ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः ३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः ३५
[[लेखकः :|]]
अध्यायः ३६ →

सूत उवाच ।।
देवमित्रश्च शाकल्यो महात्मा द्विजपुंगवः ।।
चकार संहिताः पंच बुद्धिमान्वेदवित्तमः ।। ३५.१ ।।

पंच तस्याभवञ्छिष्या मुद्गलो गोखलस्तथा ।।
खलीयान्सुतपा वत्सः शैशिरेयश्च पंचमः ।। ३५.२ ।।

प्रोवाच संहितास्तिस्रः शाको वैणो रथीतरः ।।
निरुक्तं च पुनश्चक्रे चतुर्थं द्विजसत्तमः ।। ३५.३ ।।

तस्य शिष्यास्तु चत्वारः पैलश्चेक्षलकस्तथा ।।
धीमाञ्छ तबलाकश्च गजश्चैव द्विजोत्तमाः ।। ३५.४ ।।

बाष्कलिस्तु भरद्वाजस्तिस्रः प्रोवाच संहिताः ।।
त्रयस्तस्याभवञ्च्छिष्या महात्मानो गुणान्विताः ।। ३५.५ ।।

धीमांश्च त्वापनापश्च पान्नगारिश्च बुद्धिमान् ।।
तृतीयश्चार्जवस्ते च तपसा शंसितव्रताः ।। ३५.६ ।।

वीतरागा महातेजाः संहिताज्ञानपारगाः ।।
इत्येते बहूवृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ।। ३५.७ ।।

वैशंपायनशिष्योऽसौ यजुर्वेदमकल्पयत् ।।
षडशीतिस्तु तेनोक्ताः संहिता यजुषां शुभाः ।। ३५.८ ।।

शिष्येभ्यः प्रददौ ताश्च जगूहुस्ते विधानतः ।।
एकस्तत्र परित्यक्तो या५वल्क्यो महातपाः ।। ३५.९ ।।

षडशीतिस्तथा शिष्याः संहितानां विकल्पकाः ।।
सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्त्तिताः ।। ३५.१० ।।

त्रिधा भेदास्तु ते वेदभेदेऽस्मिन्नवमे शुभे ।।
उदीच्या मध्यदेश्याश्च प्राच्यश्चैव पृथग्विधाः ।। ३५.११ ।।

श्यामायनिरुदीच्यानां प्रधानः संबभूव ह ।।
मध्यदेशप्रतिष्ठाता चासुरिः प्रथमः स्मृतः ।। ३५.१२ ।।

आलंबिरादिः प्राच्यानां त्रयोदेश्यादयस्तु ते ।।
इत्येते चरकाः प्रोक्ताः संहिता वादिनो द्विजाः ।। ३५.१३ ।।

ऋषय ऊचुः ।।
चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः ।।
किं चीर्णं कस्य वा हेतोश्चरकत्वं हि भेजिरे ।। ३५.१४ ।।

सूत उवाच ।।
कार्यमासीदृषीणां च किंचिद्ब्राह्मणसत्तमाः ।।
मेरुपृष्ठं समासाद्य तैस्तदा त्विति मंत्रितम् ।। ३५.१५ ।।

यो वात्र सप्तरात्रेण नागच्छेद्द्विजसत्तमः ।।
स कुर्याद्ब्रह्महत्यां वै समयो नः प्रकीर्तितः ।। ३५.१६ ।।

ततस्ते सगणाः सर्वे वैशंपायनवर्जिताः ।।
प्रययुः सप्तरात्रेण यत्र संधिः कृतोऽभवत् ।। ३५.१७ ।।

ब्रह्मणानां तु वचनाद्ब्रह्महत्यां चकार सः ।।
शिष्यानथ समानीय स वैशंपायनोऽब्रवीत् ।। ३५.१८ ।।

ब्रह्महत्यां चरध्वं वै मत्कृते द्विजसत्तमाः ।।
सर्वे यूयं समागम्य ब्रूत कामं हितं वचः ।। ३५.१९ ।।

याज्ञवल्क्य उवाच ।।
अहमेकश्चरिष्यामि तिष्ठंतु मुनयस्त्विमे ।।
बलेनोत्थापयिष्यामि तपसा स्वेन भावितः ।। ३५.२० ।।

एव मुक्तस्ततः क्रुद्धो या५वल्क्यम थात्यजत् ।।
उवाच यत्त्वयाऽधीतं सर्वं प्रत्यर्पयस्व मे ।। ३५.२१ ।।

एवमुक्तः सरूपाणि यजूंषि गुरवे ददौ ।।
रुधिरेण तथाक्तानि च्छर्दित्वा ब्रह्मवित्तमाः ।। ३५.२२ ।।

ततः स ध्यानमास्थाय सर्यमाराधयद्द्विजः ।।
सूर्ये ब्रह्म यदुत्पन्नं तं गत्वा प्रतितिष्ठति ।। ३५.२३ ।।

ततो यानि गतान्यूर्ध्वं यजूष्यादित्यमडलम् ।।
तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरातये ।। ३५.२४ ।।

अश्वरूपाय मार्त्तंडो याज्ञवक्ल्याय धीमते ।।
यजूंष्यधीयते तानि ब्राह्मणा येन केनचित् ।। ३५.२५ ।।

अश्वरूपाय दत्तानि ततस्ते वाजिनोऽमवन् ।।
ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः ।। ३५.२६ ।।

वैशंपायनशिष्यास्ते चरकाः समुदाहृताः ।।
इत्येते चरकाः प्रोक्ता वाजिनस्तु निबोधत ।। ३५.२७ ।।

या५वल्क्यस्य शिष्यास्ते कण्वो बौधेय एव च ।।
मध्यंदिनस्तु सापत्यो वैधेयश्चाद्धबौद्धकौ ।। ३५.२८ ।।

तापनीयश्च वत्साश्च तथा जाबालकेवलौ ।।
आवटी च तथा पुंड्रो वैणोयः सपराशरः ।। ३५.२९ ।।

इत्येते वाजिनः प्रोक्ता दशपंच च सत्तमाः ।।
शतमेकाधिकं ज्ञेयं यजुषां ये विकल्पकाः ।। ३५.३० ।।

पुत्रमध्यापयामास सुमंतुमथ जैमिनिः ।।
सुमंतुश्चापि सुत्वानं पुत्रमध्यापयत्पुनः ।। ३५.३१ ।।

सुकर्माणं ततः सुन्वान्पुत्रमध्यापयत्पुनः ।।
स सहस्रमधीत्याशु सुकर्माप्यथ संहिताः ।। ३५.३२ ।।

प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः ।।
अनध्यायेष्वधीयानांस्तञ्जघान शतक्रतुः ।। ३५.३३ ।।

प्रायोपवेशमकरोत्ततोऽसौ शिष्यकारमात् ।।
क्रुद्धं दृष्ट्वा ततः शक्रोवरं सोऽथ पुनर्ददौ ।। ३५.३४ ।।

भविष्यतो महावीर्यौ शिष्यौ तेऽतुलवर्चसौ ।।
अधीयातां महाप्राज्ञौ सहस्रं संहिता उभौ ।। ३५.३५ ।।

एते सुरा महाभागाः संक्रुद्धा द्विजसत्तम ।।
इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम् ।। ३५.३६ ।।

शांतक्रोधं द्विजं दृष्ट्वा क्षिप्रमंतर धात्प्रभुः ।।
तस्य शिष्योऽभवद्धीमान् पौष्यञ्जिर्द्विजसत्तमाः ।। ३५.३७ ।।

हिरण्यनाभः कौशल्यो द्वितीयोऽभून्नराधिपः ।।
अध्यापयत पौष्याञ्जिः सहस्रार्द्धं तुसंहिताः ।। ३५.३८ ।।

ते नाम्नोदीच्यसामानः शिष्याः पौष्यंजिनः शुभाः ।।
सत्त्वानि पंच कौशिल्यः संहिताना मधीतवान् ।। ३५.३९ ।।

शिष्या हिरण्यनाभस्य स्मृतास्तु प्राच्यसामगाः ।।
लौगाक्षिः कुशुमिश्चैव कुशीदिर्लांगलिस्तथा ।।
पौष्यंजि शिष्याश्चत्वारस्तेषां भेदान्निबोधत ।। ३५.४० ।।

नाडायनीयः सहतंडिपुत्रस्तस्मादनोवैननामा सुविद्वान् ।।
सकोतिपुत्रः सुसहाः सुनामा चैतान्भेदान्वित्तलौगाक्षिणस्तु ।। ३५.४१ ।।

त्रयस्तु कुशुमेः शिष्या औरसः स पराशरः ।। ३५.४२ ।।

नाभिर्वित्तस्तु तेजस्वी त्रिविधा कौशुमाः स्मृताः ।।
शौरिषुः शृंगिपुत्रश्च द्वावेतौ तु चिरव्रतौ ।। ३५.४३ ।।

राणायनीयिः सौमित्रिः सामवेदविशारदौ ।।
प्रोवाच संहितास्ति स्रः श्रृंगिपुत्रौ महात्पाः ।। ३५.४४ ।।

वैनः प्राजीनयोगश्च सुरालश्च द्विजौत्तमः ।।
प्रोवाच संहिताः षट्तु पाराशर्यस्तु कौथुमः ।। ३५.४५ ।।

आसुरायणवैशाख्यौ वेदवृद्धपरायणौ ।।
प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतंजलिः ।। ३५.४६ ।।

कौथुमस्य तु भेदाश्च पाराशर्यस्य पट् समृताः ।।
लांगलः शालिहोत्रश्च षडुवाचाथ संहिताः ।। ३५.४७ ।।

हालिनिर्ज्यामहानिश्च जैमिनिर्लोमगायनिः ।।
कंडुश्च कोहलश्चैव षडे ते लांगलाः स्मृताः ।। ३५.४८ ।।

एते लांगलिनः शिष्याः संहिता यैः प्रवर्त्तिताः ।।
एको हिरण्यनाभस्य कृतः शिष्यो नृपात्मजः ।। ३५.४९ ।।

सोऽकरोत्तु चतुर्विशसंहिता द्विपदां वरः ।।
प्रोवाच चैव शिष्येभ्यो येभ्यस्ताश्च निबोधत ।। ३५.५० ।।

राडिश्च राडवीयश्च पञ्जमौ वाहनस्तथा ।।
तलको माण्डुकश्चैव कालिको राजिकंस्तथा ।। ३५.५१ ।।

गौतमश्चाजबस्तश्च सोमराजायनस्ततः ।।
पुष्टिश्च परिकृष्टश्च उलूखलक एव च ।। ३५.५२ ।।

यवीयसस्तु वै शालीरंगुलीयश्च कौशिकः ।।
शालिमंजरिपाकश्च शधीयः कानिनिश्च यः ।। ३५.५३ ।।

पाराशर्यस्तु धर्मात्मा इति क्रांतास्तु सामगाः ।।
सामगानां तु सर्वेषां श्रेष्ठौ द्वौ परिकीर्त्तितौ ।। ३५.५४ ।।

पौष्यंजिश्च कृतश्चैव संहितानां विकल्पकौ ।।
अथर्वाणं द्विधा कृत्वा सुमंतुरददाद्द्विजाः ।। ३५.५५ ।।

कबंधाय पुनः कृष्णं स च विद्वान्यथाश्रुतम् ।।
कबंधस्तु द्विधा कृत्वा पथ्यायैकं पुनर्ददौ ।। ३५.५६ ।।

द्वितीयं देवदर्शायस चतुर्धाकरोत्प्रभुः ।।
मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च ।। ३५.५७ ।।

शौल्कायनिश्च धर्मज्ञश्चतुर्थस्तपसि स्थितः ।।
देवदर्शस्य चत्वारः शिष्या ह्येते दृढव्रताः ।। ३५.५८ ।।

पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम् ।।
जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः ।। ३५.५९ ।।

शौनकस्तु द्विधा कृत्वा ददावेकांतु बभ्रवे ।।
द्द्वितीयां संहितां धीमान्सैंधवायनसंज्ञि ते ।। ३५.६० ।।

सैंधवो मुञ्जकेश्यश्च भिन्नामाधाद्द्विधा पुनः ।।
नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः ।। ३५.६१ ।।

चतुर्थोंऽगिरसः कल्पः शांतिकल्पश्च पंचमः ।।
श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः ।। ३५.६२ ।।

खड्गः कृत्वा मया युक्तं पुराणमृषिसत्तमाः ।।
आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः ।। ३५.६३ ।।

भारद्वाजोऽग्निवर्चाश्च वासिष्ठा मित्रयुश्च यः ।।
सावर्णिः सोमदत्तिश्च सुशर्मा शांशपायनः ।। ३५.६४ ।।

एते शिष्या मम प्रोक्ताः पुराणेषु धृतव्रताः ।।
त्रिभिस्तत्र कृतास्तिस्रः संहिताः पुनरेव हि ।। ३५.६५ ।।

काश्यपः संहिता कर्त्ता सावर्णिः शांशपायनः ।।
मामिका तु चतुर्थी स्याच्चतस्रो मूलसंहिताः ।। ३५.६६ ।।

सर्वास्ता हि चतुष्पादाः सर्वाश्चैकार्थवाचिकाः ।।
पाठांतरे वृथाभूता वेदशाखा यथा तथा ।। ३५.६७ ।।

चतुः साहस्रिकाः सर्वाः शांशपायनिकामृते ।।
लौमहर्षणिका मूला ततः काश्यपिका परा ।। ३५.६८ ।।

सावर्णिका तृतीयासावृजुवाक्यार्थमंडिता ।।
शांशपायनिका चान्या नोदनार्थविभूषिता ।। ३५.६९ ।।

सहस्राणि ऋचां चाष्टौ षट्शतानि तथैव च ।।
एताः पंचदशान्याश्च दशान्या दशभिस्तथा ।। ३५.७० ।।

सवालखिल्याः सप्तैताः ससुपर्णाः प्रकीर्त्तिताः ।।
अष्टौ सामसहस्राणि सामानि च चतुर्द्दश ।। ३५.७१ ।।

सारण्यकं सहोहं च एतद्गायंति सामगाः ।।
द्वादशैव सहस्राणि च्छंद आध्वर्यवं स्मृतम् ।। ३५.७२ ।।

यजुषां ब्राह्मणानां च तथा व्यासो व्यकल्पयत् ।।
सग्राम्यारण्यकं तस्मात्समंत्रकरणं तथा ।। ३५.७३ ।।

अतः परं कथानं तु पूर्वा इति विशेषणम् ।।
ग्राम्यारण्यं समंत्रं तदृग्ब्राह्मणयजुः स्मृतम् ।। ३५.७४ ।।

तथा हारिद्रवीर्याणां खिलान्युपखिलानितु ।।
तथैव तैत्तिरीयाणां परक्षुद्रा इति स्मृतम् ।। ३५.७५ ।।

द्वे सहस्रे शतन्यूने वेदे वाजसनेयके ।।
ऋग्गमः परिसंख्यातो ब्राह्मणं तु चतुर्गुणम् ।। ३५.७६ ।।

अष्टौ सहस्राणि शतानि वाष्टावशीतिरन्यान्यधिकानि वा च ।।
एतत्प्रमाणं यजुषामृचां च सशुक्रियं सखिलं याज्ञवल्क्यम् ।। ३५.७७ ।।

तथा चारणविद्यानां प्रमाणसहितं श्रृणु ।।
षट्सहस्रमृचामुक्तमृचः षड्विंशतिं पुनः ।। ३५.७८ ।।

एतावदधिकं तेषां यजुः कि मपि वक्ष्यते ।।
एकादशसहस्राणि ऋचश्चान्या दशोत्तराः ।। ३५.७९ ।।

ऋचां दशसहस्राणि ह्यशीतिस्त्रिंशदेव तु ।।
सहस्रमेकं मंत्राणामृचामुक्तं प्रमाणतः ।। ३५.८० ।।

एतावानृचि विस्तारो ह्यन्यच्चाथर्विकं बहु ।।
ऋचामथर्वणां पंचसहस्राणीति निश्चयः ।। ३५.८१ ।।

सहस्रमन्यद्विज्ञेयमृषि भिर्विशतिं विना ।।
एतदंगिरसां प्रोक्तं तेषामारण्यकं पुनः ।। ३५.८२ ।।

इति संख्या प्रसंख्याता शाखाभेदास्तथैव तु ।।
कर्तारशचैव शाखानां भेदहेतूंस्तथैव च ।। ३५.८३ ।।

सर्वमन्वंतरेष्वेवं शाखाभेदाः समाश्रिताः ।।
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः ।। ३५.८४ ।।

अनित्यभावाद्देवानां मंत्रोत्पत्तिः पुनः पुनः ।।
द्वापरेषु पुनर्भेदाः श्रुतीनां परिकीर्त्तिताः ।। ३५.८५ ।।

एवं वेदं तदाप्यस्य भगवानृषिसत्तमः ।।
शिष्चेब्यश्च प्रदत्त्वा तु तपस्तप्तु वन गतः ।। ३५.८६ ।।

तस्य शिष्यप्रशिष्यैस्तु शाखाभेदास्त्विमे कृताः ।।
अंगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।। ३५.८७ ।।

धर्मशास्त्रं पुराणं च विद्याश्चेमाश्चतुर्दश ।।
आयुर्वेदो धनुर्वेदो गांधर्वश्चेति ते त्रयः ।। ३५.८८ ।।

अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव हि ।।
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः ।। ३५.८९ ।।

राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रिधा ।।
काश्यपेषु वसिष्ठेषु तथा भृग्वंगिरोऽत्रिषु ।। ३५.९० ।।

पंचस्वेतेषु जायंते गोत्रेषु ब्रह्मवादिनः ।।
यस्मादृषंति ब्रह्माणं ततो ब्रह्मर्षयः स्मृताः ।। ३५.९१ ।।

धर्मस्याथ पुलस्त्यस्य क्रतोश्च पुलहस्य च ।।
प्रत्यूषस्य च देवस्य कश्यपस्य तथा पुनः ।। ३५.९२ ।।

देवर्षयः सुतास्तेषां नामतस्तान्निबोधत ।।
देवार्षी धर्मपुत्रौ तु नरनारायणवुभौ ।। ३५.९३ ।।

वालखिल्याः क्रतोः पुत्राः कर्दमः पुलहस्य तु ।।
कुबेरश्चैव पौलस्त्यः प्रत्यूषस्य दलः सुत ।। ३५.९४ ।।

नारदः पर्वतश्चैव कश्यपस्यात्मजावुभौ ।।
ऋषंति वेदान्यस्मात्ते तस्माद्देवर्षयः स्मृताः ।। ३५.९५ ।।

मानवे चैव ये वंशे ऐलवंशे च ये नृपाः ।।
ये च ऐक्ष्वाकनाभागा ज्ञेया राजर्षयस्तु ते ।। ३५.९६ ।।

ऋषंति रंजनाद्यस्मात्प्रजा राजर्षयस्ततः ।।
ब्रह्मलोकप्रतिष्ठास्तु समृता ब्रह्मर्षयोऽमलाः ।। ३५.९७ ।।

देवलोकप्रतिष्ठास्तु ज्ञेया देवर्षयः शुभाः ।।
इंद्रलोकप्रतिष्ठास्तु सर्वे राजर्षयो मताः ।। ३५.९८ ।।

अभिजात्याऽथ तपसा मंत्रव्याहरणैस्तथा ।।
ये च ब्रह्मर्षयः प्रोक्ता दिव्या देवर्षयश्च ये ।। ३५.९९ ।।

राजर्षयस्तथा चैव तेषां वक्ष्यामि लक्षणम् ।।
भूतं भव्यं भवज्ज्ञानं सत्याभि व्यात्दृतं तथा ।। ३५.१०० ।।

संतुष्टाश्च स्वयं ये तु संबुद्धा ये च वै स्वयम् ।।
तपसेह प्रसिद्धा ये गर्भे यैश्च प्रवेदितम् ।। ३५.१०१ ।।

मंत्रव्याहारिणो ये च ऐश्वर्यात्सर्वगाश्च ये ।।
एते राजर्षयो युक्ता देवाद्विजनृपाश्च ये ।। ३५.१०२ ।।

एतान्भावानधिगता ये वै त ऋषयो मताः ।।
सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ।। ३५.१०३ ।।

दीर्घायुषो मंत्रकृत ईश्वराद्दिव्यचक्षुषः ।।
बुद्धाः प्रत्यक्ष धर्माणो गोत्रप्रावर्त्तकाश्च ते ।। ३५.१०४ ।।

षट्कर्मनिरता नित्यं शालीना गृहमेधिनः ।।
तुल्यैर्व्यवहरंति स्म ह्यदुष्टैः कर्महेतुभिः ।। ३५.१०५ ।।

अग्राम्यैर्वर्त्तयन्ति स्म रसैश्चैव स्वयंकृतैः ।।
कुटुंबिनो बुद्धिमंतो वनांतरनिवासिनः ।। ३५.१०६ ।।

कृतादिषु युगाख्यासु सर्वैरेव पुनः पुनः ।।
वर्णाश्रमव्यवस्थानं क्रियते प्रथमं तु वै ।। ३५.१०७ ।।

प्राप्ते त्रेतायुगमुखे पुनः सप्तर्षयस्त्विह ।।
प्रवर्त्तयंति ये वर्णानाश्रमांश्चैव सर्वशः ।। ३५.१०८ ।।

तेषामेवान्वये वीरा उत्पद्यंते पुनः पुनः ।।
जायमाने पितापुत्रे पुत्रः पितरि चैव हि ।। ३५.१०९ ।।

एवं संतत्य विच्छेदाद्वर्तयंत्यायुगक्षयात् ।।
अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम् ।। ३५.११० ।।

अर्यम्णो दक्षिणं ये तु पितृयानं समाश्रिताः ।।
दाराग्निहोत्रिणस्ते वै यै प्रजाहेतवः स्मृताः ।। ३५.१११ ।।

गृहमेधिनस्त्वसंख्येयाः श्मशानान्याश्रयंति ते ।।
अष्टाशीतिसहस्राणि निहिता उत्तरापथे ।। ३५.११२ ।।

ये श्रूयंते दिवं प्राप्ता ऋषयो ह्यूर्ध्वरेतसः ।।
मंत्रब्राह्मणकर्त्तारो जायन्ते च युगक्षयात् ।। ३५.११३ ।।

एवमावर्त्तमानास्तेद्वापरेषु पुनः पुनः ।।
कल्पानामार्षविद्यानां नानाशास्त्रकृतश्च ये ।। ३५.११४ ।।

क्रियते यैर्व्यवत्दृतिर्वैदिकानां च कर्मणाम् ।।
वैवस्वतेऽन्तरे तस्मिन्द्वापरेषु पुनः पुनः ।। ३५.११५ ।।

अष्टाविंशतिकृत्वो वै वेदा व्यस्ता महर्षिभिः ।।
सप्तमे द्वापरे व्यमताः स्वयं वेदाः स्वयंभुवा ।। ३५.११६ ।।

द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ।।
तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः ।। ३५.११७ ।।

सविता पंचमे व्यासो मृत्युः षष्ठे स्मृतः प्रभुः ।।
सप्तमे च तथैवेंद्रो वसिष्ठश्चाष्टमे स्मृतः ।। ३५.११८ ।।

सारस्वतस्तु नवमे त्रिधामा दशमे स्मृतः ।।
एकादशे तु त्रिवर्षा सनद्वाजस्ततः परम् ।। ३५.११९ ।।

त्रयोदशे चांतरिक्षो धर्मश्चापि चतुर्दशे ।।
त्रैय्यारुणिः पंचदशे षोडशे तु धनंजयः ।। ३५.१२० ।।

कृतंजयः सप्तदशे ऋजीषोऽष्टादशे स्मृतः ।।
ऋजीषात्तु भरद्वाजो भरद्वाजात्तु गौतमः ।। ३५.१२१ ।।

गौतमादुत्तमश्चैव ततो हर्यवनः स्मृतः ।।
हर्यवनात्परो वेनः स्मृतो वाजश्रवास्ततः ।। ३५.१२२ ।।

अर्वाक्च वाजश्रवसः सोममुख्यायनस्ततः ।।
तृणबिन्दुस्ततस्तस्मात्ततजस्तृणबिंदुतः ।। ३५.१२३ ।।

ततजाच्च स्मृतः शक्तिः शक्तेश्चापि पराशरः ।।
जातूकर्णो भवत्तस्मात्त स्माद्द्वैपायनः स्मृतः ।। ३५.१२४ ।।

अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः ।।
भविष्ये द्वापरे चैव द्वोणिर्द्वैपायनेऽपि च ।। ३५.१२५ ।।

वेदव्यासे ह्यतीतेऽस्मिन्भविता सुमहातपाः ।।
भविष्यन्ति भविष्येषु शाखाप्रमयनानि तु ।। ३५.१२६ ।।

तस्यैव ब्रह्मणो ब्रह्म तपसः प्राप्तमव्ययम् ।।
तपसा कर्म च प्राप्तं कर्मणा चापि ते यशः ।। ३५.१२७ ।।

पुनश्च तेजसा सत्यं सत्येनानन्दमव्ययम् ।।
व्याप्तं ब्रह्मामृतं शुक्रं ब्रह्मैवामृतमुच्यते ।। ३५.१२८ ।।

ध्रुवमेकाक्षरमिदमोमित्येव व्यवस्थितम् ।।
बृहत्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते ।। ३५.१२९ ।।

प्रमवा वस्थितं भूयो भूर्भुवः स्वरिति स्मृतम् ।।
अथर्वऋग्यजुः साम्नि यत्तस्मै ब्रह्मणे नमः ।। ३५.१३० ।।

जगतः प्रलयोत्पत्तौ यत्तत्कारणसंज्ञितम् ।।
महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ।। ३५.१३१ ।।

अगाधापारमक्षय्यं जगत्संबोहसंभवम् ।।
संप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ।। ३५.१३२ ।।

सांख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम् ।।
यत्तदव्यक्तमतं प्रकृतिर्ब्रह्म शाश्वतम् ।। ३५.१३३ ।।

प्रधानमात्मयोनिश्च गृह्यं सत्त्वं च शस्यते ।।
अविभागस्तथा शुक्रमक्षरं बहुधात्मकम् ।। ३५.१३४ ।।

परमब्रह्मणे तस्मै नित्यमेव नमोनमः ।।
कृते पुनः क्रिया नास्ति कुत एवाकृतक्रियाः ।। ३५.१३५ ।।

सकृदेव कृतं सर्वं यद्वै लोके कृताकृतम् ।।
श्रोतव्यं वा श्रुतं वापि तथैवासाधु साधु वा ।। ३५.१३६ ।।

ज्ञातव्यं वाप्यमन्तव्यं सप्रष्टव्यं भोज्यमेव च ।।
द्रष्टव्यं वाथ श्रोतव्यं घ्रातव्यं वा कथंचन ।। ३५.१३७ ।।

दर्शितं यदनेनैव ज्ञातं तद्वै सुरर्षिभिः ।।
यन्न दर्शितवानेष कस्तदन्वेष्टुमर्हति ।। ३५.१३८ ।।

सर्वाणि सर्वं सर्वांश्च भगवानेव सोऽब्रवीत् ।।
यदा यत्क्रियते येन तदा तस्मोऽभिमन्यते ।। ३५.१३९ ।।

यत्रेदं क्रियते पूर्वं न तदन्येन भाषितम् ।।
यदा च क्रियते किंचित्केनचिद्वा कथं क्वचित् ।। ३५.१४० ।।

तनैव तत्कृतं कृत्यं कर्त्तॄणां प्रतिभाति वै ।।
विरिक्तं चातिरिक्तं च ज्ञानाज्ञानेप्रियाप्रिये ।। ३५.१४१ ।।

धर्माधर्मौ सुशं दुःखं मृत्युश्चामृतमेव च ।।
ऊर्द्ध्वं तिर्य्यगधोभावस्तस्यैवादृष्टकारिणः ।। ३५.१४२ ।।

स्वयंभुवोऽथ ज्येष्ठस्य ब्रह्मणः परमेष्ठिनः ।।
प्रत्येकवेद्यंभवति त्रेतास्विह पुनः पुनः ।। ३५.१४३ ।।

व्यस्यते ह्येकवेद्यं तु द्वापरेषु पुनः पुनः ।।
ब्रह्मा चैतानुवाचादौ तस्मिन्वैवस्वतेऽन्तरे ।। ३५.१४४ ।।

आवर्त्तमाना ऋषयो युगाख्यासु पुनः पुनः ।।
कुर्वंति संहिता ह्येते जायमानाः परस्परम् ।। ३५.१४५ ।।

अष्टाशीतिसहस्राणि श्रुतर्षीणां समृतानि वै ।।
अतीतेषु व्यतीतानि वर्त्तन्ते पुनः पुनः ।। ३५.१४६ ।।

श्रिता दक्षिणपंथानं ये श्मशानानि भेजिरे ।।
युगे युगे तु ताः शाखा व्यस्यंते तै पुनः पुनः ।। ३५.१४७ ।।

द्वापरेष्विह सर्वेषु संहितास्तु श्रुतर्षिभिः ।।
तेषां गोत्रेष्विमाः शाखा भवंति हि पुनः पुनः ।। ३५.१४८ ।।

ताः शाखास्ते च कर्त्तारो भवं तीहायुगक्षयात् ।।
एवमेव तु विज्ञेया अतीतानागतेष्वपि ।। ३५.१४९ ।।

मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै ।।
अतीतेषु व्यतीतानि वर्त्तन्ते सांप्रतेऽन्तरे ।। ३५.१५० ।।

भविष्यंति च यानि स्युर्वर्त्स्यंतेऽनागतेष्वपि ।।
पूर्वेण पश्चिमं ज्ञेयं वर्तमानेन चोभयम् ।। ३५.१५१ ।।

एतेन क्रमयोगेन मन्वन्तरविनिश्चयः ।।
एवं देवाः सपितर ऋषयो मनवश्च वै ।। ३५.१५२ ।।

मन्त्रैः सहोर्ध्वं गच्छंति ह्यावर्त्तंते च तैः सह ।।
जनलोकात्सुराः सर्वे दशकल्पान्पुनः पुनः ।। ३५.१५३ ।।

पर्यायकाले संप्राप्ते संभूता निधनस्य ते ।।
अवश्यभाविनाऽर्थेन संभध्यन्ते तदा तु ते ।। ३५.१५४ ।।

ततस्ते दोषवज्जन्म पश्यंतो रोगपूर्वकम् ।।
निवर्त्तते तदा वृत्तिः सा तेषां दोषदर्शनात् ।। ३५.१५५ ।।

एवं देवयुगानीह दशकृत्वो विवर्त्य वै ।।
जनलोकात्तपोलोकं गच्छंतीहानिवर्त्तकम् ।। ३५.१५६ ।।

एवं देवयुगानीह व्यती तानि सहस्रशः ।।
निधनं ब्रह्मलोके वै गतानि ऋषिभिः सह ।। ३५.१५७ ।।

न शक्य आनुपूर्व्येण तेषां वक्तुं सुविस्तरः ।।
अनादित्वाच्च कालस्य संख्यानां चैव सर्वशः ।। ३५.१५८ ।।

मन्वंतराण्यतीतानि यानि कल्पैः पुरा सह ।।
पितृभिर्मुनिभिर्देवैः सार्द्धं च ऋषिभिः सह ।। ३५.१५९ ।।

कालेन प्रतिसृष्टानि युगानां च विवर्त्तनम् ।।
एतेन क्रमयोगेन कल्पमन्वंतराणि च ।। ३५.१६० ।।

सप्रजानि व्यतीतानि शतशोऽथ सहस्रशः ।।
मन्वंतरांते संहारः संहारांते च संभवः ।। ३५.१६१ ।।

देवतानामृषीणां च मनोः पितृगणस्य च ।।
न शक्य आनुपूर्व्येण वक्तुं वर्षशतैरपि ।। ३५.१६२ ।।

विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः ।।
मन्वंतरस्य संख्या तु मानुषेण निबोधत ।। ३५.१६३ ।।

मन्वंतरास्तु संख्याताः संख्यानार्थविशारदैः ।।
त्रिंशत्कोट्यस्तु संपूर्णा संख्याताः संख्याया द्विजैः ।। ३५.१६४ ।।

सप्तषष्टिस्तंथान्यानि नियुतानि च संख्याया ।।
विंशतिश्च सहस्रामि कालोऽयं साधिकं विना ।। ३५.१६५ ।।

मन्वंतरस्य संख्येयं मानुषेण प्रकीर्त्तिता ।।
वर्षाग्रेणापि दिव्येन प्रवक्ष्याम्युत्तरं मनोः ।। ३५.१६६ ।।

अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम् ।।
द्विपंचाशत्तथान्यानि सहस्राण्यधिकानि तु ।। ३५.१६७ ।।

चतुर्दशगुणो ह्येष कालो ह्याभूतसंप्लवम् ।।
पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम् ।। ३५.१६८ ।।

ततः सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः ।।
ब्रह्माणामग्रतः कृत्वा सह देवर्षिदानवैः ।। ३५.१६९ ।।

प्रविशंति सुरश्रेष्ठं देवं नारायणं प्रभुम् ।।
स स्रष्टा सर्व भूतानां कल्पादिषु पुनः पुनः ।। ३५.१७० ।।

इत्येष स्थितिकालो वै मतो देवर्षिभिः सह ।।
सर्वमन्वंतराणां हि प्रतिसंधिं निबोधत ।। ३५.१७१ ।।

युगख्या या समुद्दिष्टा प्रागेतस्मिन्मयाऽनघाः ।।
कृतत्रेतादिसंयुक्तं चतुर्युगमिति स्मृतम् ।। ३५.१७२ ।।

तच्चैकसप्ततिगुणं परिवृत्तं तु साधिकम् ।।
मनोरेतमधीकारं प्रोवाच भगवान्प्रभुः ।। ३५.१७३ ।।

एवं मन्वंतराणां च सर्वेषामेव लक्षणम् ।।
अतीतानागतानां वै वर्त्तिमानेन कीर्त्तितम् ।। ३५.१७४ ।।

इत्येष कीत्तितः सर्गो मनोः स्वायंभुवस्य ते ।।
प्रतिसंधिं तु वक्ष्यामि तस्य चैवापरस्य च ।। ३५.१७५ ।।

मन्वंतरं यथा पूर्वमृषिभिर्दैवतैः सह ।।
अवश्यभाविनार्थेन यथावद्विनिवर्त्तते ।। ३५.१७६ ।।

एतस्मिन्नंतरे पूर्वं त्रैलाक्यस्ये श्वरास्तु ये ।।
सप्तर्षयश्च देवाश्च पितरो मनवस्तथा ।। ३५.१७७ ।।

मन्वंतरस्य काले तु संपूर्णे साधिके तदा ।।
क्षीणेऽधिकारे संविग्ना बुद्ध्वा पर्ययमात्मनः ।। ३५.१७८ ।।

महर्लोकाय ते सर्वे उन्मुखा दधिरे मतिम् ।।
ततो मन्वंतरे तस्मिन्प्रक्षीणे देवतास्तु ताः ।। ३५.१७९ ।।

संपूर्णेस्थितिकाले तु तिष्ठेदेकं कृतं युगम् ।।
उत्पद्यंते भविष्यंतो ये वै मन्वंतरेश्वराः ।। ३५.१८० ।।

देवताः पितरश्चैव ऋषयो मनुरेव च ।।
मन्वंतरे तु संपूर्णे तद्वदंते कलौ युगे ।। ३५.१८१ ।।

संपद्यते कृतं तेषु कलिशिष्टेषु वै तदा ।।
यथा कृतस्य संतानः कलिपूर्वः स्मृतो बुधैः ।। ३५.१८२ ।।

तथा मन्वंतरांतेषु आदिर्मन्वंतरस्य च ।।
क्षीणे मन्वंतरे पूर्वे प्रवृत्ते चापरे पुनः ।। ३५.१८३ ।।

मुखे कृतयुगस्याथ तेषां शिष्टास्तु ये तदा ।।
सप्तर्षयो मनुश्चैव कालापेक्षास्तु ये स्थिताः ।। ३५.१८४ ।।

मन्वंतरप्रतीक्षास्ते क्षीयमाणास्तपस्विनः ।।
मन्वंतरोत्सवस्यार्थे संतत्यर्थे च सर्वदा ।। ३५.१८५ ।।

पूर्ववत्संप्रवर्त्तंते प्रवृत्ते वृष्टिसर्जने ।।
द्वंद्वेषु संप्रवृत्तेषु उत्पन्नास्वौषधीषु च ।। ३५.१८६ ।।

प्रजासु चानिकेतासु संस्थितासु क्वचित्क्वचित् ।।
वार्त्तायां संप्रवृत्तायां धर्मे चैवोपसंस्थिते ।। ३५.१८७ ।।

निरानंदे चापि लोके नष्टे स्थावरजंगमे ।।
अग्रामनगरे चैव वर्णाश्रमविवर्जिते ।। ३५.१८८ ।।

पूर्वमन्वंतरे शिष्टा ये भवंतीह धार्मिकाः ।।
सप्तर्षयो मनुश्चैव संतानार्थं व्यवस्थिताः ।। ३५.१८९ ।।

प्रजार्थं तपतां तेषां तपः परमदुश्चरम् ।।
उत्पद्यंते हि पूर्वेषां निधनेष्विह पूर्ववत् ।। ३५.१९० ।।

देवासुराः पितृगणा ऋषयो मानुषास्तथा ।।
सर्पा भूतपिशाचाश्च गंधर्वा यक्षराक्षसाः ।। ३५.१९१ ।।

ततस्तेषां तु ये शिष्टाः शिष्टाचारान्प्रजक्षते ।।
सप्तर्षयो मनुश्चव ह्यादौ मन्वंतरस्य हि ।। ३५.१९२ ।।

प्रारभंते च कर्माणि मनुष्यो दैवतैः सह ।।
ऋषीणां ब्रह्मचर्येण गत्वानृण्यं तु व तदा ।। ३५.१९३ ।।

पितॄणां प्रजाया चैव देवानामिज्यया तथा ।।
शतंवर्षसहस्राणां धर्मे वर्णात्मके स्थिताः ।। ३५.१९४ ।।

त्रयी वार्त्ता दंडनीतिर्धर्मान्वर्णाश्रमांस्तथा ।।
स्थापयित्वाश्रमांश्चैव स्वर्गाय देधिरे मनः ।। ३५.१९५ ।।

पूर्वदेवेषु तेष्वेवं स्वर्गाया भिमुखेषु वै ।।
पूर्वदेवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः ।। ३५.१९६ ।।

मन्वंतरे पुरावृत्ते स्थानान्युत्सृज्य सर्वशः ।।
मंत्रैः सहोर्ध्वं गच्छन्ति महर्लोकमनामयम् ।। ३५.१९७ ।।

विनिवृत्ताधिकारास्ते मानसीं सिद्धिमास्थिताः ।।
अवेक्षमाणा वशिनस्तिष्ठंत्या भूतसंप्लवात् ।। ३५.१९८ ।।

ततस्तेषु व्यतीतेषु पूर्वदेवेषु वै तदा ।।
शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः ।। ३५.१९९ ।।

उपस्थिता इहान्ये वै ये देवाः स्वर्गवासिनः ।।
ततस्ते तपसा युक्ताः स्थानान्यापूरयंति च ।। ३५.२०० ।।

सत्येन ब्रह्मचर्येण श्रुतेन च समन्विताः ।।
सप्तर्षीणां मनोश्चैव देवानां पितृभिः सह ।। ३५.२०१ ।।

निधनानीह पूर्वेषामादितां च भविष्यताम् ।।
तेषां संतत्यविच्छेद इहामन्वंतरक्षयात् ।। ३५.२०२ ।।

एवं पूर्वानुपूर्व्येण स्थितिस्तेषामवस्थिता ।।
मन्वंतरेषु सर्वेषु यावदाभूतसंप्लवम् ।। ३५.२०३ ।।

पूर्वमन्वंतराणां तु प्रतिसंधानलक्षणम् ।।
अतीतानागतानां वै प्रोक्तं स्वायंभुवेन तु ।। ३५.२०४ ।।

मन्वंतरेष्वतीतेषु भविष्याणां तु साधनम् ।।
एवं संतत्यविच्छेदो भवत्याभूतसंप्लवात् ।। ३५.२०५ ।।

मन्वंतराणां परिवर्त्तनानि ह्येकांततस्तानि महर्गतानि ।।
महाजनं चैव जनान्तपश्च चैकांतगानि प्रभवंति सत्ये ।। ३५.२०६ ।।

तद्भाविनां तत्र तु दर्शनेन नानात्वदृष्टेन च प्रत्ययेन ।।
स्त्ये स्थिता नित्यतया तु नित्यं प्राप्ते विकारे प्रतिसर्ग काले ।। ३५.२०७ ।।

मन्वंतराणां परिवर्त्तनानि मुंचंति सत्यं तु ततोऽपरांत ।।
ततोऽभियोगा विषयप्रहाणाद्विशंति नारायणमेव देवम् ।। ३५.२०८ ।।

मन्वंतराणां परिवर्त्तनेषु चिरप्रवृत्तेषु विधिस्वभावात् ।।
क्षणं न वै तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ।। ३५.२०९ ।।

इत्यंतराण्येवमृषिस्तुतानां धर्मात्मनां दिव्यदृशां मनूनाम् ।।
वायुप्रणीतान्युपलभ्य दृश्याद् दिव्यौजसां व्याससमासयोगैः ।। ३५.२१० ।।

सर्वाणि राजर्षिसुरर्थिमंति ब्रह्मर्षिदेवोरगवंति चैव ।।
सुरेशसप्तर्षिपितृप्रजेशैर्युक्तानि सम्यक् परिवर्त्तनानि ।। ३५.२११ ।।

उदारवंशाभिजन श्रुतीनां प्रकृष्टमेधाभिसमेधितानाम् ।।
कीर्तिद्युतिख्यातिभिरर्चितानां पुण्यं हि विश्यापनमीश्वराणाम् ।। ३५.२१२ ।।

स्वर्गीयमेतत्परमं पवित्रं पुत्रीयमेतच्च परं रहस्यम् ।।
जप्यं महापर्वसु चैतदग्र्यं दुःखापशांतिप्रदमायुषीयम् ।। ३५.२१३ ।।

प्रजशदवर्षिमनुप्रधानां पुण्यां प्रसूतिं प्रथितामजस्य ।।
ममापि विख्यापयतः समासात्सिद्धिं प्रजेशाः प्रदिशंतु युक्ताः ।। ३५.२१४ ।।

इत्येतदंतरं प्रोक्तं मनोः स्वायंभुवस्य च ।।
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ।। ३५.२१५ ।।

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुष्गपादे
वेदव्यसनाख्यानं स्वायंभुवमन्वंतरवर्णनं च नाम पञ्चत्रिंशत्तमोऽध्यायः ।। ३५।।