भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः २१

विकिस्रोतः तः

मण्डलविधिवर्णनम्

।। सूत उवाच ।। ।।
अथातो मंडलं वक्ष्ये पुराणेषु यथोदितम् ।।
यदधीना भवेत्सिद्धिस्तस्मात्कुर्यात्समाहितः ।। १ ।।
देवाः पद्मासनस्थाश्च भविष्यंति वसंति च ।।
विनाब्जं नार्चयेद्देवीमर्चिते यक्षिणी हरेत् ।। २ ।।
अतो मंडलविच्छेदं यस्माद्दशगुणं भवेत् ।।
रजःसाध्ये शतगुणं केवले द्विगुणं फलम् ।। ३।।
त्रिशतं वंदने साध्ये सहस्रं च रजोऽष्टकम् ।।
रजोभिः षोडशैर्बिंबं शतंशतमनंतकम् ।। ४ ।।
यन्त्रे मणौ शालग्रामे प्रतिमायां विशेषतः ।।
महालये महायोनौ रक्तलिंगे च साधिकम् ।। ५ ।।
रजोयुक्तं लिखेद्यस्तु पूजाकार्ये विभूतये ।।
करणादिफलं यस्मात्तस्मात्तत्परिवर्जयेत् ।।६।।
चतुरस्रं नवं व्यूहं क्रौंचप्राणं चतु र्विधम् ।।
कामबीजं वज्रनाभं विघ्नराजं गजाह्वयम् ।। ७ ।।
पारिजातं चंद्रबिंबं सूर्यकांतं च शेखरम् ।।
शतपत्रं सहस्रारं नवनाभं च मुष्टिकम् ।। ।। ८ ।।
पंचाब्जं चैव मैनाकं कामराजं च पुष्करम् ।।
अष्टास्रं चैव श्रीबिंबं षडस्रं त्र्यस्रमेव तु ।।९।।
चत्वारिंशत्तथा पंचस्वाधिकं परिसंख्यया ।।
चतुरस्रं नवव्यूढं वैष्णवे यागकर्मणि ।। 2.1.21.१० ।।
प्रशस्तं चापि गोमेधे क्रौंचं घ्राणं चतुर्विधम् ।।
सुभद्रं चाश्वमेधे च नरमेधे नरासनम् ।। ११ ।।
सर्वत्र सर्वतोभद्रं चतुरस्रं सुभद्रकम् ।।
कामराजं तथा त्र्यस्रमष्टास्रं च षडस्रकम् ।।१२।।
शक्तानां कामपक्षे च पंचसिंहासनं महत् ।।
ध्यानाचले मेरुपृष्ठं मणिमुक्ताचलेष्वपि ।। १३ ।।
सहस्रं शतपत्रं च अन्नदाने तिलाचले ।।
हरिवल्लभं राजसूये सोमयागेषु शस्यते ।। १४ ।।
प्रतिष्ठायां सुभद्रं च सर्वतोभद्रमेव च ।।
जलाशयप्रतिष्ठायां विघ्नराजं प्रशस्यते ।। १५ ।।
घटप्रस्थापने चैव गजाह्वं तुरगासनम् ।।
शतपत्रं लक्षहोमे अयुते चतुरस्रकम् ।। १६ ।।
यस्य यज्ञस्य यद्बिंबं तत्तु तेनैव योजयेत् ।।
इतोऽन्यथा भवेद्दोषो विपरीतेष्वधोगतिः ।। १७ ।।
द्विहस्ता चतुरस्रा च वेदिका परिकीर्तिता ।।
चतुरंगुलोच्छ्रायमिता षडंगुला ह्यथापि वा ।।१८।।
षडंगुला नवव्यूहे वर्धयेद्यज्ञकोविदः ।।
एकांगुलसमुत्सेधः कर्तव्यस्सुसमाहितैः।। ।।। १९ ।।
क्रौंचप्राणे तुर्यहस्तं मुष्टिहस्तं समुच्छ्रितम् ।।
मध्यद्वये हीनकरं कनिष्ठं त्र्यंगुलाधिकम् ।। 2.1.21.२० ।।
कुर्याद्द्वित्रिक्रमाद्धीनमुच्छ्राये द्विजसत्तमाः ।।
पारिजातं चंद्रबिंबं सूर्यकांतं च शेखरम् ।। २१ ।।
ग्रहाणां पौष्टिके पक्षे बाह्यग्रामादिसाधने ।।
नियोजयेत्तत्रतत्र वेदिकाचक्रकत्रयम् ।। २२ ।।
प्रथमे मुष्टिहस्तः स्यात्संपूर्णे शेषमानकैः ।।
नवलाभे च पंचाब्जं करत्रयमुदाहृतम् ।। २३ ।।
शेषा चैव वरिष्ठा च लवली भित्ति वेदिका ।।
विज्ञेया द्विजशार्दूला यथाकाम्येषु योजयेत् ।। २४ ।।
अयथाव्यत्यये दोषस्तस्माद्यत्नेन साधयेत् ।।
दशहस्ते चाष्टहस्ते अष्टहस्ते च षोडशम् ।।२५।।
मुष्टिबाहुञ्च प्रादेशं वर्धयेत्षोडशांशके ।।
हस्तोत्सेधं च कर्तव्यं हीने हीनं च ह्रासयेत् ।। २६ ।।
दर्पणाकारकं कुर्याद्यागके शांति कर्मणि ।।
हीनं कुर्यात्प्रयत्नेन वप्राकारं परिस्तवे ।। २७ ।।
निशारणैर्गोमयैश्च वेदिकां च प्रलेपयेत् ।।
स्वर्णरत्नमयैस्तोयैरभिषिच्य कुशोदकैः ।। ।। २८ ।।
हीनवीर्यगवानां च पुरीषं धेनुकं तथा ।।
कपिलायाश्च यत्नेन कुंडमंडललेपने ।। २९ ।।
वर्जयेत्सर्वयागेषु स्थंडिलेषु प्रयत्नतः ।।
विना सूत्रैः कीलके न मंडले नैव सूत्रयेत् ।। 2.1.21.३० ।।
तस्मात्प्रयत्नतः कार्यं यत्सूत्रं यच्च कीलकम् ।।
अर्कहस्तमितं सूत्रं मृदु लाक्षामयं तथा ।। ३१ ।।
पीतकार्यस्रजं चैव कीलकं स्वर्णनिर्मितम् ।।
रौप्यताम्रमयं कुर्याद्वैष्णवे यागकर्मणि ।। ३२ ।।
गणनायके सुप्रशस्तं शैषेपामार्गमेव च ।।
ग्रहपक्षे तथेशस्य कच्छपस्य द्विजोत्तमाः ।। ३३ ।।
षोडशे चार्कहस्ते च तत्र नेमियुतं भवेत् ।। ३४ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथम भागे एकविंशतितमोऽध्यायः ।। २१ ।।