ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →

ऋषय ऊचुः ।।
यच्च किंपुरुषं वर्षं हरिवर्षं तथैव च ।।
आचक्ष्व नो यथातत्त्वं कीर्त्तितं भारतं त्वया ।। १७.१ ।।

सूत उवाच ।।
शुश्रूषा यत्र वो विप्रास्तच्छृणुध्वमतंद्रिताः ।।
प्लक्षखंडः किंपुरुषे सुमहान्नंदनोपमः ।। १७.२ ।।

दशवर्षसहस्राणि स्थितिः किंपुरुषे स्मृता ।।
सुवर्णवर्णाः पुरुषाः स्त्रियश्चाप्सरसो पमाः ।। १७.३ ।।

अनामया अशोकाश्च नित्यं मुदितमानसाः ।।
जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः ।। १७.४ ।।

वर्षे किंपुरुषे पुण्ये वृक्षो मधुवहः शुभः ।।
तस्य किंपुरुषाः सर्वेऽपिबन् हि रसमुत्तमम् ।। १७.५ ।।

ततः परं किंपुरुषो हरिवर्षः प्रचक्षते ।।
महारजतसंकाशा जायन्ते तत्र मानवाः ।। १७.६ ।।

देवलोकच्युताः सर्वे देवानूकाश्च सर्वेशः ।।
हरिवर्षे नराः सर्वे पिबंतीक्षुरसं शुफम् ।। १७.७ ।।

एकादश सहस्राणि वर्षाणां तु निरामयाः ।।
हरिवर्षे तु जीवंति सर्वे मुदितमानसाः ।। १७.८ ।।

न जरा बाधते तत्र न म्रियंते च तेऽचिरात् ।।
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् ।। १७.९ ।।

न तत्र सूर्यस्तपति न तु जीर्यंति मानवाः ।।
चंद्रसूर्यै सनक्षत्रौ न प्रकाशाविला वृते ।। १७.१० ।।

पद्मप्रभाः पद्बवर्णास्तथा पद्बनिभेक्षणाः ।।
पद्मपत्रसुगंधाश्च जायन्ते तत्र मानवाः ।। १७.११ ।।

जंबूफलरसाहारा अनिष्यंदाः सुगन्धिनः ।।
मनस्विनो भुक्तभोगाः सत्कर्मफलभोगिनः ।। १७.१२ ।।

देवलोकच्यताश्चैव महारजतवाससः ।।
त्रयोदशसहस्राणि वर्षाणां ते नरोत्तमाः ।। १७.१३ ।।

आयुः प्रमाणं जीवंति ये तु वर्ष इलावृते ।।
मेरोः प्रतिदिशं यच्च नवसाहस्रविस्तृतम् ।। १७.१४ ।।

योजनानां सहस्राणि षट्त्रिंशत्तस्य विस्तरः ।।
यतुरस्रं समंताच्च शरावाकारसंस्थितम् ।। १७.१५ ।।

मेरोः पश्चिमभागे तु नवसाहस्रसम्मिते ।।
चतुस्त्रिंशत्सहस्राणि गंधमादनपर्वतः ।। १७.१६ ।।

उदग्दक्षिणतश्चैव आनीलनिषधायतः ।।
चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात् ।। १७.१७ ।।

सहस्रमवगाढश्च तावदेव च विस्तृतः ।।
पूर्वेण माल्यवाञ्छैलस्तत्प्रमाणः प्रकीर्त्तितः ।। १७.१८ ।।

दक्षिणेन तु नीलश्च निषधश्चोत्तरेण तु ।।
तेषां मध्ये महामेरुः स्वैः प्रमाणैः प्रतिष्ठितः ।। १७.१९ ।।

सर्वेषामेव शैलानामवगाढो यथा भवेत् ।।
विस्तरस्तत्प्रमाणः स्यादायामो नियुतं स्मृतः ।। १७.२० ।।

वृत्तभावास्समुद्रस्य महीमंडलभावतः ।।
आयामाः परिहीयन्ते चतुरस्रसमाः स्मृताः ।। १७.२१ ।।

इलावृतं चतुष्कोणं भिंदंती मध्यभागतः ।।
प्रभिन्नांजनसंकाशा जम्बूरसवती नदी ।। १७.२२ ।।

मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण च ।।
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ।। १७.२३ ।।

नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ।।
तस्य नाम्ना समा ख्यातो जम्बूद्वीपो वनस्पतेः ।। १७.२४ ।।

योजनानां सहस्रं च शतं चान्यन्महात्मनः ।।
उत्सेधो वृक्षराजस्य दिवं स्पृशति सर्वतः ।। १७.२५ ।।

अरत्नीनां शतान्यष्टावेकषष्ट्यधिकानि तु ।।
फलप्रमाणं संख्यातमृषिभिस्तत्त्वदर्शिभिः ।। १७.२६ ।।

पतमानानि तान्युर्व्यां कुर्वंति विपुलं स्वनम् ।।
तस्या जम्ब्वाः फलरसो नदी भूत्वा प्रसर्प्पति ।। १७.२७ ।।

मेरुं प्रदक्षिणं कृत्वा जम्बूमूलं विशत्यधः ।।
तं पिबंति सदा त्दृष्टा जंबूरसमिलावृते ।। १७.२८ ।।

जंबूफलरसे पीते न जरा बाधते तु तान् ।।
न क्षुधा न श्रमश्चापि न मृत्युर्न च तंद्रि तम् ।। १७.२९ ।।

तत्र जांबूनदं नाम कनकं देवभूषमम् ।।
इंद्रगोपकसंकाशं जायते भास्वरं तु तत् ।। १७.३० ।।

सर्वेषां वर्षवृक्षाणां शुभः फलरसः स्तुतः ।।
स्कन्नं भवति तच्छुभ्रं कनकं देवभूषणम् ।। १७.३१ ।।

तेषां मूत्रं पुरीषं च दिक्षु सर्वासु सर्वशः ।।
ईश्वरानुग्रहाद्भूमिर्मृताश्च ग्रसते तु तान् ।। १७.३२ ।।

रक्षःपिशाचयक्षाश्च सर्वे हैमवतः स्मृताः ।।
हेमकूटे तु गंधर्वा विज्ञेयाः साप्सरोगणाः ।। १७.३३ ।।

सर्वे नागस्तु निषधे शेषवासुकितक्षकाः ।।
महामेरौ त्रयस्त्रिंशत्क्रीडंते यज्ञियाः सुराः ।। १७.३४ ।।

नीले तु वैदूर्यमये सिद्धा ब्रह्मर्षयोऽमलाः ।।
दैत्यानां दानवानां च श्र्वेतः पर्वत उच्यते ।। १७.३५ ।।

श्रृंगवान्पर्वतश्रेष्ठः पितॄणां प्रतिसंचरः ।।
नवस्वेतेषु वर्षेषु यथाभागं स्थितेषु वै ।। १७.३६ ।।

भूतान्युपनिविष्टानि गतिमंति ध्रुवाणि च ।।
तेषां विवृद्धिर्बहुधा दृश्यते दिव्यमानुषी ।।
न संख्या परिसंख्यातुं श्रद्धेया तु बुभूषताम् ।। १७.३७ ।।

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
किंपुरुषादिवर्षवर्णनं नाम सप्तदशोऽध्यायः ।। १७ ।।