ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →


ऋषिरुवाच ।।
चतुर्युगानि यान्यासन्पूर्वं स्वायंभुवेऽन्तरे ।।
तेषां निसर्गं तत्त्वं च श्रोतुमिच्छामि विस्तरात् ।। २९.१ ।।

सूत उवाच ।।
पृथिव्यादिप्रसंगेन यन्मया प्रागुदीरितम् ।।
तेषां चतुर्युगं ह्येतत्तद्वक्ष्यामि निबोधत ।। २९.२ ।।

संख्ययेह प्रसंख्याय विस्तराच्चैव सर्वशः ।।
युगं च युगभेदश्च युगधर्मस्तथैव च ।। २९.३ ।।

युगसंध्यांशकश्चैव युगसंधानमेव च ।।
षट्प्रकाशयुगाख्यैषा ता प्रवक्ष्यामि तत्त्वतः ।। २९.४ ।।

लौकिकेन प्रमाणेन निष्पाद्याब्दं तु मानुषम् ।।
तेनाब्देन प्रसंख्यायै वक्ष्यामीह वतुर्युगम् ।।
निमेषकाल तुल्यं हि विद्याल्लघ्वक्षरं च यत् ।। २९.५ ।।

काष्ठा निमेषा दश पंच चैव त्रिशच्च काष्ठा गणयेत्कलां तु ।।
त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तै स्त्रिंशता रात्र्यहनी समे ते ।। २९.६ ।।

अहोरात्रौ विभजते सूर्यो मानुषलौकिकौ ।। २९.७ ।।

तत्राहः कर्मचेष्टायां रात्रिः स्वप्नाय कल्पते ।।
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः ।। २९.८ ।।

कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ।।
त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु सः स्मृतः ।। २९.९ ।।

शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै ।।
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ।। २९.१० ।।

मानुषे णैव मानेन वर्षाणां यच्छतं भवेत् ।।
पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै ।। २९.११ ।।

दश चैवाधिका मासाः पितृसंख्येह संज्ञिताः ।।
लौकिकेनैव मानेन हृब्दो यो मानुषः स्मृतः ।। २९.१२ ।।

एतद्दिव्यमहोरात्रं शास्त्रे स्यान्निश्चयो गतः ।।
दिव्ये रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः ।। २९.१३ ।।

अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ।।
ये ते रात्र्यहनी दिव्ये प्रसंख्यानं तयोः पुनः ।। २९.१४ ।।

त्रिंशद्यानि तु वर्षाणि दिप्यो मासस्तु स स्मृतः ।।
यन्मानुषं शतं विद्धि दिव्या मासास्त्रयस्तु ते ।। २९.१५ ।।

दश चैव तथाऽहानि दिव्यो ह्येष विधिः स्मृतः ।।
त्रीणि वर्षशतान्येव षष्टिवर्षाणि यानि तु ।।
दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्त्तितः ।। २९.१६ ।।

त्रीणि वर्ष सहस्राणि मानुषाणि प्रमाणतः ।।
त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः ।। २९.१७ ।।

नव यानि सहस्राणि वर्षाणां मानुषाणि तु ।।
अन्यानि नवतिश्चैव ध्रुवः संवत्सरः स्मृतः ।। २९.१८ ।।

षड्विंशतिसहस्राणि वर्षाणि मानुषाणि तु ।।
वर्षाणां तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः ।। २९.१९ ।।

त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि तु ।। २९.२० ।।

षष्टिश्चैव सहस्राणि संख्यातानि तु संख्याया ।।
दिव्यवर्षसहस्र तु प्राहुः संख्याविदो जनाः ।। २९.२१ ।।

इत्येवमृषिभिर्गीतं दिव्यया संख्याया त्विह ।।
दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम् ।। २९.२२ ।।

चत्वारि भारते वर्षे युगानि कवयोऽबुवन् ।।
कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम् ।। २९.२३ ।।

पूर्व कृतयुकं नाम ततस्त्रेती विधीयते ।।
द्वापरं च कलिश्चैव युगान्येतानि कल्पयेत् ।। २९.२४ ।।

चत्वार्याहुः सहस्राणि वर्षाणां च कृत युगम् ।।
तस्य तावच्छती संध्या संध्यांशः संध्याया समः ।। २९.२५ ।।

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।।
एकन्यायेन वर्तन्ते सहस्राणि शतानि च ।। २९.२६ ।।

त्रीणि द्वे च सहस्राणि त्रेताद्वापरयोः क्रमात् ।।
त्रिशती द्विशती संध्ये संध्यांशौ चापि तत्समौ ।। २९.२७ ।।

कलिं वर्षसरस्रं तु युगमाहुर्द्विजोत्तमाः ।।
तस्यैकशतिका संध्या संध्यांशः संध्यया समः ।। २९.२८ ।।

तेषां द्वादशसाहस्री युगसंख्या प्रकीर्त्तिता ।।
कृतं त्रेता द्वापरं च कलिश्चैव चतुष्टयम् ।। २९.२९ ।।

अत्र संवत्सरा दृष्टा मानुषेण प्रमाणतः ।।
कृतस्य तावद्वक्ष्यामि वर्षाणि च निबोधत ।। २९.३० ।।

सहस्राणां शतान्याहुश्चतुर्दश हि संख्याया ।।
चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम् ।। २९.३१ ।।

तथा शतसहस्राणि वर्षाणि दशसंख्याया ।।
अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य सः ।। २९.३२ ।।

सप्तैव नियुतान्याहुर्वर्षाणां मानुषेण तु ।।
विंशतिश्च सहस्रामि कालः स द्वापरस्य च ।। २९.३३ ।।

तथा शतसहस्राणि वर्षाणां त्रीणि संख्यया ।।
षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु ।। २९.३४ ।।

एवं चतुर्युगे काल ऋतैः संध्यांशकैः स्मृतः ।।
नियुतान्येव षडिंशान्निरसानि युगानि वै ।। २९.३५ ।।

चत्वारिंशत्तथा त्रीणि नियुता नीह संख्यया ।।
विंशतिश्च सहस्राणि स संध्यांशश्चतुर्युगः ।। २९.३६ ।।

एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः ।।
कृतत्रेतादियुक्तानां मनोरंतरमुच्यते ।। २९.३७ ।।

मन्वंतरस्य संख्यां तु वर्षाग्रेण निबोधत ।।
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्त्तिताः ।। २९.३८ ।।

सप्त षष्टिस्तथान्यानि नियुतान्यधिकानि तु ।।
विशतिश्च सहस्राणि कालोऽयं साधिकं विना ।। २९.३९ ।।

मन्वंतरस्य संख्यैषा संख्या विद्भिर्द्विजैः स्मृता ।।
मन्वंतरस्य कालोऽयं युगैः सार्द्धं च कीर्त्तितः ।। २९.४० ।।

चतुः साहस्रयुक्तं वै प्राकृतं तत्कृतं युगम् ।।
त्रेताशिष्टं प्रवक्ष्यामि द्वापरं कलिमेव च ।। २९.४१ ।।

युगपत्समयेनार्थो द्विधा वक्तुं न शक्यते ।।
क्रमागतं मया ह्येतत्तुभ्यं नोक्त युग द्वयम् ।। २९.४२ ।।

ऋषिवंशप्रसंगेन व्याकुलत्वात्तथैव च ।।
अत्र त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये ।। २९.४३ ।।

श्रौत स्मार्त्त च ते धर्म ब्रह्मणानुप्रचौदितम् ।।
दाराग्निहोत्रसंबंधमृग्यजुः सामसंहितम् ।। २९.४४ ।।

इत्यादिलक्षणं श्रौतं धर्म सप्तर्षयोऽब्रुवन् ।।
परंपरागतं धर्म स्मार्त्तं चाचारलक्षणम् ।। २९.४५ ।।

वर्णाश्रमाचारयुतं मनुः स्वायंभुवोऽब्रवीत् ।।
सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै ।। २९.४६ ।।

तेषां तु तप्ततपसा आर्षेणोपक्रमेण तु ।।
सप्तर्षीणां मनोश्चैव ह्याद्ये त्रेतायुगे तथा ।। २९.४७ ।।

अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च ।।
अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः ।। २९.४८ ।।

आदिकल्पे तु देवानां प्रादुर्भूतास्तु याः स्वयम् ।।
प्राणाशेष्वथ सिद्धीनामन्यासां च प्रवर्त्तनम् ।। २९.४९ ।।

आसन्मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः ।।
ते मंत्रा वै पुनस्तेषां प्रतिभायामुपस्थिताः ।। २९.५० ।।

ऋचो यजूंषि सामानि मन्त्रश्चाथर्वणानि तु ।।
सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्त्तं धर्मं मनुर्जगौ ।। २९.५१ ।।

त्रेतादौ संहिता वेदाः केवला धर्मसेतवः ।।
संरोधादायुषश्चैव वर्त्स्यंते द्वापरेषु वै ।। २९.५२ ।।

ऋषयस्तपसा वेदान्द्वापरादिष्वधीयते ।।
अनादिनिधिना दिव्याः पूर्वं सृष्टाः स्वयंभुवा ।। २९.५३ ।।

सधर्माः सव्रताः सांगा यथाधर्मं युगेयुगे ।।
विक्रियन्ते समानार्था वेदवादा यथायुगम् ।। २९.५४ ।।

आरंभयज्ञाः क्षत्राश्च हविर्यज्ञा विशस्तथा ।।
परिचारयज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः ।। २९.५५ ।।

तदा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः ।।
क्रियावंतः प्रजावंतः समृद्धाः सुखिनस्तथा ।। २९.५६ ।।

ब्राह्मणाननुर्त्तन्ते क्षत्रियाः क्षत्रियान्विशः ।।
वैश्यानुवर्त्तिनः शुद्राः परस्परमनुव्रताः ।। २९.५७ ।।

शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा ।।
संकल्पितेन मनसा वाचोक्तेन स्वकर्मणा ।। २९.५८ ।।

त्रेतायुगे च विफलः कर्मारंभः प्रसिद्ध्यति ।।
आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता ।। २९.५९ ।।

सर्वसाधारणा ह्येते त्रेतायां वै भवं त्युत ।।
वर्णाश्रमव्यवस्थानं तेषां ब्रह्मा तदाऽकरोत् ।। २९.६० ।।

पुनः प्रजास्तु ता मोहाद्धर्मा स्तानप्यपालयन् ।।
परस्परविरोधेन मनुं ताः पुनरभ्ययुः ।। २९.६१ ।।

पुनः स्वायंभुवो दृष्ट्वा याथातथ्यं प्रजापतिः ।।
ध्यात्वा तु शतरूपायां पुत्रौ स उदपादयत् ।। २९.६२ ।।

प्रियव्रतो त्तानपादौ प्रथमौ तौ मोहीक्षितौ ।।
ततः प्रभृति राजान उत्पन्ना दंडधारिणः ।। २९.६३ ।।

प्रजानां रंजनाच्चैव राजानस्तेऽभवन्नृपाः ।।
प्रच्छन्न पापास्तैर्ये च न शक्यास्तु नराधिपैः ।। २९.६४ ।।

धर्मराजः स्मृतस्तेषां शास्ता वैवस्वतो यमः ।।
वर्णानां प्रविभागाश्च त्रेतायां संप्रकीर्त्तिताः ।। २९.६५ ।।

संभृताच्च तदा मंत्रा ऋषिभिर्ब्रह्मणः सुतैः ।।
यज्ञाः प्रवर्त्तिताश्चैव तदा ह्येव तु दैवतैः ।। २९.६६ ।।

यामशुक्रार्जितैश्चैव सर्वसाधन संभृतैः ।।
सार्द्धं विश्वभुजा चैव देवेंद्रेण महौजसा ।। २९.६७ ।।

स्वायंभुवेंऽतरे देवैर्यज्ञस्तैः प्राक्प्रवर्त्तितः ।।
सत्यं जपस्तपो दानं त्रेताया धर्म उच्यते ।। २९.६८ ।।

तदा धर्म्मसहस्रांतेऽहिंसाधर्मः प्रवर्त्तते ।।
जायंते च तदा शूरा आयुष्मंतो महाबलाः ।। २९.६९ ।।

व्यस्तदंडा महाभागा धर्मिष्ठा ब्रह्मवादिनः ।।
पद्मपत्रायताक्षाश्च पृथूरस्काः सुसंहताः ।। २९.७० ।।

सिंहातंका महासत्त्वा मत्तमातंगगमिनः ।।
महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः ।। २९.७१ ।।

सर्वलक्षणसम्पूर्मा न्यग्रोधपरिमंडलाः ।।
न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते ।। २९.७२ ।।

व्यामे नैवोछ्रयो यस्य सम ऊर्द्धं तु देहिनः ।।
समोछ्रयपरीणाहो ज्ञेयो न्यग्रोधमंडलः ।। २९.७३ ।।

चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा ।।
सप्तैतानि च रत्नानि सर्वेषां चक्रवर्तिनाम ।। २९.७४ ।।

चक्रं रथो मणिः खड्गश्चर्मरत्नं च पंचमम् ।।
केतुर्निधिश्च सप्तैव प्राणहीनानि चक्षते ।। २९.७५ ।।

भार्या पुरोहितश्चैव सेनानी रथकृच्च यः ।।
मंत्र्यश्वः कलभश्चैव प्राणिनः सप्त कीर्त्तिताः ।। २९.७६ ।।

रत्नान्येतानि दिव्यानि संसिद्धानि महात्मनाम् ।।
चतुर्दश विधेयानि सर्वेषां चक्रवर्त्तिनाम् ।। २९.७७ ।।

विष्णोरंशेन जायंते पृथिव्यां चक्रवर्त्तिनः ।।
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ।। २९.७८ ।।

भूतभव्यानि यानीह वर्त्तमानानि यानि च ।।
त्रेतायुगे च तान्यत्र जायंते चक्रवर्त्तिनः ।। २९.७९ ।।

भद्राणीमानि तेषां वै भवंतीह महीक्षिताम् ।।
अत्यद्भुतानि चत्वारि बलं धर्मः सुखं धनम् ।। २९.८० ।।

अन्योन्यस्याविरोधेन प्राप्यंते तु नृपैः समम् ।।
अर्थो धर्मश्च कामश्च यशो विजय एव च ।। २९.८१ ।।

ऐश्वर्येणाणिमाद्येन प्रभुशक्त्या तथैव च ।।
श्रुतेन तपसा चैव मुनीनभिभवंति वै ।। २९.८२ ।।

बलेन तपसा चैव देवदानवमानवान् ।।
लक्षणैश्चैव जायंते शरीरस्थैरमानुषैः ।। २९.८३ ।।

केशाःस्निग्धा ललाटोच्चा जिह्वा चास्य प्रमार्जिनी ।।
ताम्रप्रभोष्टनेत्राश्च श्रीवत्साश्चैद्ध्वरोमशाः ।। २९.८४ ।।

आजानुबाहवस्छैव तदाम्रहस्ताः कटौ कृशाः ।।
न्यग्रोधपरिणाहाश्च सिंहस्कंधास्तु मेहनाः ।। २९.८५ ।।

गजेद्रगतयश्चैव महाहनव एव च ।।
पादयोश्चक्रमत्स्योंतु शंखपद्मौ तुहस्तयोः ।। २९.८६ ।।

पंचाशीतिसहस्राणि ते राजंत्यजरा नृपाः ।।
असंगगतयस्तेषां चतस्रश्चक्रवर्त्तिनाम् ।। २९.८७ ।।

अंतरिक्षे समुद्रि च पाताले पर्वतेषु च ।।
इज्या दानं तपः सत्यं त्रेतायां धर्म उच्यते ।। २९.८८ ।।

तदा प्रवर्त्तते धर्मो वर्णाश्रमविभागशः ।।
मर्यादास्थापनार्थं च दंडनीतिः प्रवर्त्तते ।। २९.८९ ।।

त्दृष्टपुष्टाः प्रजाः सर्वा अरोगाः पूर्णमानसाः ।।
एको वेदश्चतुष्पादस्त्रेतायुगविधौस्मृतः ।। २९.९० ।।

त्रीणि वर्षसहस्राणि तदा जीवन्ति मानवाः ।।
पुत्रपौत्रसमाकीर्णा म्रियंते च क्रमेण तु ।। २९.९१ ।।

एष त्रेतायुगे धर्मस्त्रेतासंध्यां निबोधत ।।
त्रेतायुगस्वभावानां संध्या पादेन वर्त्तते ।।
संध्यापादः स्वभावस्तु सोंऽशपदेन तिष्ठति ।। २९.९२ ।।

इति श्री ब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
संख्यावर्त्तो नामैकोनत्रिशत्तमोऽध्यायः ।। २९ ।।