ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →

ऋषिरुवाच ।।
अस्मिन्कल्पे त्वया नोक्तः प्रादुर्भावो महात्मनः ।।
महादेवस्य रुद्रस्य साधकैर्ऋषिभिः सह ।। १ ।।
सूत उवाच ।।
उत्पत्तिरादिसर्गस्य मया प्रोक्ता समासतः ।।
विस्तरेण प्रवक्ष्यामि नामानि तनुभिः सह ।। २ ।।
पत्नीषु जनयामास महादेवः सुतान्बहून ।।
कल्पेष्वन्येष्वतीतेषु ह्यस्मिन्कल्पे तु ताञ्श्रृणु ।। ३ ।।
कल्पादावात्मनस्तुल्यं सुतमध्यायत प्रभुः ।।
प्रादुरा सीत्ततोङ्केऽस्य कुमारो नीललोहितः ।। ४ ।।
रुरोद सुस्वरं घोरं निर्दहन्निव तेजसा ।।
दृष्ट्वा रुदंतं सहसा कुमारं नीललोहितम् ।। ५ ।।
किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत ।।
सोऽब्रवीद्देहि मे नाम प्रथमं त्वं पितामह ।। ६ ।।
रुद्रस्त्वं देव नामाऽसि स इत्युक्तोऽरुदत्पुनः ।।
किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत ।। ७ ।।
नाम देहि द्वितीयं मे इत्युवाच स्वयंभुवम् ।।
भवस्त्वं देवनाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ।। ८ ।।
किं रोदिषीति तं ब्रह्मा रुदंतं प्रत्युवाच ह ।।
तृतीयं देहि मे नाम इत्युक्तः सोऽब्रवीत्पुनः ।। ९ ।।
शर्वस्त्वं देव नाम्नाऽसिङत्युक्तः सोऽरुदत्पुनः ।।
किं रोदिषीति तं ब्रह्मा रुदंतं प्रत्युवाच ह ।। १० ।।
चतुर्थ देहि मे नाम इत्युक्तः सोऽब्रवीत्पुनः ।।
ईशानो देवनाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ।। ११ ।।
किं रोदिषीति तं ब्रह्मा रुदंतं पुनरब्रवीत् ।।
पंचमं नाम देहीति प्रत्युवाच स्वयंभुवम् ।। १२ ।।
पशूनां त्वं पतिर्देव इत्युक्तः सोऽरुदत्पुनः ।।
किं रोदिषीति तं ब्रह्मा रुदंतं पुनरब्रवीत् ।। १३ ।।
षष्ठं वै देहि मे नाम इत्युक्तः प्रत्युवाच तम् ।।
भीमस्त्वं देव नाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ।। १४ ।।
किं रोदिषीति तं ब्रह्मा रुदंतं पुनरब्रवीत् ।।
सप्तमं देहि मे नाम इत्युक्तः प्रत्युवाच ह ।। १५ ।।
उग्रस्त्वं देव नाम्नाऽसि इत्युक्तः सोऽरुदत्पुनः ।।
तं रुदंतं कुमारं तु मारोदीरिति सोऽब्रवीत् ।। १६ ।।
सोऽब्रवीदष्टमं नाम देहि मे त्वं विभो पुनः ।।
त्वं महादेवनामासि इत्युक्तो विरराम ह ।। १७ ।।
लब्ध्वा नामानि चैतानि ब्रह्माणं नीललोहितः ।।
प्रोवाच नाम्नामेतेषां स्थानानि प्रदिशेति ह ।। १८ ।।
ततो विसृष्टास्तनव एषां नाम्ना स्वयंभुवा ।।
सूर्यो जलं मही वायुर्व ह्निराकाशमेव च ।। १९ ।।
दीक्षिता ब्राह्मणश्चंद्र इत्येवं तेऽष्टधा तनुः ।।
तेषु पूज्यश्च वंद्यश्च नमस्कार्यश्च यत्नतः ।। २० ।।
प्रोवाच तं पुनर्ब्रह्मा कुमारं नीललोहितम् ।।
यदुक्तं ते मया पूर्वं नाम रुद्रेति वै विभो ।। २१ ।।
तस्यादित्यतनुर्नाम्नः प्रथमा प्रथमस्य ते ।।
इत्युक्ते तस्य यत्तेजश्चक्षुस्त्वासीत्प्रकाशकम् ।। २२ ।।
विवेश तत्तदाऽदित्यं तस्माद्रुद्रो ह्यसौ स्मृतः ।।
उद्यतमस्तं यंतं च वर्जयेद्दर्शने रविम् ।। २३ ।।
शश्वच्च जायते यस्माच्छश्वत्संतिष्ठते तु यत् ।।
तस्मात्सूर्यं न वीक्षेत आयुष्कामः शुचिः सदा ।। २४ ।।
अतीतानागतं रुद्रं विप्रा ह्याप्याययंति यत् ।।
उभे संध्ये ह्युपासीना गृणंतः सामऋग्यजुः ।। २५ ।।
उद्यन्स तिष्ठते ऋक्षु मध्याह्ने च यजुःष्वथ ।।
सामस्वथापराह्णे तु रुद्रः संविशति क्रमात् ।। २६ ।।
तस्माद्भवेन्नाभ्युदितो बाह्यस्तमित एव च ।।
न रुद्रम्प्रति मेहेत सर्वावस्थं कथंचन ।। २७ ।।
एवं युक्तान् द्विजान् देवो रुद्रस्तान्न हिनस्ति वै ।।
ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं नीललोहितम् ।। २८ ।।
द्वितीयं नामधेयं ते मया प्रोक्तं भवेति यत् ।।
एतस्यापो द्वितीया ते तनुर्नाम्ना भवत्विति ।। २९ ।।
इत्युक्ते त्वथ तस्यासीच्छरीरस्थं रसात्मकम् ।।
विवेश तत्तदा यस्तु तस्मादापो भवः स्मृतः ।। ३० ।।
यस्माद्भवंति भूतानि ताभ्यस्ता भावयंति च ।।
भवनाद्भावनाच्चैव भूतानामुच्यते भवः ।। ३१ ।।
तस्मान्मूत्रं पुरीषं च नाऽप्सु कुर्वीत कर्हिचित् ।।
न निष्ठीवेन्नावगाहेन्नैव गच्छेच्च मैथुनम् ।। ३२ ।।
न चैताः परिचक्षीत वहंत्यो वा स्थिता अपि ।।
मैध्यामेध्यास्त्वपामेतास्तनवो मुनिभिः स्मृताः ।। ३३ ।।
विवर्णरसगंधाश्च वर्ज्या अल्पाश्च सर्वशः ।।
अपां योनिः समुद्रस्तु तस्मात्तं कामयंति ताः ।। ३४ ।।
मध्याश्चैवामृता ह्यापो भवंति प्राप्य सागरम् ।।
तस्मादपो न रुंधीत समुद्रं कामयंति ताः ।। ३५ ।।
न हिनस्ति भवो देवो य एवं ह्यप्सु वर्तते ।।
ततोऽब्रवीत्पुनर्ब्रह्मा कुमारं नीललोहितम् ।। ३६ ।।
शर्वेति यत्तृतीयं ते नाम प्रोक्तं मया विभो ।।
तस्य भूमिस्तृतीयस्य तनुर्नाम्ना भवत्त्वियम् ।। ३७ ।।
इत्युक्ते यत्स्थिरं तस्य शरीरे ह्यस्थिसंज्ञितम् ।।
विवेश तत्तदा भूमिं यस्मात्सा शर्व उच्यते ।। ३८ ।।
तस्मात्कृष्टेन कुर्वीत पुरीषं मूत्रमेव च ।।
न च्छायायां तथा मार्गे स्वच्छायायां न मेहयेत् ।। ३९ ।।
शिरः प्रावृत्य कुर्वीत अंतर्धाय तृणैर्महीम् ।।
एवं यो वर्तते भूमौ शर्वस्तं न हिनस्ति वै ।। ४० ।।
ततोऽब्रवीत्पुनर्ब्रह्मा कुमारं नीललोहितम् ।।
ईशानेति चतुर्थ ते नाम प्रोक्तं मयेह यत् ।। ४१ ।।
चतुर्थस्य चतुर्थी तु वायुर्नाम्ना तनुस्तव ।।
इत्युक्ते यच्छरीरस्थं पंचधा प्राणसंज्ञितम् ।। ४२ ।।
विवेश तस्य तद्वायुमीशानस्तेन मारुतः ।।
तस्मान्नैनं परिवदेत्प्रवांतं वायुमीश्वरम् ।। ४३ ।।
यज्ञैर्व्यवहरंत्येनं ये वै परिचरंति च ।।
एवं युक्तं महेशानो नैव देवो हिनस्ति तम् ।। ४४ ।।
ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं धूम्रमीश्वरम् ।।
नाम यद्वै पशुपतिरित्युक्तं पंचमं मया ।। ४५ ।।
पंचमी पंचमस्यैषा तनुर्नाम्नाग्निरस्तु ते ।।
इत्युक्ते यच्छरीरस्थं तेजस्तस्योष्णसंज्ञितम् ।। ४६ ।।
विवेश तत्तदा ह्यग्निं तस्मात्पशुपतिस्तु सः ।।
यस्मादग्निः पशुश्चासीद्यस्मात्पाति पशूंश्च सः ।। ४७ ।।
तस्मात्पशुपतेस्तस्य तनुरग्निर्निरुच्यते ।।
तस्मादमेध्यं न दहेन्न च पादौ प्रतापयेत् ।। ४८ ।।
अधस्तान्नोपदध्याच्च न चैनमतिलंघयेत् ।।
नैनं पशुपतिर्देव एवं युक्तं हिनस्ति वै ।। ४९ ।।
ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं श्वेतपिंगलम् ।।
षष्ठं नाम मया प्रोक्तं तव भीमेति यत्प्रभो ।। ५० ।।
आकाशं तस्य नाम्नस्तु तनुः षष्ठी भवत्विति ।।
इत्युक्ते सुषिरं तस्य शरीरस्थमभूच्च यत् ।। ५१ ।।
विवेश तत्तदाऽकाशं तस्माद्भीमस्य सा तनुः ।।
यदाकाशे स्मृतो देवस्तस्मान्ना संवृतः क्वचित् ।। ५२ ।।
कुर्यान्मूत्रं पुरीषं वा न भुंजीत पिबेन्न वा ।।
मैथुनं वाऽपि न चरेदुच्छिष्टानि च नोत्क्षिपेत् ।। ५३ ।।
न हिनस्ति च तं देवो यो भीमे ह्येवमाचरेत् ।।
ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं सबलं प्रभुम् ।। ५४ ।।
सप्तमं यन्मया प्रोक्तं नामोग्रेति तव प्रभो ।।
तस्य नाम्नस्तनुस्तुभ्यं द्विजो भवति दीक्षितः ।। ५५ ।।
एवमुक्ते तु यत्तस्य चैतन्यं वै शरीरगम् ।।
विवेश दीक्षितं तद्वै ब्राह्मणं सोमयाजिनम् ।। ५६ ।।
तावत्कालं स्मृतो विप्र उग्रो देवस्तु दीक्षितः ।।
तस्मान्नेमं परिवदेन्नाश्लीलं चास्य कीर्त्तयेत् ।। ५७ ।।
ते हरंत्यस्य पाप्मानं ये वै परिवदंति तम् ।।
एवं युक्तान् द्विजानुग्रो देवस्तान्न हिनस्ति वै ।। ५८ ।।
ततोब्रवीत्पुनर्ब्रह्मा तं देवं भास्करद्युतिम् ।।
अष्टमं नाम यत् प्रोक्तं महादेवेति ते मया ।। ५९ ।।
तस्य नाम्नोऽष्टमस्यास्तु तनुस्तुभ्यं तु चन्द्रमाः ।।
इत्युक्ते यन्मनस्तस्य संकल्पकमभूत्प्रभोः ।। ६० ।।
विवेश तच्चंद्रमसं महादेवस्ततः शशी ।।
तस्माद्विभाव्यते ह्येष महादेवस्तु चन्द्रमाः ।। ६१ ।।
अमावास्यां न वै छिंद्याद्वृक्षगुल्मौषधीर्द्विजः ।।
महादेवः स्मृतः सोमस्तस्यात्मा ह्यौषधीगणः ।। ६२ ।।
एवं यो वर्त्तते चैह सदा पर्वणि पर्वणि ।।
न हंति तं महादेवो य एवं वेद तं प्रभुम् ।। ६३ ।।
गोपायति दिवादित्यः प्रजा नक्तं तु चंद्रमाः ।।
एकरात्रौ समेयातां सूर्या चन्द्रमसावुभौ ।। ६४ ।।
अमावास्यानिशायां तु तस्यां युक्तः सदा भवेत् ।।
रुद्राविष्टं सर्वमिदं तनुभिर्न्नामभिश्च ह ।। ६५ ।।
एकाकी यश्चरत्येष सूर्योऽसौ रुद्र उच्यते ।।
सूर्यस्य यत्प्रकाशेन वीक्षंते चक्षुषा प्रजाः ।। ६६ ।।
मुक्तात्मा संस्थितो रुद्रः पिबत्यंभो गभस्तिभिः ।।
अद्यते पीयते चैव ह्यन्नपानादिकाम्यया ।। ६७ ।।
तनुरंबूद्भवा सा वै देहेष्वेवोपचीयते ।।
यया धत्ते प्रजाः सर्वाः स्थिरीभूतेन तेजसा ।। ६८ ।।
पार्थिवी सा तनुस्तस्य साध्वी धारयते प्रजाः ।।
या च स्थिता शरीरेषु भूतानां प्राणवृत्तिभिः ।। ६९ ।।
वातात्मिका तु चैशानी सा प्राणः प्राणिनामिह ।।
पीताशितानि पचति भूतानां जठरेष्विह ।। ७० ।।
तनुः पाशुपती तस्य पाचकः सोऽग्निरुच्यते ।।
यानीह शुषिराणि स्युर्देहेष्वंतर्गतानि वै ।। ७१ ।।
वायोः संचरणार्थानि भीमा सा प्रोच्यते तनुः ।।
वैतान्यादीक्षितानां तु या स्थितिर्ब्रह्मवादिनाम् ।। ७२ ।।
तनुरुग्रात्मिका सा तु तेनोग्रो दीक्षितः स्मृतः ।।
यत्तु संकल्पकं तस्य प्रजास्विह समास्थितम् ।। ७३ ।।
सा तनुर्मानसी तस्य चंद्रमाः प्राणिषु स्थितः ।।
नवोनवो यो भवति जायमानः पुनःपुनः ।। ७४ ।।
पीयतेऽसौ यथाकालं विबुधैः पितृभिः सह ।।
महादेवोऽमृतात्मा स चन्द्रमा अम्मयः स्मृतः ।। ७५ ।।
तस्य या प्रथमा नाम्ना तनू रौद्री प्रकीर्त्तिता ।।
पत्नी सुवर्च्चला तस्याः पुत्रश्चास्य शनैश्चरः ।। ७६ ।।
भवस्य या द्वितीया तु आपो नाम्ना तनुः स्मृता ।।
तस्या धात्री स्मृता पत्नी पुत्रश्च उशना स्मृतः ।। ७७ ।।
शर्वस्य या तृतीयस्य नाम्नो भूमिस्तनुः स्मृता ।।
तस्याः पत्नी विकेशी तु पुत्रोऽस्यांगारकः स्मृतः ।। ७८ ।।
ईशानस्य चतुर्थस्य नाम्ना वातस्तनुस्तु या ।।
तस्याः पत्नी शिवा नाम पुत्रश्चास्या मनोजवः ।। ७९ ।।
अविज्ञातगतिश्चैव द्वौ पुत्रौ चाऽनिलस्य तु ।।
नाम्ना पशुपतेर्या तु तनुरग्निर्द्विजैः स्मृता ।। ८० ।।
तस्याः पत्नी स्मृता स्वाहा स्कंदस्तस्याः सुतः स्मृतः ।।
नाम्ना षष्ठस्य या भीमा तनुराकाशमुच्यते ।। ८१ ।।
दिशः पत्न्यः स्मृतास्तस्य स्वर्गश्चापि सुतः स्मृतः ।।
अग्रा तनुः सप्तमी या दीक्षितो ब्राह्मणः स्मृतः ।। ८२ ।।
दीक्षा पत्नी स्मृता तस्याः संतानः पुत्र उच्यते ।।
नाम्नाष्टमस्य महस्तनुर्या चंद्रमाः स्मृतः ।। ८३ ।।
तस्य वै रोहिणी पत्नी पुत्रस्तस्य बुधः स्मृतः ।।
इत्येतास्तनवस्तस्य नामभिः सह कीर्तिताः ।। ८४ ।।
तासु वंद्यो नमस्यश्च प्रतिनामतनूषु वै ।।
सूर्येप्सूर्व्यां तथा वायावग्नौ व्योम्न्यथ दीक्षिते ।। ८५ ।।
भक्तैस्तथा चंद्रमसि भक्त्या वंद्यस्तु नामभिः ।।
एवं यो वेत्ति तं देवं तनुभिर्नामभिश्च ह ।। ८६ ।।
प्रजावानेति सायुज्यमीश्वरस्य भवस्य सः ।।
इत्येतद्वो मया प्रोक्तं गुह्यं भीमस्य यद्यशः ।। ८७ ।।
शन्नोऽस्तु द्विपदे विप्राः शन्नोऽस्तु च चतुष्पदे ।।
एतत्प्रोक्तमिदानीं च तनूनां नामभि सह ।।
महादेवस्य देवस्य भृगोस्तु श्रृणुत प्रजाः ।। ८८ ।।
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे महादेवविभूतिवर्णनं ना दशामोऽध्योयः ।। १० ।।