ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः ३२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३१ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः ३२
[[लेखकः :|]]
अध्यायः ३३ →

सूत उवाच ।।
युगेषु यास्तु जायन्ते प्रजास्ता मे निबोधत ।।
आसुरी सर्पगांधर्वा पैशाची यक्षराक्षसी ।। ३२.१ ।।

यस्मिन्युगे च संभूति स्तासां यावच्च जीवितम् ।।
पिशाचासुरगंधर्वां यक्षराक्षसपन्नगाः ।। ३२.२ ।।

परिणाहोच्छ्रयैस्तुल्या जायंते ह कृते युगे ।।
षण्णवत्यंगुलो त्सेधो ह्यष्टानां देवजन्मनाम् ।। ३२.३ ।।

स्वेनांगुलप्रमाणेन निष्पन्नेन च पौष्टिकात् ।।
एतत्स्वाभाविकं तेषां प्रमाणमिति कुर्वते ।। ३२.४ ।।

मनुष्या वर्तमानास्तु युगं संध्याशकेष्विह ।।
देवासुरप्रमाणं तु सप्तसप्तंगुलादसत् ।। ३२.५ ।।

अंगुलानां शतं पूर्णमष्टपंचाशदुत्तरम् ।।
देवासुरप्रमाणं तु उच्छ्रयात्कलिजैः स्मृतम् ।। ३२.६ ।।

चत्वारश्चाप्यशीतिश्च कलिजैरंगुलैः स्मृतः ।।
स्वेनांगुलिप्रमाणेन ऊर्द्ध्वमापादमस्तकात् ।। ३२.७ ।।

इत्येष मानुषोत्सेधो ह्रसतीह युगांशके ।।
सर्वेषु युगकालेषु अतीतानागतेष्विह ।। ३२.८ ।।

स्वेनांगुलिप्रमाणेन अष्टतालः स्मृतो नरः ।।
आपादतलमस्तिष्को नवतालो भवेत्तु यः ।। ३२.९ ।।

संहता जानुबाहुस्तु स सुरैरपि पूज्यते ।।
गवाश्वहस्तिनां चैव महिष स्यावरात्मनाम् ।। ३२.१० ।।

कर्मणैतेन विज्ञेये ह्रासवृद्धी युगे युगे ।।
षट्सप्तत्यंगुलोत्सेधः पशूनां ककुदस्तु वै ।। ३२.११ ।।

अंगुलाष्टशतं पूर्णमुत्सेधः करिणां स्मृतः ।।
अंगुलानां सहस्रं तु चत्वारिंशांगुलैर्विना ।। ३२.१२ ।।

पञ्चाशता यवानां च उत्सेधः शाखिनां स्मृतः ।।
मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः ।। ३२.१३ ।।

तल्लक्षणस्तु देवानां दृश्येत तत्त्वदर्शनात् ।।
बुद्ध्यातिशययुक्तश्च देवानां काय उच्यते ।। ३२.१४ ।।

तथा सातिशयस्छैव मानुषः काय उच्यते ।।
इत्येते वै परिक्रांता भावा ये दिव्यमानुषाः ।। ३२.१५ ।।

पशूनां पक्षिणां चैव स्थावराणां च सर्वशः ।।
गावो ह्यजावयोऽश्वाश्च हस्तिनः पक्षिणो नगाः ।। ३२.१६ ।।

उपयुक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः ।।
देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः ।। ३२.१७ ।।

यथाशयोपभोगास्तु देवानां शुभमूर्त्तयः ।।
तेषां रूपानुरूपैस्तु प्रमाणैः स्थाणुजंगमैः ।। ३२.१८ ।।

मनोज्ञैस्तत्र भावैस्ते सुखिनो ह्युपपेदिरे ।।
अतः शिष्टान्प्रवक्ष्यामि सतः साधूंस्तथैव च ।। ३२.१९ ।।

सदिति ब्रह्मणः शब्दस्तद्वंतो ये भवंत्युत ।।
साजात्याद्ब्रह्मणस्त्वेते तेन सन्तः प्रचक्षते ।। ३२.२० ।।

दशात्मके ये विषये कारणे चाष्टलक्षणे ।।
न क्रुध्यंति न त्दृष्यंति जितात्मानस्तु ते स्मृताः ।। ३२.२१ ।।

सामान्येषु तु धर्मेषु तथा वैशेषिकेषु च ।।
ब्रह्मक्षत्रविशो यस्माद्युक्तास्तस्मा द्द्विजातयः ।। ३२.२२ ।।

वर्णाश्रमेषु युक्तस्य स्वर्गतौ सुखचारिमः ।।
श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते ।। ३२.२३ ।।

विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः ।।
गृहाणां साधनाच्चैव गृहस्थः साधुरुच्यते ।। ३२.२४ ।।

साधनात्तपसोऽरण्ये साधुर्वैखानसः स्मृतः ।।
यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ।। ३२.२५ ।।

एवमाश्रमधर्माणां साधनात्साधवः स्मृताः ।।
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा ।। ३२.२६ ।।

अथ देवा न पितरो मुनयो न च मानुषाः ।।
अयं धर्मो ह्ययं नेति विंदते भिन्नदर्शनाः ।। ३२.२७ ।।

धर्माधर्माविहप्रोक्तौ शब्दावेतौ क्रियात्मकौ ।।
कुशलाकुशलं कर्म धर्माधर्माविह स्मृताम् ।। ३२.२८ ।।

धारणर्थो धृतिश्चैव धातुः शब्दे प्रकीर्त्तितः ।।
अधारणामहत्त्वे च अधर्म इति चोच्यते ।। ३२.२९ ।।

अथेष्टप्रापको धर्म आचार्यैरुपदिश्यते ।।
अधर्मश्चानिष्टफलोह्याचार्यैरुपदिश्यते ।। ३२.३० ।।

वृद्धाश्चालोलुपाश्चैव त्वात्मवन्तो ह्यदांभिकाः ।।
सम्यग्विनीता ऋजवस्तानाचार्यान्प्रजक्षते ।। ३२.३१ ।।

स्वयमाचरते यस्मादाचारं स्थापयत्यपि ।।
आचिनोति च शास्त्राणि आचार्यस्तेन चोच्यते ।। ३२.३२ ।।

धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्त्तो द्विधा द्विजैः ।।
दाराग्निहोत्रसम्बन्धाद्द्विधा श्रौतस्य लक्षणम् ।। ३२.३३ ।।

स्मार्त्तो वर्णाश्रमाचारैर्यमैः सनियमैः स्मृतः ।।
पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्ष योऽब्रुवन् ।। ३२.३४ ।।

ऋचो यजूंसामानि ब्रह्मणोऽङ्गानि च श्रुतिः ।।
मन्वंतरस्यातीतस्य स्मृत्वाचारान्मनुर्जगौ ।। ३२.३५ ।।

तस्मा त्स्मार्त्तः धर्मो वर्णाश्रमविभाजकः ।।
स एष विविधो धर्मः शिष्टाचार इहोच्यते ।। ३२.३६ ।।

शेषशब्दः शिष्ट इति शेषं शिष्टं प्रचक्षते ।।
मन्वंतरेषु ये शिष्टा इह तिष्ठंति धार्मिकाः ।। ३२.३७ ।।

मनुः सप्तर्षयश्चैव लोकसंतानकारमात् ।।
धर्मार्थं ये च तिष्ठंति ताञ्छिष्टान्वै प्रचक्षते ।। ३२.३८ ।।

मन्वादयश्च येऽशिष्टा ये मया प्रागुदीरिताः ।।
तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे ।। ३२.३९ ।।

त्रयी वार्त्ता दंडनीतिरिज्या वर्णाश्रमास्तथा ।।
शिष्टैराचर्यते यस्मान्मनुना च पुनः पुनः ।। ३२.४० ।।

पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स सात्वतः ।।
दानं सत्यं तपो ज्ञानं विद्येज्या व्रजनं दया ।। ३२.४१ ।।

अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ।।
शिष्टा यस्माच्चरंत्येनं मनुः सप्तर्षयस्तु वै ।। ३२.४२ ।।

मन्वंतरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ।।
विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त्त उच्यते ।। ३२.४३ ।।

इज्यावेदात्मकः श्रौतः स्मार्त्तो वर्णाश्रमात्मकः ।।
प्रत्यंगानि च वक्ष्यामि धर्मस्येह तु लक्षणम् ।। ३२.४४ ।।

दृष्ट्वा तु भूतमर्थं यः पृष्टो वै न निगू हति ।।
यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ।। ३२.४५ ।।

ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च ।।
इत्येतत्तपसो रूपं सुघोरं सुदुरा सदम् ।। ३२.४६ ।।

पशूनां द्रव्यहविषामृक्सामयजुषां तथा ।।
ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते ।। ३२.४७ ।।

आत्मवत्सर्वभूतेषु या हितायाहिताय च ।।
प्रवर्त्तंते समा दृष्टिः कृत्स्नाप्येषा दया स्मृता ।। ३२.४८ ।।

आक्रुष्टो निहतो वापि नाक्रोशेद्यो न हंति च ।।
वाङ्मनःकर्मभिर्वेत्ति तितिक्षैषा क्षमा स्मृता ।। ३२.४९ ।।

स्वामिना रक्ष्यमाणानामुत्सृष्टानां च संभ्रमे ।।
परस्वानामनादानमलोभ इति कीर्त्यते ।। ३२.५० ।।

मैथुनस्यासमाचारो न चिंता नानुजल्पनम् ।।
निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं तप उच्यते ।। ३२.५१ ।।

आत्मार्थं वा परार्थं वा चेंद्रियाणीह यस्य वै ।।
मिथ्या न संप्रवर्त्तंते शामस्यैतत्तु लक्षमम् ।। ३२.५२ ।।

दशात्मके यो विषये कारणे चाष्टलक्षणे ।।
न क्रुद्ध्येत प्रतिहतः स जितात्मा विभाव्यते ।। ३२.५३ ।।

यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं च यत् ।।
तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ।। ३२.५४ ।।

दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम् ।।
तत्र नैश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये ।। ३२.५५ ।।

कारुण्यात्सर्वभूतेषु संविभागस्तु मध्यमः ।।
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्माश्रमात्मकः ।। ३२.५६ ।।

शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसंमतः ।।
अप्रद्वेषोह्यनि ष्टेषु तथेष्टस्याभिनंदनम् ।। ३२.५७ ।।

प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ।।
संन्यासः कर्मणां न्यासः कृतानामकृतैः सह ।। ३२.५८ ।।

कुशलाकुशलानां तु प्रहाणं न्यास उच्यते ।।
्व्यक्ता ये विशेषास्ते विकारेऽस्मिन्नचेतने ।। ३२.५९ ।।

चेतनाचेतनान्यत्वविज्ञानं ज्ञानमुच्यते ।।
प्रत्यंगानां तु धर्मस्य त्वित्येतल्लक्षणं स्मृतम् ।। ३२.६० ।।

ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वं स्वायंभुवेऽन्तरे ।।
अत्र वो वर्णयिष्यामि विधिं मन्वंतरस्य यः ।। ३२.६१ ।।

तथैव चातुर्होत्रस्य चातुर्विद्यस्य चैव हि ।।
प्रतिमन्वंतरे चैव श्रुतिरन्या विधीयते ।। ३२.६२ ।।

ऋचो यजूंषि समानि यथा च प्रतिदैवतम् ।।
आभूतसंप्लवस्यापि वर्ज्यैकं शतरुद्रियम् ।। ३२.६३ ।।

विधिर्हौत्रस्तथा स्तोत्रं पूर्ववत्संप्रवर्तते ।।
द्रव्यस्तोत्रं गुणस्तोत्रं फलस्तोत्रं तथैव च ।। ३२.६४ ।।

चतुर्थमाभिजनकं स्तोत्रमेतच्चतुर्विधम् ।।
मन्वंतरेषु सर्वेषु यथा देवा भवंति ये ।। ३२.६५ ।।

प्रवर्तयति तेषां वै ब्रह्मा स्तोत्रं चतुर्विधम् ।।
एवं मंत्रगणानां तु समुत्पत्तिश्चतुर्विधा ।। ३२.६६ ।।

अथर्वगर्यजुषां साम्नां वेदेष्विह पृथक्पृथक् ।।
ऋषीणां तप्यतामुग्रं तपः परमदुष्करम् ।। ३२.६७ ।।

मंत्राः प्रादुर्बभूवुर्हि पूर्वमन्वंतरेष्विह ।।
असंतोषाद्भया द्दुःखात्सुखाच्छोकाच्च पंचधा ।। ३२.६८ ।।

ऋषीणां तारकाख्येन दर्शनेन यदृच्छया ।।
ऋषीणां यदृषित्वं हि तद्वक्ष्यामीह लक्षणैः ।। ३२.६९ ।।

अतीतानागतानां च पंचधा त्वृषिरुच्यते ।।
अतस्त्वृषीणां वक्ष्यामि तत्र ह्यार्षसमुद्भवम् ।। ३२.७० ।।

गुणसाम्ये वर्त्तमाने सर्वसंप्रलये तदा ।।
अविभागे तु वेदानामनिर्देश्ये तमोमये ।। ३२.७१ ।।

अबुद्धिबूर्वकं तद्वै चेतनार्थे प्रवर्त्तते ।।
चेतनाबुद्धिपूर्वं तु चेतनेन प्रवर्त्तते ।। ३२.७२ ।।

प्रवर्त्तते तथा द्वौ तु यथा मत्स्योदके उभे ।।
चेतनाधिष्ठितं सत्त्वं प्रवर्त्तति गुणात्मकम् ।। ३२.७३ ।।

कारणत्वात्तथा कार्यं तदा तस्य प्रवर्त्तते ।।
विषयो विषयित्वाच्च अर्थेऽर्थत्वात्तथैव च ।। ३२.७४ ।।

कालेन प्रापणीयेन भेदास्तु करणात्मकाः ।।
संसिध्यंति तदा व्यक्ताः क्रमेण महदादयः ।। ३२.७५ ।।

महतश्चाप्यहंकारस्तस्माद्भूतेद्रियाणि च ।।
भूतभेदाश्च भूतेभ्यो जज्ञिरे स्म परस्परम् ।। ३२.७६ ।।

संसिद्धकार्यकरणः सद्य एव व्यवर्त्तत ।।
यथोल्मुकात्तु त्रुटयः एककालाद्भवंति हि ।। ३२.७७ ।।

तथा विवृत्ताः क्षेत्रज्ञाः कालेनैकेन कारणात् ।।
यथांधकारे खद्योतः सहसा संप्रदृश्यते ।। ३२.७८ ।।

तथा विवृत्तो ह्यव्यक्तात्खद्योत इव सञ्ज्वलन् ।।
स माहन्सशरीरस्तु यत्रैवायमवर्त्तत ।। ३२.७९ ।।

तत्रैव संस्थितो विद्वान्द्वारशालामुखे विभुः ।।
महांस्तु तमसः पारे वैलक्षण्याद्विभाव्यते ।। ३२.८० ।।

तत्रैव संस्थिते विद्वांस्तमसोंऽत इति श्रुतिः ।।
बुद्धिर्विवर्त्तमानस्य प्रादुर्भूता चतुर्विधा ।। ३२.८१ ।।

ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ।।
सांसिद्धिकान्यथैतानि विज्ञेयानि नरस्य वै ।। ३२.८२ ।।

स महात्मा शरीरस्य वैवर्त्तात्सिद्धिरुच्यते ।।
अनुशेते यतः सर्वान्क्षेत्रज्ञानमथापि वा ।। ३२.८३ ।।

पुरिषत्वाच्च पुरुषः क्षत्रेज्ञानात्स उच्यते ।।
यस्माद्वुद्ध्यानुशेते च तस्माद्वोधात्मकः स वै ।। ३२.८४ ।।

संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् ।।
एवं विवृत्तः क्षेत्रज्ञः क्षेत्रज्ञानाभिसंहितः ।। ३२.८५ ।।

विवृत्तिसमकालं तु बुद्ध्याव्यक्तमृषिः स्वयम् ।।
परं ह्यर्षयते यस्मात्परमर्षित्वमस्य तत् ।। ३२.८६ ।।

गत्यर्थादृषतेर्धातोर्नाम निर्वृतिरादितः ।।
यस्मादेव स्वयं भूतस्तस्माच्चाप्यृषिता स्मृता ।। ३२.८७ ।।

ईश्वरात्स्वयमुद्भूता मानसा ब्रह्मणः सुताः ।।
यस्मादुत्पद्यमानैस्तैर्महान्परिगतः परः ।। ३२.८८ ।।

यस्माद-षंति ते धीरा महांतं सर्वतो गुणैः ।।
तस्मान्महर्षयः प्रोक्ता बुद्धेः परम दर्शिना ।। ३२.८९ ।।

ईश्वराणां सुतास्तेषां मानसा औरसाश्च वै ।।
अहंकारं तपश्चैव ऋषंति ऋषितां गताः ।। ३२.९० ।।

तस्मात्सप्तर्षयस्ते वै भूतादौ तत्त्वदर्शनात् ।।
ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसंभवाः ।। ३२.९१ ।।

तन्मात्राणि च सत्यं च ऋषंते ते महौजसः ।।
सप्तषर्यस्त तस्ते च परसत्यस्य दर्शनाः ।। ३२.९२ ।।

ऋषीकाणां सुतास्ते स्युर्विज्ञेया ऋषिपुत्रकाः ।।
ऋषंति ते ऋतं यस्माद्विशेषांश्चैव तत्त्वतः ।। ३२.९३ ।।

तस्मात्सप्तर्षयस्तेपि श्रुतेः परमदर्शनात् ।।
अव्यक्तात्मा महानात्माहंकारात्मा तथैव च ।। ३२.९४ ।।

भूतात्मा चेंद्रियात्मा च तेषां तज्ज्ञानमुच्यते ।।
इत्येता ऋषिजातीस्ता नामभिः पंच वै श्रृणु ।। ३२.९५ ।।

भृगुर्मरीचिरत्रिश्च ह्यंगिराः पुलहः क्रतुः ।।
मनुर्दक्षो वसिष्टश्च पुलस्त्यश्चेति ते दश ।। ३२.९६ ।।

ब्रह्मणो मानसा ह्येते उद्भूताः स्वयमीश्वराः ।।
परत्वेनर्षयो यस्मात्स्मृतास्तस्मान्महर्षयः ।। ३२.९७ ।।

ईश्वराणां सुता ह्येते ऋषयस्तान्निबोधत ।।
काव्यो बृहस्पतिश्चैव कश्यपश्व्यवनस्तथा ।। ३२.९८ ।।

उतथ्यो वामदेवश्च अपा स्यश्चोशिजस्तथा ।।
कर्दमो विश्रवाः शक्तिर्वालखिल्यास्तथार्वतः ।। ३२.९९ ।।

इत्येते ऋषयः प्रोक्तास्तपसा चर्षितां गताः ।।
ऋषिपुत्रानृ षीकांस्तु गर्भोत्पन्नान्निबोधत ।। ३२.१०० ।।

वत्सरो नगृहूश्चैव भरद्वाजस्तथैव च ।।
ऋषिदीर्घतमाश्चैव बृहदुक्थः शरद्वतः ।। ३२.१०१ ।।

वाजश्रवाः शुचिश्चैव वश्याश्वश्च पराशरः ।।
दधीचः शंशपाश्चैव राजा वैश्रवणस्तथा ।। ३२.१०२ ।।

इत्येते ऋषिकाः प्रोक्तास्ते सत्यादृषितां गताः ।।
ईश्वरा ऋषयश्चैव ऋषिकाश्चैव ते स्मृताः ।। ३२.१०३ ।।

एते मंत्रकृतः सर्वे कृत्स्नशस्तान्निबोधत ।।
भृगुः काव्यः प्रचेताश्च ऋचीको ह्यात्मवानपि ।। ३२.१०४ ।।

और्वाऽथ जमदग्निश्च विदः सारस्वतस्तथा ।।
आर्ष्टिषेणो युधाजिच्च वीतहव्यसुवर्चसौ ।। ३२.१०५ ।।

वैन्यः पृथुर्दिवोदासो बाध्यश्वो गृत्सशौनकौ ।।
एकोनविशतिर्ह्येतेभृगवो मंत्रवादितः ।। ३२.१०६ ।।

अंगिरा वैद्यगश्चैव भरद्वाजोऽथ बाष्कलिः ।।
ऋतवाकस्तथा गर्गः शिनिः संकृतिरेव च ।। ३२.१०७ ।।

पुरुकुत्सश्च मांधाता ह्यंबरीषस्तथैव च ।।
युवनाश्वः पौरकुत्सस्त्रसद्दस्युश्च दस्युमान् ।। ३२.१०८ ।।

आहार्यो ह्यजमीढश्च तुक्षयः कपिरेव च ।।
वृषादर्भो विरूपाश्वः कण्वश्चैवाथ मुद्गलः ।। ३२.१०९ ।।

उतथ्यश्च सनद्वाजस्तथा वाजश्रवा अपि ।।
अयास्यश्चक्रवर्त्ती चवामदेवस्तथैव च ।। ३२.११० ।।

असिजो बृहदुक्थश्च ऋषिर्दीर्घतमास्तथा ।।
कक्षीवांश्च त्रयस्त्रिंशत्स्मृता ह्यांगिरसा वराः ।। ३२.१११ ।।

एते मंत्रकृतः सर्वे काश्यपांस्तु निबोधत ।।
काश्यपश्चैव वत्सारो नैध्रुवो रैभ्य एव च ।। ३२.११२ ।।

असितो देव लश्चैव षडेते ब्रह्मवादिनः ।।
अत्रिरर्वसनश्चैव श्यावाश्वश्च गविष्ठिरः ।। ३२.११३ ।।

आविहोत्र ऋषिर्द्धीमांस्तथा पूर्वातिथिश्च सः ।।
इत्येते चा त्रयः प्रोक्ता मंत्रकारा महर्षयः ।। ३२.११४ ।।

वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः ।।
चतुर्थ इन्द्रप्रमतिः पंचमश्च भरद्वसुः ।। ३२.११५ ।।

षष्ठश्च मैत्रावरुणिः कुंडिनः सप्तमस्तथा ।।
इति सप्त वशिष्ठाश्च विज्ञेया ब्रह्मवादिनः ।। ३२.११६ ।।

विश्वामित्रस्तु गाधेयो देवरातस्तथोद्गलः ।।
तथा विद्वान्मधुच्छंदा ऋषिश्चान्योऽघमर्षणः ।। ३२.११७ ।।

अष्टको लोहितश्चैव कतः कोलश्च तावुभौ ।।
देवश्रवास्तथा रेणुः पूरणोऽथ धनंजयः ।। ३२.११८ ।।

त्रयोदशैते धर्मिष्ठा विज्ञेयाः कुशिकावराः ।।
अगस्त्योऽयो दृढायुश्च विध्मवाहस्तथैव च ।। ३२.११९ ।।

ब्रह्मिष्ठागस्तपा ह्येते त्रयः परमकीर्त्तयः ।।
मनुर्वैवस्वतश्चैव एलो राजा पुरूखाः ।। ३२.१२० ।।

क्षत्र्रियाणां चरावेतौ विज्ञेयौ मंत्रवादिनौ ।।
भलंदनश्च वत्सश्च संकीलश्चैव ते त्रयः ।। ३२.१२१ ।।

एते मंत्रकृतश्चैव वैश्यानां प्रवराः स्मृताः ।।
इत्येषा नवतिः प्रोक्ता मंत्रा यैर्ऋषिभिः कृताः ।।
ब्राह्यणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत ।। ३२.१२२ ।।

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनु
षंगपादे युगप्रजालक्षणमृषिप्रवरवर्णनं च नाम द्वात्रिंशत्तमोऽध्यायः ।। ३२ ।।