ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः १३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः १२ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →


सुत उवाच ।।
ब्रह्मणः सृजतः पुत्रान् पूर्वं स्वायंभुवेंऽतरे ।।
गात्रेभ्यो जज्ञिरे तस्य मनुष्यासुरदेवताः ।। १३.१ ।।

पितृवन्मन्यमानास्तं जज्ञिरे पितरोऽपि च ।।
तेषां निसर्गः प्रागुक्तः समासाच्छ्रुयतां पुनः ।। १३.२ ।।

देवासुरमनुष्यांश्च सृष्ट्वा ब्रह्माभ्यमन्यत ।।
पितृवन्मन्यमाना वै जज्ञिरेऽस्योपपक्षतः ।। १३.३ ।।

मध्वादयः षडृतवः पिदॄस्तान्परिचक्षते ।।
ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः ।। १३.४ ।।

मन्वंतरेषु सर्वेषु ह्यतीतानागतेषु वै ।।
एते स्वायंभुवे पूर्वमुत्पन्नाश्चांतरे शुभे ।। १३.५ ।।

अग्निष्वात्ता स्मृता नाम्ना तथा बर्हिषदश्च वै ।।
अयज्वानस्तथा तेषामासन्ये गृहमेधिनः ।। १३.६ ।।

अग्निष्वात्ता स्मृतास्ते वै पितरो नाहिताग्नयः ।।
यज्वानस्तेषु ये त्वासन्पितरः सोमपीथिनः ।। १३.७ ।।

स्मृता बर्हिषदस्ते वै पितर स्त्वग्निहोत्रिणः ।।
ऋतवः पितरो देवाः शास्त्रेऽस्मिन्निश्चयं गताः ।। १३.८ ।।

मधुमाधवौ रसौ ज्ञेयौ शुचिशुक्रौ च शुष्मिणौ ।।
नभाश्चैव नभस्यश्च जीवावेतापुदात्दृतौ ।। १३.९ ।।

इषश्चैव तथोर्जश्च स्वधावंतावृदात्दृतौ ।।
सहश्चैव सहस्यश्च घोरावेतापुदात्दृतौ ।। १३.१० ।।

तपाश्चैव तपस्यश्च मन्युमन्तौ तु शैशिरौ ।।
कालावस्थासु षट्स्वेते मासाख्या वै व्यवस्थिताः ।। १३.११ ।।

इमे च ऋतवः प्रोक्ताश्चेतनाचेतनेषु वै ।।
ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्तेऽभिमानिनः ।। १३.१२ ।।

मासार्द्धमासस्थानेषु स्थानिनौ ऋतवो मताः ।।
स्थानानां व्यतिरेकेण ज्ञेयाः स्थानागिमानिनः ।। १३.१३ ।।

अहोरात्राणि मासाश्च ऋतवश्चायनानि च ।।
संवत्सराश्च स्थानानि कामाख्या ह्यभिमानिनाम् ।। १३.१४ ।।

एतेषु स्थानिनो ये तु कालावस्था व्यवस्थिताः ।।
तत्सतत्त्वास्तदात्मानस्तान्वक्ष्यामि निबोधत ।। १३.१५ ।।

पार्वण्यस्ति थयः संध्याः पक्षा मासार्द्धसंमिताः ।।
निमेषाश्च कलाः कष्ठा मुहुर्त्ता दिवसाः क्षयाः ।। १३.१६ ।।

द्वावर्द्धमासौ मासस्तु द्वौ मासावृ तुरुच्यते ।।
ऋतुत्रयं चाप्ययनं द्वेऽयने दक्षिणोत्तरे ।। १३.१७ ।।

संवत्सरः समेतश्च स्थानान्येतानि स्थानिनाम् ।।
ऋतवस्तु निमेः पुत्रा विज्ञेयास्ते तथैव षट् ।। १३.१८ ।।

ऋतुपुत्राः स्मृताः पंच प्रजाः स्वार्तवलक्षणाः ।।
यस्माच्चैवार्त्तवेभ्यस्तु जायन्ते स्थाणु जंगमाः ।। १३.१९ ।।

आर्तवाः पितरस्तस्मादृतवश्च पितामहाः ।।
समेतास्तु प्रसूयंते प्रजाश्चैव प्रजापतेः ।। १३.२० ।।

तस्मात्स्मृतः प्रजानां वै वत्सरः प्रपितामहः ।।
स्थानेषु स्थानिनो ह्येते स्थानात्मानः प्रकीर्त्तिताः ।। १३.२१ ।।

तदाख्यास्तत्ससत्त्वाश्च तदात्मानश्च ते स्मृताः ।।
प्रजापतिः स्मृतो यस्तु स तु संवत्सरो मतः ।। १३.२२ ।।

संवत्सरसुतो ह्यग्नि ऋत इत्युच्यते बुधैः ।।
ऋतात्तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः ।। १३.२३ ।।

मासाः षडर्तवो ज्ञेयास्तेषां पंचर्तवाः स्मृताः ।।
द्विपदां चतुष्पदां चैव पक्षिणां सर्वतामपि ।। १३.२४ ।।

स्थावराणां च पंचानां पुष्पं कालार्त्तवं स्मृतम् ।।
ऋतुत्वमार्तवत्वं च पितृत्वं च प्रकीर्त्तितम् ।। १३.२५ ।।

इत्येते पितरो ज्ञेया ऋतवश्चार्तवाश्च ये ।।
सर्वभूतानि तेभ्यो यदृतुकालाद्विजज्ञिरे ।। १३.२६ ।।

तस्मादेते हि पितर आर्तवा इति नः श्रुतम् ।।
मन्वंतरेष्विह त्वेते स्थिताः कालभिमानिनः ।। १३.२७ ।।

कार्यकारणयुक्तास्तु ए श्वर्याद्व्याप्य संस्थिताः ।।
स्थानाभिमानिनो ह्येते तिष्ठंतीह प्रसंगमात् ।। १३.२८ ।।

अग्निष्वात्ता बर्हिषदः पितरो विविधाः पुनः ।।
जज्ञे स्वधापितृभ्यस्तु द्वे कन्ये लोकविश्रुते ।। १३.२९ ।।

मेना च धारणी चैव याभ्यां धतमिदं जगत् ।।
ते उभे ब्रह्मवादिन्यौ योगिन्यौ चैव ते उभे ।। १३.३० ।।

पितरस्ते निजे कन्ये धर्मार्थं प्रददुः शुभे ।।
अग्निष्वात्तास्तु ये प्रोक्तास्तेषां मेना तु मानसी ।। १३.३१ ।।

धारणी मानसी चैव कन्या बर्हिषदां स्मृता ।।
मेरोस्तां धारणीं नाम पत्न्यर्थं वा सृजन् घुभाम् ।। १३.३२ ।।

पितरस्ते बर्हिषदः स्मृता ये सोमपायिनः ।।
अग्निष्वात्तास्तु तां मेना पत्नी हिमवते ददुः ।। १३.३३ ।।

उपहूता स्मृता ये वै तद्दौहित्रान्निबोधत ।।
मेना हिमवतः पत्नी मैनाकं सा व्यजायत ।। १३.३४ ।।

गंगां सरिद्वरां चैव पत्नी या लवणोदधेः ।।
मैनाकस्या त्मजः क्रौचः क्रौंचद्वीपो यतः स्मृतः ।। १३.३५ ।।

मेरोस्तु धारणी पत्नी दिव्यौषधिसमन्वितम् ।।
मंदरं सुषुवे पुत्रं तिस्रः कन्याश्च विश्रुताः ।। १३.३६ ।।

वेलां च नियतिं चैव तृतीयां चायतिं विदुः ।।
धातुश्चैवायतिः पत्नी विधातुर्नियतिः स्मृता ।। १३.३७ ।।

स्वायं भुवेंऽतरे पूर्वं ययोर्वै कीर्त्तिताः प्रजाः ।।
सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् ।। १३.३८ ।।

सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ।।
सवर्णायां सुता जाता दश प्राचीनबर्हिषः ।। १३.३९ ।।

सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ।।
तेषां स्वायंभुवो दक्षः पुत्रत्वं जग्मि वान्प्रभुः ।। १३.४० ।।

त्रयंबकस्याभिशापेन चाक्षुषस्यातरे मनोः ।।
एतच्छुत्वा ततः सूतमपृच्छच्छांशपायनिः ।। १३.४१ ।।

उत्पन्नः स कथं दक्षो ह्यभिशापाद्भवस्य तु ।।
चाक्षुषस्यांतरे पूर्वं तन्नः प्रब्रूहि पृच्छताम् ।। १३.४२ ।।

इत्युक्तः कथयामास सूतो दक्षाश्रयां कथाम् ।।
शांशपायनिमामंत्र्य त्र्यंबकाच्छापकारणम् ।। १३.४३ ।।

सूत उवाच ।।
दक्षस्यासन्सुता ह्यष्टौ कन्या याः कीर्त्तिता मया ।।
स्वेभ्यो गृहेभ्य आनाय्य ताः पिताभ्यर्चयद्गृहे ।। १३.४४ ।।

ततस्त्वभ्यर्चिताः सर्वा न्यवसंस्ताः पितुर्गृहे ।।
तासां ज्येष्ठा सती नाम पत्नी या त्र्यंबकस्य वै ।। १३.४५ ।।

नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् ।।
अकरोत्संनतिं दक्षे न कदाचिन्महेश्वरः ।। १३.४६ ।।

जामाता श्वशुरे तस्मिन्स्वभावात्तेजसि स्थितः ।।
ततो ज्ञात्वा सती सर्वाः न्यवसंस्ताः पितुर्गृहे ।। १३.४७ ।।

जगाम साप्यनाहूता सती तत्स्व पितुर्गृहम् ।।
ताभ्यो हीनां पिता चक्रे सत्याः पूजामसंमताम् ।। १३.४८ ।।

ततोऽब्रवीत्सा पितरं देवी क्रोधादमर्षिता ।।
यवीयसीभ्यो प्यधमां पूजां कृत्वा मम प्रभो ।। १३.४९ ।।

असत्कृत्य पितर्मां त्वं कृतवानसि गर्हितम् ।।
अहं ज्येष्ठा वरिष्ठा च त्वं मां सत्कर्तुमर्ह सि ।। १३.५० ।।

एवमुक्तोऽब्रवीदेनां दक्षः संरक्तलोचनः ।।
त्वत्तः श्रेष्ठावरिष्ठाश्च पूज्या बालाः सुता मम ।। १३.५१ ।।

तासां चैव तु भर्तार स्ते मे बहुमाताः सति ।।
ब्रह्मिष्ठाः सुतपस्काश्च महायोगाः सुधार्मिकाः ।। १३.५२ ।।

गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यंबकात्सति ।।
वसिष्ठोऽत्रिः पुलस्त्यश्च ह्यंगिरा पुलहः क्रतुः ।। १३.५३ ।।

भृगुर्मरीचिश्च तथा श्रैष्ठा जामातरो मम ।।
यस्मान्मां स्पर्द्धते शर्वः सदा चैवावमन्यते ।। १३.५४ ।।

तेन त्वां न विभूषोमि प्रतिकूलो हि मे भवः ।।
इत्युक्तवांस्तदा दक्षः संप्रमूढेन चेतसा ।। १३.५५ ।।

शापार्थमात्मनश्चैव ये चोक्ताः परमर्षयः ।।
तथोक्ता पितरं सा वै क्रुद्धा देवीदम ब्रवीत् ।। १३.५६ ।।

वाङ्मनः कर्मभिर्यस्माददुष्टां मां विगर्हसे ।।
तस्मात्त्यजाम्यहमिमं देहं तात तवात्मजम् ।। १३.५७ ।।

ततस्तेनावमानेन सती दुःखादमर्षिता ।।
अब्रवीद्वचनं देवी नमस्कृत्य स्वयंभुवे ।। १३.५८ ।।

यत्राहमुपपद्ये च पुनर्देहेन भास्वता ।।
तत्राप्यहमसंभूता संभूता धार्मिकादपि ।। १३.५९ ।।

गच्छेयं धर्मपत्नीत्वं त्र्यंबकस्यैव धीमतः ।।
तत्रैवाथ समासीना युक्तात्मानं समादधे ।। १३.६० ।।

धारयामास चाग्नेयीं धारणां मनसात्मनः ।।
तत आत्मसमुत्थोऽस्या वायुना समुदीरितः ।।
सर्वागेभ्यो विनिःसृत्य वह्निस्तां भस्मसात्करोत् ।। १३.६१ ।।

तदुपश्रुत्य निधनं सत्या देवोऽथ शूलभृत् ।।
संवादं च तयोर्बुद्धा याथातथ्येन शंकरः ।।
दक्षस्य च ऋषीणां च चुकोप भगवान्प्रभुः ।। १३.६२ ।।

रुद्र उवाच ।।
सर्वेषामेव लोकानां भूर्लोकस्त्वादिरुच्यते ।।
तं सदा धारयिष्यामि निदेशात्परमेष्ठिनः ।। १३.६३ ।।

अस्यां क्षितौ धृता लोकाः सर्वे तिष्ठंति भास्वराः ।।
तानहं धारया मीह सततं च तदाज्ञया ।। १३.६४ ।।

चातुर्वर्ण्यं हि देवानां ते चाप्येकत्र भुंजते ।।
नाहं तैः सह भोक्षये वै ततो दास्यंति ते पृथक् ।। १३.६५ ।।

यस्मादवमता दक्ष मत्कृतेऽनागसा सती ।।
प्रशस्ताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ।। १३.६६ ।।

तस्मा द्वैवस्वते प्राप्ते पुनरेते महर्षयः ।।
उत्पत्स्यंते द्वितीये वै मम यज्ञ ह्ययोनिचाः ।। १३.६७ ।।

हुते वै ब्रह्मणा शुक्रे चाक्षुषस्यातरे मनोः ।।
अभिव्याहृत्य सर्वांस्तान् दक्षं चैवाशपत्पुनः ।। १३.६८ ।।

भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ।।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचे तसाम् ।। १३.६९ ।।

दक्ष एवेह नाम्ना तु मारिषायां जनिष्यसि ।।
कन्यायां शाखिनां त्वं वै प्राप्ते वैवस्वतेंऽतरे ।। १३.७० ।।

विघ्नं तत्रा प्यहं तुभ्यमाचरिष्यामि दुर्मते ।।
धर्म्मयुक्ते च ते कार्ये एकस्मिंस्तु दुरासदे ।। १३.७१ ।।

सुत उवाच ।।
तदुपश्रुत्य दक्षस्तु रुद्रं सोऽभ्य शपत्पुनः ।।
यस्मात्त्वं मत्कृतेऽनिष्टमृषीणां कृतवानसि ।।
तस्मात्सार्द्धं सुरैर्यज्ञे न त्वां यक्ष्यंति वै द्विजाः ।। १३.७२ ।।

हुत्वाऽऽहुतिं तव क्रूर ह्यपः स्प्रक्ष्यंति कर्मसु ।।
इहैव वत्स्यसि तथा दिवं हित्वा युगक्षयात् ।। १३.७३ ।।

ततो देवैःस तैः सार्द्धं नेज्यते पृथसिज्यते ।।
ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा ।। १३.७४ ।।

स्वायंभुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह ।। १३.७५ ।।

ज्ञात्वा गृहपतिर्दक्षो यज्ञाना मीश्वरं प्रभुम् ।।
समस्तेनेह यज्ञेन सोऽयजद्दैवतैः सह ।। १३.७६ ।।

अथ देवी सती या तु प्राप्ते वैवस्वतेंऽतरे ।।
मेनायां तामुमां देवीं जनयामास शैलराट् ।। १३.७७ ।।

या तु देवी सती पूर्वमासीत्पश्चादुमाऽभवत् ।।
सदा पत्नी भवस्यैषा न तया मुच्यते भवः ।। १३.७८ ।।

मरीचं कश्यपं देवी यथादितिरनुव्रता ।।
यथा नारायणं श्रीश्च मघवतं शची यथा ।। १३.७९ ।।

विष्णुं कीर्ती रुषा मूर्यं वसिष्ठं चाप्यरुंधती ।।
नैतास्तु विजहत्येतान् भर्तॄन्देव्यः कदाचन ।। १३.८० ।।

आवर्तमानाः कल्पेषु जायंते तैः पुनः सह ।।
एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेंऽतरे ।। १३.८१ ।।

दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृपः ।।
जज्ञे तदाभिशापेन द्वितीय इति नः श्रुतम् ।। १३.८२ ।।

भृगवादयश्च ये सप्त जज्ञिरे च महर्षयः ।।
आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य च ।। १३.८३ ।।

देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ।।
इत्येषोऽनुशयो ह्यासीत्तयोर्जात्यंतरानुगः ।। १३.८४ ।।

प्रजापतेश्च दक्षस्य त्र्यबकस्य च धीमतः ।।
तस्मान्नानुशयः कार्यो वैरेष्विह कदाचन ।। १३.८५ ।।

जात्यंतरगतस्यापि भवितस्य शुभाशुभैः ।।
ख्यातिं न मुंचते जंतुस्तन्न कार्यं विपश्चिता ।। १३.८६ ।।

इत्येषा समनुक्रांता कथा पापप्रमोचनी ।।
या दक्षमधिकृत्येह त्वया पूर्वं प्रचौदिता ।। १३.८७ ।।

पितृवंशप्रसंगेन कथा ह्येषा प्रकीर्त्तिता ।।
पितॄणामानुपूर्व्येण देवान्वक्ष्याम्यतः परम् ।। १३.८८ ।।

त्रेतायुगमुखे पूर्वमासन्स्वायंभुवेंऽतरे ।।
देवायामा इति ख्याताः पूर्वं ये यज्ञसूनवः ।। १३.८९ ।।

प्रथिता ब्रह्मणः पुत्रा अजत्वादजितास्तु ते ।।
पुत्राः स्वायंभुवस्यैते शक्ता नाम तु मानसाः ।। १३.९० ।।

तेषां यतो गणा ह्येते देवानां तु त्रयः स्मृताः ।।
छंदजास्तु त्रयस्त्रिंशत्सर्गे स्वायंभुवस्य ह ।। १३.९१ ।।

यदुर्ययातिर्देवौ द्वौ वीवधस्रासतो मतिः ।।
विभासश्च क्रतुश्चैव प्रयातिर्विश्रुतो द्युतिः ।। १३.९२ ।।

वायव्यः संयमश्चैव यामा द्वादश कीर्त्तिताः ।।
असमश्चोग्रदृष्टिश्च सुनयोऽथ शुचिश्रवाः ।। १३.९३ ।।

केवलो विश्वरूपश्च सुदक्षो मधुपस्तथा ।।
तुरीय इद्रयुक्चैव युक्तो ग्रावजितस्तु वै ।। १३.९४ ।।

चनिमा विश्वदेवा च जविष्ठो मितवानपि ।।
जरो विभुर्विभावश्च स ऋचीकोऽथ दुर्दिहः ।। १३.९५ ।।

श्रुतिर्गृणानोऽथ बृहच्छुक्रा द्वादश कीर्त्तिताः ।।
अासन्स्वायंभुवस्यैते चांतरे सोमपायिनः ।। १३.९६ ।।

दीप्तिमंतो गणा ह्येते वीर्यवंतो महाबलाः ।।
तेषामिंद्रस्तद्दा ह्यासीत्प्रथमे विश्वभुक्त प्रभुः ।। १३.९७ ।।

असुरा ये तदा तेषामासन् दायादबांधवाः ।।
सुपर्णयक्षगंधर्वाः पिशाचोरगराक्षसाः ।। १३.९८ ।।

अष्टौ ताः पितृभिः सार्द्धमासन्या देवयोनयः ।।
स्वायंभुवेंतरेऽतीताः प्रजास्तासां महस्रशः ।। १३.९९ ।।

प्रभावरूपसंपन्ना आयुषा च बलेन च ।।
विस्तरादिह नोच्यंते माप्रसंगो भवेदिह ।। १३.१०० ।।

स्वायंभुवो विसर्गस्तु विज्ञेयः सांप्रतेन ह ।।
अतीतो वर्तमानेन दृष्टो वैवस्वते न सः ।। १३.१०१ ।।

प्रजाभिर्देवाताभिश्च ऋषिभिः पितृभिः सह ।।
तेषां सर्पर्षयः पूर्वमासन्ये तान्निबोधत ।। १३.१०२ ।।

भृग्वं गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ।।
अत्रिश्चैव वसिष्ठस्च सप्त स्वायंभुवेऽतरे ।। १३.१०३ ।।

आग्नीध्रश्चाग्निबाहुश्च मोधा मेधातिथि र्वसुः ।।
ज्योतिष्मान् द्युतिमान्हव्यः सवनः सत्र्र एव च ।। १३.१०४ ।।

मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः ।।
वायुवेगा महासत्त्वा राजानः प्रथमेंऽतरे ।। १३.१०५ ।।

सासुरं तत्सुगंधर्वं सयक्षोरगराक्षसम् ।।
सपिशाचमनुष्यंच ससुपर्णाप्सरोगणम् ।। १३.१०६ ।।

नशक्यमानु पूर्व्येण वक्तुं वर्षशतैरपि ।।
बहुत्वान्नामधेयानां संख्या तेषां कुतः कुले ।। १३.१०७ ।।

या वै प्रजा युगाख्यास्तु आसन्स्वायंभुवेंऽतरे ।।
कालेन महताऽतीता अयनाब्दयुगक्रमैः ।। १३.१०८ ।।

ऋषय ऊचुः ।।
क एष भगवान् कालः सर्वभूतापहारकः ।।
कस्य योनिः किमादिश्च किं सतत्त्वः किमात्मकः ।। १३.१०९ ।।

किमस्य चक्षुः का मूर्तिः के वा अवयवाः स्मृताः ।।
किं नामधेयं कोऽस्यात्मा एप्तत्त्वं ब्रूहि तत्त्वतः ।। १३.११० ।।

सूत उवाच ।।
श्रूयता कालसद्भावः श्रुत्वा चैवावधार्यताम् ।।
सूर्ययोनिर्निमेषादिः संख्याचक्षुः स उच्यते ।। १३.१११ ।।

मूर्तिरस्य त्वहो रात्रो निमेषावयवश्च सः ।।
संवत्सरः सतत्त्वश्च नाम चास्य कलात्मकः ।। १३.११२ ।।

साम्प्रतानागतातीतकालात्मा स प्रजापतिः ।।
पंचधा प्रविभक्तां तु कालावस्थां निबोधत ।। १३.११३ ।।

दिवसार्द्धमासमासैश्च ऋतुभिस्त्वयनैस्तथा ।।
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ।। १३.११४ ।।

इड्रवत्सरस्तृतीयश्च चतुर्थश्चानुवत्सरः ।।
पंचमो वत्सरस्तेषां कालःस युगसज्ञितः ।। १३.११५ ।।

तेषां तत्त्वं प्रवक्ष्यामि कीर्त्यमानं निबोधत ।।
क्रतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः ।। १३.११६ ।।

आदितेयस्त्वसौ सूर्यः कालाग्निः परिवत्सरः ।।
शुक्लकृष्णगतिश्चापि अपां सारमयः खगः ।। १३.११७ ।।

स इडावत्सरः सोमः पुराणे निश्चयं गतः ।।
यश्चायं पवते लोकांस्तनुभिः सप्तसप्तभिः ।। १३.११८ ।।

अनुवाता च लोकस्य स वायुरनुवत्सरः ।।
अहंकारादुदग्रुद्रः संभूतो ब्रह्मणास्तु यः ।। १३.११९ ।।

स रुद्रो वत्सर स्तेषां विज्ञेयो नीललोहितः ।।
सतत्त्वं तस्य वक्ष्यमि कीर्त्यमानं निबोधत ।। १३.१२० ।।

अंगप्रत्यंगसंयोगात्कालात्मा प्रतितामहः ।।
ऋक्सामयजुषां योनिः पंचानां पतिरीश्वरः ।। १३.१२१ ।।

सोऽग्निर्यमश्च कालश्च संभूतिः स प्रजापतिः ।।
प्रोक्तः संवत्सरश्चेति सूर्य चोनिर्मनीषिभिः ।। १३.१२२ ।।

यस्मात्कालविभागानां मासर्त्वयनयोरपि ।।
ग्रहनक्षत्रशीतोष्णवर्षायुः कर्मणां तथा ।। १३.१२३ ।।

योनिः स प्रविभागानां दिवसानां च भास्करः ।।
वैकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः ।। १३.१२४ ।।

एको नैकोऽथ दिवसो मासोऽथर्तुः पितामहः ।।
आदित्यः सविता भानुर्जीवनो ब्रह्मसत्कृतः ।। १३.१२५ ।।

प्रभवश्चाव्ययश्चैव भूतानां तेन भास्करः ।।
ताराभिमानी विज्ञेयो द्वितीयः परिवत्सरः ।। १३.१२६ ।।

सोमः सर्वौषधिपतिर्यस्मात्स प्रपितामहः ।।
आजीवः सर्वभूतानां योगक्षेमकृदीश्वरः ।। १३.१२७ ।।

आवेक्षमाणः सततं बिभर्ति जगदंशुभिः ।।
तिथीनां पर्वसंधीनां पूर्णिमादर्शयोरपि ।। १३.१२८ ।।

योनिर्निशाकरो यश्च अमृतात्मा प्रजापतिः ।।
तस्मात्स पितृमान्सोमः स्मृत इङ्वत्सरात्मकः ।। १३.१२९ ।।

प्राणापानसमानाद्यैर्व्यानोदानात्मकैरपि ।।
कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्तकः ।। १३.१३० ।।

पंचानां चेंद्रियमनोर्बुद्धिस्मृतिबलात्मनाम् ।।
समानकालकरणक्रियाः संपादयन्नपि ।। १३.१३१ ।।

सर्वात्मा सर्वलोकेश आवहप्रवहादिभिः ।।
वर्त्तते चोपकारैर्यस्तनुभिः सप्तसप्तभिः ।। १३.१३२ ।।

विधाता सर्वभूतानांक्षेमी नित्यं प्रभंजनः ।।
योनिरग्नेरपां भूमे रवेश्चंद्रमसश्चयः ।। १३.१३३ ।।

वायुः प्रजापतिर्भूतो लोकात्मा प्रपितामहः ।।
अहोरात्रकरस्तस्मात्स वायुरनुवत्सरः ।। १३.१३४ ।।

एते प्रजानां पतयश्चत्वार उपपक्षजाः ।।
पितरः सर्वलोकानां लोकात्मानः प्रकीर्त्तिताः ।। १३.१३५ ।।

ध्यायतो ब्रह्माणो वक्त्रादुदन्समभवद्भवः ।।
ऋषिर्विप्रा महादेवो भूतात्मा प्रपितामहः ।। १३.१३६ ।।

ईश्वरः सर्वभूतानां प्रणवो योऽथपठ्यते ।।
आत्मावेशेन भूतानामंगप्रत्यंगसंभवः ।। १३.१३७ ।।

उन्मादकोऽनुग्रहकृद्रुद्रो वत्सर उच्यते ।।
सूर्य्यश्च चंद्रमाश्चाग्निर्वायू रुद्रस्तथैव च ।। १३.१३८ ।।

युगाभिमानी कालात्मा नित्यं संक्षयकृद्विभुः ।।
रुद्रः प्रविष्टो भगवाञ्जगत्यस्मिन्स्वतेजसा ।। १३.१३९ ।।

आश्रयान्मयि संयोगात्तनुभिर्नाममिस्तथा ।।
ततस्तस्य तु वीर्येण लोकानुग्रहकारकम् ।। १३.१४० ।।

देवत्वं च पितृत्वं च कालत्वं चास्य यत्परम् ।।
तस्माद्वै सर्वथा रुद्रस्तद्विद्वद्भिरभीज्यते ।। १३.१४१ ।।

यतः पतिः स भगवान् प्रजेशानां प्रजापतिः ।।
भावनः सर्वभूतानां सर्वात्मा नीललोहितः ।। १३.१४२ ।।

औषधीः प्रतिसंधत्ते रुद्रः क्षीणाः पुनःपुनः ।।
प्रजापतिमुखैर्देवैः सम्यगिष्टफलार्थिभिः ।। १३.१४३ ।।

त्रिभिरेव कपालैश्च त्रयंबकैरौषधिक्षये ।।
इज्यते भगवान् यस्मात्तस्मात्र्र्यंबक उच्यते ।। १३.१४४ ।।

गायत्री चैव त्रिष्टुप्च जगती चैव याः स्मृताः ।।
त्र्यंबका नामतः प्रेम्णा योनयस्ता वनस्पतेः ।। १३.१४५ ।।

ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः ।।
त्रिसाधनः पुरोडाशस्त्रिकपालः स वै स्मृतः ।। १३.१४६ ।।

त्र्यंबकः स पुरोडाशस्तेनैष त्र्यंबकः स्मृतः ।।
इत्येतत्पंचवर्षं हि युगं प्रोक्तं मनीषिभिः ।। १३.१४७ ।।

यश्चैष पंचधात्मा वै प्रोक्तः संवत्सरो द्विजैः ।।
सैकः षट्को विजज्ञेऽथ मध्वादिऋतुसंज्ञकः ।। १३.१४८ ।।

ऋतुपुत्रार्त्तवाः पंच इति सर्गः समासतः ।।
इत्येष बहुमानो वै प्राणिना जीवितानि च ।।
नदीवेग इवासक्तः कालो धावति संहरन् ।। १३.१४९ ।।

एतेषां यदपत्यं वै तदशक्यं प्रमाणतः ।।
बहुत्वात्परिसंख्यातुं पुत्र पौत्रमनंतकम् ।। १३.१५० ।।

इमं वंशं प्रजेशानां महतः पुण्यकर्मणाम् ।।
कीर्त्तयन्पुण्यकीर्त्तीनां महतीं सिद्धिमाप्नुयात् ।। १३.१५१ ।।

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
कालसद्भाववर्णनं नाम त्रयोदशोंऽध्याय ।। १३ ।।