भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०१३

विकिस्रोतः तः
Jump to navigation Jump to search

भद्रोपवासव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
जातिस्मरत्वं देवेश दुष्प्राप्यमिति मे मतिः ।।
तदहं ज्ञातुमिच्छामि प्राप्यते केन कर्मणा ।। १ ।।
वरप्रदानाद्देवानामृषीणां सेवनेन वा ।।
तीर्थस्नानेन वा देव तपोहोमव्रतेन वा ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
चत्वारि राजन्भद्राणि समुपोष्याणि यत्नतः ।।
तत्प्रभावाद्भवेन्नूनं राजञ्जातिस्मरो नरः ।। ३ ।।
शुभोदयः पुरा वैश्यो बभूव यमुनातटे ।।
तेन व्रतमिदं चीर्णं मृतः कालक्रमादसौ ।। ४ ।।
संजयस्य सुतो जातः स्वर्णष्ठीवीति विश्रुतः ।।
व्रतप्रभावाज्जातिज्ञः स च चौरेर्निपातितः ।। ५ ।।
नारदस्य प्रभावेण पुनरु जीव्यतेऽप्यसौ ।।
सस्मार पूर्ववृत्तांतं सकलं व्रतधर्मतः ।।६।।
।। युधिष्ठिर उवाच ।। ।।
संजयस्य कथं पुत्रः स्वर्णष्ठीवीति वा कथम् ।।
दस्युभिश्च कथं नीतो मृत्युं वै जीवितः कथम् ।। ७ ।।
।। श्रीकृष्ण उवाच ।।. ।।
संजयो नाम राजासीत्कुशावत्यां नराधिप ।।
देवर्षी तस्य मित्रे च सदा नारदपर्वतौ ।। ८।।
एकदा संजयगृहं संप्राप्तौ तौ यदृच्छया ।।
स्वगतासनदानाद्यैरुपचारैरपूजयत् ।। ९ ।।
तेषामथोपविष्टानां पूर्ववृत्तांतभाषिणौ ।।
संजयस्य सुता प्राप्ता तरुणी पितुरंतिकम् ।। 4.13.१० ।।
पर्वतः प्राह राजानं कन्येयं वरवर्णिनी ।।
गुप्तगुल्फा संहतोरूः पीनश्रोणिपयोधरा ।। ११ ।।
पद्मपत्रेक्षणनखा पद्मकिंजल्कसप्रभा ।।
आकुञ्चितमृदुस्निग्धैः केशैरविततैर्घनैः ।। १२ ।।
सविलासा गजगतिः सुनासा कोकिलस्वरा ।।
अहो रूपमहो धैर्यमहो लावण्यमुत्तमम् ।।१३।।
तिलपुष्पस्फुटा नासा रूपं संपरिलक्ष्यते ।।
कस्येयं भद्रिका भद्रा ममातिहृदयंगमा ।। १४ ।।
एवं ब्रुवा णं तं विप्रं विस्मयोत्फुल्ललोचनम् ।।
स राजा प्राह कन्येयं दुहिता मम पर्वत ।। १५ ।।
अथोवाच नृपं धीमान्नारदः क्षुभितेन्द्रियः ।।
राजन्निवेष्टुकामोऽहं कन्येयं मम दीयताम् ।। १६
ईप्सितं तव दास्यामि वरं मर्त्येषु दुर्ल्लभम् ।।
एवमुक्तो नारदेन प्रीतात्मा संजयस्तथा ।। १७ ।।
कृताञ्जलिरुवाचेदं प्रहर्षोत्फुल्ललोचनः ।।
पुत्रो मे दीयतां क्षिप्रमक्षीणकनकाकरः ।। १८ ।।
यस्य मूत्रं पुरीषं वा श्लेष्माणं क्षिपति क्षितौ ।।
जातरूपं हि तत्सर्वं सुवर्णं भवतु स्थिरम् ।। १९ ।।
एवमस्त्विति तं राजन्नारदः प्रत्यभाषत ।।
सुवर्णष्ठीविनं पुत्रं ददामि तव सुव्रत ।। 4.13.२० ।।
एवमुक्त्वा स तां कन्यां सालङ्कारां सुमध्यमाम् ।।
विवाहयामास तया नारदो हृष्टमानसः ।।२१ ।।
तत्तस्य चेष्टितं दृष्ट्वा पर्वतः क्रोधमूर्छितः ।।
उवाच नारदं रोषाद्दीप्ताक्षः स्फुरिताधरः ।। २२ ।।
मयेयं प्रार्थिता पूर्वं त्वया यस्माद्विवाहिता ।।
तस्मान्मया समं स्वर्गं न गंतासि कथंचन ।। २३ ।।
दत्तस्त्वयास्य यः पुत्रो वरदानेन नारद ।।
सोऽपि चौरैरभिहतः पञ्चत्वमुपयास्यति ।। २४ ।।
एवमुक्तः पर्वतेन नारदः प्राह दुर्मनाः ।।
न त्वं धर्मं विजानासि किञ्चिन्मूढोऽसि दुर्मते ।। २५ ।।
सामान्यं सर्वभूतानां कन्या भवति सुव्रत ।।
न तस्या वरणे दुःखं पश्यंतीह बहुश्रुताः ।। २६ ।।
न सेवितास्त्वया वृद्धास्तेन मां शपसे रुषा ।।
पणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे ।। २७ ।।
यस्मादेतदविज्ञाय शपसे मामनागसम् ।।
तस्मात्त्वमप्यहो स्वर्गं न गंतासि मया विना ।। २८ ।।
संजयस्य सुतः शापाद्यदि पञ्चत्वमेष्यति ।।
आनयिष्ये तथाप्येनं यमलोकान्न संशयः ।।२९।।
एवं शप्त्वा तदाऽ न्योन्यं देवर्षी तावुभौ पुनः ।।
पूजितौ संजयेनाथ जग्मतुः स्वाश्रमं प्रति ।। 4.13.३० ।।
अथास्य सप्तमे मासि जातः पुत्रो नृपस्य सः ।।
स्वर्णष्ठीवीति नामास्य यथार्थमकरोत्पिता ।। ३१ ।।
जातिस्मरः स्मरवपुः सुवर्णोत्पत्तिकारणम् ।।
सर्वभूतरुतज्ञोऽभूद्भद्रव्रतफलादिह ।। ३२ ।।
मूत्रश्लेष्मपुरीषादि यत्किञ्चित्क्षिपति क्षितौ ।।
जायते कनकं सर्वं प्रसादान्नारदस्य च ।।३३।।
तेनासौ यजते राजा विधिवद्भूरिदक्षिणैः ।।
राजसूयादिभिर्यज्ञैर्वि विधैर्ब्राह्मणैर्वृतः ।।३४।।
बभार भृत्याननिशं पुपोष स्वजनातिथीन् ।।
चकार देवतागारं सरश्चारामवाटिकाः ।।३५।।
जातस्नेहं तथा पुत्रं ररक्ष रक्षि भिर्वृतः ।।
राशयः कनकस्यास्य बभूवुर्नृपतेः सुतात्।।३६।।
अथास्य दस्यवः केचिच्छ्रुत्वा तं कनकाकरम्।।
धनलोलुपया जघ्नुर्दाक्षिणात्या मदोद्ध ताः।।३७।।
तस्मिन्विनष्टे तन्नष्टं वरदानसमुद्भवम् ।।
कनकं तदपश्यंतो जग्मुरन्योन्यतः क्षयम् ।।३८।।
पातितं दस्युभिः पुत्रं दृष्ट्वा राजा सुदुःखितः।।
विललापाकुलमतिः स मुमोह पपात च ।।३९।।
विलपंतं तु तं दृष्ट्वा नारदः प्राह संजयम् ।।
राजन्विषादं मा कार्षीः शृण्विमां भारतीं मम ।।4.13.४०।।
इत्युक्त्वा स समाचख्यौ चरितानि महौजसाम् ।।
विशिष्टानां नरेन्द्राणां यतीनां दक्षिणावताम् ।। ४१ ।।
श्रुत्वा राजा नरेंद्राणां चरितानि महा त्मनाम् ।।
विनष्टशोकः सहसा प्रकृतिस्थो वभूव सः ।।४२।।
नारदोऽपि नरेंद्रस्य मृतं पुत्रं यमालयात् ।।
आनयामास तरसा तथारूपं यथा हतम् ।। ४३ ।।
दृष्ट्वा स्पृष्ट्वा स पुत्रं तं परितुष्टेन चेतसा ।।
व्रीडितो विस्मितश्चैव कृताञ्जलिरथाव्रवीत् ।। ४४ ।।
किमाश्चर्यं प्रसन्नेन भवता मम नारद ।।
दत्तः पुत्रस्तथाभूतो दस्युभिर्घातितो यथा ।। ४५ ।।
षण्मासांते पुनरसौ जीवितं सर्वमेव तत् ।।
सस्मार पूर्वं वृत्तांतं भद्राणां पारणात्किल ।। ४६ ।।
एतत्ते सर्वमाख्यातं जातिस्मरणकारकम् ।।
व्रतं व्रताधिकं श्रेष्ठं किमन्यत्कथयामि ते ।।४७ ।।
।। श्रीकृष्ण उवाच ।। ।।
ब्राह्मणाश्चैव शूद्राश्च कुले महति जन्म च ।।
दाता क्षमी धनी वाग्मी रूपी स्वैर्भद्रकैर्भवेत् ।।४८।।
चत्वारि राजन्भद्राणि चतुष्पादानि तानि वै ।।
तान्येव बहुविघ्नानि दुष्प्राप्यान्यकृतात्मभिः ।। ४९ ।।
मार्गशीर्षे तु प्रथमं द्वितीयं फाल्गुने तथा ।।
ज्येष्ठे तृतीयं राजेन्द्र ख्यातं भाद्रपदे परम् ।। 4.13.५० ।।
फाल्गुनामलपक्षादौ त्रीन्मासांस्तु नराधिप ।।
तत्त्रिपुष्पमिति ख्यातं तपस्याकरणं परम् ।। ५१ ।।
ज्येष्ठस्य शुक्लपक्षादौ त्रीन्वै मासान्युधिष्ठिर ।।
तत्त्रिराममिति ख्यातं सत्यशौर्यप्रदायकम् ।। ५२ ।।
शुक्ले भाद्रपदस्यादौ त्रीन्मासान्पांडुनंदन ।।
तत्त्रिरंगमिति ख्यातं वहुविद्याप्रदायकम् ।। ५३ ।।
शुक्लमार्गशिरस्यादौ त्रीन्मासांस्तु नराधिप ।।
तद्विष्णुपदमित्युक्तं सर्वधर्मप्रदायकम् ।। ५४ ।।
समासेनैव चोक्तानि भद्राण्येतानि भारत ।।
कर्तव्यानि नरैः स्त्रीभिर्वा ब्रह्मणानुमतेन वा ।। ५५ ।।
।। युधिष्ठिर उवाच ।। ।।
विस्तरेणैव मे ब्रूहि देवदेव जगत्पते ।।
भद्राणां नियमाधानं प्रधाननियमांस्तथा ।। ५६ ।। ।।
।।श्रीभगवानुवाच ।। ।।
शृणु राजन्नवहितो भद्राणां विस्तरं परम् ।।
कथयिष्ये न कथितं कस्यचिद्यन्मयापुरा ।।५७।।
शुक्ले मार्गशिरस्यादौ चत्वारस्तिथयो वराः ।।
द्वितीया च तृतीया च चतुर्थी पञ्चमी तथा ।। ५८ ।।
एकभुक्तासनस्तिष्ठेत्प्रतिपद्यां जितेन्द्रियः ।।
प्रभाते तु द्वितीयायां कृत्वा यत्करणीयकम् ।। ५९ ।।
प्रहरत्रये समधिके गते स्नानं समाचरेत् ।।
मृद्गोमयं च संगृह्य मंत्रैरेभिर्विचक्षणः ।। 4.13.६० ।।
अहं ते तु प्रदिश्यामि मंत्राणां विधिमुत्तमम् ।।
येषां देयो न देयो वा ताञ्छृष्व वदामि ते ।। ६१ ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये शुचयोऽमलाः ।।
तेषां मंत्राः प्रदेया वै न तु संकीर्णधर्मिणाम् ।। ६२ ।।
या स्त्री भर्त्रा वियुक्तापि स्वाचारैः संयुता शुभा ।।
सा च मन्त्रान्प्रगृह्णातु सभर्त्री तदनुज्ञया ।।६३।।
स्नानं नद्यां तडागे वा वाप्यां कूपे गृहेपि वा ।।
दशोत्तरं फलं ज्ञेयमधिकं हि समन्त्रकम् ।। ६४ ।।
मृदं मंत्रेण संगृह्य सर्वांगेषु प्रलेपयेत् ।।
त्वं मृत्स्ने वंदिता देवैः समलैर्द्दैत्यघातिभिः ।। ६५ ।।
मयापि वंदिता भक्त्या मामतो विमलं कुरु ।। ६६ ।।
इति मृन्मंत्रः ।।
एवं जपन्मृदं दत्त्वा स्वहस्ताग्रेसमंत्रकम् ।।
जलावगाहनं कुर्यात्कुण्डमालिख्य धर्मवित् ।।
सिद्धार्थकैः कृष्णतिलैर्वचासर्वौषधीः क्रमात् ।। ६७ ।।
त्वमादिः सर्वदेवानां जगतां च जगन्मये ।।
भूतानां वीरुधांचैव रसानांपतये नमः ।। ६८ ।।
गंगासागरजं तोयं पौष्करं नार्मदं तथा ।।
यामुनं सांनिहत्यं च संनिधानमिहास्तु मे ।। ६९ ।।
इति स्नानमंत्रः ।।
शरीरालंभनं पूर्वं कृत्वा मृद्गोमयांबुभिः।।
एवं स्नात्वा समाप्लुत्य आचम्य तटमास्थितः ।।4.13.७०।।
निवस्य वाससी शुभ्रे शुचिः प्रयतमानसः ।।
देवान्पितॄन्मनुष्यांश्च तर्पयेत्सुसमाधिना ।। ७१ ।।
एवं गृहीतनियमो गृहं गच्छेच्छुचिव्रतः ।।
उपविश्य न संजल्पेद्यावच्चन्द्रस्य दर्शनम् ।। ७२ ।।
स्नात्वा चैव ततो नाम तृतीयादि चतुर्दिने ।।
नमः कृष्णाच्युतानंत हृषीकेशेति च क्रमात ।। ।। ७३ ।।
चतुर्दिने द्वितीयादौ देवमभ्यर्चयेऽच्युतम् ।।
प्रथमेह्नि स्मृता पूजा पादयोश्चक्रपाणिनः ।। ७४ ।।
नाभिपूजा द्वितीयेह्नि कर्तव्या विधिवन्नरैः ।।
मुरद्विषस्ततीयेह्नि पूजां वक्षसिविन्यसेत् ।। ७५ ।।
चतुर्थेह्नि जगद्धातुः पूजां शिरसि कल्पयेत् ।।
पुष्पैर्विलेपनैर्धूपैरर्घ्यं दद्युर्वि भूषणैः ।। ७६ ।।
घीवरैर्हरिनैवेद्यैर्दीपदानैश्च भक्तितः ।।
पूजयित्वा विधानेन विष्णुं विश्वेश्वरं व्रती ।। ७७ ।।
ततो दिनावसाने तु मुहूर्ते निर्गते सति ।।
अर्घ्यं प्रदद्यात्सोमाय भक्त्यातद्भावभावितः ।। ७८ ।।
शशिचन्द्रशशांकेन्दुनामानि क्रमशो नरः ।।
तृतीयादिषु चन्द्रस्य संकीर्त्यार्घ्यं निवेदयेत् ।। ७९ ।।
स चार्घ्यो यादृशो देय ऋद्धिमद्भिरथेतरैः ।।
तत्ते सम्यक्प्रवक्ष्यामि युधिष्ठिर निबोध मे ।। 4.13.८० ।।
चन्दनागुरुकर्पूरदधि दूर्वाक्षतादिभिः ।।
रत्नैः समुद्रजैश्चान्यैर्वज्रवैदूर्यमौक्तिकैः ।। ८१ ।।
पुष्पैः फलैः स्वकालोत्थैः खर्जूरैर्न्नालिकेरकैः ।।
वस्त्राच्छादनगोवा जिभूमिहेमगजान्वितैः ।। ८२ ।।
सत्त्वयुक्तस्य ऋद्धस्य राजन्नेष विधिः स्मृतः ।।
इतरस्य यथाशक्ति फलपुष्पाक्षतोदकैः ।। ८३ ।।
लवणं गुडं घृतं तैलं पयःकुंभास्तिलैः सह ।।
अर्घेष्वेतानि शस्तानि शशिवृद्ध्या विवर्द्धयेत् ।। ८४ ।।
प्रत्यहं वर्द्धयेदर्घ्यं शशि वृद्ध्या नरोत्तम ।।
एवमर्घः प्रदातव्यः शृणु मंत्रविधिक्रमम् ।। ८५ ।।
नवोनवोसि मासांते जायमानः पुनःपुनः ।।
त्रिरग्निसमवेतो वै देवानाप्यायसे हविः ।। ८६ ।।
गगनाङ्गणसद्दीप दुग्धाब्धिमथनोद्भव ।।
भाभासितदिगाभोग रमानुज नमोऽस्तु ते ।। ८७ ।।
दत्त्वार्घ्यं द्विजराजाय तद्विप्राय निवेदयेत् ।।
निर्वर्त्यार्घ्यक्रममिमं ततो भुंजीत वाग्यतः ।। ८८ ।।
भूमिं तु भाजनं कृत्वा पद्मपत्रसमास्तृताम् ।।
पालाशैर्मधुपत्रैर्वा सुरूपैर्वा शिलातले ।। ८९ ।।
समालभ्य धरां देवीं मंत्रेणानेन मंत्रवित् ।।
त्वत्तले भोक्तुकामोऽहं देवि सर्वरसोद्भवे ।। 4.13.९० ।।
मदनुग्रहाय सुस्वादं कुर्वन्नममृतोपमम् ।।
एवं जप्त्वा च भुक्त्वा च शाकं पाकं गुणोत्तरम् ।। ९१ ।।
आचम्य खान्युपालभ्य स्मृत्वा सोमं स्वपेद्भुवि ।।
भोक्तव्यं तु द्रितीयायामक्षारलवणं हविः ।। ९२ ।।
मुन्यन्नं तु तृतीयायां चतुर्थ्यां गोरसोत्तरम् ।।
घृताक्ताः सगुणाः शस्ताः पञ्चम्यां कृशरास्सदा ९३ ।।
शस्ता भद्रेषु सर्वेषु सदा श्यामाकतण्डुलाः ।।
प्रसाधिका घृतं गव्यं वन्यं फलमयाचितम् ।। ९४ ।।
प्रातः स्नानं ततः कृत्वा संतर्ज्य पितृदेवताः ।।
भोजयेद्ब्राह्मणान्भक्त्या दत्तदानान्विसर्जयेत ।।९५।।
भृत्यबन्धुजनैः सार्द्धं पश्चाद्भुञ्जीत कामतः ।।
एवं भद्रेषु सर्वेषु त्रिमासेषु गतेषु यः ।।९६।।
करोत्येतन्नरो भक्त्या वर्षमेकममत्सरी ।।
तस्य श्रीर्विजयश्चैव नित्यं सोमः प्रसीदति ।।९७।।
एतत्करोति या कन्या शुभं प्राप्नोति सा पतिम् ।।
दुर्भगा सुभगा साध्वी भवत्यविधवा सदा ।। ९८ ।।
राज्यार्थी लभते राज्यं धनार्थी लभते धनम् ।।
पुत्रार्थी लभते पुत्रानिति प्राह प्रभाकरः ।। ९९ ।।
योषित्कुलाकुलविवाहमनोरमाणि शय्यान्नयानशयनासनशोभितानि ।।
भद्राण्यवाप्य धनपुत्रकलत्रजानि जातिस्मरो भवति भारत भद्रकर्ता ।। 4.13.१०० ।।

इति श्री भविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भद्रोपवासव्रतनिरूपणं नाम त्रयोदशोऽध्यायः ।। १३ ।।