ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०८९

विकिस्रोतः तः
← अध्यायः ८८ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ८९
[[लेखकः :|]]
अध्यायः ९० →

अथ नवाशीतितमोऽध्यायः
श्रीकृष्ण उवाच
गच्छ गच्छ गृहं गच्छ व्रजराज व्रजं व्रज ।
सर्वं तत्त्वं त्वया ज्ञातं दृष्टाश्च मुनयः सुराः ।। १ ।।

श्रुतं मे धन्यमाख्यानं नानाख्यानं सुदुर्लभम् ।
दुर्गायाः स्तोत्रराजं च जन्मपाशनिकृन्तनम् ।। २ ।।

स्थितं तते निगदितं हर्षेण च सुखेन च ।
मत्कृतं बालभावेन चापराद्धं च तत्क्षणम् ।। ३ ।।

यत्सुखं न कृतं तात पित्रोश्च नृपमन्दिरे ।
कृतं सुखं तत्परं च स्वर्गादपि सुदुर्लभम् ।। ४ ।।

मदीयं प्रियवाक्यं च प्रह्वत्वं विनयं नयम् ।
परिहासं बहतरं यशोदां गोपिकागणम् ।। ५ ।।

बालकानां समूहं च राधां चापि विशेषतः ।
एकत्र च स्थितं तेषु बन्धुवर्गेषु कर्मणा ।। ६ ।।

इहैवापि सुखं भुक्त्वा गच्छ गोलोकमुत्तमम् ।
सार्ध यशोदया तात रोहिण्या गोपिकागणैः ।। ७ ।।

गोपानां बालकैः सार्धं वृषभानेन गोपकैः ।
राधामात्रा कलावत्या राधया सह यास्यसि ।। ८ ।।

रथानां शतलक्षं च गोलोकादागतं पितः ।
अमूल्यरत्ननिर्माणं हीरहारपरिष्कृतम् ।। ९ ।।

मणिमाणिक्यमुक्तानां मालाजालविभूषितम् ।
वह्निशुद्धांशुकै रम्यैराच्छन्नं पीतवर्णकैः ।। १० ।।

पार्षदप्रवरै रम्यैर्वेष्टितं श्वेतचामरैः ।
सद्रत्नदर्पणै रम्यैर्गोपिकाभिश्च गोपकैः ।। ११ ।।

वेष्टितं च तदारुह्य कौतुकाद्यास्यसि ध्रुवम् ।
त्यक्त्वा च पार्थिवं देहं दिव्यदेहं विधाय च ।। १२ ।।

अयोनिसंभवा राधा राधामाता कलावती ।
यास्यत्येव हि तेनैव नित्यदेहेन निश्चितम् ।। १३ ।।

पितृणां मानसी कन्या धन्या मान्या कलावती ।
धन्या च सीतामाता च दुर्गामाता च मेनका ।। १४ ।।

अयोनिसंभवा दुर्गा तारा सीता च सुन्दरी ।
अयोनिसंभवास्ताश्च धन्या मेना कलावती ।। १५ ।।

इत्येव कथितं तात गोपनीयं सुदुर्लभम् ।
वरोऽयं तत्तस्तुभ्यं च मया च दुर्गया तथा ।। १६ ।।

श्रीकृष्णस्य वचः श्रुत्वा प्रत्युवाच व्रजेश्वरः ।
पुनरेव जगन्नाथं त द्भक्तो भक्तवात्सलम् ।। १७ ।।

नन्द उवाच
युगानां च चतुर्णां च यं यं धर्म सनातनम् ।
क्रमेण कृष्ण विस्तीर्णं कृत्वा मां कथय प्रभो ।। १८ ।।

कलिशेषे भवेद्यद्यद्गुणदोषं कलेस्तथा ।
का गतिर्वा पृथिव्याश्च धर्मस्य प्रणिनां तथा ।। १९ ।।

नन्दस्य वचनं श्रुत्वा हृष्टः कमललोचनः ।
कथां कथितुमारेभे विचित्रां मधुरान्विताम् ।। २० ।।

इति श्रीब्रह्मo महाo श्रीकृष्ण जन्मखo उत्तo नारदनाo भगवन्न-
न्दसंo एकोननवतितमोऽध्यायः ।। ८९ ।।