भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search

।। सूत उवाच ।। ।।
भोः शौनक महाप्राज्ञ वैतालस्तं हि सोऽब्रवीत् ।।
सुदक्षो नाम नृपतिर्वसन्कंबलके पुरे ।। १ ।।
न्यायवान्धर्मवाञ्छूरो दाता शिवपरायणः ।।
तस्य राज्येऽवसद्वैश्यो धनाध्यक्ष इति श्रुतः ।। २ ।।
तनया सुन्दरी तस्य नाम्ना धनवती शुभा ।।
गौरीदत्ताय वैश्याय पित्रा दत्ता वरांगना ।। ३ ।।
कियता चैव कालेन मोहिनी तत्सुताभवत् ।।
द्वादशाब्दवयस्तस्याः पिता तु निधनं गतः ।। ४ ।।
तदा धनवती रंडा निधना पितुरंतिके ।।
कन्यया सह संप्राप्ता निशि मार्गे तमोमये ।। ५ ।।
न्यायशर्मा द्विजः कश्चिद्ब्रह्मस्वस्यापहारकः ।।
नामसत्यत्वभावेन शूल्यां न निधनं गतः ।। ६ ।।
अकस्माद्वैश्यजा प्राप्ता तत्करं सा तदास्पृशत् ।।
तेन दुःखेन महता रुरोदो च्चैर्द्विजश्च सः ।।७।।
हा रामकृष्ण प्रद्युम्नानिरुद्धेति पुनःपुनः ।।
श्रुत्वा धनवती दीना को भवानिति साब्रवीत् ।।८।।
द्विज आह च विप्रोऽहं त्र्यहं शूल्यां निरूपितः ।।
यदि दास्यसि मे कन्यां कोटिस्वर्णं ददामि ते ।। ९ ।।
श्रुत्वा धनवती तस्मा उद्वाह्य मोहिनीं सुताम् ।।
वटमूले स्थितं द्रव्यं खनित्वा गृहमाययौ ।। 3.2.18.१० ।।
मोहिन्यपि पतिं प्राह भवान्मृत्युवशं गतः ।।
कुतो जायेत तनयस्तन्मे ब्रूहि दयानिधे ।। १ १।।
द्विजः प्राह शृणु व्यंगे यदा ते हृच्छयो भवेत् ।।
दता त्वं पंडितं प्राप्य पुत्रमुत्पादयाशु वै ।।१२।।
इत्युक्त्वा मरणं प्राप्य यमलोकं गतो द्विजः ।।
नारकीं यातनां नित्यं बुभुजे निंद्यकर्मजाम् ।। १३ ।।
मातुर्गृहे तु सा नारी मोहिनी यौवनान्विता ।।
समयं हृदये कृत्वा तिष्ठंती च पुनःपुनः ।। १४ ।।
के भोगाश्च किमाश्चर्यं को जागर्ति शयीत कः ।।
पापो व्याधिश्च दुःखं च कुतो जातं हृदि स्थितम् ।। १५ ।।
इति श्लोकं द्विजानाह नोत्तरं च ददुर्द्विजाः ।।
मेधावी नाम काश्मीरे स्थितो विप्रः समागतः ।। १६ ।।
तामुवाच प्रसन्नात्मा शृणु मोहिनि सुंदरि ।।
सुगंधि वनिता वस्त्रं गीतं पानं च भोजनम् ।।
शय्या च भूषणं ज्ञेयो भोगो ह्यष्टविधो बुधैः ।। १७ ।।
अहन्यहनि भूतानि म्रियन्ते जनयन्ति च ।।
ममतां यः करोत्येषां तदाश्चर्यं स्मृतं बुधैः ।। १८ ।।
यो विवेकं समासाद्य कुरुते कर्मसंग्रहम् ।।
संसारे घोरतमसि स जागर्ति विवेकवान्।। १९ ।।
संसाराजगरं ज्ञात्वा वैराग्यं योऽकरोद्भुवि ।।
औदासीन्यं समाधिं च सुखं शेते हि मानवः ।।3.2.18.२०।।
संकल्पाज्जायते कामस्ततो लोभः प्रजायते।।
लोभाज्जातश्च तृष्णायां स पापो निरयप्रदः ।। २१ ।।
जलप्रकृत्यां यो जातो रसो रसविकारवान् ।।
रसाजातस्य देहेऽस्मिन्व्याधिः कर्ममयोऽशुभः ।। २२ ।।
रुद्रात्काल्यां समुद्भूतो मोहो हृदि च लोकहा ।।
स तुष्टाव महादेवीं पत्न्यर्थे सुरपूजिताम् ।। २३ ।।
मिथ्यादृष्टिस्ततो जाता मोहस्य दयिताभवत्।।
तस्मात्स्नेहश्च तत्पत्न्यां जातश्च ममताप्रियः ।। २४ ।।
तयोः सकाशात्संजातं दुःखं शोकसमन्वितम् ।।
इति श्रुत्वा तु सा नारी मुहोह वरवर्णिनी ।। २५ ।।
मानी शूरश्च चतुरोऽधिकारी गुणवान्सखा ।।
स्त्रीरक्षकश्च पुरुषो वशं नारीं सदा नयेत् ।। २६ ।।
तस्यै गर्भं च विप्रोऽसौ दत्त्वा स्वर्णं गृहीतवान् ।।
सापि नारी सुखं लेभे तेन गर्भेण प्रत्यहम् ।। २७ ।।
कदाचिद्दशमासांते मोहिनीमब्रवीच्छिवः ।।
स्वप्नांतरे महाराज सापि ज्ञात्वा तथाकरोत् ।। २८ ।।
दोलामध्ये सहस्रं च स्वर्णं चैव स्वबालकम् ।।
राजद्वारे स्थापयित्वा सुष्वाप जननी सुखम् ।। २९ ।।
शिवेन बोधितो राजा सुतार्थी रुद्रपूजकः ।।
द्विजपुत्रं समालेभे मोहिन्यां जातमुत्तमम् ।। 3.2.18.३० ।।
कारयित्वा जातकर्म विततार धनं बहु ।।
हरदत्तश्च नाम्नासीत्सर्वविद्याविशारदः ।। ३१ ।।
पितुरन्ते च तद्राज्यं प्राप्य धर्मं प्रकाशयन् ।।
गयाश्राद्धं कृतं तेन फल्गुतीरे विधानतः ।। ३२ ।।
त्रयो हस्तास्तदा जाताः स राजा विस्मितोऽभवत् ।। ३३ ।।
इत्युक्त्वा स तु वैतालो नृपतिं प्राह भो नृप ।।
कस्मै योग्यो हि पिंडोऽसौ श्रुत्वा राजाब्रवीदिदम् ।। ३४ ।।
द्रव्यार्थी पंडितो ज्ञेयो गुरुतुल्यश्च भूपतिः ।।
चौराय पिंड उचितो यस्य नारी च मोहिनी ।। ३५ ।।
।। सूत उवाच ।। ।।
तेन पिंडप्रभावेन स चौरो ब्रह्मद्रव्यहा ।।
निरयान्निःसृतो विप्र स्वर्गलोकं समागतः ।। ३६ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलि युगीयेतिहाससमुच्चयेऽष्टादशोऽध्यायः ।।१८।।

तुलनीय - वेतालपञ्चविंशतिः