वर्णवती तदा ।।
कामाक्षीसेवनेनाशु कुरु यागोत्सवं मम ।।
यत्प्रसादाच्च विजयी दुर्जयेभ्योऽभवद्भवान् ।। ७१ ।।
इति श्रुत्वा पिता प्राह स्वप्नो दृष्टस्तथा मया ।।
पूजनान्मंगलं राज्ञां नो चेद्विघ्नो हि शोभने ।। ७२ ।।
पित्रोक्तैवं निशायां तु सा सुता पितुराज्ञया ।।
ढक्कामृतस्य वाद्येन कामाक्षीमदिरं ययौ ।। ७३ ।।
कृष्णांशो माल्यकारस्य वधूर्भूत्वा समागतः ।।
ढक्कामृतं च नारीभ्यो गृहीत्वा त्वरितो ययौ ।। ।।७४।।
एतस्मिन्नन्तरे वीराः षष्टिर्वाहनसंयुताः ।।
ढक्कार्थं प्रययुः शीघ्रं सर्वशस्त्रैः समुद्यताः ।।७५।।
तानागतान्स बलवान्दृष्ट्वा खड्गं गृहीतवान् ।।
पंचपंचाशतः शूराननयद्यमसादनम् ।। ७६ ।।
कृष्णांशस्त्वरितो गत्वा रूपणो यत्र तिष्ठति ।।
ढक्कामृतं च संप्राप्य हयारूढो ययौ सभाम् ।।७७।।
हृते ढक्कामृते दिव्ये नेत्रसिंहो भयातुरः ।।
ऐन्द्रं यज्ञं तथा कृत्वा हवनाय परोऽभवत् ।। ७८ ।।
प्रभाते समनुप्राप्ते ते वीराः स्वबलैः सह ।।
तरसा प्रययुः सर्वे गजोष्ट्रहयसंस्थिताः ।।
दिनान्ते प्राप्तवंतश्च यत्राभूत्समहारणः ।। ७९ ।।
कृष्णांशः पूजयित्वा तं दध्मौ ढक्कामृतं बली ।।
तच्छब्देन मृता वीराः पुनरुजीवितास्तदा ।। 3.3.13.८० ।।
सप्तलक्षबलं तस्य पुनः प्राप्तं मदातुरम् ।।
रुरोध नगरीं सर्वां दध्मौ वाद्यान्यनेकशः ।। ८१ ।।
रुद्धे तु नगरे तस्मिन्नेत्रसिंहो भयातुरः ।।
स्वात्मानमर्पयामास वह्नौ शक्राय धीमते ।। ८२ ।।
तदा प्रसन्नो भगवानुवाच नृपतिं प्रति ।।
रामांशोयं च कृष्णांशो भुवि जातौ कलैकया ।। ८३ ।।
तस्मै योग्याय सा कन्या रामांशाय यशस्विने ।।
योगिनीयं स्वर्णवती रेवत्यंशावतारिणी ।।८४।।
इत्युक्त्वा च स्वयं देवो ढक्कामृतमुमाप्रियम् ।।
हृत्वा वह्नौ समाक्षिप्य दुर्गायै संन्यवेदयत् ।। ८५ ।।
गते तस्मिन्सुरपतो स राजा ब्राह्मणैः सह ।।
महीपतिं प्रति ययौ मेलनार्थं समुद्यतः ।। ८६ ।।
तथागतं नृपं दृष्ट्वा कृष्णांशश्च महीपतिः ।।
आह्लादमातुलः प्राह मान्यः सर्वबलैः सदा ।।८७।।
राजन्नयं स बलवानाह्रादः सानुजैः सह ।।
मत्पंक्तौ न स्थितो वीरः कुले हीनत्वमागतः ।। ८८ ।।
आर्याभीरी स्मृता तेषां किं त्वया विदितं न हि ।।
यदि देया त्वया कन्या तर्हि त्वं हीनतां व्रज ।। ८९ ।।
अतस्त्वं वचनं चेदं कुलयोग्यं शृणुष्व भोः ।।
चतुरो बालकान्नीचांस्तालनेन समन्वितान् ।। 3.3.13.९० ।।
वञ्चयित्वा विवाहार्थे शिरांस्येषां समाहर ।।
मंडपति मखं कृत्वा चामुण्डायै समर्पय ।। ९१ ।।
त्वत्कन्यया समाहूता वीरा वै रेवती हि सा ।।
पश्चात्कन्यां स्वयं हत्वा कुलकल्याणमावह।। ९२ ।।
नो चेद्भवान्क्षयं यायात्सकुलो जंबुको यथा ।।
इत्युक्त्वा स ययौ सार्द्धं यत्राह्रादस्य बांधवः ।। ९३ ।।
इति श्रुत्वा स शल्यांशः सुयोधनमुखेरितम् ।।
तथेत्युक्त्वोत्सवं कृत्वा मंडपांते विधानतः ।।
आह्लादस्य समीपं स गत्वैतद्वंचनाय हि ।।
तमाह दंडवत्पादौ गृहीत्वा नृपतिस्स्वयम् ।। ९४ ।।
भवन्तोंशावताराश्च मया ज्ञाताः सुरोत्तमात् ।।
निरस्त्रान्पञ्च युष्मांश्च पूजयित्वा यथाविधि ।।
रामांशाय स्वकन्यां च दास्यामि कुलरीतितः ।। ९५ ।।
इत्याह्रादं समादिश्य स नृपश्छलमाश्रितः ।।
दुर्गोत्सवे ययौ गेहं तद्वधाय समुद्यतः ।। ९६ ।।
सहस्रं मंडपे भूपान्संस्थाप्य स्वबलैः सह ।।
तालनाद्यांश्च षट् शूरान्मंडपांते समाह्वयत् ।। ९७ ।।
विवाहप्रथमावर्ते योगसिंहोऽसिमुत्तमम् ।।
वरमाहत्य शिरसि जगर्ज बलवान्रुषा ।। ९८ ।।
तमाह तालनो धीमान्न योग्यं भवता कृतम् ।।
श्रुत्वाह नेत्रसिंहस्तं कुलरीतिरियं बलिन् ।।
निरायुधैः परैः सार्द्धं शस्त्रिणां संगरो हि नः ।। ९९ ।।
इति श्रुत्वा योगसिंहं कृष्णांशस्तं समारुधत् ।।
भोगसिंहं तथा कृष्य बलखानिर्गृहीतवान् ।। 3.3.13.१०० ।।
विजयं तृतीयावर्ते सुखखानिर्न्यरुंद्ध वै ।।
चतुर्थावर्तके शत्रुं नृपं पूर्णबलं शठम् ।।
रूपणस्तं गृहीत्वाशु युयुधे तद्बलैः सह ।। १०१ ।।
पंचमे बहुराजानं तालनश्च समारुधत् ।।
षष्ठावर्त्ते नेत्रसिंहं तथाह्लादो गृहीतवान् ।। १०२ ।।
संप्राप्ते तुमले युद्धे बहुशूराः क्षयं गताः ।।
निरायुधाः षड् बलिनः संक्षम्य व्रणमुत्तमम् ।।
निरायुधान्रिपून्स्वान्स्वांश्चक्रुः शक्तिप्रपूजकाः ।।१ ०३।।
एतस्मिन्नन्तरे देवः कालदर्शी समागतः ।।
नभोमार्गेण तानश्वांस्तेभ्य आगत्य संददौ ।। १०४ ।।
बिन्दुलं चैव कृष्णांशो देवस्तत्र मनोरथम् ।।
रूपणश्च करालाश्वं चाह्लादस्तु पपीहकम् ।। १०५ ।।
हरिणीं बलखानिश्च तद्भ्राता हरिनागरम् ।।
सिंहिनीं तालनः शूरः समारुह्य रणोद्यतः ।। १०६ ।।
रात्रौ तन्नृपतेः सेनां हत्वा बद्ध्वा च तत्पतिम् ।।
दोलां गेहाच्च निष्काश्य सप्तभ्रमरकारिताम् ।। १०७ ।।
स्वसैन्यं ते समाजग्मुर्निर्भया बलवत्तराः ।।
तान्सर्वान्नेत्रसिंहादीन्दृष्ट्वा पाहीति जल्पितः ।। १०८ ।।
निगडैरेकतः कृत्वा पञ्च भूपान्हि वंचकान् ।।
कारागारे महाघोरे तत्र तान्संन्यवासयन् ।। ।। १०९ ।।
नेत्रसिंहो वरो भ्राता सुन्दरारण्यभूमिपः ।।
हेतुं ज्ञात्वाययौ शीघ्रं मायावी लक्षसैन्यकः ।। 3.3.13.११० ।।
तत्रागत्य हरानन्दो नाम्ना तानयुधद्बली । ।
नेत्रसिंहस्य सैन्यं च चतुर्लक्षं तदागमत् । । १११ । ।
पञ्चलक्षै रणो घोरः सप्तलक्षयुतैरभूत् ।।
पञ्चाहोरात्रमात्रं च तयोश्चासीत्स संकुलः ।।
अर्द्धसैन्यं रिपोस्तत्र हतशेषमदुद्रुवत् ।। ११२ । ।
विस्मितः स हरानन्दो रुद्रमायाविशारदः ।।
बलाधिक्ययुताञ्ज्ञात्वा शिवध्यानपरोऽभवत् । । । । ११३ । ।
रचित्वा शांबरीं मायां नानारूपविधारिणीम् । ।
पाषाणभूतान्सकलान्कृत्वा भूपान्समाययौ । । ११४ । ।
ससुतं भ्रातरं ज्येष्ठं नृपं पूर्णबलं ततः ।।
मोचयित्वा ययौ गेहं कृतकृत्यो महाबली ।। ११५ ।।
आह्लादं निगडैर्बद्ध्वा मायया जडतां गतम् ।।
नेत्रसिंहः स बलवान्ययौ स्वं दुर्गमुद्यतः ।।
तं प्रशंस्यानुजं वीरो विप्रेभ्यश्च ददौ धनम् ।। ११ ६। ।
तदा स्वर्णवती दीना बद्धं ज्ञात्वा पतिं निजम् ।।
कृष्णांशाद्यान्मोहितांश्च शंभुमायावशानुगान् । । ।। ११ ७।।
रुरोदोच्चैस्तदा देवीं ध्यायंती कामरूपिणीम् । ।
तदा तुष्टा जगद्धात्री मूर्च्छितांस्तानबोधयत् । । ११८ । ।
ते सर्वे चेतनां प्राप्ताः प्राहुः स्वर्णवतीं मुदा ।।
क्वास्थितो वंधुराह्लादो देवि त्वं कारणं वद। । ११ ९।
यथा बद्धः स्वयं स्वामी कथयामास सा तथा ।।
अहं शुकी भवाम्यद्य भवान्बिंदुलसंस्थितः । ।। 3.3.13.१२ ० ।।
इत्युक्त्वा सा शुकी भूत्वा कृष्णांशेन समन्विता ।।
यत्रास्ते तत्पतिर्बद्धस्तत्र सा कामिनी ययौ ।। १२१ ।।
कृष्णांशोऽपि हयारूढो नभोमार्गेण चाप्तवान् ।।
अभीरीं मूर्तिमासाद्य स्वामिनं प्रति सा ययौ ।। १ २२।।
आश्वास्य तं यथायोग्यं कृष्णांशं प्रत्यवर्णयत् ।।
कृष्णांशस्तत्र बलवान्हत्वा दुर्ग निवासिनः ।। १२३ ।।
रक्षकाञ्छतसाहस्रान्हत्वा भ्रातरमाययौ । ।
पौर्णिमां मधुयुक्तां च ज्ञात्वा सर्वे त्वरान्विताः ।। १२४ ।।
अयोध्यां शीघ्रमागम्य स्नात्वा वै सरयूं नदीम् । ।
होलिकादाहसमये शीघ्रं वेण्यां समागताः ।। १ २५। ।
स्नानध्यानादिका निष्ठाः कृत्वा गेहमुपाययुः ।।
सागरस्य तटं प्राप्य कृत्वा ते च महोत्सवम् । ।
चैत्रस्य कृष्णपञ्चम्यां स्वगेहं पुनराययुः ।। १२६ ।।
दूता उष्ट्रसमारूढास्तत्क्षेमकरणोत्सुकाः । ।
वैशाखे शुक्लपंचम्यां स्वगेहं पुनराययुः ।। १२७ । ।
मलना भूपतिश्चैव गेहेगेहे महोत्सवम् ।।
कारयित्वा विधानेन ब्राह्मणेभ्यो ददौ धनम् । । १२८ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये त्रयोदशोऽध्यायः ।। १३ ।।