ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः २१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २० ब्रह्मवैवर्तपुराणम्
अध्यायः २१
वेदव्यासः
अध्यायः २२ →

नारद उवाच ।।
नारायणश्च भगवान्वीर्य्याधानं चकार ह ।।
तुलस्या केन रूपेण तन्मे व्याख्यातुमर्हसि ।।१।।
नारायण उवाच ।।
नारायणश्च भगवान्देवानां साधनेन च ।।
शंखचूडस्य रूपेण रेमे तद्रामया सह ।।२।।
शंखचूडस्य कवचं गृहीत्वा मायया हरिः ।।
पुनर्विधाय तद्रूपं जगाम तुलसीगृहम् ।। ३ ।।
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ ।।
जयशब्दरवद्वारा बोधयामास सुन्दरीम् ।। ४ ।।
तच्छ्रुत्वा सा च साध्वी च परमानन्दसंयुता ।।
राजमार्गगवाक्षेण ददर्श परमादरात् ।। ५ ।।
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् ।६।
बन्दिभ्यो भिक्षुकेभ्यश्च वाचिकेभ्यो धनं ददौ ।। ६ ।।
अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ ।।
अमूल्यरत्नसंक्लृप्तं सुन्दरं सुमनोहरम् ।। ७ ।।
दृष्ट्वा च पुरतः कान्तं शान्तं कान्ता मुदाऽन्विता ।।
तत्पादं क्षालयामास ननाम च रुरोद च ।। ८।।
रत्नसिंहा सने रम्ये वासयामास कामुकी ।।
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ।। ९ ।।
अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः ।।
रणागतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे।।2.21.१०।।
सस्मिता सकटाक्षं च सकामा पुलकाञ्चिता ।।
पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ।। ११ ।।
तुलस्युवाच ।।
असंख्यविश्वसंहर्त्रा सार्द्धमाजौ तव प्रभो ।।
कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे ।।१२।।
तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः ।।
शंखचूडस्य रूपेण तामुवाचानृतं वचः ।। १३ ।।
श्रीहरिरुवाच ।।
आवयोः समरं कान्ते पूर्णमब्दं बभूव ह ।।
नाशो बभूव सर्वेषां दानवानां च कामिनि ।। १४ ।।
प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ।।
देवानामधिकारश्च प्रदत्तो ब्रह्मणा पुरा ।। १५ ।।
मयाऽऽगतं स्वभवनं शिवलोकं शिवो गतः ।।
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ।।१६।।
रेमे रमापतिस्तत्र रामया सह नारद ।।
सा साध्वी सुखसम्भोगादाकर्षणव्यतिक्रमात् ।।
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच ह ।। १७ ।।
तुलस्युवाच ।।
को वा त्वं वद मायेशो भुक्ताऽहं मायया त्वया।।१८।।
दूरीकृतं मत्सतीत्वमथवा त्वां शपामहे ।।
तुलसीवचनं श्रुत्वा हरिः शापभयेन च ।। १९ ।।
दधार लीलया ब्रह्मन्स्वां मूर्तिं सुमनोहराम् ।।
ददर्श पुरतो देवी देवदेवं सनातनम् ।।
नवीननीरद श्यामं शरत्पङ्कजलोचनम् ।। 2.21.२० ।।
कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम् ।।
ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससा ।। २१ ।।
तं दृष्ट्वा कामिनी कामान्मूर्छां संप्राप लीलया ।।
पुनश्च चेतनां प्राप्य पुनः सा तमुवाच ह ।। २२ ।।
हे नाथ ते दया नास्ति पाषाण सदृशस्य च।।
छलेन धर्मभङ्गेन मम स्वामी त्वया हतः ।। २३ ।।
पाषाणसदृशस्त्वं च दयाहीनो यतः प्रभो ।।
तस्मात्पाषाणरूप स्त्वं भुवि देव भवाधुना ।। २४ ।।
ये वदन्ति दयासिन्धुं त्वां ते भ्रान्ता न संशयः ।।
भक्तो विनाऽपराधेन परार्थे च कथं हतः ।।२५।।
दुर्वृत्तस्त्वं च सर्वज्ञो न जानासि परव्यथाम् ।।
अतस्त्वमेकजनुषि स्वमेव विस्मरिष्यसि ।। २६ ।।
इत्युक्त्वा च महासाध्वी निपत्य चरणे हरेः ।।
भृशं रुरोद शोकार्त्ता विललाप मुहुर्मुहुः ।। २७ ।।
तस्याश्च करुणां दृष्ट्वा करुणामयसागरः ।।
नारायणस्तां बोधयितुमुवाच कमलापतिः ।। २८ ।।
श्रीभगवानुवाच ।।
तपस्त्वया कृतं साध्वि मदर्थे भारते चिरम् ।।
त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः ।। २९ ।।
कृत्वा त्वां कामिनीं कामी विजहार च तत्फलात् ।।
अधुना दातुमुचितं तवैव तपसः फलम् ।। 2.21.३० ।।
इदं शरीरं त्यक्त्वा च दिव्यं देहं विधाय च ।।
रासे मे रमया सार्द्धं त्वं रमासदृशी भव।।३१।।
इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ।।
पूता सुपुण्यदा नृणां पुण्या भवतु भारते ।। ३२ ।।
तव केशसमूहाश्च पुण्यवृक्षा भवन्त्विति ।।
तुलसीकेशसम्भूता तुलसीति च विश्रुता ।। ३३ ।।
त्रिलोकेषु च पुष्पाणां पत्राणां देवपूजने ।।
प्रधानरूपा तुलसी भविष्यति वरानने ।।३४।।
स्वर्गे मर्त्ये च पाताले वैकुण्ठे मम सन्निधौ।।
भवन्तु तुलसीवृक्षा वराः पुष्पेषु सुन्दरि ।। ३५ ।।
गोलोके विरजातीरे रासे वृन्दावने भुवि ।।
भाण्डीरे चम्पकवने रम्ये चन्दनकानने ।। ३६ ।।
माधवीकेतकीकुन्दमल्लिकामालतीवने ।।
भवन्तु तरवस्तत्र पुष्पस्थानेषु पुण्यदा ।। ३७ ।।
तुलसीतरुमूले च पुण्यदेशे सुपुण्यदे ।।
अधिष्ठानं तु तीर्थानां सर्वेषां च भविष्यति ।। ३८ ।।
तत्रैव सर्वदेवानां समधिष्ठानमेव च ।।
तुलसीपत्रपतनं प्रायो यत्र वरानने।। ३९ ।।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।।
तुलसीपत्रतोयेन योऽभिषेकं समाचरेत् ।।2.21.४०।।
सुधाघटसहस्रेण सा तुष्टिर्न भवेद्धरेः ।।
या च तुष्टिर्भवेन्नॄणां तुलसीपत्रदानतः ।। ४१ ।।
गवामयुतदानेन यत्फलं लभते नरः ।।
तुलसीपत्रदानेन तत्फलं लभते सति ।। ४२ ।।
तुलसीपत्रतोयं च मृत्युकाले च यो लभेत् ।।
स मुच्यते सर्वपापाद्विष्णुलोकं स गच्छति ।। ४३ ।।
नित्यं यस्तुलसी तोयं भुङ्क्ते भक्त्या च यो नरः ।।
स एव जीवन्मुक्तश्च गंगास्नानफलं लभेत्।।४४।।
नित्यं यस्तुलसीं दत्त्वा पूजयेन्मां च मानवः।।
लक्षाश्वमेधजं पुण्यं लभते नात्र संशयः ।। ४५ ।।
तुलसीं स्वकरे धृत्वा देहे धृत्वा च मानवः ।।
प्राणांस्त्यजति तीर्थेषु विष्णु लोकं स गच्छति ।। ४६ ।।
तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः ।।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ।। ४७ ।।
तुलसीं स्वकरे धृत्वा स्वीकारं यो न रक्षति ।।
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ।। ४८ ।।
करोति मिथ्याशपथं तुलस्या यो हि मानवः ।।
स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ।। ४९ ।।
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् ।।
रत्नयानं समारुह्य वैकुण्ठं स प्रयाति च।।2.21.५०।
पूर्णिमायाममायां च द्वादश्यां रविसंक्रमे ।।
तैलाभ्यंगे चास्नाते च मध्याह्ने निशि सन्ध्ययोः ।। ५१ ।।
आशौचेऽशुचिकाले वा रात्रिवासान्विते नराः ।।
तुलसीं ये च छिन्दन्ति ते छिन्दन्ति हरेः शिरः ।। ५२ ।।
त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति ।।
श्राद्धे व्रते वा दाने वा प्रतिष्ठायां सुरार्चने ।। ५३ ।।
भूगतं तोयपतितं यद्दत्तं विष्णवे सति ।।
शुद्धं तु तुल सीपत्रं क्षालनादन्यकर्मणि ।।५४।।
वृक्षाधिष्ठात्री देवी या गोलोके च निरामये ।।
कृष्णेन सार्द्धं रहसि नित्यं क्रीडां करिष्यति।५५।।
नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा ।।
लवणोदस्य पत्नी च मदंशस्य भविष्यति ।।५६।।
त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ ।।
रमासमा च रासे च भविष्यसि न संशयः ।। ५७ ।।
अहं च शैलरूपी च गण्डकीतीरसन्निधौ ।।
अधिष्ठानं करि ष्यामि भारते तव शापतः ।। ५८ ।।
वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै ।।
तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम।।५९।।
एकद्वारे चतुश्चक्रं वनमालाविभूषितम् ।।
नवीननीरदश्यामं लक्ष्मीनारायणाभिधम् ।।2.21.६०।।
एकद्वारे चतुश्चक्रं नवीननीरदोपमम्।।
लक्ष्मीजनार्दनं ज्ञेयं रहितं वनमालया ।। ६१ ।।
द्वारद्वये चतुश्चक्रं गोष्पदेन समन्वितम् ।।
रघुनाथाभिधं ज्ञेयं रहितं वनमालया ।। ।। ६२ ।।
अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् ।।
दधिवामनाभिधं ज्ञेयं गृहिणां च सुखप्रदम् ।। ६३ ।।
अतिक्षुद्रं द्विचक्रं च वनमा लाविभूषितम् ।।
विज्ञेयं श्रीधरं देवं श्रीप्रदं गृहिणां सदा ।। ६४ ।।
स्थूलं च वर्तुलाकारं रहितं वनमालया ।।
द्विचकं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ।। ६५ ।।
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् ।।
रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ।। ६६ ।।
मध्यमं सप्तचक्रं च छत्रतूणसमन्वितम् ।।
राजराजेश्वरं ज्ञेयं राजसम्पत्प्रदं नृणाम् ।। ६७ ।।
द्विसप्तचक्रं स्थूलं च नवीनजलदप्रभम् ।।
अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम् ।। ६८ ।।
चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् ।।
सगोष्पदं मध्यमं च विज्ञेयं मधुसूद नम्।।६९।।
सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् ।।
द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्त्तितम्।।2.21.७०।।
अतीव विस्तृतास्यं च द्विचक्रं विकटं सति ।।
नरसिंहाभिधं ज्ञेयं सद्यो वैराग्यदं नृणाम् ।। ७१ ।।
द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् ।।
लक्ष्मीनृसिंहं विज्ञेयं गृहिणां सुखदं सदा ।। ७२ ।।
द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् ।।
वासुदेवं च विज्ञेयं सर्वकामफलप्रदम् ।। ७३ ।।
प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् ।।
सुषिरे च्छिद्रबहुलं गृहिणां च सुखप्रदम् ।। ७४ ।।
द्वे चक्रे चैकलग्ने च पृष्ठे यत्र तु पुष्कलम् ।।
संकर्षणं तु विज्ञेयं सुखदं गृहिणां सदा ।। ७५ ।।
अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् ।।
सुखप्रदं गृहस्थानां प्रवदन्ति मनी षिणः ।। ७६ ।।
शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।।
तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता।।७७।।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।।
तानि सर्वाणि नश्यंति शालग्रामशिलार्च्चनात् ।। ७८ ।।
छत्राकारं भवेद्राज्यं वर्तुले च महाश्रियः ।।
दुःखं च शकटाकारे शूलाग्रे मरणं धुवम् ।। ७९ ।।
विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च ।।
लग्नचक्रे भवेद्व्याधिर्विदीर्णे मरणं धुवम् ।। 2.21.८० ।।
व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम् ।।
शालग्रामशिलायाश्चैवाधिष्ठानात्प्रशस्तकम् ।। ८१ ।।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।।
शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् ।। ८२ ।।
सर्वदानेषु यत्पुण्यं प्रादक्षिण्ये भुवो यथा ।।
सर्वयज्ञेषु तीर्थेषु व्रतेष्वनशनेषु च ।। ८३ ।।
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च ।।
जीवन्मुक्तो महापूतो भवेदेव न संशयः ।।८४।।
पाठे चतुर्णां वेदानां तपसां करणे सति ।।
तत्पुण्यं लभते नृनं शालग्रामशिलार्चनात् ।। ८५ ।।
शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः ।।
सुरेप्सितं प्रसादं च जन्ममृत्युजराहरम् ।।८६।।
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखि लानि च ।।
जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम् ।। ८७ ।।
तत्रैव हरिणा सार्द्धमसंख्यं प्राकृतं लयम् ।।
पश्यत्येव हि दास्ये च निर्मुक्तो दास्यकर्मणि ।। ८८ ।।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।।
तं च दृष्ट्वा भिया यान्ति वैनतेयमिवो रगाः ।। ८९ ।।
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा ।।
पुंसां लक्षं तत्पितॄणां निस्तारस्तस्य जन्मनः ।। 2.21.९० ।।
शालग्रामशिला तोयं मृत्युकाल च यो लभेत् ।।
सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ।। ९१ ।।
निर्वाणमुक्तिं लभते कर्मभोगाद्विमुच्यते ।।
विष्णुपादे प्रलीनश्च भविष्यति न संशयः ।।९२।।
शालग्रामशिलां धृत्वा मिथ्यावादं वदेत्तु यः।।
स याति कूर्मदंष्ट्रं च यावद्वै ब्रह्मणो वयः ।। ९३ ।।
शालग्रामशिलां स्पृष्ट्वा स्वीकारं यो न पालयेत् ।।
स प्रयात्यसिपत्रं च लक्षमन्वन्तराधिकम् ।। ९४ ।।
तुलसीपत्र विच्छेदं शालग्रामे करोति यः ।।
तस्य जन्मान्तरे काले स्त्रीविच्छेदो भविष्यति ।। ९५ ।।
तुलसीपत्रविच्छेदं शंखे यो हि करोति च ।।
भार्य्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु ।। ९६ ।।
शालग्रामं च तुलसीं शंखमेकत्र एव च ।।
यो रक्षति महाज्ञानी स भवे च्छ्रीहरिप्रियः ।। ९७ ।।
सकृदेव हि यो यस्यां वीर्य्याधानं करोति यः ।।
तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम् ।। ९८ ।।
त्वं प्रिया शंखचूडस्य चैकमन्वन्तरावधि ।।
शंखेन सार्द्ध त्वद्भेदः केवलं दुःखदस्तव ।।९९।।
इत्युक्त्वा श्रीहरिस्तां च विरराम च सादरम् ।।
स च देहं परित्यज्य दिव्यरूपं दधार ह ।। 2.21.१०० ।।
यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि ।।
प्रजगाम तया सार्द्धं वैकुण्ठं कमला पतिः ।। १०१ ।।
लक्ष्मीः सरस्वती गङ्गा तुलसी चापि नारद ।।
हरेः प्रियाश्चतस्रश्च वभूवुरीश्वरस्य च ।। १०२ ।।
सद्यस्तद्देहजाता च बभूव गण्डकी नदी ।।
हरेरंशेन शैलश्च तत्तीरे पुण्यदो नृणाम् ।। १०३ ।।
कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने ।।
जले पतन्ति या याश्च जलदाभाश्च निश्चितम् ।। १०४ ।।
स्थलस्थाः पिङ्गला ज्ञेयाश्चोपतापाद्धरेरिति ।।
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।। १०५ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारायणनारदसंवादे तुलस्युपाख्यानं एकविंशो ऽध्यायः ।। २१ ।।