भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search

कुण्डनिर्माणविधिवर्णनम्

।। सूत उवाच ।। ।।
अतः परं प्रवक्ष्यामि कुंडानामथ निर्णयम् ।।
तस्योद्धारं च संस्कारं शृणुध्वं द्विजसत्तमाः ।। १ ।।
चतुरस्रं च वृत्तं च पादार्धं चार्धचंद्रकम् ।।
योन्याकारं चंद्रकं च अष्टार्धमथ पंचमम् ।। २ ।।
सप्तार्धं च नवार्धं च कुंडं दशकमीरितम् ।।
भूमिं संशोध्य विधिवत्तुषकेशादिवर्जिताम् ।। ३ ।।
भ्रामयेच्चोर्ध्वतस्तस्या भस्मांगाराणि यत्नतः ।।
अंकुरार्पणकं कुर्यात्सप्ताहादेव बुद्धिमान् ।। ४ ।।
स्थानं विमर्दितं कुर्यात्खनित्वा सेचयेज्जलैः ।।
पुष्टिहस्तोच्छ्रायमितं प्रकुर्यात्परिसूत्रयेत्।। ५ ।।
अर्कांगुलमितं सूत्रं चतुरस्रं प्रकल्पयेत् ।।
अष्टादशांगके क्षेत्रे न्यसेदेकं बहिस्ततः ।। ६ ।।
मापयेत्तेन मानेन त्रिवृत्तं कुंडमुज्ज्वलम् ।।
पूर्ववद्विभजेत्क्षेत्रं भागैकं पुरतो न्यसेत् ।। ७ ।।
वृत्तानि कालिकादीनि बहिस्त्रीणि विवर्जयेत् ।।
पद्मकुंडमिदं प्रोक्तं विलोचनमनोहरम् ।। ८ ।।
दशधा भेदयेत्क्षेत्रे उर्ध्वाधोर्ध्वांगुलद्वयम् ।।
संपरिपातयेत्सूत्रं पाटयेत्तत्प्रमाणतः ।। ९ ।।
पंचधा भेदिते क्षेत्रे कामं वा विभजेत्सुधीः ।।
न्यसेत्पुरस्तादेवांगं कोणार्धार्धप्रमाणतः ।। 2.1.13.१० ।।
योनिस्थानं प्रतिष्ठाप्य अश्वत्थस्य दलाकृतिः ।।
सूत्रद्वयं ततो दद्यात्कुंडं परिमितं भवेत् ।। ११ ।।
चतुरस्रं समुद्धृत्य सूत्रं संकल्पयोगतः ।।
दिशं प्रति यथान्यायं पातयेच्च द्विजोत्तमाः ।। १२ ।।
शृंगाटकं युग्मपुटं षडस्रं कुंडत्रयं बुधाः ।।
जलाशयारामकूपे नित्ये गृहमये यथा ।। १३ ।।
चतुस्रं भवेत्कुंडं द्विजसंस्कारकर्मणि ।।
देवप्रतिष्ठायागे च गृहवास्तौ चतुर्थकम् ।। १४ ।।
वसुंधरायोगभेदे प्रपंचे वर्तमादिशेत् ।।
सोमेऽष्टौ पंकजं प्रोक्तं नरमेधाश्वमेधयोः ।। ।। १५ ।।
अंकुरार्पणयागे च वैष्णवे यागकर्मणि ।।
शिवदेव्योश्च जन्मादावष्टम्यां चार्धचंद्रकम् ।। १६ ।।
मार्जारपौष्टिके वैरं रम्ये च शांतिके तथा ।।
शांतिप्रतिष्ठायागे तु शाक्तानां काम्यकर्मणि ।। १७ ।।
पुरश्चरणकाम्येषु ज्वरादीनां विमोक्षणे ।।
एवंविधेषु कार्येषु योनिकुंडं प्रशस्यते ।। ।। १८ ।।
देवतातीर्थयात्रादौ महायुद्धप्रवेशने ।।
सौरे शांते पौष्टिके च षट्पुरं कुंडमुत्तमम्।। १९।।
मारणोच्चाटने चैव तथा रोगोपशांतये ।।
वैष्णवानां कोटिहोमे नृपाणामतिशोचने ।। 2.1.13.२० ।।
अष्टास्रमब्जकुंडं च सप्तास्रं निधिसाधने ।।
राज्ञा साध्ये च पंचास्रं कन्याप्राप्तौ त्रिरस्रकम् ।।२१।।
यावन्निम्नं भवेदेव विस्तारस्तावदेव तु ।।
कुंडानुरूपतः कार्या मेखला सर्वतो बुधैः ।। २२ ।।
अयुतादिषु होमेषु मेखलां योजयेत्सुधीः ।।
निम्न प्रमाणे चात्रापि मूले सार्धांगुलं त्यजेत् ।। २३ ।।
कोणवेदरसैर्मानं यथायोग्यमनुक्रमात् ।।
मुष्टिहस्ते समुत्सेधो सार्धांगुलपरिष्कृतः ।। २४ ।।
अरत्निमात्रे कुंडे तु त्रिश्चैकांगुलतः क्रमात् ।।
एकहस्तमिते कुंडे वेदाग्निनयनांगुलाः ।। २५ ।।
सप्तमेखलकं युक्तं लक्षहोमे न शस्यते ।।
पंचमेखलकं वाथ लक्षकोट्यां च योजयेत् ।। २६ ।।
एकांगुलादिमानेन नेमिं संवर्धयेत्सुधीः ।।
चतुर्हस्तमिते कुंडे तावदेव गुणांगुलाः ।। २७ ।।
वसुहस्ते भानुपंक्तिर्युग्महीनेऽपि ताः क्रमात् ।।
सर्वाः समा ग्रहमखे मेखलाश्च सहस्रके ।। २८ ।।
पार्श्वतो योजयेत्तत्र मेखलास्ता यथाक्रमम् ।। ।
सार्धांगुलादिमानेन नेमिं संवर्धयेत्सुधीः ।। २९ ।।
एकमेखलयागेन योजयेच्छक्तिभावतः ।।
होमाधिक्ये बहुफलमन्यूनं नाधिकं भवेत् ।।2.1.13.३०।।
कुंडस्य रूपं जानीयात्परमं प्रकृतेर्वपुः ।।
ततो होमे शतगुणं स्थंडिले स्वल्पकं फलम् ।। ३१।।
षटचतुर्धा गुणायामविस्तारोन्नतिशालिनी ।।
एकांगुलं तु योन्यग्रं कुर्यादीषदधोमुखम् ।। ३२ ।।
एकैकांगुलतो योनिं कुंडशून्येषु वर्धयेत् ।।
सममध्ये मेखलायाः सपर्या या सुलक्षणा ।। ३३ ।।
स्थापयेत्कुंडकोणेषु योनिं तां द्विजसत्तमाः ।।
कुंडानां कल्पयेन्नाभिं स्फुटमंबुजसन्निभाम् ।। ३४ ।।
तत्तु कुंडानुरूपं वा सुव्यक्तं सुमनोहरम् ।।
योनिकुंडे योनिमब्जं कुंडे नाभिं च वर्जयेत् ।। ३५ ।।
यावद्द्वयप्रमाणेन अर्धांगुलक्रमाद्बहिः ।।
नाभिं प्रवर्धयेदेकं कुंडानां रूपतो यथा ।। ३६ ।।
तत्र तत्र भवेत्कुंडं बिंबशून्यं न होमयेत् ।।
शिवशक्तिसमायोगात्काम उत्पद्यते यतः ।। ३७ ।।
अवटोपि उमादेवी बिंबः ख्यातः सदाशिवः ।।
न कुर्यादेकया हीनं मरणं च समुद्दिशेत् ।।३८।।
त्रयोदशांगुलं हित्वा वह्निहस्तमथापि वा ।।
महातीर्थे सिद्धक्षेत्रे यत्र शंभुगृहे कुले ।। ३९ ।।
तस्य दक्षिणदिग्भागे अग्रतो मंडलं लिखेत् ।।
तत्र पूजा प्रकर्तव्या पूर्वमानेन चाश्रयेत् ।।2.1.13.४०।।
अर्कहस्तांतरे कुर्याच्छतोर्ध्वांते शतेन वा ।। ४१ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे त्रयोदशोऽध्यायः ।। १३ ।।