भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
इंद्रप्रस्थेऽनंगपालोनपत्यश्च महीपतिः ।।
पुत्रार्थं कारयामास शैवं यज्ञं विधानतः ।। १ ।।
कन्यके च तदा जाते शिवभागप्रसादतः ।।
चंद्रकांतिश्च ज्येष्ठा वै द्वितीया कीर्तिमालिनी ।। २ ।।
कान्यकुब्जाधिपायैव चंद्रकान्तिं पिताददत् ।।
देवपालाय शुद्धाय राष्ट्रपालान्वयाय च ।। ३ ।।
सोमेश्वराय भूपाय चपहानिकुलाय तु ।।
अजमेराधिपायैव तथा वै कीर्तिमालिनीम् ।। ४ ।।
जयशर्मा द्विजः कश्चित्समाधिस्थो हिमालये ।।
दृष्ट्वा भूपोत्सवं रम्यं राज्यार्थे स्वमनोऽदधत् ।। ५ ।।
त्यक्त्वा देहं स शुद्धात्मा चंद्रकांत्याः सुतोभवत् ।।
जयचंद्र इति ख्यातो बाहुशाली जितेन्द्रियः ।।
रत्नभानुश्च संजज्ञे शूरस्तस्यानुजो बली ।। ६ ।।
स जित्वा गौडवंगादीन्मरुदेशान्मदोत्कटान् ।।
दंड्यान्कृत्वा गृहं प्राप्य भ्रात्राज्ञा तत्परोऽभवत् ।।७।।
गंगासिंहस्य भगिनी नाम्ना वीरवती शुभा ।।
रत्नभानोश्च महिषी बभूव वरवर्णिनी ।। ८ ।।
नकुलांशस्तदा भूमौ तस्यां जातः शिवाज्ञया ।।
लक्षणो नाम बलवान्खड्गयुद्धविशारदः ।।
स सप्ताब्दान्तरे प्राप्ते पितुस्तुल्यो बभूव ह ।। ९ ।।
त्रयश्च कीर्तिमालिन्यां पुत्रा जाता मदोत्कटाः ।।
धुंधकारश्च प्रथमस्ततः कृष्णकुमारकः ।।
पृथिवीराज एवासौ ततोनुज इति स्मृतः ।। 3.3.5.१० ।।
द्वादशाब्दवयः प्राप्तः सिंहखेलस्ततोऽभवत् ।।
श्रुत्वा चानंगपालश्च तस्मै राज्यं स्वयं ददौ ।।
गत्वा हिमेगिरिं रम्यं योगध्यानपरोभवत् ।। ११ ।।
मथुरायां धुंधकारोऽजमेरे च ततोनुजः ।।
राजा बभूव नीतिज्ञस्तौ सुतौ पितुराज्ञया ।। १२ ।।
प्रद्योतश्चैव विद्योतः क्षत्रियौ चद्रवंशजौ ।।
मंत्रिणौ तस्य भूपस्य बलवंतौ मदोत्कटौ ।। १३ ।।
प्रद्योततनयो जातो नाम्ना परिमलो बली ।।
लक्षसेनाधिपः सो हि तेन राज्ञैव संस्कृतः ।। १४ ।।
विद्योताद्भीष्मसिंहश्च गजसेनाधिपोऽभवत् ।।
स्वर्गतेऽनंगपाले तु भूमिराजो महीपतिः ।। १५ ।।
दृष्ट्वा तान्विप्रियान्सर्वान्निजराज्यान्निराकरोत् ।।
प्रद्योताद्याश्च चत्वारः स्वशूरैर्द्विशतैर्युताः ।। १६ ।।
कान्यकुब्जपुरं प्राप्य जयचंद्रमवर्णयन् ।।
जयचंद्र महीपाल त्वन्मातृष्वसृजो नृपः ।। १७ ।।
मातामहस्य ते राज्यं प्राप्तवान्निर्भयो बली ।।
न्यायेन कथितोऽस्माभिरर्द्धराज्यं हि ते स्मृतम् ।। १८ ।।
सर्वराज्यं कथं भुंक्षे श्रुत्वा तेन निराकृताः ।।
भवन्तं शरणं प्राप्ता यथायोग्यं तथा कुरु ।। १९ ।।
इति श्रुत्वा महीपालो जयचंद्र उवाच तान् ।।
अश्वसैन्ये मदीये चाधिकारी ते सुतो भवेत् ।। 3.3.5.२० ।।
नाम्ना परिमलः शूरस्त्वं मन्मंत्री भवाधुना ।।
विद्योतश्च तथा मंत्री गजसैन्ये हि भीमकः ।। २१ ।।
वृत्त्यर्थे च मया वो वै पुरी दत्ता महावती ।।
महीपतेश्च भूपस्य नगरी सा प्रियंकरी।।२२।।
इति श्रुत्वा तु ते सर्वे तथा मत्वा मुमोदिरे ।
महीपतिस्तु बलवान्दुःखात्संत्यज्य तां पुरीम्।।२३।।
कृत्वौर्वीयां पुरीमन्यां तत्र वासमकारयत् ।।
अगमा मलना चैव भगिन्यौ तस्य चोत्तमे ।। २४ ।।
अगमा भूमिराजाय चान्या परिमलाय सा ।।
दत्ता भ्रात्रा विधानेन परमानंदमापतुः ।। २५ ।।
विवाहांते च भूराजा दुर्गमन्यमकारयत् ।।
कृत्वा च नगरीं रम्यां चतुर्वर्णनिवासिनीम् ।। २६ ।।
देहली सुमूहूर्तेन दुर्ग द्वारे सुरोपिता ।।
गता सा योजनान्ते वै वृद्धिरूपा सुकालतः ।। २७ ।।
विस्मितः स नृपो भूत्वा देहली नाम चाकरोत् ।।
देहलीग्राम इति च प्रसिद्धोऽभून्नृपाज्ञया ।। २८ ।।
त्रिवर्षांते च भो विप्रा जयचन्द्रो महीपतिः ।।
लक्षषोडशसैन्याढ्यस्तत्र पत्रमचोदयत् ।। २९ ।।
किमर्थं पृथिवीराज मद्दायं मे न दत्तवान् ।।
मातामहस्य वै दायं चार्द्धं मे च समर्पय ।। 3.3.5.३० ।।
नो चेन्मच्छस्त्रकठिनैः क्षयं यास्यंति सैनिकाः ।।
इति ज्ञात्वा महीराजो विंशल्लक्षाधिपो बली ।। ३१ ।।
दूतं वै प्रेषयामास राजराजो मदोत्कटः ।।
जयचंद्र महीपाल सावधानं शृणुष्व तत् ।। ३२ ।।
यदा निराकृता धूर्ता मया ते चंद्रवंशिनः ।।
ततः प्रभृति सेनाङ्गं विंशल्लक्षं समाहृतम्।।३३।।
त्वया षोडशलक्षं च युद्धसैन्यं समाहृतम् ।।
सर्वे वै भारते भूपा दंडयोग्याश्च मे सदा ।।३४।।
भवान्न दंड्यो बलवान्करं मे दातुमर्हति ।।
नो चेन्मत्कठिनैर्बाणैः क्षयं यास्यंति सैनिकाः ।।३५।।
इति ज्ञात्वा तयोर्घोरं वैरं चासीन्महीतले ।।
भूमिराजश्च वलवाञ्जयचन्द्रभयार्दितः ।।३६।।
जयचंद्रश्च बलवान्पृथिवीराजभीरुकः ।।
जयचन्द्रश्चार्यदेशमर्द्धराष्ट्रममकल्पयत्।। ।।३७।।
पृथिवीराज एवासौ तथार्द्धं राष्ट्रमानयत् ।।
एवं जातं तयोर्वैरमग्निवंशप्रणाशनम् ।।३८।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युग खंडापरपर्याये कलियुगीयेतिहाससमुच्चये पंचमोऽध्यायः ।।५।।