ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५ ब्रह्मवैवर्तपुराणम्
अध्यायः ०६
वेदव्यासः
अध्यायः ०७ →

नारायण उवाच ।।
सरस्वती सा वैकुण्ठे स्वयं नारायणान्तिके ।।
गङ्गाशापेन कलया कलहाद्भारते सरित् ।। १ ।।
पुण्यदा पुण्यजननी पुण्यतीर्थस्वरूपिणी ।।
पुण्यवद्भिर्निषेव्या च स्थितिः पुण्यवतां मुने ।। २ ।।
तपस्विनां तपोरूपा तपस्याकाररूपिणी ।।
कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ।। ३ ।।
ज्ञाने सरस्वतीतोये गतं यैर्मानवैर्भुवि ।।
तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि ।। ४ ।।
भारते कृतपापश्च स्नात्वा तत्रैव लीलया ।।
मुच्यते सर्वपापेभ्यो विष्णुलोके वसेच्चिरम् ।। ९ ।।
चतुर्दश्यां पौर्णमास्यामक्षयायां दिनक्षये ।।
ग्रहणे च व्यतीपातेऽन्यस्मिन्पुण्यदिनेऽपि च ।। ६ ।।
अनुषङ्गेण यः स्नाति हेलया श्रद्धयाऽपि वा ।।
सारूप्यं लभते नूनं वैकुण्ठे स हरेरपि ।। ७ ।।
सरस्वतीमन्त्रकं च मासमेकं तु यो जपेत् ।।
महामूर्खः कवीन्द्रश्च स भवेन्नात्र संशयः ।।८।।
नित्यं सरस्वतीतोये यः स्नात्वा मुण्डयेन्नरः ।।
न गर्भवासं कुरुते पुनरेव स मानवः ।। ९ ।।
इत्येवं कथितं किंचिद्भारतीगुणकीर्त्तनम्।।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।। 2.6.१० ।।
सौतिरुवाच ।।
नारायणवचः श्रुत्वा नारदो मुनिसत्तमः ।।
पुनः पप्रच्छ सन्देहच्छेदं शौनक सत्वरम् ।। ११ ।।
नारद उवाच ।।
कथं सरस्वती देवी गङ्गाशापेन भारते ।।
कलया कलहेनैव समभूत्पुण्यदा सरित् ।।१२।।
श्रवणे श्रुतिसाराणां वर्द्धते कौतुकं मम ।।
कथामृतानां नो तृप्तिः केन श्रेयसि तृप्यते ।।१३।।
कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम् ।।
शान्ता सत्त्वस्वरूपा च पुण्यदा सर्वदा नृणाम् ।।१४।।
तेजस्विन्योर्द्वयोर्वादकारणं श्रुतिसुन्दरम् ।।
सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि ।। १९ ।।
नारायण उवाच ।।
शृणु नारद वक्ष्यामि कथामेतां पुरातनीम् ।।
यस्याः स्मरणमात्रेण सर्वपापात्प्रमुच्यते ।। १६ ।।
लक्ष्मीस्सरस्वती गङ्गा तिस्रो भार्य्या हरेरपि ।।
प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ ।। १७ ।।
चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम्।।
सस्मिता च सकामा च सकटाक्षं पुनः पुनः।।१८।।
विभुर्जहास तद्वक्त्रं निरीक्ष्य च मुदा क्षणम् ।।
क्षमां चकार तद्दृष्ट्वा लक्ष्मीर्नैव सरस्वती।।१९।।
बोधयामास तां पद्मा सत्त्वरूपा च सस्मिता ।।
क्रोधाविष्टा च सा वाणी न च शान्ता बभूव ह ।। 2.6.२० ।।
उवाच गङ्गां भर्त्तारं रक्तास्या रक्तलोचना ।।
कम्पिता कोपवेगेन शश्वत्प्रस्फुरिताधरा ।।२१।।
सरस्वत्युवाच ।।
सर्वत्र समताबुद्धिः सद्भर्तुः कामिनीः प्रति ।।
धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च ।। २२ ।।
ज्ञातं सौभाग्यमधिकं गंगायां ते गदाधर ।।
कमलायां च तत्तुल्यं न च किंचिन्मयि प्रभो ।।२३।।
गंगायाः पद्मया सार्द्धं प्रीतिश्चापि सुसम्मता ।।
क्षमां चकार तेनेदं विपरीतं हरिप्रिया ।। २४ ।।
किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् ।।
निष्फलं जीवनं तस्या या पत्युः प्रेमवञ्चिता ।।२५।।
त्वां सर्वेशं सत्त्वरूपं ये वदन्ति मनीषिणः ।।
ते च मूर्खा न वेदज्ञा न जानन्ति मतिं तव ।।२६।।
सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम् ।।
मनसा तु समालोच्य स जगाम बहिः सभाम् ।। २७ ।।
गते नारायणे गंगामवोचन्निर्भयं रुषा ।।
रागाधिष्ठातृ देवी सा वाक्यं श्रवणदुःसहम् ।। २८ ।।
हे निर्लज्जे सकामे त्वं स्वामिगर्वं करोषि किम् ।।
अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि ।। २९ ।।
मानहानिं करिष्यामि तवाद्य हरिसन्निधौ ।।
किं करिष्यति ते कान्तो मम वै कान्तवल्लभे ।।2.6.३०।।
इत्येवमुक्त्वा गंगाया जिघृक्षुं केशमुद्यताम् ।।
वारयामास तां पद्मा मध्यदेशस्थिता सती ।। ३१ ।।
शशाप वाणी तां पद्मां महाकोपवती सती ।।
वृक्षरूपा सरिद्रूपा भविष्यसि न संशयः ।। ३२ ।।
विपरीतं यतो दृष्ट्वा किंचिन्नो वक्तुमर्हसि ।।
सन्तिष्ठसि सभामध्ये यथा वृक्षो यथा सरित् ।। ३३ ।।
शापं श्रुत्वा च सा देवी न शशाप चुकोप न ।।
तत्रैव दुःखिता तस्थौ वाणीं धृत्वा करेण च ।। ३४ ।।
अत्युद्धतां च तां दृष्ट्वा कोपप्रस्फुरितानना ।।
उवाच गंगा तां देवीं पद्मां पद्मविलोचना ।। ३९ ।।
गंगोवाच ।।
त्वमुत्सृज महोग्रां तां पद्मे किं मे करिष्यति ।।
वाग्दुष्टा वागधिष्ठात्री देवीयं कलहप्रिया ।। ३६ ।।
यावती योग्यताऽस्याश्च यावती शक्तिरेव वा ।।
तथा करोतु वादं च मया सार्द्धं सुदुर्मुखा ।। ३७ ।।
स्वबलं यन्मम बलं विज्ञापयितुमर्हतु ।।
जानन्तु सर्वे ह्युभयोः प्रभावं विक्रमं सति ।। ३८ ।।
इत्येवमुक्त्वा सा देवी वाण्यै शापं ददाविति ।।
सरित्स्वरूपा भवतु सा या त्वामशपद्रुषा ।। ३९ ।।
अधो मर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः ।।
कलौ तेषां च पापांशं लभिष्यति न संशयः ।। 2.6.४० ।।
इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती ।।
त्वमेव यास्यसि महीं पापिपापं लभिष्यसि ।। ४१ ।।
एतस्मिन्नन्तरे तत्र भगवानाजगाम ह ।।
चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः ।। ४२ ।।
सरस्वतीं करे धृत्वा वासयामास वक्षसि ।।
बोधयामास सर्वज्ञः सर्वज्ञानं पुरातनम् ।। ४३ ।।
श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च ।।
उवाच दुःखितास्ताश्च वाक्यं सामयिकं विभुः ।। ४४ ।।
श्रीभगवानुवाच ।।
लक्ष्मि त्वं कलया गच्छ धर्मध्वजगृहं शुभे ।।
अयोनिसम्भवा भूमौ तस्य कन्या भविष्यसि ।। ४५ ।।
तत्रैव दैवदोषेण वृक्षत्वं च लभिष्यसि ।।
मदंशस्यासुरस्यैव शङ्खचूडस्य कामिनी ।। ४६ ।।
भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः ।।
त्रैलोक्यपावनी नाम्ना तुलसीति च भारते ।। ४७ ।।
कलया च सरिद्भूत्वा शीघ्रं गच्छ वरानने ।।
भारतं भारतीशापान्नाम्ना पद्मावती भव ।। ४८ ।।
गङ्गे यास्यसि चांशेन पश्चात्त्वं विश्वपावनी ।।
भारतं भारतीशापात्पापदाहाय देहिनाम् ।। ४९ ।।
भगीरथस्य तपसा तेन नीता सुदुष्करात् ।।
नाम्ना भागीरथी पूता भविष्यसि महीतले ।। 2.6.५० ।।
मदंशस्य समुद्रस्य जाया जाये ममाज्ञया ।।
मत्त्कलांशस्य भूपस्य शन्तनोश्च सुरेश्वरि ।। ५१ ।।
गङ्गाशापेन कलया भारतं गच्छ भारति ।।
कलहस्य फलं भुङ्क्ष्व सपत्नीभ्यां सहाच्युते ।। ५२ ।।
स्वयं च ब्रह्मसदनं ब्रह्मणः कामिनी भव ।।
गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु ।। ५३ ।।
शान्ता च् क्रोधरहिता मद्भक्ता मत्स्वरूपिणी ।।
महासाध्वी महाभागा सुशीला धर्मचारिणी ।। ५४ ।।
यदंशकलया सर्वा धर्मिष्ठाश्च पतिव्रताः ।।
शान्तरूपा सुशीलाश्च प्रतिविश्वेषु योषितः।।।
तिस्रो भार्य्यास्त्रयः श्यालास्त्रयो भृत्याश्च बान्धवाः ।।
ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः ।। ५६ ।।
स्त्री पुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान् ।।
निष्फलं जन्म वै तेषामशुभं च पदे पदे ।। ५७ ।।
मुखदुष्टा योनिदुष्टा यस्य स्त्री कलहप्रिया ।।
अरण्यं तेन गन्तव्यं महारण्यं गृहाद्वरम् ।। ५८ ।।
जनानां च स्थलानां च पुराणां प्राप्तिरेव च ।।
सततं सुलभा तत्र न तेषां तद्गृहेऽपि च ।। ५९ ।।
वरमग्नौ स्थितिर्हिंस्रजन्तूनां सन्निधौ सुखम् ।।
ततोऽपि दुःखं पुंसां च दुष्टस्त्रीसन्निधौ ध्रुवम् ।। 2.6.६० ।।
व्याधिज्वाला विषज्वाला वरं पुंसां वरानने ।।
दुष्टस्त्रीणां मुखज्वाला मरणादतिरिच्यते ।। ।। ६१ ।।
पुंसश्च स्त्रीजितस्येह जीवितं निष्फलं ध्रुवम् ।।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ।। ६२ ।।
स निन्दितोऽत्र सर्वत्र परत्र नरकं व्रजेत् ।।
यशकीर्तिविहीनो यो जीवन्नपि मृतो हि सः ।। ६३ ।।
बह्वीनां च सपत्नीनां नैकत्र श्रेयसी स्थितिः ।।
एकभार्य्यः सुखी नैव बहुभार्य्यः कदाचन ।। ६४ ।।
गच्छ गंगे शिवस्थानं ब्रह्मस्थानं सरस्वति ।।
अत्र तिष्ठतु मद्देहे सुशीला कमलालया ।।६५।।
सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता।।
इह स्वर्गसुखं तस्य धर्ममोक्षौ परत्र च।।६६।।
पतिव्रता यस्य पत्नी स च मुक्तः शुचिः सुखी ।।
जीवन्मृतोऽशुचिर्दुःखी दुश्शीलापतिरेव यः ।। ६७ ।।
इत्युक्त्वा जगतां नाथो विरराम च नारद ।।
अत्युच्चै रुरुदुर्देव्यः समालिङ्ग्य परस्परम् ।। ६८ ।।
ताश्च सर्वाः समालोच्य क्रमेणोचुः सदीश्वरम् ।।
कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च ।। ६९ ।।
सरस्वत्युवाच ।।
प्रायश्चित्तं देहि नाथ दुष्टायां जन्मशोधकम् ।।
सत्स्वामिना परित्यक्ताः कुत्र जीवन्ति काः स्त्रियः ।।2.6.७०।।
देहत्यागं करिष्यामि ध्रुवं योगेन भारते ।।
अत्युच्चतो निपतनं प्राप्तुमर्हति निश्चितम् ।।७१।।
गंगोवाच ।।
अहं केनापराधेन त्वया त्यक्ता जगत्पते ।।
देहत्यागं करिष्यामि निर्दोषाया वधं लभ ।। ७२ ।।
निर्दोषकामिनीत्यागं कुरुते यो जनो भवे ।।
स याति नरकं कल्पं किं ते सर्वेश्वरस्य वा ।। ७३ ।।
लक्ष्मीरुवाच ।।
नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव ।।
प्रसादं कुरु चास्मभ्यं सदीशस्य क्षमा वरा ।। ७४ ।।
भारतं भारतीशापाद्यास्यामि कलया यदि ।।
कतिकालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम् ।।७५।।
दास्यन्ति पापिनः पापं मह्यं स्नानावगाहनात् ।।
केन तस्माद्विमुक्ताऽहमागमिष्यामि ते पदम्।।७६।।
कलया तुलसीरूपा धर्मध्वजसुता सती ।।
भूत्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत ।। ७७ ।।
वृक्षरूपा भविष्यामि तदधिष्ठातृदेवता ।।
मामुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे ।। ७८ ।।
गंगा सरस्वतीशापाद्यदि यास्यति भारतम् ।।
शापेन मुक्ता पापाच्च कदा त्वां वा लभिष्यति ।। ७९ ।।
गंगाशापेन सा वाणी यदि यास्यति भारतम् ।।
कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव ।। 2.6.८० ।।
तां वाणीं ब्रह्मसदनं गंगां वा शिवमन्दिरम् ।।
गन्तुं वदसि हे नाथ तत्क्षमस्व च ते वचः ।। ८१ ।।
इत्युक्त्वा कमला कान्तपदं धृत्वा ननाम च ।।
सुकेशैर्वेष्टयित्वा च रुरोद च पुनः पुनः ।।८२।।
उवाच पद्मनाभस्तां प्रभां कृत्वा स्ववक्षसि।।
ईषद्धासः प्रसन्नास्यो भक्तानुग्रहकारकः ।। ८३ ।।
नारायण उवाच ।।
त्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि ।।
समतां च करिष्यामि शृणु तत्क्रममेव च ।। ८४ ।।
भारती यातु कलया सरिद्रूपा च भारतम् ।।
अर्द्धांशा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे ।। ८५ ।।
भगीरथेन नीता सा गंगा यास्यति भारतम् ।।
पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे ।। ८६ ।।
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् ।।
ततः स्वभावतः पूताऽप्यतिपूता भविष्यति ।। ८७ ।।
कलांशांशेन गच्छ त्वं भारते कमलोद्भवे ।।
पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी ।। ८८ ।।
कलेः पञ्चसहस्रे च गते वर्षे च मोक्षणम् ।।
युष्माकं सरितां भूयो मद्गृहे चागमिष्यथ ।। ।। ८९ ।।
सम्पदां हेतुभूता च विपत्तिः सर्वदेहिनाम् ।।
विना विपत्तिर्महिमा केषां पद्मे भवेद्भवे ।। 2.6.९० ।।
मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् ।।
युष्माकं मोक्षणं पापात्पापिस्पर्शनहेतुकात् ।। ९१ ।।
पृथिव्यां यानि तीर्थानि सन्त्यसंख्यानि सुन्दरि ।।
भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात् ।। ९२ ।।
मन्मन्त्रोपासका भक्ता भ्रमन्ते भारते सति ।।
पूतं कर्त्तुं भारतं च सुपवित्रां वसुन्धराम् ।। ९३ ।।
मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च ।।
तत्स्थानं च महातीर्थं सुपवित्रं भवेद्ध्रुवम् ।। ९४ ।।
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ।।
जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ।। ९५ ।।
एकादशीविहीनश्च सन्ध्याहीनोऽपि नास्तिकः ।।
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ।। ९६ ।।
असिजीवी मषीजीवी धावकः शूद्रयाजकः ।।
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ।। ९७ ।।
विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यप्रदायकः ।।
न्यासहारी भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ।। ९८ ।।
ऋणग्रस्तो वार्द्धुषिको जारजः पुंश्चलीपतिः ।।
पूतश्च पुंश्चलीपुत्रो मद्भक्तस्पर्शदर्शनात् ।। ९९ ।।
शूद्राणां सूपकारश्च देवलो ग्रामयाजकः ।।
अदीक्षितो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ।। 2.6.१०० ।।
अश्वत्थघातकश्चैव मद्भक्तानां च निन्दकः ।।
अनिवेदितभोजी च पूतो मद्भक्तदर्शनात् ।। १०१ ।।
मातरं पितरं भार्य्यां भ्रातरं तनयं सुताम्।।
गुरोः कुलं च भगिनीं वंशहीनं च बान्धवम् ।। १०२ ।।
श्वश्रूं च श्वशुरं चैव यो न पुष्णाति नारद ।।
स महापातकी पूतो मद्भक्तस्पर्शदर्शनात् ।। १०३।।
देवद्रव्यापहारी च विप्रद्रव्यापहारकः ।।
लाक्षालोहरसानां च विक्रेता दुहितुस्तथा ।। १०४ ।।
महापातकिनश्चैते शूद्राणां शवदाहकाः ।।
भवेयुरेते पूताश्च मद्भक्तस्पर्शदर्शनात् ।। १०५ ।।
लक्ष्मीरुवाच ।।
भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकारक ।।
येषां सन्दर्शनस्पर्शात्सद्यः पूता नराधमाः ।। १०६ ।।
हरिभक्तिविहीनाश्च महाहङ्कारसंयुताः ।।
स्वप्रशंसारता धूर्त्ताः शठा वै साधु निन्दकाः ।। १०७ ।।
पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् ।।
येषां च पादरजसा पूता पादोदकान्मही ।। १०८ ।।
येषां सन्दर्शनं स्पर्शं देवा वाञ्छन्ति भारते ।।
सर्वेषां परमो लाभो वैष्णवानां समागमः ।। १०९ ।।
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।।
ते पुनन्त्युरुकालेन विष्णुभक्ताः क्षणादहो।। 2.6.११० ।।
सौतिरुवाच ।।
महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः।।
निगूढतत्त्वं कथितुमृषिश्रेष्ठोपचक्रमे ।। १११ ।।
श्रीनारायण उवाच ।।
भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः ।।
पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम् ।। ११२ ।।
सारभूतं गोपनीयं न वक्तव्यं खलेषु च ।।
त्वां पवित्रां प्राणतुल्यां कथयामि निशामय ।। ११३ ।।
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशेद्वरः ।।
वदन्ति वेदवेदाङ्गात्तं पवित्रं नरोत्तमम् ।। ११४
पुरुषाणां शतं पूर्वं पूतं तज्जन्ममात्रतः ।।
स्वर्गस्थं नरकस्थं वा मुक्तिं प्राप्नोति तत्क्षणात् ।। ११५ ।।
यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जंतुषु ।।
जीवन्मुक्तास्ते च पूता यान्ति काले हरेः पदम् ।। ११६ ।।
मद्भक्तियुक्तो मत्पूजानियुक्तो मद्गुणान्वितः ।। .
मद्गुणश्लाघनीयश्च मन्निविष्टश्च सन्ततम् ।। ११७ ।।
मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः ।।
सगद्गदः साश्रुनेत्रः स्वात्मविस्मृतिरेव च ।। ११८ ।।
न वाञ्छन्ति सुखं मुक्तिं सालोक्यादि चतुष्टयम् ।।
ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने ।। ११९ ।।
इन्द्रत्वं च मनुत्वं च देवत्वं च सुदुर्लभम् ।।
स्वर्गराज्यादिभोगं च स्वप्नेऽपि न हि वाच्छति ।। 2.6.१२० ।।
ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा ।।
कल्याणभक्तियुक्तश्च मद्भक्तो न प्रणश्यति ।। १२१ ।।
भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम् ।।
तेऽपि यान्ति महीं पूतां कृत्वा तीर्थं ममालयम् ।। १२२ ।।
इत्येतत्कथितं सर्वं कुरु पद्मे यथोचितम् ।।
तदाज्ञाताश्च ताश्चक्रुर्हरिस्तस्थौ सुखासने ।। १२३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सरस्वत्युपाख्यानं नाम षष्ठोऽध्यायः ।। ६ ।।