ब्रह्मसन्धानम्
| ब्रह्मसन्धानम् [[लेखकः :|]] |
- * * * * * * * * * * * * * * भेत् ।
हृत्पद्मे नाभिपद्मे च मुखपद्मे तथैव च ।। ५ ।।
वसते परमात्मा वै यदि शक्नोषि वेदितुम् ।
नवद्वाराणि सङ्घट्ट नवनाडीर्निरोधयेत् ।। ६ ।।
संहृत्य नववायूंश्च हृत्पद्मे तान् प्रवेशयेत् ।
तस्य पद्मस्य वै नालं पिङ्गलानाडिरुच्यते ।। ७ ।।
तया प्रोक्तास्त्रयः पश्चात् सूत्रे मणिगणा इव ।
प्रधानानाडयस्त्रिस्रस्तालब्ध्वा वेदयेत् पुरम् ।। ८ ।।
तासां मुख्या तु वै ह्येका तां ज्ञात्वा ज्ञायसे परम् ।
तस्या मध्ये स्थितं ज्ञेयं सर्वकारणमव्ययम् ।। ९ ।।
यं विदित्वा महासेन उक्तान्त्रिं कर्तु
मर्हसि ।
दशमद्वारमाश्रित्य दशमानाडिका *? ह ।। १० ।।
दशमं पवनं लब्ध्वा विषुवत् ग्रहणं भवेत् ।
आकाशं ग्राहयेत् तस्य ग्रन्थि भेदैः शनैः शनैः ।। ११ ।।
प्. २) कृत्वा वै ब्रह्मसन्धानं सम्यग् ज्ञात्वा परां गतिम् ।
परे स्थाने लयं कृत्वा निष्कम्पः सुसमाहितः ।। १२ ।।
प्रणवे संहरेदात्मा ग्राह्यं निश्शेषमारुतम् ।
प्रणवं तु समुच्चार्य ताल्वोष्ठपुटशोभितम् ।। १३ ।।
कल्पायुरपि तत्रैवमाक्रमत्यनु संशयः ।
करणान्यप्रशेषाणि ग्रन्थि द्वाराणि सर्वशः ।। १४ ।।
नाडयः पवनात् सर्वा विदित्वा सर्वमुच्यते ।
यावच्च ज्ञायते वत्स तावद् ब्रह्मलयी भवेत् ।। १५ ।।
तं विदित्वा महासेन उत्क्रान्ति कर्तु मर्हसि ।। १६ ।।
कस्मिन् स्थाने स्थितो ब्रह्मा केन द्वारेण सिद्ध्यति ।
एतत् सर्वं समाचक्ष्व यदि तुष्टोसि मे प्रभो ।। १७ ।।
प्. २ब्) ब्रह्मा ब्रह्मे लये कुर्याद् भूताद् भूतेषु वलयम् ।
अन्यथा नैव सिद्ध्यन्ति कल्पकोटि शतैरपि ।। १८ ।।
भूतांस्त्यक्त्वा तु वै देव केन द्वारेण सिद्ध्यति ।
एतन् मे संशयं सर्वं वक्तुमर्हस्य शेषतः ।। १९ ।।
गुह्याति गुह्यं गुह्यं च अतिगुह्यं षडानन ।
यत्त्वया वेदितं प्रश्नं तत् सर्वं कथयामिते ।। २० ।।
व्योम मध्ये स्थिता सूर्यः सूर्यमध्ये स्थितः सशी ।
शशि मध्ये स्थितं तेजस्तेजोमध्ये स्थितं परम् ।। २१ ।।
ऋजु स्निग्धं च विमलं विद्युल्लेखे वदुस्सहम् ।
- *? कोटि? प्रतीकाशं दुष्प्रेक्षं लयवर्जितम् ।। २२ ।।
हृत्प * * * * * * ? सूर्यं शशि हृतासनम् ।
तेषां मध्ये परं तेजो ये नेदं प्रतितिष्ठितम् ।। २३ ।।
प्. ३अ) महत्तेजांसि यच्चित्तं प्रत्यक्षं यस्य षण्मुख ।
ब्रह्मद्वारस्य वै पृष्ठे धूम्रोयं सर्वतः स्थितः ।। २४ ।।
हृदिस्थं गगनस्थं च उभावेकत्र चिन्तयेत् ।
अन्यथा नैव सिद्ध्यन्ति युक्तिहीनाः शिखिध्वज ।। २५ ।।
यन्मयोक्तं परंब्रह्म हृद्याकाशे व्यवस्थितम् ।
सा शक्तिः स शिवं ज्ञानं ज्ञेयं चाक्षरमव्ययम् ।। २६ ।।
एतत् ते ब्रह्मसन्धानं ब्रह्मद्वारेण यो भवेत् ।
स मुक्तः सर्वदुःखेभ्यः सद्यो ब्रह्मणि कल्पयन् ।। २७ ।।
उत्क्रान्ति काले तस्येदं विदितं ब्रह्मणो लयम् ।
स वै लीनो परे वत्स इत्याज्ञा पारमेश्वरी ।। २८ ।।
ब्रह्मनाडिं ब्रह्मवायुं ब्रह्म * * * *? लभेत् ।
ब्रह्मणं तु समन्तव्यं ब्रह्माक्षर ल * * *? ।। २९ ।।
प्. ३ब्) प्रणवं हृत्स्थितं पद्मं प्रणवं व्योम्नि संस्ति *? म् ।
कालाग्नि रुद्रपर्यन्तं यावद्ब्रह्माण्डगोचरम् ।। ३० ।।
सर्वं दृष्टं परेणेदं प्रणवेण शिखिध्वज ।
वाङ्मयं सकलं यश्च त्रैलोक्यं स चराचरम् ।। ३१ ।।
ब्रह्मादि स्तम्भ पर्यन्तं सर्वं प्रणवसम्भवम् ।
तस्मिन् नेव लयं कुर्यात् ते चैव ब्रह्मवादिनः ।। ३२ ।।
स एव परमं स्थानं स एव परमाक्षरम् ।
त्र्यक्षरं च त्रिधा भिन्नं त्रिस्थानं त्रिगुणात्मकम् ।। ३३ ।।
त्रिदेवाग्नि त्रयं चैव त्रिदेवं परमं स्मृतम् ।
पञ्चमूर्ति धरं देवं शिवं परमकारणम् ।। ३४ ।।
- * * द्यन्तरे वत्स यदि सक्नोषि वेदितुम् ।
देवदानव * ? द्धानां गन्धर्वोरगरक्षसाम् ।। ३५ ।।
सर्वेषां प्रणवं योनि लयं तत्रैव ष * *? ।
प्. ४अ) ब्रह्माविष्णुश्च रुद्रश्च ईश्वरः शिव एव च ।। ३६ ।।
प्रणवेण तु वै सिद्धाः सम्भूताः प्रणवेन तु ।
अक्षरं चक्षरं चैव स नामं नामवर्जितम् ।। ३७ ।।
स रूपं रूपरहितं प्रणवं परिपठ्यते ।
उच्चार्यं तु ह्यनुच्चार्यं स्वरमस्वरमेव च ।। ३८ ।।
घोषं चैव ह्यघोषं च प्रणवं परशक्ति धृत् ।
स मन्त्रं च ह्यमन्त्रं च ग्राह्यमग्राह्यमेव च ।। ३९ ।।
ग्राह्यग्राहक भेदेन प्रणवं सर्वतः स्थितम् ।
प्रणवं यो न जानाति विश्वस्या यतनं परम् ।। ४० ।।
तस्य मोक्षः कुतो वत्स कल्पकोटि शतैरपि ।।
अद्यापि सं *?
????????????????????????????
व हृदये वर्तते महान् ।
प्. ४ब्) कस्मिन् स्थाने स्थितो ब्रह्मा तत् समाचक्ष्व मे प्रभो ।।
श्री ईश्वर उवाच
सर्वत्रावस्थितो ब्रह्मा प्राणिनां देहधारकः ।
विशेषतः पुनर्वत्स त्रिषु स्थानेषु संस्थितः ।। २ ।।
हृत्पद्मे नाभिपद्मे तु मुखपद्मे तथैव च ।
स प्रत्यक्षं दृश्यते वै विकारावस्थितः प्रभुः ।। ३ ।।
हसते रुदते चैव नृत्यते गायते तथा ।
भुञ्जते जिघ्रते चैव शृणु वक्ष्यामि हेतुतः ।। ४ ।।
उन्मेषे च निमेषे च विषादे चैव हर्षिते ।
सुखदुःखान्यसौ वेत्ति शीतोष्णस्पर्शनानि च ।। ५ ।।
क्षुट्तृष्णा मैथुनं निद्रा प्रबोधं जाग्रता स्थितम् ।
एते प्रत्यक्षतो यस्य दृश्यन्ते वै षडानन ।। ६ ।।
नान्यदीपं स्वरूपेण परमात्मा च लभ्यते ।। ७ ।।
प्. ५) विस्मयो मे महादेव अद्यापि न निवर्तते ।
त्रिस्थानावस्थितं देवं श्रोतुमिच्छामि वै प्रभो ।। ८ ।।
तुष्टोहमद्यते पुत्र यत् त्वया पृच्छ्यते ह्यहम् ।
त्रिस्थानावस्थितं ब्रह्म तच्छृणुष्व यथाक्रमम् ।। ९ ।।
हृत्पद्मे वसते नित्यं स्थिरा भावेन वै गुह ।
मुखपद्मे नाभिपद्मे गतागतिं करोति सः ।। १० ।।
हृत्पद्मस्य तु पत्त्राणि नाडयस्ताः प्रकीर्तिताः ।
प्रणाद्या वायवः सर्वे वहन्ते तेषु नाडिषु ।। ११ ।।
नाडयो वै दश प्रोक्ताः पवनानि तु वै दश ।
प्रधाना पिङ्गला शून्य सृजते पहरे तु सः ।। १२ ।।
नाडि चक्रस्य सर्वस्य नाभिभुव्यवस्थितम् ।
प्. ५ब्) नाडि चक्रस्य वै तद् वत् पिङ्गला मध्यतोद्भवा ।। १३ ।।
इडा चैव सुषुम्णा च पिङ्गला च तृतीयका ।
एककायं च सर्वासां युक्ति भेदे पृथक् पृथक् ।। १४ ।।
इडा वहति वामेन तत्र सोमो व्यवस्थितः ।
सुषुपिङ्गला दक्षिणपुत्र त्रत्र सूर्यो व्यवस्थितः ।। १५ ।।
सुषुम्णा मध्य नाडी तु तत्र सर्वं सदा स्थितम् ।
इडामध्ये स्थितं देव पितृयानेति कथ्यते ।। १६ ।।
पिङ्गलावस्थितं पुत्र देवयानेति कथ्यते ।
सुषुम्णा मध्यमानाडी तत्रस्थं मोक्षमार्गदश ।। १७ ।।
सर्वारम्भेण योगीन्द्रो मोक्षमार्गपदावहः ।
कर्णिकान्त स्थितं देवमव्यक्तं रूपवर्जितम् ।। १८ ।।
तदुर्थावयव सर्वेयैर्व्याप्ता नाडयोदश ।
प्. ६अ) तासां मध्ये तु वै ह्येका सुषुम्णा नाम श्रूयते ।। १९ ।।
तया प्रोक्तास्त्रयः पद्माः सूत्रेण मणयो यथा ।
तस्याभ्यन्तरसंलीनौ प्राणापानौ व्यवस्थितौ ।। २० ।।
सुषुम्णामध्यसंस्थौ तु प्राणापानौ शिखिध्वज ।
सृष्टिप्रलयरूपेण स्थिता वेतौ कुमारक ।। २१ ।।
ग्रथितौ परयाशक्त्या अव्यक्ता मृतयोथया ।
आधाराधेय भावेन परापर विभागशः ।। २२ ।।
सृष्टि प्रलय रूपेण प्राणापानौ व्यवस्थितौ ।
तयोर्मध्ये स्थितं ब्रह्म अन्यक्तं रूपवर्जितम् ।। २३ ।।
ग्रसते सृजते चैव सर्वं विश्वं चराचरम् ।
नाभिपद्मस्य वै पृष्टे हृत्पद्मं तु अधो मुखम् ।। २४ ।।
उभाभ्यां कर्णिका मध्ये परं तद्वीक्ष्य पुत्रक ।। २५ ।।
प्. ६ब्) कथं मे दृश्यते तात तस्य रूपस्य गोचरम् ।
यं दृष्ट्वाहं गमिष्यामि अजन्म पदमव्ययम् ।। २६ ।।
साधु साधु महाप्राज्ञ योगयोगेश्वरेश्वर ।
यत् त्वया चोदितं प्रश्नं दुर्विज्ञेयं सुरोरपि ।। २७ ।।
न ब्रह्मणा न सूर्येण न चन्द्रेन न विष्णुना ।
न तु देव्या त्वया चैव यदभ्य परिपृच्छितम् ।। २८ ।।
तत् ते हं कथयिष्यामि गुहाद्गुह्यतरं परम् ।
विक्षेप वचनं रक्षेच्छरणागतवत्स्वत ।। २९ ।।
राजामन्त्री वरक्ष्यो यं न देयं यस्य कस्य चित् ।
अदीक्षितेन दातव्यमश्रद्धेयमनार्जवो ।। ३० ।।
आकुले कूरहृदये दुर्जने च दापयेत् ।
दातव्यं दीक्षते पुत्र गुरुदेवाग्निपूजके ।। ३१ ।।
प्. ७अ) श्रद्धधाने जितक्रोधे लोभमोहपराङ्मुखे ।
परीक्ष्यते गुरुः शिष्यमब्दानि द्वादशानि वै ।। ३२ ।।
अनेन भावितं विश्वं सर्वमेव चराचरम् ।। ३३ ।।
अद्यमे जन्मसफलं अद्यमे सफलं श्रुतम् ।
अद्यमे सफला बुद्धिरद्यमे सफलं तपः ।। ३४ ।।
स कृतार्थोस्मि वै हृद्य अद्य जातोस्मि वै पुनः ।
मुक्तोस्मि चा?द्य वै तात भवसंसारबन्धनात् ।। ३५ ।।
गुह्यं ज्ञानं विदित्वा तु तृप्तोहं सर्वदा प्रभो ।
अधुना श्रोतुमिच्छामि प्रणापानौ व
???????????????????????????
प्. ७ब्) कथं स्थितौ ।।
शृणु वत्स महाप्राज्ञ यत् त्वया चोदितो ह्यहम् ।
तत् तोहं कथयिष्यामि प्राणापानौ यथा स्थितौ ।। २ ।।
प्राणाद्या वायवः पञ्च ऊर्ध्वभागे व्यवस्थिताः ।
तेषां मध्ये प्रधानौ द्वौ प्राणापानौ प्रकीर्तितौ ।। ३ ।।
कन्दुकन्यायमाश्रित्य अध ऊर्ध्वं प्रवर्तते ।
योगमार्गेषु सर्वेषु गतिरेषा प्रवर्तते ।। ४ ।।
नवानां चैव वायूनां प्राणापानौ प्रकीर्तितौ ।
हृत्पद्मे नाभिपद्मे तु द्वादशान्ते तथैव च ।। ५ ।।
विशते परमात्मा वै प्राणापान गति स्थितः ।
अपानः संहरेत् प्राणं प्राणोपानस्य वै तथा ।। ६ ।।
प * * *? स्थितं तेषां सृजते संहरत्यसौ ।
उदयास्त मनं ह्येतन् नान्यं मन्ये शिखिध्वज ।। ७ ।।
प्. ८अ) बाह्यसंस्थस्य सूर्यस्य नोदयो वै नास्तमयः ।
तपते सततं वत्स विश्वं दिङ्मार्गवीक्षणे ।। ८ ।।
तस्मात् सर्वप्रयत्नेन शरीरस्थं विचारयेत् ।
यं ज्ञात्वा प्राप्यते मोक्षो येन भूयो न जायते ।। ९ ।।
ज्ञातुमिच्छम्यहं देव उदयास्त मयं कथम् ।
अहोरात्रं कृतं चैव सङ्क्रान्ति विष्ववद् द्वयम् ।। १० ।।
अति प्रियोपि मे पुत्र पृच्छसे शोभनं सुत ।
यत् त्वया चोदितं प्रश्नमनाख्यं कथयामिते ।। ११ ।।
यन् मयोक्तं परं ब्रह्म हृदिस्थं तं षडानन ।
तस्य शक्तिर्भवेदेषा उदयास्त मनं प्रति ।। १२ ।।
ऊर्ध्वमार्गे यदा ज्वाला वर्तते तस्य तेजसः ।
उदयं तं विजानी
???????????????????????
- * * तालयं यस्मात् तस्माल्लिङ्गं तदुच्यते ।
प्. ८ब्) अलिङ्गं लिङ्गरूपेण अव्यक्तं व्यक्तगोचरम् ।। ९ ।।
आकाशं सम्भवेद्वत्स यो वै शक्त्या लयं गतः ।
पृथिव्यापस्तथा तेजो वायुराकाश एव च ।। १० ।।
एते पञ्च महाभूता यतोत्पन्ना लयं हि तत् ।
आकाशं ग्रसते शक्तिर्यथाग्रस्ताखिलं जगत् ।। ११ ।।
सृष्टिं तु कुरुते सा तु शिवाज्ञा चोदिता गुह ।
प्रलयं सर्वभूतानां मया ते कथितं सुत ।। १२ ।।
मयि चोक्तं शिवे नेदं पूर्वं तुष्टेन सर्वदा ।
भूतोत्पत्ति लयं चैव मयाज्ञातं विभागशः ।
भूयो विज्ञातुमिच्छामि * * * * * * * * ।
पगे ९ तो १९ मिस्सिन्ग्
?????????????????????????????
प्. २०अ) * * * * * * * * आकारं ब्रह्मसंस्थितम् ।। १ ।।
अतिगुह्यतमं प्रश्नं यत् त्वया चोदितं गुह ।
तत् सर्वं कथयिष्यामि शृणुष्वा वहितं तथा ।। २ ।।
शून्यं शून्यं पुनः शून्यं शून्यं शून्यं पुनः पुनः ।
शून्याच्छून्यतरं शून्यं तच्छून्यं शून्यमेव च ।। ३ ।।
शून्यं शून्यं त्वया प्रोक्तमनेन ज्ञानता मम ।
शून्यस्या शून्यतां ब्रूहि यदि तुष्टोसि मे प्रभो ।। ४ ।।
शून्यं शून्यं तु यो वेत्ति शून्यं शून्यं तु यो भवेत् ।
अशून्यं तं विजानीयात् सर्वशून्या लयं हितम् ।। ५ ।।
सर्वभूतेषु तं वत्स त्रिशून्यं हृदिसंस्थितम् ।
न तु जानन्ति तं शून्यमशून्या येन ते कृताः ।। ६ ।।
शून्यभूतं शिवं ज्ञेयं शून्यभूता हि शक्तयः ।।
प्. २०ब्) अशून्यं तेष्वमीरूपं सर्वगं चेतनात्मकम् ।। ७ ।।
न हि शून्यस्य शून्यत्वं शून्यत्वं तस्य भावना ।
विज्ञानं ज्ञापकं शून्यं निरालम्बाबलम्भितम् ।। ८ ।।
विभुत्वेन स्थितं शून्यं ये नेदं पूरितं जगत् ।
तं शून्यं शून्यमित्याहुर्वदन्ति ज्ञानबुद्धयः ।। ९ ।।
शून्यस्य शून्यता नास्ति अशून्यं शून्यमुच्यते ।
सृष्टिप्रलय रोहित्वा च्छून्यस्याशून्यतां विदुः ।। १० ।।
शून्यात् सृष्टिः प्रसवति शून्ये तु प्रलयं पुनः ।
तस्मादशून्यता शून्ये निरालम्भावलम्भिनम् ।। ११ ।।
निरालम्भावलम्भित्वं शून्यता येन सिद्ध्यति ।
विज्ञानज्ञानयोगेन शून्यं ज्ञेयं लभेष्यसि ।। १२ ।।
शून्यंत्व शून्यं ज्ञातव्यं न हि शून्योस्ति कुत्र चित् ।
प्. २१अ) तेषां शून्यमिदं शून्यमज्ञाना येषु भावना ।। १३ ।।
अशून्यं सर्वदा वत्स त्रैलोक्यं स चराचरम् ।
ब्रह्मादि स्तम्भपर्यन्तं सर्वं शून्येन पूरितम् ।। १४ ।।
तच्छून्यं पूरिता शक्त्या अव्यक्ता या शिवोत्थया ।
यथा चैतन्य भावेन बोधितं भुवन त्रयम् ।। १५ ।।
वस्तु शून्यं न त च्छून्यं शून्यमज्ञानशून्यता ।
तं शून्यं ज्ञान रूपेण ज्ञेयं शून्यं न तद्गुह ।। १६ ।।
ज्ञेय शून्यो पलब्धित्वं निरालम्बावबोधनम् ।
न पुनः शून्य भावस्तु शून्येस्मिंस्तत्त्वतः सुत ।। १७ ।।
तमो भूतं जगत्सर्वं पूर्वमासी च्छिखिध्वज ।
नष्ट सूर्येन्दु वातौघैर्ग्रहनक्षत्र तारकैः ।। १८ ।।
अप्रतर्कमविज्ञेयं दिशासु विदिशासु च ।
न चोर्ध्वं नैव पातालं महाभूतैस्तु वर्जितम् ।। १९ ।।
प्. २१ब्) व्यक्तिं न दृश्यते यत्र अव्यक्तं सर्वतः स्थितम् ।
तस्मिन् काले तया शक्त्या चिद्रूपाया शिवोत्थिता ।। २० ।।
तुर्यस्थाने लयं कृत्वा ववर्ष ह्यमृतं बहु ।
भूतसृष्टि हितार्थाय प्लावितं चाखिलं जगत् ।। २१ ।।
तदा ह्यण्डः समुत्पन्नश्चाष्टाङ्गः कनकोपमः ।
कल्पान्तं यावदण्डं तदणु रूपेणसंस्थितम् ।। २२ ।।
स तु वत्स द्विधा भिन्नो दिवं भूमिं तु निर्ममे ।
अष्टा शा विदिशश्चाष्टौ मध्ये बीजाङ्कुरं पदम् ।। २३ ।।
चिच्छक्त्या तु समुद्भूतं ये नेदं ग्रथितं जगत् ।
तस्याङ्कुरस्य पृष्ठे तु महापद्मं सितं शुभम् ।। २४ ।।
सहस्रदलपत्त्राढ्यं कर्णिकाकेसरैर्युतम् ।
प्रणवं तं च विज्ञेयं पद्मं पद्मदले क्षणम् ।। २५ ।।
प्. २२अ) तस्य मध्ये समुत्पन्नो ब्रह्मावेदनिधिर्गुह ।
कर्णिकान्ते स्थितं वत्स सर्वलोकपितामहम् ।। २६ ।।
सृजते सर्वभूतानि चराणि ह्यचराणि तु ।
तदा प्रजापतिर्वत्स विश्वकर्ता महेश्वरः ।। २७ ।।
चतुर्मुखं चतुर्बाहुं चतुर्वेद निधिं प्रभुम् ।
सूर्यकोटि प्रतीकाशं कल्पान्ताग्नि समप्रभम् ।। २८ ।।
तेन तेजोवभासेन भासितं भुवनत्रयम् ।
व्यक्तीभूतं तदावत्स दिशोष्टौ गगनं क्षितिः ।। २९ ।।
क्षितिभूतं स्थितं पद्मं मेरुभुता हि कर्णिका ।
दलाष्टकं दिशश्चाष्टौ ब्रह्मपद्मस्य षण्मुख ।। ३० ।।
चतुर्दशविधं वत्स भूतसर्गं चराचरम् ।
सर्वं प्रणवसंभूतं चिच्छक्त्या चेतनोद्भवम् ।। ३१ ।।
प्. २२ब्) कालाग्नि रुद्रपर्यन्तं चिच्छक्त्याङ्कुरसम्भवम् ।
तच्च पद्मस्थितं वत्स अमृतोदधिमध्यगम् ।। ३२ ।।
तं दृष्ट्वा तु स्वयं ब्रह्मा विस्मितो ह्यन्तरात्मना ।
तदा तस्योदिता बुद्धिर्योगमभ्यमनं प्रति ।। ३३ ।।
तेन योगं समभ्यस्तं दिव्यायुतसहस्रकम् ।
तस्य योग फलावाप्तिश्चिच्छक्त्या प्रणवे हृतम् ।। ३४ ।।
तेन चोत्यादितं सर्वं विश्वं हि स चराचरम् ।
ब्रह्मादि स्तम्भ पर्यन्तं यावत् कालादि गोचरम् ।। ३५ ।।
तस्मात् साकार भुतानि सर्वे ब्रह्ममयागुह ।
सर्वं च खल्विदं ब्रह्मस्वतोर्थं ब्रह्म वादिनम् ।। ३६ ।।
ज्ञात्वा भूत हितं वत्स ये स्थितास्ते ह्यसम्भवाः ।
सर्वेषां चैव भूतानां प्रणवं योनिशक्ति धृत् ।। ३७ ।।
तस्माद् ब्रह्मसमुत्पन्नमादौप्रणव योनिषु ।
प्. २३अ) प्रणवेन भवेत् पद्मं चिच्छक्त्यङ्कुरसन्निभम् ।। ३८ ।।
तस्मिन् मध्यात्समुत्पन्नः पद्मयोनिस्तदुच्यते ।
प्रणवं योन जानाति बिन्दुनादेन्दु भूषितम् ।। ३९ ।।
मात्रार्द्धमात्रसंयुक्तं तेन ब्रह्मविदो विदुः ।
अर्द्धमात्रासमुद्भुतं प्रणवं सर्वदा गुह ।। ४० ।।
नादान्तान्तरसंस्थं तु परं ब्रह्मसनातनम् ।
तस्मिन्नेव लयं कुर्यात् तेनैवं ब्रह्मवादिनः ।। ४१ ।।
शिवान्तरसमुद्भुत परं ब्रह्मशिखि ध्वज ।
तैर्ज्ञातममृतं तेषामज्ञानं च विषं भवेत् ।। ४२ ।।
अर्धमात्राणि खर्वांशं तस्यांशः कोटिरंशकम् ।
तस्यापि लक्षसो ह्यंशो योजानाति स ब्रह्मवित् ।। ४३ ।।
????????????????????????????
प्. २३ब्) ब्रह्माण्डा ब्रह्मणोत्पत्तिं मया ज्ञातं मया श्रूतम् ।
अधुना श्रोतुमिच्छामि स्त्रीपुंसोश्चैव सम्भवम् ।। १ ।।
यत् त्वया चोदितं प्रश्नं दुर्विज्ञेयं सुरैरपि ।
तत्तेहं कथंयिष्यामि रहस्यं प्रश्नपूर्वकम् ।। २ ।।
योगमभ्यसितं पूर्वं सृष्ट्यर्थं पद्मयोनिना ।
तपश्च सुमहत्तीर्णां दुष्करं चाद्भुतोपमम् ।। ३ ।।
तदा तुष्टः स भगवाञ्शिवः परमकारणः ।
परं ब्रह्मशिवं ज्ञेयं परं स्थानमनामयम् ।। ४ ।।
परापर शिवं वत्स सर्वेषां परतः स्थितम् ।
तेन तुष्टेन देवेन चिच्छक्त्या चेतना गुह ।। ५ ।।
गच्छत्वं ब्रह्मणः नार्धं सृष्टिसृष्ट्यर्थ कारणम् ।
प्. २४अ) आराधितो ह्यहं तेन भक्त्यापरमयायदा ।। ६ ।।
चिच्छक्त्या चोदितं देव प्रत्यक्षं त्वं कथं विभो ।
तदादि दृष्ट पूर्वोयमेवं पद्म तनुर्भवेत् ।। ७ ।।
एवं मत्वा सवै शक्तिः शक्तिरूपेण संस्थिता ।
स तु विष्णुर्विजानीया च्छक्तिरूपेण शक्ति धृत् ।। ८ ।।
अहं तु पुरुषः साक्षाच्छिव तेजस्समुद्भवः ।
उभाभ्यां बीजरूपेण पद्मयोनिस्तृतीयकः ।। ९ ।।
एवं हि त्रिविधा सृष्टिः संभुताभुतजा गुह ।
प्रणवं तु भवेदेष अ उ-मक्षरयोजितम् ।। १० ।।
नादेन्दु बिन्दुरेते वै कलामात्रास्तथैव च ।
चतुर्विंशति तत्वानि पुरुषं पञ्चविंशकम् ।। ११ ।।
आयुः कर्म च वित्तं च विद्यानिधनमेव च ।
अन्ये ये केचिच्छारीरा व्यक्ता-अव्यक्त वायवः ।। १२ ।।
प्. २४ब्) सर्वं समरसं भुत्वा चिच्छक्त्याव्यक्तया गुह ।
तं रसं ब्रह्ममित्याहुरानन्दकरणं परम् ।। १३ ।।
शुक्रं तं तु विजानीयादमरत्वं कभो?तिसः ।
सृष्टिरूपेणमर्त्यानाममरत्वे व्यवस्थितः ।। १४ ।।
देवानाममरत्वं च पुरातेनैव कल्पितः ।
चतुर्दशविधिवत्स भूतसर्गं चराचरम् ।। १५ ।।
अग्रे खगात्मकं सर्वं सृष्टब्रह्मादिभिर्गुह ।
ब्रह्मतेजस्समुत्पन्नावग्नीषोमौ शिखिध्वज ।। १६ ।।
तथा बीजस्य बीजत्वमन्यथा तु निरर्थकम् ।
एवं सर्वे समारम्भाः सर्वबीजेषु संस्थिताः ।। १७ ।।
शरीरसृष्टिहेत्वर्थं चिच्छक्त्या चेतनात्मकम् ।
यथान्यग्रोध बीजानां न्यग्रोधाभ्यन्तरे स्थितः ।। १८ ।।
प्. २५अ) तथा सर्वेषु भूतेषु चिच्छक्त्या चेतसंस्थितम् ।
?????????????????????????
सृष्टिन्यासं मयाज्ञातं दैविकं चैव मानुषम् ।
भूयश्च परिपृच्छामि स्त्रीपुंसो सम्भवो यथा ।। ।।
इदं गुह्यं महागुह्यं सर्वगुह्येषु वै गुह ।
यत् त्वया चोदितं प्रश्नं तत् सर्वं शृणु षण्मुख ।। २ ।।
प्राक्तनैः कर्मलेशेश्च शुभैश्चाप्य शुभैस्तथा ।
समुत्पद्यन्ति संसारे योनि लक्ष्वान्तरेषु च ।। ३ ।।
शुभकर्ता शुभे योनौ दुष्कृती दुष्कृतेषु च ।
एवं कर्ता च कर्मभ्यो भुञ्जते वै शुभा शुभम् ।। ४ ।।
यदा यमः स च भवेद् यदा सृष्टिः प्रवर्तते ।
प्. २६ब्) उभाभ्यां तत्र संयोगाद्भगलिङ्गसमागमे ।। ५ ।।
गर्भं सम्भवते गर्भे चिच्छक्त्या शक्तिचोदिते ।
योनिद्वारस्य वै पृष्ठे नाभिपद्मं स्थितं गुह ।। ६ ।।
यदा विकसितं स्त्रीणाम तु कालस्तदा भवेत् ।
रजः प्रवर्तते ह्यस्यां दिवसानि तु षोडश ।। ७ ।।
ऋतुकाले तु तत् पद्म मधोमार्ग मुखं भवेत् ।
तस्मिन् बीजं यदा क्षिप्तमृतुकाले शिखिध्वज ।। ८ ।।
तदा तद्रोहते बीजमन्यथा रूपरेहितम् ।
पुंसेत् कर्ष भवेत् पुंसः स्त्रियोत्कर्षे भवेत् स्त्रियः ।। ९ ।।
समेन पुंसकं ज्ञेयमाधिक्ये नैव किञ्चन ।
युग्मे युगानु युग्मे स्त्री अन्तकालेन पुंसकम् ।। १० ।।
ऋतुकाले ह्यति क्रान्ते भूयः पद्मं समं भवेत् ।
प्. २६अ) तस्य मध्ये स्थिता वत्स पिङ्गलादस्पृतोद्भवा ।। ११ ।।
सा नन्द यति सर्वेषां रतिकाले शिखिध्वज ।
जायते पुरुषश्चैवमानन्दयति सर्वदा ।। १२ ।।
उभाभ्यां समयोगेन तदा बीजः प्ररोहति ।
पुरप्रवेशमेतद्धि अमरत्वं च वै भवेत् ।। १३ ।।
तदा पुत्राश्च पौत्राश्च प्रपौत्राश्च न संशयः ।
जन्तवो गोत्र सन्ताना अमरत्वं तदा भवेत् ।। १४ ।।
तस्य पद्मस्य मध्ये तु चिच्छक्तिरमृतोद्भवा ।
वसते सततं वत्स दिवसानि तु षोडशः ।। १५ ।।
तदा लिङ्ग च्युतं बीजं तस्मिन् स्थाने प्ररोहति ।
तस्य पद्मस्य गर्भोयं गर्भशयया शिखिध्वज ।। १६ ।।
पद्मिनी शङ्ख रूपेण गर्भशयया स्थिता गुह ।
तस्य मध्ये यदा क्षिप्तं क्षिप्तं बीजेवकल्पयेत् ।। १७ ।।
प्. २६ब्) अन्यथा तु अबीजेयमौषधं क्षिपितं यथा ।। ।।
????????????????????????????
सर्वं देव मया ज्ञातं सर्वं तात मया श्रूतम् ।
अधुना श्रोतुमिच्छामि रजोरेतः समुद्भवम् ।।
अत्यन्त कुत्सितं पुत्र यत् त्वया परिपृच्छितम् ।
दुष्कृतीनां च सर्वासां गर्भवासः प्रकीर्तितः ।। २ ।।
कालाग्नि रुद्र पर्यन्तं यावद्ब्रह्माण्डगोचरम् ।
सर्वं चिच्छक्तिना व्याप्तं शिवाज्ञा चोदितं गुह ।। ३ ।।
चिच्छक्ति संप्लुता भूताः सर्वेषामन्तरे स्थिताः ।
प्ररोहं कुरु वृद्धिं च अन्यथा तस्य चोदनम् ।। ४ ।।
प्. २७अ) व्यक्तं न दृश्यते तस्य अव्यक्त त्वात् सृजत्यसौ ।
तस्य बीजं कुरुत्यन्ता तया सृष्टं चराचरम् ।। ५ ।।
चराणामचराणां च भूतानां शिखिवाहन ।
योसौ योनिः सनिधनं परमार्थं तु तं विदुः ।। ६ ।।
परमार्थं तु तं ज्ञेयं यस्य शक्तिर्न लुप्यते ।
शक्तिर्न लुप्यते चास्य शिवयोगा शिखिध्वज ।। ७ ।।
सर्वेषामेव भूतानां योन्यण्ड स्वेदजोद्भिजः ।
अग्नीषोमानिलयुतं विशते परमेश्वरः ।। ८ ।।
उत्पत्तिरेषा भूतानां प्राणापानोदयेन तु ।
अस्तङ्गतैस्तैर्निधनं देहे देहेश्वरो गुह ।। ९ ।।
आदौ भूताः समुत्पन्नाः पश्चादण्डस्य सम्भवः ।
ततोङ्कुरं च पद्मं च तत्व ब्रह्मादनन्तरम् ।। १० ।।
चतुर्विंशति तत्वानि अक्षतानि तु वै गुह ।
गायत्री तु भवेत् तैस्तु महादेवाति निस्सृतम् ।। ११ ।।
प्. २७ब्) ते नैव निस्सृतं विश्वं कर्मयुग्मसमन्वितम् ।
चिच्छक्ति संभवं सर्वं ब्रह्माण्ड कुहरोदरम् ।। १२ ।।
तस्माद् वै सर्वदा वत्स चिच्छक्तिः परमार्थतः ।
मया सृष्टं जगत्सर्वं भूतसर्गं चराचरम् ।। १३ ।।
स्त्रीरजो रेतसं मिश्रं कलिलं मासमेकतः ।
चिच्छक्त्या चेतनोद्भूतं द्वितीये मासि बुद्बुदम् ।। १४ ।।
रेतोरक्तसमुद्भूतं तृतीये मासि षण्मुख ।
चिच्छक्ति सम्भवा ह्यत सर्वेषामन्तरे स्थिताः ।। १५ ।।
प्ररोहाङ्कुर वृत्तिं च सर्वेषां तस्य चेतनाः ।
व्यक्तिर्न दृश्यते तस्य अव्यक्त त्वात् सृजत्यसौ ।। १६ ।।
तस्य बीजाङ्कुरस्यान्तं तेन दृष्टं चराचरम् ।
चराणा?मचराणां च भूतानां शिखिवाहन ।। १७ ।।
प्. २८अ) बुद्बुधाङ्कुरसंलीनं चिच्छक्तिः सृजतेङ्कुरम् ।
तं नालं पद्मगर्भस्य नाभिनालं प्रकीर्तितम् ।। १८ ।।
ततोमांसास्थि संभुतिस्तृतीये मासि षण्मुख ।
यथा बीजाङ्कुरं वत्स अव्यक्तं नैव दृश्यते ।। १९ ।।
चतुर्थे मासि संप्राप्ते जायन्ते वयवाङ्कुराः ।
तदा व्यक्तं भवेत् कायं पुरुषा कृति संज्ञकम् ।। २० ।।
चिच्छक्त्या चेतनं तस्य जायन्ते स्तोकमात्रकम् ।
मज्जास्थि स्नायुमेधं च मांसं रुदिरमेव च ।। २१ ।।
वातपित्तं तथा श्लेष्मं शुक्रं मूत्र पुरीषयोः ।
सिरानाडी ग्रन्थयश्च द्वाराः कूर्माश्च जालकाः ।। २२ ।।
त्वचं मर्माणि सन्धीश्चलोमनाड्यस्तथैव च ।
एते चान्येपि ये केचिच्छरीरोत्पत्ति कारणम् ।। २३ ।।
प्. २८ब्) सम्भवन्ति च सर्वे वै अङ्गान्यवयवास्तथा (देहस्या) ।
पञ्चमे मासि समये न खलोमानि स्पन्दनम् ।। २४ ।।
श्रोत्त्रशुक्तिश्च शोत्राणां धातूनां धातुरोपणम् ।
व्यक्तत्वं सर्वमङ्गानां यथा यस्य तु कल्पितम् ।। २५ ।।
चिच्छक्ति चेतनवशात् सम्पन्नास्ते शिखिध्वज ।
षष्ठे मासि रसान् सर्वान् यदा ते मातृ भोजनात् ।। २६ ।।
क्षुट्तृष्णा जाग्रनिद्राश्च शीतोष्ण मुखदुःखिताः ।
चिच्छक्ति चेतनोर्थे न चेतनां चेतते तु यः ।। २७ ।।
सप्तमे मासि संप्राप्ते चैतन्यं मानुषोपमम् ।
यदा प्रबुध्यते चाग्निर्ह्यदिस्थं तच्च वै गुह ।। २८ ।।
तदा स सर्वमखिलं शरीरे द्योतयत्यसौ ।
पद्मत्रयं प्रबुद्ध्येत ह्यन्नाभि मुखसंस्थितम् ।। २९ ।।
प्. २९अ) वायवश्च प्रवर्तन्ते प्राणाद्या ये प्रकीर्तिताः ।
लिङ्गद्यानाडयः सर्वा हृत्पद्मदलसम्भवाः ।। ३० ।।
तानिमां पूरितं सर्वं तेजोर्थेन जरायुभिः ।
तैर्व्याप्तमखिलं पिण्डं लोमान्तं यावत् षण्मुख ।। ३१ ।।
नाडि चक्रं तु सर्वं वै व्यापितं सर्वरस्मिभिः ।
यथा सूर्योदये सर्वं रस्मिभिर्व्यापितं जगत् ।। ३२ ।।
पाणाग्नि सूर्यौ निर्णीत्वा व्यापितं देहमात्मनः ।
चिच्छक्ति चेतनोर्थांय बहिः सूर्यं शिखिध्वज ।। ३३ ।।
न तु तस्यात्मनाशक्तिर्यावच्चिच्छक्ति चोदिता ।
अष्टमेन तु मासेन बुद्धिर्गर्भस्य संभवेत् ।। ३४ ।।
यथाहङ्कार दोषेण गर्भवासं वसाम्यहम् ।
तमोन्धकारगहने सर्वदुःखसमाकुले ।। ३५ ।।
प्. २९ब्) स्वेदमूत्रपुरीषोर्थे वसारुधिरसंयुते ।
कलिश्सेष्मसङ्कीर्णे मांसास्थिस्नायु सङ्कटे ।। ३६ ।।
एकविंशति ये प्रोक्ता नरकाश्च भयावहाः ।
तेषां मध्यान्महाघोरं नरकं कुक्षि सम्भवम् ।। ३७ ।।
चन्द्रार्करहितं भीमं वायवग्नि परिवर्जितम् ।
नरकार्णवसंप्रख्यं दुःखकल्लोलदुस्सहम् ।। ३८ ।।
अहं जातः कथं पुत्र किं मया दुष्कृतं कृतम् ।
एवं सञ्चिन्त्यमानस्य चिच्छक्त्या चोदितस्य च ।। ३९ ।।
नवमे मासि समये संप्राप्तेषु सवेगुह ।
अत ऊर्द्ध्वं तु ये केचित् गर्भवासे वसन्ति च ।। ४० ।।
महापातकिनस्ते वै उपपातकिनस्तु ये ।
दर्शनं दशमे मासि सुकृतानि तु चिन्तयेत् ।। ४१ ।।
प्. ३०अ) येनाहं सन्तरिष्यामि योनिद्वाराद्भयानकात् ।
तदहं तत् करिष्यामि येन भुयो न जायते ।। ४२ ।।
सुकृतानि ह्यशेषाणि यानि वै कथितानि तु ।
वेदेषु सर्वशास्त्रेषु पुराणेषु स्मृतीषु च ।। ४३ ।।
तानि सर्वान् करिष्यामि यथोक्तानि विधानतः ।
एवं सञ्चिन्त्य मानस्य चिच्छक्त्या प्रसवं कृतम् ।। ४४ ।।
महाभयं तु गर्भस्य प्रसवं तु शिखिध्वज ।
अत्यन्त भयभीता तु मण्ड उद्बिजिता गुह ।। ४५ ।।
हस्तपादशरीरेण स्वकेन शिखिवाहन ।
विदार्य पद्मं गर्भस्य योनिद्वार मुखे गतम् ।। ४६ ।।
तदामाता भयं प्राप्ता मरणान्तिक गोचरम् ।
प्. ३०ब्) विदार्य सृष्टिं द्वारेण मातुः सन्देह कारकम् ।। ४७ ।।
निर्गत्य पतते भूमौ निस्संज्ञं तु तदा भवेत् ।
न तस्य सुकृते बुद्धिर्न च दुष्कृत कर्मणि ।। ४८ ।।
मोहितो मायया वत्स चिच्छक्त्या बालसंज्ञया ।
उत्पत्तिरेषाभूतानां योनिजानां शिखिध्वज ।। ४९ ।।
तस्मात् सर्व प्रयत्नेन अजातपदमभ्यसेत् ।। ।।
??????????????????????????????
न किञ्चिदपि तं देव यन्मयानावधारितम् ।
तत्रापि संशयं देव वर्तते धातु सङ्क्षयात् ।। १ ।।
अत्यन्त गहनं प्रश्नमप्रत्यक्षमगोचरम् ।
प्. ३१अ) यत् त्वया चोदितं प्रश्नं पुत्रस्नेहाद्वदामिते ।। २ ।।
पञ्चभौतिक पिण्डस्य चिच्छक्त्या निर्मितस्य च ।
यथा वै धातु संख्यानमङ्गानां च शृणुष्वमे ।। ३ ।।
षड्रसाहारतृप्तस्य धातुसन्तर्पितस्य च ।
रसं सम्भवते वत्स मासमेकं तु निष्फला ।। ४ ।।
तं रसं रसरूपेण चिच्छक्त्या ह्यमृतं कृतम् ।
पराग्नि संभवं तं वै न स शुक्रो भवत्यसौ ।। ५ ।।
सृष्टिबीजं तु तं ज्ञेयं ततः सृष्टिः प्रवर्तते ।
रसाद्रक्तं ततो मांसं मांसान्मेदोथ जायते ।। ६ ।।
मेदसोस्थि तथा मज्जा मज्जा च्छूक्रं च जायते ।
शुक्राद्धातूनि सर्वाणि धातुभ्यां देहमानुषम् ।। ७ ।।
तेषां सन्तर्पणं तुष्टि रसतर्पणतो व्ययम् ।
एवं हि प्रथमं तावच्छरीरोत्पत्ति कारणम् ।। ८ ।।
प्. ३१ब्) अनन्तरं पुनर्वत्स यथा भवति तच्छृणु ।
वातं पित्तं तथा श्लेष्मं धातवः परिकीर्तिताः ।। ९ ।।
विण्मूत्र शुक्रमज्जा तु मांसं चैवाष्टमं विदुः ।
शरीरधारणा ह्येते सङ्ख्यासङ्ख्या कृतां गुणाः ।। १० ।।
धातु साम्ये स्थिता देहे सर्वे ते गुणकारकाः ।
तासां सङ्ख्या भवेदेषा कल्पना शिखिवाहन ।। ११ ।।
विपर्ययेण धातूनां न हि सङ्ख्या भवेत् गुह ।
वायु भावे गुणा ये च ये वाने यौ ध्वने तथा ।। १२ ।।
न तु मध्य वयोतीत समत्वं सर्वधातुषु ।
अतोर्था धातु पूर्वाये असङ्ख्येयाविलागुह ।। १३ ।।
स्थितो यो सौ हृदि ह्यग्निः प्रणवोर्थः शिखिध्वज ।
तेन सन्तर्पिते नैव धातवस्तर्पिता गुह ।। १४ ।।
स शृणोति स वै पश्येद् यो रसान् स्वादते चिरम् ।
प्. ३२अ) स तु गन्ध गुणस्पर्शं भुञ्जते देहसंस्थितः ।। १५ ।।
तस्य भावात् प्रलीयन्ते सर्वे ते धातवः सदा ।
तस्माद् वै सर्वदा वत्स स कर्तासेवकारणम् ।। १६ ।।
यथा रस्मि सहस्राणि सूर्यायत्तानि षण्मुख ।
तथा सर्वाणि भूतानि ते जायत्तानि सर्वशः ।। १७ ।।
?????????????????????????
दातूत्पत्तिर्मया ज्ञाता यथा तथ्यं सुविस्तरम् ।
सर्वेषामेव धातूनां रक्तं तु प्रथमं भवेत् ।
स तु मांसं समाश्रित्य संस्थितं सर्वदेहिनाम् ।। २ ।।
तस्य मज्जा भवेद्वत्स पलद्वात्रिंश संख्यया ।
प्. ३२ब्) मांसं पेशीशतान्यष्टौ शतैकेतैव चाधिकः ।। ३ ।।
पयः पीत्वा भवेद् रक्तं द्विगुणं तं शिखिध्वज ।
पित्तस्य तु पलान्यष्टौ श्लेष्मरक्त समाश्रितम् ।। ४ ।।
रक्तस्य हि समं श्लेष्मं तद्वद्वृत्तिस्तु षण्मुख ।
वसामेदः पृथक्त्वेन उभौ विंशत्पलीनकौ ।। ५ ।।
शुक्रं पित्तं समं ज्ञेयंमस्थिमज्जान्तरेषु च ।
वसादाहारपानांभ्यां विण्मूत्रं जायते पुनः ।। ६ ।।
तदा भावै ह्यसंख्येयं स्थिरत्वं तेषु नैव च ।
रक्तं पित्तं तथा श्लेष्मं शुक्रं मज्जा तु षण्मुख ।। ७ ।।
रसोद्भवानि चैतानि रसभावा तु नैव हि ।
सर्वेषामेव धातूनां पित्तं वै श्लेष्म बन्धनम् ।। ८ ।।
यस्माद्रसोद्भवाः सर्वे तदा तेषां निबन्धनम् ।
यस्माद्रसोद्भवाः सर्वे तदा तेषां निबन्धनम् ।। ९ ।।
प्. ३३अ) मज्जायां तु पलाविंशत् सर्वास्थ्यभ्यन्तरे स्थिताः ।
अस्थीनां तु शतां त्रीणि षष्ठ्य स्थिरधिकानि च ।। १० ।।
तन्त्रीणां चैव विज्ञेयं शतमष्टाधिकं तथा ।
अष्टोत्तरं चर्मशतं सिराणां सप्त वै शतम् ।। ११ ।।
ताश्च रक्त वहाः सर्वा देहमाच्छाद्यसंस्थिताः ।
ग्रन्थीनां तु शतं वत्स अष्टात्रिंशोत्तरं तथा ।। १२ ।।
प्रधाना ग्रन्थयः पञ्च यैः कार्यं मोक्षसाधने ।
स्नायु जालमसंख्येयं यैर्बद्धं कायपञ्जरम् ।। १३ ।।
मांसं तु धार्यते तैस्तु सङ्कोच करणानि ते ।
चतुष्षष्टिर्भवेत् कूर्चं तयोः स्नायूंश्च सम्भवेत् ।। १४ ।।
सूचिताता भवेत् षष्टिः स्नायु सूत्रैस्तु यन्त्रितम् ।
तदा यन्त्र मयं सर्वं शरीरं मानुषात्मकम् ।। १५ ।।
प्. ३३ब्) द्वासप्तति सहस्राणि नाडीनां परिकीर्तितम् ।
तास्तु वायु वहाः सर्वास्सर्वास्ता मोक्षदाः शुभाः ।। १६ ।।
तासां मध्ये प्रधानैका पिङ्गला अमृतोद्भवा ।
तदुद्भवाणि सर्वाणि यथा प्राणोद्भवानिलाः ।। १७ ।।
चर्ममेकं तु विख्यातं रोम च्छन्नं समन्ततः ।
तिस्रः कोट्यो व कोटिस्तु रोमसङ्ख्यः प्रकीर्तिताः ।। १८ ।।
ते च नाडि समुद्भूता यस्मात् तेजोद्भवानि ते ।
ते सङ्ख्ये या असङ्ख्ये या ये तु देहान्तरे स्थिता ।। १९ ।।
सर्वे तेजः समुद्भूता सर्वे ते तेजसंस्थिताः ।
लोमक्रामानि सर्वाणि द्वाराणि शिखिवाहन ।। २० ।।
अज्ञानान्नैव दृश्यन्ते दृश्यन्ते ज्ञान चक्षुषा ।
प्. ३४अ) नखानां विंशतिः प्रोक्ता नवद्वाराणि षण्मुख ।। २१ ।।
एवं सङ्ख्या समुद्भूता शरीरेषु शरीरिणाम् ।। २२ ।।
?????????????????
अवयवानां तु सर्वेषां सङ्ख्योत्पत्तिर्मया श्रूता ।
भूयो विज्ञातु मिच्छामि ब्रह्मवेश्म शरीरजाम् ।। १ ।।
सर्वे प्रश्ना मयाप्रोक्ता रहस्यानि तु सर्वसः ।
यस्माद्ब्रह्म मयं देहमत्रब्रह्म तु लभ्यते ।। २ ।।
अवयवाः पूर्वमुक्ता मया चैवं शिखिध्वज ।
यद्येकोन भवेत् तेषां तदा सर्वे ह्यपार्थकाः ।। ३ ।।
प्राक्तनानभवन्त्येते संहतादेह धारकाः ।
प्. ३४ब्) एकैकं च तथा भूतमुत्पन्नं शक्ति चोदितम् ।। ४ ।।
पुनरेव तु ते नैव यन्त्रितं भूत पञ्जरम् ।
तस्माद् यन्त्र मयं सर्वं शरीरं मानुषात्मकम् ।। ५ ।।
गृहकृत्यसमादृश्यमस्थिदा रुचितं शुभम् ।
मांसरक्त मृदादिग्धं स्नायु कीलक कीलितम् ।। ६ ।।
लिप्ते वै चर्म लेपेन नवद्वारोपशोभितम् ।
एकोन धार्यते स्तम्भं ब्रह्माण्डं येन धार्यते ।। ७ ।।
ब्रह्मवेश्म सदावत्स तस्मिन् मध्ये परं स्थितम् ।
ब्रह्मणो वेश्मनो मध्ये वेदमग्नि त्रयस्य च ।। ८ ।।
तेषां होमं प्रकुर्वीत प्रत्यहं चाहिताग्निना ।
आज्येन्ध न तिलैर्दर्भैर्धूमैर्गन्धैः स्रजैः शुभैः ।। ९ ।।
न तेषां तुष्टिपुष्टिर्वाहुतैस्तैर्जीवसंज्ञकैः ।
तुष्यन्ते तर्पितावत्स प्राणापानाहुतीषु च ।। १० ।।
प्. ३५अ) न तेषां हूयते हव्यमजीवं ब्रह्मसंभवम् ।
जुहुयात् सततं वत्स प्राणापानावमृतोद्भवौ ।। ११ ।।
तुर्यस्थानामृतं वत्स वसुधारेवसंस्थितम् ।
स्रवते सततं वत्स प्राणाग्नौ तर्पणं प्रति ।। १२ ।।
अग्नयस्तेन तृप्यन्ति आज्येन्ध न निरर्थकाः ।
बाह्याग्नीतमुपासीत विधिदृष्टेन कर्मणा ।। १३ ।।
भुर्भुवः स्वस्तपोलोका दृश्यन्ते तैर्हुताखिलाः ।
ब्रह्मवेदिर्भवेदेषा ब्रह्मवेश्मस्य मध्यतः ।। १४ ।।
अन्तर्वेदी तथात्रैव सुषुम्णा त्रान्तरे स्थिता ।
प्रयागं च कुरुक्षेत्त्रं पुष्करं नैमिषं तथा ।। १५ ।
वाराणसी तथा गङ्गा केदारं सिन्धु सागरम् ।
एते चान्येपि ये केचित् तीर्थान्यायतनानि च ।।
प्. ३५ब्) सर्वे तिष्ठन्ति ब्रह्मज्ञ परमाग्नौ जुहोति यः ।
सर्वं सर्वेषु भूतेषु प्रकटं संस्थितं गुह ।।
अज्ञानान्नैव पश्यन्ति पश्यन्ति ज्ञान चक्षुषा ।। ।।
?????????????????????
ब्रह्मवेश्म तथाज्यं च त्वत् प्रसादाच्छ्रुतं मया ।
अधुना श्रोतु मिच्छामि ब्रह्मब्रह्मपुरेस्थितम् ।।
सर्वं सर्वं मयाख्यातं यत् त्वया पृच्छितं गुह ।
अयं प्रश्नो गुरोर्वक्त्राद्यदि ज्ञास्यसि निश्चयात् ।।
रहस्यं सर्व शास्त्रेषु वेदादि सहितेषु च ।
सिद्धान्ते कुल सिद्धान्ते अवाच्यं यत् कथं च ते ।। ३ ।।
नित्योदितं च नित्यं च अनित्यं कल्पनात्मकम् ।
प्. ३६अ) यत् त्वया चोदितं वत्स अति स्नेहाद्बदामिते ।। ४ ।।
यो सौ ह्यदि स्थितः पद्मः प्रणवोर्त्थः शिखिध्वज ।
तस्य मध्ये परं तेजो यः पश्यति स पश्यति ।। ५ ।।
महाज्वाला समाकीर्णं रश्मिभिः परिवारितम् ।
असङ्ख्या भासुराभासं ब्रह्मवेश्मस्य दीपनम् ।। ६ ।।
तं च पश्यति यः पुत्र तं च ब्रह्म विदो विदुः ।
नदते सततं यस्मात् तस्मान् नादमिहोच्यते ।। ७ ।।
प्रवाहेन स्थितं वत्स यथा नद्यो जलाशयाः ।
अब्युच्छिन्नं च तं नादं नदते सर्व देहिनाम् ।। ८ ।।
देहे देहे न चान्यो वै एकं वै सर्वतः स्थितम् ।
अनच्छं केचिदिच्छन्ति शून्यं केचित्व दन्ति च ।। ९ ।।
मात्रार्धमात्रं केचिच्च नास्ति नास्तीति नास्तिकाः ।
प्. ३६ब्) तं नादं प्रकटं येषां तेषां मोक्षो ध्रुवं गुह ।। १० ।।
धूलिभेदेन ते सिद्धं सिद्धं गुरुमुखाच्छुभम् ।
त्वां विदित्वा महासेनं तं मोक्षं प्राप्स्यसे धुर्वम् ।। ११ ।।
ध्रुवं भवेद्भवेद्वत्स ध्रुवरूपेणसंस्थितम् ।
परमाग्नि समुद्भूतं तं नादं नदते गुह ।। १२ ।।
तच्च दर्शयते वस्तु स गुरुर्गुरुरेव च ।
दैशिकस्तु स विज्ञेयो मोक्षो वै मोक्षिकस्तु सः ।। १३ ।।
लक्षणं शृणु नादस्य यथात्वं लक्षयिष्यसि ।
येन विज्ञात मात्रेण भ्रान्ति ज्ञानं निवर्तते ।। १४ ।।
यथेन्धनप्रदीप्तेग्नौ यथाक्षोभ च्युतं जले ।
यथा वाताहते वृक्षे शब्दोयं श्रूयते गुह ।। १५ ।।
तथा शरीर ब्रह्मोयं प्रत्यक्षं शृणु षण्मुख ।
शृङ्गध्वनि निनादेन नदन्तं यः शृणोति वै ।। १६ ।।
प्. ३७अ) तं नादं ब्रह्ममित्याहुर्यः शृणोति शृणोति सः ।
न किञ्चिदपि तं वत्स यस्य तं न ह्यदि स्थितम् ।। १७ ।।
न तु जानन्ति तं मूढा ज्ञान विज्ञान वर्जिताः ।
प्रकटं ज्ञान चक्षुर्भ्यां पश्यते शृणुते तु सः ।। १८ ।।
तर्जनी प्रान्तसंरुद्धौ कर्णौ द्वौकारयेद्गुह ।
एतेन श्रूयते नादं न दन्तं ब्रह्मसंभवम् ।। १९ ।।
एवं वै परमं नादं हृदिस्थं सर्वदेहिनाम् ।
ब्रह्मादि स्तम्भ पर्यन्तमाकारा ये भवन्ति वै ।। २० ।।
तेषां हृदि स्थितं वत्स गुरुवक्त्रात् तु लभ्यते ।
गुरूपदेशगम्योयं यदि तुष्टो वदत्यसौ ।। २१ ।।
अन्यथा न तु सिद्ध्येत कल्पकोटि शतैरपि ।
स तृप्तः स च वै मुक्तः सोमृतं चाश्नुते ध्रुवम् ।। २२ ।।
प्. ३७ब्) यस्येदं विदितं ब्रह्म परस्पर पदानुगम् ।
परंपरगतं वत्स परात्परतरं हितम् ।। २३ ।।
तं च नादं समाख्यातं येन व्याप्तं चराचरम् ।
ब्रह्मादि सर्व भूतेषु चरेषु ह्यचरेषु च ।। २४ ।।
हृदिस्थं नदते नादं प्राणाद्या वायवेखिलाः ।
व्यापारेषु स वै कर्ता समस्तव्यस्तकेषु च ।। २५ ।।
स कर्ता स हि विज्ञेयस्त्वं तर्ह्य न गतो गुह ।
सर्वे ये केचिद् व्यापाराः सृष्टिराद्याः क्षयान्तिकाः ।। २६ ।।
स कर्ता चैव सर्वेषा परं ब्रह्म सदोदितम् ।
चतुर्विंशति तत्त्वानि पुरुषः पञ्चविंशकः ।। २७ ।।
सर्वेषां स हि कर्ता वै तदा यत् तानि तानि तु ।
???????????????
प्. ३८अ) सर्वं सर्वं मया ज्ञातं सर्वं सर्वं मया श्रुतम् ।
न पुनस्तात कौलेयं खेचरीणां मुखेस्थितम् ।। १ ।।
महाज्ञानमिदं वत्स महाविज्ञानमेव च ।
यत् त्वया चोदितं प्रश्नं कौलं खेचरि गोचरम् ।। २ ।।
पुत्र स्नेहात् कथिष्यामि रहस्यमद्भूतोपमम् ।
तं हि सिद्ध्यन्ति तासां वै तास्तस्मिंस्तेजसा गुह ।। ३ ।।
सामान्यानां तु मर्त्यानां लोकोपहत चेतसाम् ।
कुविकल्पगतानां वै सत्यं वत्स न सिद्ध्यति ।। ४ ।।
जीवाख्यममृतं यच्च हृदाकाशान्तरे स्थितम् ।
पिबन्ति रूपिकास्तं तु नाडिमाश्रित्य मध्यमाम् ।। ५ ।।
तं पीत्वा तृप्ति मायान्ति अतोर्थं तं पिबन्ति हि ।
देवान् पितृस्तर्पयन्ति कुलनाड्यांस्त संस्थिताः ।। ६ ।।
तासां मोक्षं शिवेनोक्तमनेन विधिना गुह ।
न पुनर्होमहवनैर्यज्ञैश्च बहुदक्षिणैः ।। ७ ।।
मांसास्थि रुधिरं मज्जां भक्षयन्ति च रूपिकाः ।
विवर्ते ह्यमृतं वत्स हृदिस्थं यत्परं पदम् ।। ८ ।।
सिद्धिस्तेषां तु ते नैव तर्पयित्वा तु भैरवम् ।
भैरवस्तर्पितं तासां धर्मे च पशुं प्रोक्षणे ।। ९ ।।
चिच्छक्तिः पशवस्तेषां हृन्मध्यसंस्थिता ।
मोक्षश्च निहितं यज्ञे भैरवोक्तेषु सर्वदा ।। १० ।।
पिहितं तं तु विज्ञेयमन्यथा वद एव तु ।
अनेन विधिना वत्स हिंसन्ति पशवो यदि ।। ११ ।।
समुक्तः पशुनासार्धं मोक्ष इत्यभिधीयते ।
प्. ३९अ) सिद्ध्यते महतां सिद्धिरष्टसिद्धिसमन्विता ।। १२ ।।
सामान्यानां तु सिद्धीनां कोविशेषोस्ति शक्ति धृत् ।
कस्येदं विदितं ज्ञानं ज्ञेयं विज्ञान सम्मितम् ।। १३ ।।
ब्रह्माद्याः पशवस्तस्य पशोरन्यस्य का कथा ।
पशूनां चैव सर्वेषामादिकर्ता प्रजापतिः ।। १४ ।।
स एव प्रोक्षितो यस्मात् तस्मात् कौलोधिकं भवेत् ।
वेदयज्ञेषु पशवो हिंसन्ति ब्राह्मणोत्तमाः ।। १५ ।।
भैरवीयेषु सर्वेषु पुंपशुं हन्ति साधकाः ।
सूक्ष्मपुर्यष्टकं यच्च भूतानां हृदि संस्थितम् ।। १६ ।।
तं पशुं हन्ति योगिन्यो हत्वा सिद्ध्यन्ति सिद्धिषु ।
प्राणापानोदये तस्मिन् बिन्दुनाद लयं गताः ।। १७ ।।
पिबन्ति रूपिकास्तास्तु पशुं हत्वाशिखिध्वज ।
गतिरेषा हि चैतेषां तदात्मेतं लभन्ति हि ।। १८ ।।
प्. ३९ब्) जीवव्योमान्तरं यच्च भूतानां हृदिसंस्थितम् ।
प्राणापानप्रवाहेन न विदित्वा पिबन्ति हि ।। १९ ।।
सद्यो निर्धानदीर्ता? वै मोक्षकस्तु * * * * ।
- * * * * * * * * * भक्ष्यानि कानि तु ।। २० ।।
पिबन्ति येन सिद्ध्यर्थं विधिना भैरवेन तु ।
भैरवोक्तेन विधिना सम्यग् योग बलेन तु ।। २१ ।।
पिबन्ति मदिरां तु क्षीरवत्प्रकटं गुह ।
स सिद्धः साधकः सोहि शेषा वै मध्यमाः स्मृताः ।। २२ ।।
पुष्पमात्रेण प्राप्येनं बहूनां यस्तु निर्वपेत् ।
क्षीरं तु कुरुते मध्यं संशये समुपस्थिते ।। २३ ।।
स सिद्धः सर्वदा वत्स कृष्णः श्वेत करो गुह ।
प्राणापानान्तर चरोनाडि त्रितय यायिनः ।। २४ ।।
तं पिबन्त मृतं दिव्यं परं परमसिद्धिदम् ।
प्. ४०अ) सौरंमार्गं परित्यज्य चान्द्रं मार्गं तथैव च ।। २५ ।।
ब्रह्ममार्ग गमं यस्य तं पिबंत्य मृतं परम् ।।
???????????
वदमे यदि तुष्टोसि इष्टं तथ्यं हितं विभो ।
येन विज्ञात मात्रेण भ्रान्ति ज्ञानं निवर्तते ।। १ ।।
शृणु वत्स यथान्याययं सर्वप्राज्ञोत्तमोत्तम ।
यत् त्वया चोदितं प्रश्नं निस्सन्दिग्धं वदाम्यहम् ।। २ ।।
या सा शक्तिः परासूक्ष्मा अव्यक्ता या शिवोर्थया ।
संस्थिता सर्वभूतेषु जगदुर्द्ध्रं? ययाखिलम् ।। ३ ।।
ब्रह्मादि स्तम्भ पर्यन्तं भूतसर्गं चराचरम् ।
ग्रसते सृजते शक्तिश्शिवाज्ञा ज्ञापिता गुह ।। ४ ।।
न पुनः शक्तिरस्माकं सत्यं सत्यं शिखिध्वज ।
वयं पितामहं विष्णुं न बीन्द्वनलमेव च ।। ५ ।।
इन्द्राद्या देवताः सर्वे सत्वाद्याश्च महर्षयः ।
भूयो भूयो हि जायन्ते भूयो भूयो म्रियन्ति च ।। ६ ।।
न पुनः शक्ति संहारो भवतिह कदाचन ।
शक्तिर्न लुप्यते सा वै परमाद्वैत वर्तिनी ।। ७ ।।
नित्योदिता तु सा सूक्ष्मा शिवामृतसमुद्भवा ।
ययाव्याप्तमिदं विश्वं भूतसर्गं चराचरम् ।। ८ ।।
अन्तर्गता तु सा वत्स सर्वेषां हृदि संस्थिता ।
एकैकं मणिमाश्रित्य यथाविद्ध्यन्ति वेधकाः ।। ९ ।।
महाभूतानि वै तद्वच्छक्तिबोधेन बोधिता ।
सूत्रं तासां शिवं साक्षात् तेन ते ग्रथिता गुह ।। १० ।।
प्. ४१अ) यैर्व्याप्तमखिलं विश्वं ब्रह्माण्डावधि गोचरम् ।
महाभूतानि सर्वाणि सर्वे चिच्छक्ति सम्भवाः ।। ११ ।।
चिच्छक्तिश्शिवसम्भूता अव्यक्ताः सर्वतः स्थिताः ।
न हि जानन्ति तां मूढा महामाया विमोहिताः ।। १२ ।।
न कश्चिदपि तं भूतं यस्य सा हृदि न स्थिता ।
स्थिता सा अग्नि रूपेण सर्वत्र वायुनाश्रिता ।। १३ ।।
ते पश्यन्ति हितावत्स येषां ज्ञानं मुनिर्मलम् ।
ब्रह्मवेश्म भवेद् देहं ज्ञानं तत्रैव दीपकम् ।। १४ ।।
तं प्रज्वाल्य प्रपश्यन्ति यत्किञ्चिद्वेश्ममध्यगम् ।
तं दृष्ट्या ते गमिष्यन्ति अजन्म पदमव्ययम् ।। १५ ।।
अजा सा अमला सूक्ष्मा नित्योदिता सुनिर्मला ।
संस्थिता सर्वभूतानां ब्रह्मादीनां शिखिध्वज ।। १६ ।।
प्. ४१ब्) यैर्ज्ञातास्ते विमुक्ता वै ते बद्धा यन्त्र लक्षिताः ।
वयं ब्रह्मादिभिस्सार्धं नैव मुक्ताः शिखिध्वज ।। १७ ।।
तदा ध्यानावसक्रा वै तस्य ध्यान परायणाः ।
अन्येपि योगिनः सर्वे मक्षमार्गानु काङ्क्षिणः ।। १८ ।।
यजन्ति विविधैर्यज्ञैस्तन्मध्यादुदितं गुह ।
कारणं तत्र वै ह्येकं युक्ति भेदः पृथक् पृथक् ।। १९ ।।
सात्विकं येषु वै योगं तेषां मोक्षो भवेद्ध्रुवम् ।
राजसं स्वर्गकामानां नारकं तमसा वृतम् ।। २० ।।
सात्विकं चैव तैर्यष्टं तदा ते मोक्ष यायिनः ।
राजसं मानुषैर्वत्स स्वर्गा वाप्ति फलप्रदम् ।। २१ ।।
तामसं तिर्यग्योनिस्थैर्मूढैरज्ञैरपण्डितैः ।
तस्मात् सर्वप्रयत्नेन सात्विकं यागमारभेत् ।। २२ ।।
राजसं तामसं वत्स पुनरावृत्ति कारकम् ।
प्. ४२अ) सात्विकं मानसं यागं तत्र हिंसा न विद्यते ।। २३ ।।
राजसं तामसं वत्स उभौतौ हिंस पूर्वकौ ।
मानसे नैव यागेन ये यजन्ति सदाशिवम् ।। २४ ।।
ते मुक्ताः सर्वपापेभ्यः सत्यं सत्यमुपासुत ।
द्रव्यशुद्धिस्तु परमं सम्भारं येषु क्रीयते ।। २५ ।।
तां विचारय यत्नेन सात्विकं भवते यदि ।
तदा तं द्रव्य सम्भारं शुद्धो भवति षण्मुख ।। २६ ।।
राजसं तामसं द्रव्यमशुद्धं सर्वदा गमैः ।
यष्टं हि निर्मलं तेन प्रत्युततृणवद्भवेत् ।। २७ ।।
सात्विकं नास्ति तद् द्रव्यं त्रिषु लोकेषु सर्वदा ।
तदर्थं न विमुक्तास्ते ये यजन्ति सदा धनैः ।। २८ ।।
अथवा सात्विकं चार्थं यदि लभेत् कथञ्चन ।
प्. ४२ब्) तद् देयं देवगुरवे विप्रे वा ब्रह्मवादिने ।। २९ ।।
अनन्तं च असङ्ख्येयं स्वल्पमात्रे पशोदितम् ।
अक्षययं भवते वत्स कल्पकोटि शतैरपि ।। ३० ।।
सम्भारार्थं न तद् द्रव्यं प्रयुञ्जीत कदाचन ।
संभारा ये बहिर्केचित् सर्वे चिच्छक्ति सम्भवाः ।। ३१ ।।
तेषां बाधा भवेद् यस्मात् तस्मात् तां परिवर्जयेत् ।
स जीवानि तु ते सर्वे शिवं तेषां हृदि स्थितम् ।। ३२ ।।
स जीवानि तु पुष्पाणि स जीवानि फलानि च ।
स जीवाः पशवो ज्ञेयास्तरुजातीनिसर्वशः ।। ३३ ।।
तां त्यक्त्वा यजसेकस्त्वंक्तयागमघसिद्धिमान् ।
ये स्थिताः फलसन्धो *? वश्याकर्षणमारणैः ।। ३४ ।।
ते यजन्ति स जीवैस्तु जीवैश्चिच्छक्ति सम्भवैः ।
प्. ४३अ) चतुर्दशविधं वत्स भूतसर्गं चराचरम् ।। ३५ ।।
सर्वं चिच्छक्तिसंभूतं तं हत्वा नैव मुच्यते ।। ।।
शक्त्योदयं मयाज्ञातं द्रव्यशुद्धिविनिर्णयम् ।
अधुना श्रोतुमिच्छामि इष्टमिष्टोतुरोत्तरम् ।। १ ।।
मयातीर्णं तपश्चोग्रं युगकल्पान्यनेकशः ।
तदा स तुष्टो भगवाञ्शिवोप्यशिवहापरः ।। २ ।।
वदते वदमे चाद्य तुष्टोहं ते उमापतिः ।
अहिंसा सर्वभूतेषु चरेषु ह्यचरेषु च ।। ३ ।।
एतद्धि चामृतं वत्स अक्षरं ह्यक्षरं ध्रुवम् ।
हिंसाक्षरं विजानीयात् तस्मात् तं परिवर्जयेत् ।। ४ ।।
अतोर्थं मानुसं यागमक्षरं ह्यमृतं गुह ।
ये यजन्ति हितं वत्स ते मुक्ता भवबन्धनात् ।। ५ ।।
वयं भोगाभिलाषेण नैवमुक्ताः शिखिध्वज ।
अज्ञानादुपदेशस्य शिवज्ञान बहिष्कृतः ।। ६ ।।
तदानु विदितं तत्त्वं मोक्षमार्गावलम्बिनम् ।
निष्प्रपञ्चं परं तत्वमपरं तु परापरम् ।। ७ ।।
निष्प्रपञ्चा पराशक्तिर्निष्प्रपञ्चः परः शिवः ।
तस्य यागं च कुर्वीत निष्प्रपञ्चं हि मानुसम् ।। ८ ।।
स्नानं ध्यानं तथा पूजा जपं होमं तु पञ्चमम् ।
मनसै तानि कर्तव्यं विधिदृष्टेन कर्मणा ।। ९ ।।
इति श्री ।। ।।
????????????????????????
स्नानादिकं त्वयैवोक्तं पूर्वं वै मानसं विभो ।
तदहं श्रोतुमिच्छामि यथार्थं तद्ब्रवीहि मे ।। १ ।।
शिवतीर्थं स्थितं देहे सर्वतीर्थालां हितम् ।
भुर्लोके तु भुवो लोके स्वर्लोके तु तथैव च ।। २ ।।
गङ्गाद्याः सरितः सर्वाः क्षीरोदाद्याश्च सागराः ।
सर्वे तिष्ठन्ति तत्रैव मानसे त्वखिला गुह ।। ३ ।।
हृत् पुण्डरीक मध्यस्थं शिवतीर्थं तु मानसम् ।
तत्रस्थं सङ्गमं वत्स शिवं नादात्मकं शुभम् ।। ४ ।।
अग्नीषोमीयगहनं पाणापानजलाशयम् ।
प्रवाहं तस्य तीर्थस्य सुषुम्णाड्यान्तरे स्थितम् ।। ५ ।।
प्. ४४ब्) तुर्यस्थानामृतौघेन प्लावितश्च समन्ततः ।
न चात्र विघ्ना हिंसन्ति दुष्टा ये वै चराचरे ।। ६ ।।
तदा स्नानं शुभं तत्र शिवतीर्थे च मानसे ।
ना चात्र हिंसा दृश्येत न तु पीत्वा करं तथा ।। ७ ।।
चराचरेस्मिन् ये लोकाः पुण्यन्यायतनानि च ।
तेपि तिष्टन्ति चातेव आत्मशुद्ध्यर्थ कारणम् ।। ८ ।।
बाह्यतीर्थानि सर्वाणि कल्पनाकल्पितानि तु ।
शिवतीर्थेन तिष्ठन्ति मानसे अशिवापहे ।। ९ ।।
कल्पिता ये बहिष्कानि तीर्थान्यायतनानि च ।
उत्तप्तास्ते सदा विघ्नैर्दिव्यभौमान्तरिक्षगैः ।। १० ।।
तस्मात् ते दूषिता वत्स शिवतीर्थेन केन चित् ।
अनोर्थाद्बाह्यतीर्थानि वर्जितानि सदा गुह ।। ११ ।।
प्. ४५अ) उच्चाटने तु विघ्नानां हिंसा भवति वै तदा ।
यस्माद् बाधा भवेत् तेषां तस्मात् तास्तु विवर्जयेत् ।। १२ ।।
निर्मलं विघ्न रहितं मोहदं तु अघापहम् ।
अमृतं स्रवते नित्यं पिङ्गलाभ्यन्तरे स्थितम् ।। १३ ।।
सौषुम्णा नन्द गम्भीरं तुर्या तु प्रान्तगोचरम् ।
स्वर्णोपलब्धि विमलं सा नन्दं नन्दशीतलम् ।। १४ ।।
तं लब्धा शिवतीर्थं वै आत्मनो हृदि संस्थितम् ।
तस्मिन् स्नानं सदा कुर्याद् विधि दृष्टेन कर्मणा ।। १५ ।।
सन्ध्या तु वन्दयेत् तत्र तर्पयेत् पितृ देवताः ।
यत् किञ्चिदिति कर्तव्यं तत् सर्वं मानसं कुरु ।। १६ ।।
अथवा स्मर्यते तीर्थं यत् किञ्चिन् मनसेप्सितम् ।
सर्वे तिष्ठन्ति चात्रैव अहिंसा तु समर्पिताः ।। १७ ।।
प्. ४५ब्) वयं ब्रह्मादिभिः सार्धं शिवतीर्थाम्बु सेवनात् ।
एतद्धि परमं तीर्थमयं हि परमो जपः ।। १८ ।।
एतद्धि परमं स्नानं तत्र स्नानं तु वै गुह ।
बाह्यतीर्थानि तुष्टानि मन्त्रान् बाह्यांस्तु सर्वशः ।। १९ ।।
मन्त्रा हृष्टानि तुष्यन्ति अन्यथा जल एव सः ।
तीर्थेषु ये स्थिताः केचिद्दीनाद्याः प्राणिनो गुह ।। २० ।।
अतोर्थास्तेन मुञ्चन्ति विज्ञान रहितास्तु ये ।
शिवतीर्थपरिज्ञानात्सम्यग्योग बलेन तु ।। २१ ।।
स्नातो भवति तं नित्यं साधकः सु समाहितः ।
न चात्र हिंसते कश्चिन् न तिलान्दर्भ एव च ।। २२ ।।
न तु रौ?प्य सुवर्णे वा खड्गा पातोथ वा पुनः ।
स्मरणा च्छिवतीर्थस्य न किञ्चिदपि लुप्यते ।। २३ ।।
प्. ४६अ) शिवतीर्थं मया ज्ञातं तस्मिन् स्थाने यथोदितम् ।
भूयो विज्ञातुमिच्छामि ध्यानं देहेश्वरात्मकम् ।। १ ।।
सर्वं प्रत्यक्ष विज्ञानं मया ते प्रकटी कृतम् ।
प्रत्यक्षं च परोक्षं च अधुना दर्शयामिते ।। २ ।।
शिवतीर्थ परिज्ञानं यैर्ज्ञातं ह्यात्म दर्शिभिः ।
तैः प्राप्यमखिलं वत्स मोक्षमार्गं न संशयः ।। ३ ।।
आत्मज्ञाने स्थिता ये वै आत्मज्ञाश्चात्म दर्शिनः ।
तैः शुद्धाः सर्वदा वत्स यत्र यत्राश्रमे स्थिताः ।। ४ ।।
स्नान शुद्धिर्न तेषां वै न मन्त्रैश्च प्रयोजनम् ।
प्. ४६ब्) स तु मन्त्रं शिवं शास्त्रं क्षेत्रं हि परमं तु सः ।। ५ ।।
न तस्य विघ्ना हिंसन्ति ये केचिद्भुवन त्रये ।
दर्शनादेव वै तस्य नश्यन्ते च दिशो दश ।। ६ ।।
न दिशो विदिशश्चैव न मुद्रा नासनानि च ।
करणेन तु संपश्येत् सम्यग् योग बलेन तु ।। ७ ।।
पूरकं कुम्भकं चैव रेचकं च तृतीयकम् ।
एतद् यथार्थं युञ्जीत ततो ध्यानं समारभेत् ।। ८ ।।
ध्यानेनालोकयेद्वत्स देहि सन्देह वर्जितः ।
तं विचारय यत्नेन नाडिचक्रोदरे स्थितम् ।। ९ ।।
द्वासप्तति सहस्राणि आराणां तस्य षण्मुख ।
एकैक भ्रमतैषा वै प्राणापानान्तर स्थिता ।। १० ।।
सर्वेषामेव वायूनां प्राणापानौ तु चोदकौ ।
प्. ४७अ) प्राणं तेषां भवेत् प्राणं प्रणम्य तु परं विदुः ।। ११ ।।
तेन ते नाडिचक्रं वै समस्तमवलोकयेत् ।
पिङ्गला तु भवेन्नाभिस्तस्य चक्रस्य षण्मुख ।। १२ ।।
प्रणवं तं भवेच्चक्रं पिङ्गला तस्य वै शिखा ।
तं ज्ञात्वा पश्यते वत्स शिवं परम कारणम् ।। १३ ।।
ज्ञानदीपं प्रजज्वाल्य ध्यात्वा ज्ञानाग्निना गुह ।
तदा गम्य स्थितं देवं पिङ्गलाभ्यन्तरे स्थितम् ।। १४ ।।
हृद्गुहा सा तु विज्ञेया हृन्मध्ये सा तु कर्णिका ।
तस्य मध्ये स्थितं देवं यः पश्यति स पश्यति ।। १५ ।।
सूर्येन्दु वह्नि मध्यस्थंमलक्षं लक्ष वर्जितम् ।
कदम्बगोलकाकारं सूर्यकोटि समप्रभम् ।। १६ ।।
कल्पान्ता नलसङ्काशं दुष्प्रेक्षमकृतात्मभिः ।
प्. ४७ब्) अनुमानं न वै तस्य हेतुना नैव दृश्यते ।। १७ ।।
एवं ध्यात्वा तु तं देवं हृद्गुहाभ्यन्तरे स्थितम् ।
ततस्त्वा यतनं गच्छेन्मानुसं मानसेन तु ।। १८ ।।
ध्यानं धेयं मया ज्ञातं *? नं च ज्ञेयमेव च ।
अधुना श्रोतुमिच्छामि हृद्गुह्येश्वर पूजनम् ।। १ ।।
गुह्यानि यानि चोक्तानि आदौ? ते शिखि वाहन ।
इदं गुह्यं त्वयैवाद्य यन्न कस्यापि भाषितम् ।। २ ।।
अज्ञा ये च अनात्मज्ञ ये च पण्डित मावि *? ।
- ? यजन्ति स जीवैस्तु जीवैश्चिच्छक्ति सम्भवैः ।। ३ ।।
चैतन्यं? स?र्वभूतानां चित्स्वभावेन संस्थितम् ।
प्. ४८अ) स चेतनानि भूतानि यस्मात् तानेव मोहयेत् ।। ४ ।।
चिच्छक्तिं विन्दते वत्स मुखदुःखे शुभाशुभौ ।
शिवात्मा दृष्ट रूपेण सर्वत्रैव व्यवस्थितः ।। ५ ।।
अशुभं च शुभं चैव सुखं दुःखं तथैव च ।
भुञ्जते तु पराशक्तिः परं चात्र अलेपकम् ।। ६ ।।
साक्षि भूतं च तं वत्स पक्षयोरुभयोरपि ।
एवं ज्ञात्वा अहिंसां वै सर्वभूतेषु कारयेत् ।। ७ ।।
अतोर्थं मानसं यागं कर्तव्यं मोक्षयायिभिः ।
हिंसा युक्तेन योगेन सम्भार बहुलेन च ।। ८ ।।
ये यजन्ति हिते बद्धाः फलं तेषां त्रिविष्टपम् ।
अमानाम्ना तु योगेन हिंसा भवति सर्वदा ।। ९ ।।
पुनरावर्तते भूयो भूयो भूयः क्षयं गतः ।
प्. ४८ब्) एवं ज्ञात्वा यजेत् सर्वं मानुसं यागमुत्तमम् ।। १० ।।
यस्य सर्वगतं भावं यथात्मनि तथापरे ।
समं पश्यति सर्वेषामहिंसा प्रोच्यते तु सा ।। ११ ।।
यथात्मनि परे तद्वत्समं पश्यति यो गुह ।
समुक्तः प्रकृतेर्बन्धाच्छिवे तिष्ठति शाश्वते ।। १२ ।।
सात्त्विकं भावमेतद्धि शिवेनोक्तं हि मानसम् ।
अन्तः कर्णादिकं वत्स यन्मयोक्तं हि दर्शने ।। १३ ।।
तेषु भूतानु हिंसन्ति तस्मात् तं हिंस पूर्वकम् ।
अन्तःकरण विन्यासं भूतशुद्ध्यर्थ कारणम् ।। १४ ।।
क्रीयते सर्वतो वत्स विधि दृष्टेन कर्मणा ।
कृत्वान्तः करणं वत्स भूतशुद्धिं तथैव च ।। १५ ।।
तदा भवति तं योग्यं साधकः शिव पूजने ।
प्. ४९अ) आत्मज्ञं तु पुनर्वत्स नित्यशुद्धं सदा भवेत् ।। १६ ।।
नास्य शुद्धिरशुद्धिर्वा शोधनीयं हि केतनम् ।
नित्य शुद्धि हितं भूत्वा न किञ्चित् साधयत्यसौ ।। १७ ।।
विकल्पोर्थैर्मलैर्वत्स अशुद्धं तं च तत्त्वतः ।
यस्य शक्तिर्भवत्युग्रा यः शोधयति वै परम् ।। १८ ।।
स शोधयति सर्वेषां भूतानां च समुद्धरेत् ।
अतोर्थात् केतनं वत्स आत्मज्ञे निष्प्रयोजनम् ।। १९ ।।
स एव भोगवान्साक्षाच्छिवं परम कारणम् ।
स एव परमं दाम तत्र शुद्ध्यति ते खिलं ।। २० ।।
आत्मनेनात्मना चैव यजते परमेश्वरम् ।
यथोक्तेन विधानेन सम्यग् योग बलेन तु ।। २१ ।।
यजते मानसं यागं मनसा तु अमीश्वरम् ।
प्. ४९ब्) यजन्ते देवतास्सर्वे ब्रह्माद्याश्च महर्षयः ।। २२ ।।
तदात्वं मानसे नैव यागेन शिखिवाहन ।
योगार्थं द्रव्य सम्भारं तं हि चात्रैव तिष्ठति ।। २३ ।।
अथ प्रार्थयसे कामं मनसा मनसेप्सितम् ।
तं लभिष्यसि सर्वं वै मानसे तं शिखिध्वज ।। २४ ।।
साकारं यजते यस्तु निराकारोथ वा पुनः ।
उभौ तावेकदा वत्स यजत्वं यत् तु रोचते ।। २५ ।।
निर्लक्षं निस्स्वभावस्तं स लक्षं प्रतिमाकृतिम् ।
मनसा चित्स्वभावेन साकारा क्रियते क्रिया ।। २६ ।।
न चैवा कृतिमान्कश्चिच्चित्स्वभावोनिलं भवेत् ।
तस्मात् त्वं सर्वदा वत्स नित्यं शक्ति स्थितं यजेत् ।। २७ ।।
चित्संज्ञा चित्समुद्भुता भुताभुतेषु संस्थिता ।। २८ ।।
तत्त्वाश्च भुता भावानि चिच्छक्त्या भ्यन्तरे स्थिताः ।
संस्थिताश्चिवतत्त्वे रसदसर्वगतो विभुः ।। २९ ।।
सर्वमेवं हितं वत्स हृदिस्थं प्रकटी कृतम् ।
तं हि पूजय यत्वेन विधिदृष्टेन कर्मणा ।। ३० ।।
न कश्चिदपितं वत्स यस्य तं न हृदि स्थितम् ।
तस्मात्तं पूजयेद्वत्स अहिंसा कुसुमैः शुभैः ।। ३१ ।।
हृदिस्थं तु पुनर्वत्स सर्वकामैस्तु पूजयेत् ।
दानानि यानि चोक्तानि शिवधर्मेखिलानि तु ।। ३२ ।।
तानि दत्तानि सर्वाणि भवन्ति शिखिवाहन ।
सर्वकामानि वै तद्वत्मानसं याग मुत्तमम् ।। ३३ ।।
प्. ५०ब्) यागं तु परमं ह्येतत् सर्वयागोत्तमोत्तमम् ।
इडादयो यजेद् यस्तु राजसं यागमुच्यते ।। ३४ ।।
सुषुम्णा तामसं? भोगं? ज्ञेयं सात्विकं पिङ्गलोदये ।
सुषुम्णे त्वां परित्यज्य पिङ्गला नाडिस्थं यजेत् ।। ३५ ।।
तां विचार यत्नेन ब्रह्मनाडिश्च उच्यते ।
तस्मिन् मध्ये स्थितं देवं तं नेदं पूजयेत् तु सः ।। ३६ ।।
यत्किञ्चिदिति कर्तव्यं तत्सर्वं पिङ्गलोदये ।
तुर्योद्भवति? सर्वाणि तुर्यस्थाने गतानि तु ।। ३७ ।।
चिन्तयेत् सर्वकामानि अन्यथा हिंसितानि तु ।
तुर्यस्थाने लयं कृत्वा हृधिस्थं पूजयेत् सदा ।। ३८ ।।
यस्य तुर्ये गतिर्नास्ति हृदिस्थं तु कथं यजेत् ।
हृदिस्थं तुर्यसंस्थं तु उभौ यो वेत्ति तत्वतः ।। ३९ ।।
प्. ५१अ) एकतं भूय एतेषां स पूजां कर्तु मर्हति ।
प्राणापानान्तरस्थेन शिवेन शिखिवाहन ।। ४० ।।
योजयेत् साधको वत्स स वै साधक उच्यते ।
प्राणापानौ तु सन्दिग्धौ रजस्तमसमन्वितौ ।। ४१ ।।
तस्मात् तौ वर्जयेत् वत्स यागकाले तु सर्वदा ।
सात्विकं सङ्गमं तेषां तेन कुर्याच्छिवार्चनम् ।। ४२ ।।
वह्नि पूजा तु ते नैव अन्यथा न कृता भवेत् ।
ब्रह्मादि स्तम्भ पर्यन्तं त्रैलोक्यं स चराचरम् ।। ४३ ।।
अहिंसा पुष्पसेकेन पूजितं तं सदा भवेत् ।
प्. ५१ब्) मानसे नैव यागेन मुक्तोहं सर्वदा विभो ।। ४४ ।।
तथापि ज्ञातु मिच्छामि जप्यं वै सर्वदा परम् ।। १ ।।
मानसैश्चाक्षरौघैश्च प्राणापानौ शिखिध्वज ।
रहस्यं चैव गुह्यं च जप्यं जप्योत्तमोत्तमम् ।। २ ।।
जप्यं बहुविधं प्रोक्तं शिवेन परमात्मना ।
न पुनर्मानसं जप्यं मोक्षमार्गफलप्रदम् ।। ३ ।।
मयि तुष्टेन नाथेन अयं मार्गः प्रदर्शितः ।
तदाहं कथयिष्यामि रहस्यं कृत्तिका सुत ।। ४ ।।
सर्वेषामेव भूतानां हृदिस्थं यत्परं पदम् ।
स तु सङ्ख्या यते जप्यं जपं तु कुरुते तु सः ।। ५ ।।
अज्ञाना नैव बुध्यन्ते ज्ञानविज्ञान वर्जिताः ।
प्. ५२अ) प्रत्यहं प्रत्यहं वत्स जपसङ्ख्यं करोति सः ।। ६ ।।
अब्युच्छिन्न प्रबन्धेन मणिभिः परमैः शुभैः ।
सूर्य चिच्छक्तिरित्याहुस्तस्मिंस्ते कथिता गुह ।। ७ ।।
अक्षसूत्र परं ह्येतद्योगिनां तत्त्व चिन्तकः ।
ये स्थिता फलसन्धाने वश्याकर्षणमारणे ।। ८ ।।
जपं तेषां तु मन्त्रैश्च अक्षसूत्रैरनेकशः ।
पुनरात्म विदे वत्स मन्त्र तन्त्रैः प्रयोजनम् ।। ९ ।।
प्रयोजनं भवेत् तेषामात्मज्ञानेन केवलम् ।
तं विदित्वा महासेन मन्त्रतन्त्रांस्त्यजेद्गुह ।। १० ।।
अथवा सङ्ख्यया कार्यं मानसेस्मिञ्जपे गुह ।
ततोहं कथयिष्यामि यथा भवति तच्छृणु ।। ११ ।।
षट्कतानि सहस्र * * * * * * * * * ।
- * * * * * * * * * * * * * * * ।। १२ ।।
- * * * * * * * * * * * * * * * ।
- * * * * * * * * * * * * * * * ।। १३ ।।
प्. ५२ब्) अहोरात्रान्तरे जप्यं कुरुते सततं शिवः ।
शिवजप्यं भवेदेष शिवं ह्यशिव कारिणम् ।। १४ ।।
प्राणश्च कर्षते पानमपानः प्राणमेव च ।
उभौ चाकर्षयेद्यस्तु स जपं कुरुते गुह ।। १५ ।।
हृत्स्थानाद् द्वादशान्तं तु द्वादशान्तात् पुनर्हृदि ।
एवां गमागमं ज्ञेयं तं जपं ब्रह्मशाश्वतम् ।। १६ ।।
विदितं मानसं जप्यमक्षसूत्रं तथैव च ।
अग्निकार्यं च मेताततत्वमाचक्ष्व वै प्रभो ।। १ ।।
मयाज्ञानामृतं वत्स स्नेहात् ते प्रकटी कृतम् ।
भूयोपि कथयिष्यामि अग्निकार्यं तु मानसम् ।। २ ।।
प्. ५३अ) चराचराणां भूतानां सर्वेषां शिखिवाहन ।
हृदिस्थं परमं तेजो न तु जानन्ति मोहिताः ।। ३ ।।
आदित्यस्तपते तस्य तेजसा तस्य वै गुह ।
ज्वलनस्य तु तत् तेजः पूर्णमिन्दुस्तथैव च ।। ४ ।।
तर्ह्युपासीतविधिवदग्नी यः शिखिवाहन ।
बाह्येग्नीनां हुतं हव्यं हिंसन्ति गुह्यकादयः ।। ५ ।।
मन्त्र दोषाश्च दोषाश्च अशुभैर्वादया भवेत् ।
तदा ते लुप्यते वत्स बाह्याग्निषु हुतं हविः ।। ६ ।।
इध्मादि द्रव्यसंभारं सर्वं चिच्छक्ति संभवम् ।
यदात्र हूयते यस्मात् तस्मात् तं हिंसपूर्वकम् ।। ७ ।।
अहिंसा पूर्वकं वत्स स्वदेहे ह्यग्नि पूजनम् ।
शिवाग्निर्वैभवत्येष शिवमशिवहारिणम् ।। ८ ।।
???????????????????
प्. ५३ब्) गर्भादानादि संस्कारैर्न हि तत्र प्रयोजनम् ।
न हि कुण्डं नु वः कार्यं मेखलैर्वाथ योनिना ।। ९ ।।
कार्यमेवं हि वै चात्र विधिनाशिखि वाहन ।
कुण्डत्रयं स्थितं देहे अग्नि त्रितयमेव च ।। १० ।।
गार्हपत्याग्नि हृत्कुण्डे नाभिकुण्डेग्नि दक्षिणम् ।
मुखकुण्डे स्थितं वत्स नाम्नाचाहवनियकम् ।। ११ ।।
कुण्डाग्नि त्रितयं वत्स मया ते दर्शितं क्रमात् ।
तेषां होमं प्रकुर्वीत विधि दृष्टेन कर्मणा ।। १२ ।।
सुषुम्णा नाडिमाश्रित्य कुर्याद्वै चोत्तरायणम् ।
दक्षिणाग्निं ततो जुह्यान्नाभिकुण्डे स्थिते गुह ।। १३ ।।
इडा नाड्युदयं कृत्वा कुर्याद्वै दक्षिणायनम् ।
तदाचाहवनीयोग्निर्मुखकुण्डे स्थितो गुह ।। १४ ।।
प्. ५४अ) गार्हपत्यस्तु यो ह्यग्निर्हृत्कुण्डे संस्थितस्सदा ।
तस्मिन् पूर्णाहुतिं दद्याद्विषुवत्करणेन तु ।। १५ ।।
विषुवं तु भवेद्वत्स पिङ्गनाड्युदयेन तु ।
तस्मिन् काले यजेद् यस्तु तत्सर्वं चाक्षयं भवेत् ।। १६ ।।
सिद्ध्यन्ते सर्वकामानि मनसा चेप्सितानि च ।
प्राणाद्या वायवः पञ्च होमयेत् तु यथा क्रमम् ।। १७ ।।
तैर्हुतैः सर्वमखिलं विश्वं सन्तर्पितं भवेत् ।
अमृतं भवते वत्स अमृतं तंतु तिष्ठति ।। १८ ।।
तदा तदखिलं विश्वं तृप्तं भवति चापरे ।
प्राणापानान्तरस्थं तु यैर्ज्ञातं शिखिवाअहन ।। १९ ।।
तेपि वन्त्यमृतं दिव्यं तुर्यस्थानोद्भवं परम् ।
तुर्योद्भवामृताज्येन नित्यमग्निं प्रपूजयेत् ।। २० ।।
अग्नि पूजा भवत्येषा अक्षयया मुक्तिदा शुभा ।।
इति श्रीब्रह्मसन्धानाग्नि * जा * चा * नि * यो * मा ।।
अद्य मे सफला बुद्धिः श्रुत्वा ब्रह्मपदं परम् ।। ।।