ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →

सुत उवाच ।।
अथान्तरेषु सर्वेषु अतीतानागतेष्विह ।।
तुल्याभिमानिनः सर्वे जायंते नामरूपतः ।। १४.१ ।।

देवाश्चाष्टविधा ये च तस्मिन्मम्वन्तरेऽधिपाः ।।
ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः ।। १४.२ ।।

महर्षिसर्गः संक्रांतो वंशं स्वायंभुवस्य तु ।।
विस्तरेणानुपूर्व्या च कीर्त्य मानं निबोधत ।। १४.३ ।।

मनोः स्वायंभूवस्यासन् दश पौत्रास्तु तत्समाः ।।
यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।। १४.४ ।।

ससमुद्रा करवती प्रतिवर्षं निवेशिता ।।
स्वायंभुवेंऽतरे पूर्वमाद्ये त्रेतायुगे तथा ।। १४.५ ।।

प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायंभुवस्य तु ।।
प्रजा सत्त्वतपोयुक्तैस्तैरियं विनिवेशिता ।। १४.६ ।।

प्रियव्रतात्प्रजोपेतान् वीरान्काम्यान्व्यजायत ।।
कन्या सा तु महाभाग कर्दमस्य प्रजा पतेः ।। १४.७ ।।

कन्ये द्वे दश पुत्राश्च सम्राट् कुक्षिश्च ते शुभे ।।
तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश ।। १४.८ ।।

आग्नीध्रश्चाग्निबा हुश्च मेधा मेधातिथिर्वसुः ।।
ज्योतिष्मान् द्युतिमान्हव्यः सवनः सभ्र एव च ।। १४.९ ।।

प्रियव्रतोऽभ्यषिंचत्तान्सप्तसप्तसु पार्थिवान् ।।
द्वीपेषु तेषु धर्मेण द्वीपांताश्च निबोधत ।। १४.१० ।।

जंबूद्वीपेश्वरं चक्रे आग्नीध्रं सुमहाबलम् ।।
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ।। १४.११ ।।

शाल्मले तु वपुष्मंतं राजानं सोऽभिषिक्तवान् ।।
ज्योतिष्मंतं कुशद्वीपे राजानं कृतवान्प्रभुः ।। १४.१२ ।।

द्युतिमंतं च राजानं क्रौंचद्वीपेऽभ्यषेचयत् ।।
शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः ।। १४.१३ ।।

पुष्कराधिपतिं चैव सवनं कृतवान्प्रभुः ।।
पुष्करे सवनस्याथ महावीतः सुतोऽभवत् ।। १४.१४ ।।

धातकिश्चापि द्वावेतौ पुत्रौ पुत्रवता वरौ ।।
महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः ।। १४.१५ ।।

नाम्ना च धातकेश्चापि धातकीखंड उच्यते ।।
हव्यो व्यजनयत्पुत्राञ् शाकद्वीपेश्वराञ् प्रभुः ।। १४.१६ ।।

जलदं च कुमारं च सुकुमारं मणीवकम् ।।
कुसुमोत्तरमोदाकौ सप्तमं च महाद्रुगम् ।। १४.१७ ।।

जलदं जलदस्याथ प्रथमं वर्षमुच्यते ।।
कुमारस्य तु कौमारं द्वितीयं परिकीर्तितम् ।। १४.१८ ।।

सुकुमारं तृतीयं तु सुकुमारस्य तत्स्सतम् ।।
मणीवस्य चतुर्थं तु मणीवकमिहोच्यते ।। १४.१९ ।।

कुसुमोत्तरवर्षं यत्पञ्चमं कुसुमोत्तरम् ।।
मोदकस्यापि मोदाकं षष्ठं वर्षं प्रकीर्त्तितम् ।। १४.२० ।।

महाद्रुमस्य नाम्ना च सप्तमं तन्महाद्रुमम् ।।
तेषां तु नामभिस्तानि सप्त वर्षाणि तत्र वै ।। १४.२१ ।।

क्रौंचद्वीपेश्वरस्यापि पुत्रो द्युतिमतस्तु वै ।।
कुशलो मनोनुगस्छोष्णः पावनश्चांधकारकः ।। १४.२२ ।।

मुनिश्च दुंदुभिश्चैव सुता द्युतिमतस्तु वै ।।
तेषां स्वनामभिर्देशाः क्रौंचद्वीपाश्रयाः शुभाः ।। १४.२३ ।।

कुशलस्य तु देशोऽभूत कौशलो नाम विश्रुतः ।।
देशो मनोनुगस्यापि मानोनुगे इते स्मृतः ।। १४.२४ ।।

उष्णस्योष्णः स्मृतो देशः पावनस्यापि पावनः ।।
अंधकारस्य देशस्तु आंधकारः प्रकीर्त्तितः ।। १४.२५ ।।

मुनेश्च मौनिदेशो वै दुंदुभेर्दुंदुभिः स्मृतः ।।
एते जनपदाः सप्त क्रौंचद्वीपे तु भास्वराः ।। १४.२६ ।।

ज्योतिष्मतः कुशद्वीपे सप्तैवासन्महौजसः ।।
उद्भिज्जो वेणुमांश्चैव वैरथो लवणो धृतिः ।। १४.२७ ।।

षष्ठः प्रभाकरश्चा पि सप्तमः कपिलः स्मृतः ।।
उद्भिज्जं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ।। १४.२८ ।।

तृतीयं वै रथाकारं चतुर्थं लवणं स्मृतम् ।।
पंचमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम् ।। १४.२९ ।।

सप्तमं कपिलं नाम कपिलस्य प्रकीर्त्तितम् ।।
तेषां देशाः कशद्वीपे तत्सनामान एव च ।। १४.३० ।।

आश्रमाचारयुक्ताभिः प्रजाभिः समलंकृताः ।।
शाल्मलस्येश्वराः सप्त सुतास्ते च वपुष्मतः ।। १४.३१ ।।

श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ।।
वैद्युतो मानसश्चापि सुप्रभः सप्तमस्तथा ।। १४.३२ ।।

श्वेतस्तु देशः श्वेतस्य हरितस्य सुहारितः ।।
जीमूतस्यापि जीमूतो रोहितस्यापि रोहितः ।। १४.३३ ।।

वैद्युतो वैद्युतस्यापि मानसस्य तु मानसः ।।
सुप्रभः सुप्रभस्यापि सप्तैते देशपालकाः ।। १४.३४ ।।

प्लक्ष द्वीपं प्रवक्ष्यामि जंबूद्वीपादनंतरम् ।।
सप्त मेधातिथे पुत्राः प्लक्षद्वीपेश्वरा नृपाः ।। १४.३५ ।।

ज्येष्ठः शांतभयो नाम द्वितीयः शिशिरः स्मृतः ।।
सुखोदयस्तृतीयस्तु चतुर्थो नंद उच्यते ।। १४.३६ ।।

शिवस्तु पेचमस्तेषां क्षेमकः षष्ठ उच्यते ।।
ध्रुवस्तु सप्तमो ज्ञेयः पुत्रा मेधातिथेः स्मृताः ।। १४.३७ ।।

सप्तानां नामभिस्तेषां तानि वर्षाणि सप्त वै ।।
तस्माच्छांतभयं चैव शिशिरं च सुखोदयम् ।। १४.३८ ।।

आनंदं च शिवं चैव क्षेमकं च ध्रुवं तथा ।।
तानि तेषां समानानि सप्त वर्षाणि भागशः ।। १४.३९ ।।

निवेशितानि तैस्तानि पूर्वं स्वायंभूवेंतरे ।।
मेधा तिथेस्तु पुत्रैस्तैः प्लक्षद्वीपेश्वरैर्नृबैः ।। १४.४० ।।

वर्णाश्रमाचारयुक्ताः प्लक्षद्वीपे प्रजाः कृताः ।।
प्लक्षद्वीपादिषु त्वेषु शाकद्वीपांतिकेषु वै ।। १४.४१ ।।

ज्ञेयः पंचसु धर्मो वै वर्णाश्रमविभाजकः ।।
सुखमायुश्च रूपं च बलं धर्मश्च नित्यशः ।। १४.४२ ।।

पंचस्वेतेषु द्वीपेषु सर्वसाधा रणं स्मृतम् ।।
प्रक्षद्वीपः परिष्क्रांतो जंबूद्वीपं निबोधत ।। १४.४३ ।।

आग्नीध्रं ज्येष्ठदायादं काम्यापुत्रं महाबलम् ।।
प्रियव्रतोऽभ्य षिंचत्तं जंबूद्वीपेश्वरं नृपम् ।। १४.४४ ।।

तस्य पुत्रा बभूवुर्हि प्रजापतिसमा नव ।।
ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषोऽनुजः ।। १४.४५ ।।

हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः ।।
रम्यस्तु पंचमः पुत्रो हिरण्वान् षष्ठ उच्यते ।। १४.४६ ।।

कुरुस्तु सप्तमस्तेषां भद्राश्वश्चाष्टमः स्मृतः ।।
नवमः केतुमालश्च तेषां देशान्निबोधत ।। १४.४७ ।।

नाभेस्तु दक्षिणं वर्षं हिमाख्यं तु पिता ददौ ।।
हेमकूटं तु यद्वर्षं ददौ किपुरुषाय तत् ।। १४.४८ ।।

नैषधं यत्स्मृतं वर्षं हरिवर्षाय तं ददौ ।।
मध्यमं यत्सुमेरोस्तु ददौ स तदिलावृतम् ।। १४.४९ ।।

नीलं तु यत्स्मृतं वर्षं रम्यायैतप्तिता ददौ ।।
श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्वते ।। १४.५० ।।

यदुत्तरे श्रृंगवतो वर्षं तत्कुरवे ददौ ।।
साल्यवन्तं तथा वर्षं भद्राश्वाय न्यवेदयत् ।। १४.५१ ।।

गन्धमादनवर्षं तु केतुमाले न्यवेदयत् ।।
इत्येतानि मयोक्तानि नव वर्षाणि भागशः ।। १४.५२ ।।

आग्नी ध्रस्तेषु वर्षेषु पुत्रांस्तानभ्यषेचयत् ।।
यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः ।। १४.५३ ।।

इत्येतौः सप्तभिः कृत्स्ना सप्तद्वीपा निवे शिताः ।।
प्रियव्रतस्य पुत्रैस्तैः पौतैः स्वायंभुवस्य च ।। १४.५४ ।।

एवं वर्षेषु सर्वेषु सन्निवेशाः पुनः पुनः ।।
क्रियंते प्रलये वृत्ते सप्त सप्तसु पार्थिवैः ।। १४.५५ ।।

एवं स्वभावः कल्पानां द्वीपानां च निवेशने ।।
यानि किंपुरुषाद्यानि वर्णाण्यष्टौ श्रुतानि तु ।। १४.५६ ।।

तेषां स्वभावतः सिद्धिः सुखप्रायमयत्नतः ।।
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ।। १४.५७ ।।

धर्माधर्मौ न तेष्वास्ता नोत्तमाधममध्यमाः ।।
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टासु सर्वशः ।। १४.५८ ।।

नाभेर्निसर्गं वक्ष्यामि हिमाह्वेऽस्मिन्निबोधत ।।
नाभिस्त्वज नयत्पुत्रं मेरुदेव्यां महाद्युतिम् ।। १४.५९ ।।

ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् ।।
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः ।। १४.६० ।।

सोभिषिच्यर्षभः पुत्रं महाप्रव्रज्यया स्थितः ।।
हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत् ।। १४.६१ ।।

तस्मात्तु भारतं वर्षं तस्य नाम्ना विदुर्बुधाः ।।
भरतस्यात्मजो विद्वान्सुमतिर्नाम धार्मिकः ।। १४.६२ ।।

बभूव तस्मिन् राज्ये तंभरतस्त्वभ्यषेचयत् ।।
पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश सः ।। १४.६३ ।।

तेजसस्तत्सुतश्चापि प्रजापतिरमित्रजित् ।।
तेजसस्यात्मजो विद्वानिंद्रद्युम्न इति स्मृतः ।। १४.६४ ।।

परमेष्ठी सुतश्चापि निधने तस्य चाप्यभूत् ।।
प्रतीहारः कुलं तस्य नाम्ना जज्ञे तदन्वयः ।। १४.६५ ।।

प्रतिहर्तेति विख्यातो जज्ञे तस्यापि धीमतः ।।
उन्नेता प्रतिहर्तुस्तु भूमा तस्य सुतः स्मृतः ।। १४.६६ ।।

उद्गीथस्तस्य पुत्रोऽभूतप्रस्ताविश्चापि तत्सुतः ।।
प्रस्तावेस्तु विभुः पुत्रः पृथुस्तस्य सुतोऽभवत् ।। १४.६७ ।।

पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः सुतः ।।
गयस्यापि नरः पुत्रो नरस्यापि सुतो विराट् ।। १४.६८ ।।

विराट्सुतो महावीर्यो धीमांस्तस्य सुतोऽभवत् ।।
धीमतश्च महान्पुत्रो महतश्चापि भौवनः ।। १४.६९ ।।

भौवनस्य सतस्त्वष्टा विरजास्तस्य चात्मजः ।।
रजा विरजसः पुत्रः शतजिद्रजसस्तथा ।। १४.७० ।।

तस्य पुत्रशतं त्वासीद्राजानः सर्व एव तु ।।
विश्वज्योतिष्प्रधानास्ते यैरिमा वर्द्धिताः प्रजाः ।। १४.७१ ।।

तैरिदं भारतं वर्षं सप्तद्वीपमिहांकितम् ।।
तेषां वंशप्रसूतैस्तु भुक्तेयं भारती पुरा ।। १४.७२ ।।

कृतत्रेतादियुक्तास्तु युगाख्या ह्येकसप्ततिः ।।
येऽतीतास्तैर्युगैः सार्धं राजानस्ते तदन्वयाः ।। १४.७३ ।।

स्वायंभुवेंऽतरे पूर्वं शतशोऽथ सहस्रशः ।।
एवं स्वायं भुवः सर्गो येनेदं पूरितं जगत् ।। १४.७४ ।।

ऋषिभिर्दैवतैश्चापि पिर्तृगन्धवराक्षसैः ।।
यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः ।।
तेषां सृष्टिरियं प्रोक्ता युगैः सह विवर्त्तते ।। १४.७५ ।।

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
प्रियव्रतवंशानुकीर्त्तनं नाम चतुदशोऽध्यायः ।। १४ ।।