ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ००८

विकिस्रोतः तः
← अध्यायः ००७ श्रीकृष्णजन्मखण्डः
अध्यायः ००८
वेदव्यासः
अध्यायः ००९ →

।। नारद उवाच ।। ।।
जन्माष्टमीव्रतं ब्रूहि व्रतानां व्रतमुत्तमम् ।।
फलं जयंतीयोगस्य सामान्येनैव सांप्रतम् ।। १ ।।
को वा दोषोऽप्यकरणे भोजनो वा महामुने ।।
उपवासफलं किं वा जयंत्यां च सुसंमतम् ।। २ ।।
व्रतं पूजाविधानं च संयमस्य च सांप्रतम् ।।
उपवासपारणयोः सुविचार्य वद प्रभो ।। ३ ।।
।। नारायण उवाच ।। ।।
कृत्वा हविष्यं सप्तम्यां संयतः पारणे तथा ।।
अरुणोदयवेलायां समुत्थाय परेऽहनि ।। ४ ।।
प्रातःकृत्य संविधाय स्नात्वा संकल्पमाचरेत् ।।
व्रतोपवासयोर्ब्रह्मञ्छ्रीकृष्णप्रीतिहेतुकम् ।। ५ ।।
मन्वादिदिवसे प्राप्ते यत्फलं स्नानपूजनैः ।।
फलं भाद्रपदेऽष्टम्यां भवेत्कोटिगुणं द्विज ।। ६ ।।
तस्यां तिथौ वारिमात्रं पितॄणां यः प्रयच्छति ।।
गयाश्राद्धं कृतं तेन शताब्दं नात्र संशयः ।। ७ ।।
स्नात्वा नित्यक्रियां कृत्वा निर्माय सूतिकागृहम् ।।
लोहखंडवह्निजालैर्युक्तं रक्षकसंघकैः।। ।। ८ ।।
तत्र द्रव्यं बहुविधं नाभिच्छेदनकर्तनम् ।।
धात्रीस्वरूपां नारीं च यत्नतः स्थापयेद्बुधः ।। ९ ।।
पूजाद्रव्याणि चारूणि सोपचाराणि षोडश ।।
फलान्यष्टौ च मिष्टानि द्रव्याण्येव हि नारद ।। 4.8.१० ।।
जातीफलं च कंकोलं दाडिमं श्रीफलं तथा ।।
नारिकेरं च जंबीरं कूष्मांडं च सुवाससम् ।। ११ ।।
आसनं वसनं पाद्यं मधुपर्कं तथैव च ।।
अर्घ्यमाचनीयं च स्नानीयं शयनं तथा ।।१२ ।।
गंधं पुष्पं च नैवेद्यं तांबूलमनुलेपनम् ।।
धूपदीपौ भूषणं वै चोपचारांश्च षोडश ।। १३ ।।
पादप्रक्षालनं कृत्वा धृत्वा धौते च वाससी ।।
आचम्य चासने स्थित्वा स्वस्तिवाचनपूर्वकम् ।। १४ ।।
घटस्यारोपणं कृत्वा संपूज्य पंच देवताः ।।
घटे ह्यावाहनं कृत्वा श्रीकृष्णं परमेश्वरम् ।। १५ ।।
वसुदेवं देवकीं च यशोदां नंदमेव च ।।
रोहिणीं बलदेवं च षष्ठीदेवीं वसुंधराम् ।। १६ ।।
रोहिणीं ब्राह्मणीं चैव अष्टमीं स्थानदेवताम् ।।
अश्वत्थाम्ना सह बलिं हनुमंतं विभीषणम् ।। १७ ।।
कृपं परशुरामं च वेदव्यासं मृकंडकम् ।।
सर्वस्यावाहनं कृत्वा ध्यानं कुर्याद्धरेस्तदा ।। १६ ।।
पुष्पकं मस्तके न्यस्य पुनर्ध्यायेद्विचक्षणः ।।
ध्यानं च सामवेदोक्तं शृणु वक्ष्यामि नारद ।। १९ ।।
ब्रह्मणा कथितं पूर्वं कुमाराय महात्मने ।। 4.8.२० ।।
बालं नीलांबुजाभमतिशयरुचिरं स्मेरवक्त्रांबुजं तं
ब्रह्मेशानंतधर्मैः कतिकतिदिवसैः स्तूयमानं परं यत् ।।
ध्यानासाध्यमृषीन्द्रैर्मुनिगणमनुजैः सिद्धसंघैरसाध्यं
योगींद्राणामचिंत्यमतिशयमतुलं साक्षिरूपं भजेऽहम् ।। २१ ।।
ध्यात्वा पुष्पं च दत्त्वा च तत्सर्वं च निवेदयेत् ।।
एवं व्रती व्रतं कुर्याच्छृणु मंत्रक्रमं मुने ।। २२ ।।
आसनं सर्वशोभाढ्यं सद्रत्नमणिनिर्मितम्।।
विचित्रं च विचित्रेण गृह्यतां शोभनं हरे ।। २३ ।।
वसनं वह्निशौचं च निर्मितं विश्वकर्मणा ।।
प्रतप्तस्वर्णखचितं चित्रितं गृह्यतां हरे ।। २४ ।।
पादप्रक्षालनार्थं च स्वर्णपात्रस्थितं जलम् ।।
पवित्रं निर्मलं चारु पाद्यं च गृह्यतां हरे ।। २५ ।।
मधुसर्पिर्दधिक्षीरं शर्करासंयुतं परम् ।।
स्वर्णपात्रस्थितं देयं स्नानार्थं गृह्यतां हरे ।। २६ ।।
दूर्वाक्षतं शुक्लपुष्पं स्वच्छतोयसमन्वितम् ।।
चंदनागुरुकस्तूरीसहितं गृह्यतां हरे ।। २७ ।।
सुस्वादु स्वच्छतोयं च वासितं गंधवस्तुना ।।
शुद्धमाचमनीयं च गृह्यतां परमेश्वर ।। २८ ।।
गंधद्रव्यसमायुक्तं विष्णो तैलं सुवासितम् ।।
आमलक्या द्रवं चैव स्नानीयं गृह्यतां हरे ।। २९ ।।
सद्रत्नमणिसारेण रचितां सुमनोहराम् ।।
छादितां सूक्ष्मवस्त्रेण शय्यां च गृह्यतां हरे ।। 4.8.३० ।।
चूर्णं च वृक्षभेदानां मूलानां द्रवसंयुतम् ।।
कस्तूरीद्रवसंयुक्तं गन्धं च गृह्यतां हरे ।। ३१ ।।
पुष्पं सुगंधियुक्तं च संयुक्तं कुंकुमेन च ।।
सुप्रियं सर्वदेवानां सांप्रतं गृह्यतां हरे ।। ३२ ।।
गृह्यतां स्वस्तिकोक्तं च मिष्टद्रव्यसमन्वितम् ।।
सुपक्वफलसंयुक्तं नैवेद्यं गृह्यतां हरे ।। ३३ ।।
लड्डुकं मोदकं चैव सर्पिः क्षीरं गुडं मधु ।।
नवोद्धृतं दधि तक्रं नैवेद्यं गृह्यतां हरे ।। ३४ ।।
शीतलं शर्करायुक्तं क्षीरस्वादुसुपक्वकम् ।।
तांबूलं भोगसारं च कर्पूरादिसमन्वितम् ।। ३५ ।।
भक्त्या निवेदितमिदं गृह्यतां परमेश्वर ।।
चन्दनागुरु कस्तूरीकुंकुमद्रवसंयुतम् ।। ३६ ।।
अबीरचूर्णं रुचिरं गृह्यतां परमेश्वर ।।
तरुभेदरसोत्कर्षो गंधयुक्तोऽग्निना सह ।। ३७ ।।
सुप्रियः सर्वदेवानां धूपोऽयं गृह्यतां हरे ।।
घोरांधकारनाशैकहेतुरेव शुभावहः ।। ३८ ।।
सुप्रदीपो दीप्तिकरो दीपोऽयं गृह्यतां हरे ।।
पवित्रं निर्मलं तोयं कर्पूरादिसमायुतम् ।। ३९ ।।
जीवनं सर्वबीजानां पानार्थं गृह्यतां हरे ।।
नानापुष्पसमायुक्तं ग्रथितं सूक्ष्मतंतुना ।। 4.8.४० ।।
शरीरभूषणवरं माल्यं च प्रतिगृह्यताम् ।।
दत्त्वा देयानि द्रव्याणि पूजोपयोगितानि च ।। ४१ ।।
व्रतस्थानस्थितं द्रव्यं हरये देयमेव च ।।
फलानि तरुबीजानि स्वादूनि सुंदराणि च ।। ४२ ।।
वंशवृद्धिकराण्येव गृह्यतां परमेश्वर ।।
आवाहितांश्च देवांश्च प्रत्येकं पूजयेद्व्रती ।। ४३ ।।
तान्पूज्य भक्तिभावेन दद्यात्पुष्पांजलित्रयम् ।।
सुनंदनंदकुमुदान्गोपान्गोपीश्च राधिकाम् ।। ४४ ।।
गणेशं कार्त्तिकेयं च ब्रह्माणं च शिवं शिवाम् ।।
लक्ष्मीं सरस्वतीं चैव दिक्पालांश्च ग्रहांस्तथा ।। ४५ ।।
शेषं सुदर्शनं चैव पार्षदप्रवरांस्तथा।।
सम्पूज्य सर्वदेवांश्च प्रणम्य दंडवद्भुवि ।।
ब्राह्मणेभ्यश्च नैवेद्यं दत्त्वा दद्याच्च दक्षिणाम् ।। ४६ ।।
कथां च जन्माध्यायोक्तां शृणुयाद्भक्ति भावतः ।।
तदा कुशासने स्थित्वा कुर्याज्जागरणं व्रती ।। ४७ ।।
प्रभाते चाह्निकं कृत्वा संपूज्य श्रीहरिं मुदा ।।
ब्राह्मणान्भोजयित्वा च कारयेद्धरिकीर्तनम् ।। ४८ ।।
।। नारद उवाच ।। ।।
व्रतकालव्यवस्थां च वेदोक्तां सर्वसंमताम् ।।
वेदार्थं च समालोच्य संहितां च पुरातनीम् ।।४९।।
उपवासे जागरणे व्रते किं वा फलं मुने ।।
किं वा पापं तत्र भुक्त्वा वद वेदविदां वर ।।4.8.५० ।।
।। श्रीनारायण उवाच ।। ।।
अष्टमी कर्क्षसंयुक्ता रात्र्यर्थे यदि दृश्यते ।।
स एव मुख्यकालश्च तत्र जातः स्वयं हरिः ।। ५१ ।।
जयं पुण्यं च कुरुते जयंती तेन संस्मृता ।।
तत्रोपोष्य व्रतं कृत्वा कुर्याज्जागरणं बुधः ।। ५२ ।।
सर्वापवादः कालोऽयं प्रधानः सर्वसंमतः ।।
इति वेदविदां वाणी चेत्युक्ता वेधसा पुरा ।। ५३ ।।
तत्र जागरणं कृत्वा यश्चोपोष्य व्रतं चरेत् ।।
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।। ५४ ।।
वर्जनीया प्रयत्नेन सप्तमीसहिताष्टमी ।।
सा सर्क्षापि न कर्तव्या सप्तमीसहिताष्टमी ।।
अविद्धायां कऋक्षायां जातो देवकिनंदनः ।। ५५ ।।
वेदवेदांगगुप्तेतिविशिष्टं मंगलक्षणे ।।
व्यतीते रोहिणीऋक्षे व्रती कुर्याच्च पारणाम् ।। ५६ ।।
तिथ्यंते च हरिं स्मृत्वा कृत्वा देवार्चनं व्रती। ।।
पारणं पावनं पुंसां सर्वपापप्रणाशनम् ।। ५७ ।।
उपवासांगभूतं च फलदं सिद्धिकारणम् ।।
सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते ।। ५८ ।।
अन्यथा फलहानिः स्यात्कृते धारणपारणे।।
न रात्रौ पारणं कुर्यादृते वै रोहिणीव्रतात् ।।५९।।
निशायां पारणं कुर्याद्वर्जयित्वा महानिशाम् ।।
पूर्वाह्णे पारणं शस्तं कृत्वा विप्रसुरार्चनम् ।। 4.8.६० ।।
सर्वेषां संमतं कुर्यादृते वै रोहिणी व्रतम् ।।
बुधसोमसमायुक्ता जयंती यदि लभ्यते ।।६१।।
न कुर्याद्गर्भवासं च तत्र कृत्वा व्रतं व्रती ।।
उदये चाष्टमी किंचिन्नवमी सकला यदि ।। ६२ ।।
भवेद्बुधेंदुसंयुक्ता प्राजापत्यर्क्षसंयुता ।।
अपिवर्षशतेनापि लभ्यते वा न लभ्यते ।। ६३ ।।
व्रतं तत्र व्रती कुर्यात्पुंसां कोटिं समुद्धरेत् ।।
नृणां विना व्रतेनापि भक्तानां हीनसंपदाम् ।। ६४ ।।
कृतेनैवोपवासेन प्रीतो भवति माधवः ।।
भक्त्या नानोपचारेण रात्रौ जागरणेन च ।। ६५ ।।
फलं ददाति दैत्यारिर्जयन्तीव्रतसंभवम् ।।
वित्तशाठ्यमकुर्वाणः सम्यक्फलमवाप्नुयात् ।।६६।।
कुर्वाणो वित्तशाठ्यं च लभते सदृशं फलम् ।।
अष्टम्यामथ रोहिण्यां न कुर्यात्पारणं बुधः ।। ६७ ।।
हन्यात्पुराकृतं पुण्यं चोपवासार्जितं फलम् ।।
तिथिरष्टगुणं हंति नक्षत्रं च चतुर्गुणम् ।। ६८ ।।
तस्मात्प्रयत्नतः कुर्यात्तिथिभांते च पारणम् ।।
महानिशायां प्राप्तायां तिथिभांतं यदा भवेत् ।। ६९ ।।
तृतीयेऽह्नि मुनिश्रेष्ठ पारणं कुरुते बुधः ।।
षण्मुहूर्ते व्यतीते तु रात्रावेव महानिशा ।। 4.8.७० ।।
लभते ब्रह्महत्यां च तत्र भुक्त्वा च नारद ।।
गोमांसविण्मूत्रसमं तांबूलं च फलं जलम् ।। ७१ ।।
पुंसामभक्ष्यं शुद्धानामोदनस्य च का कथा ।।
त्रियामां रजनी प्राहुस्त्यक्त्वाद्य च चतुष्टयम् ।। ७२ ।।
नाडीनां तदुभे सन्ध्ये दिवसाद्यंतसंज्ञिते ।।
जन्माष्टम्यां च शुद्धायां कृत्वा जागरणं व्रतम् ।। ७५ ।।
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ।।
जन्माष्टम्यां च शुद्धायामुपोष्य केवलं नरः ।। ७४ ।।
अश्वमेधफलं तस्य व्रतं जागरणं विना ।।
यद्बाल्ये यच्च कौमारे यौवने यच्च वार्धके ।। ७५ ।।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।।
श्रीकृष्णजन्मदिवसे यश्च भुक्तं नराधमः ।। ७६ ।।
स भवेन्मातृगामी च ब्रह्महत्याशतं लभेत् ।।
कोटिजन्मार्जितं पुण्यं तस्य नश्यति निश्चितम् ।। ७७ ।।
अनर्हश्चाशुचिः शश्वद्दैवे पित्र्ये च कर्मणि ।।
अन्ते वसेत्कालसूत्रे यावच्चंद्रदिवाकरौ ।। ७८ ।।
कृमिभिः शूलतुल्यैश्च तीक्ष्णदंष्ट्रैश्च भक्षितः ।।
पापी ततः समुत्थाय भारते जन्म चेल्लभेत् ।। ७९ ।।
षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् ।।
गृध्रकोटिसहस्राणि शतजन्मानि सूकरः ।। 4.8.८० ।।
श्वापदः शतजन्मानि सृगालः सप्त जन्म च ।।
सप्तजन्मसु सर्पश्च काकश्च सप्तजन्मसु ।। ८१ ।।
ततो भवेन्नरो मूको गलत्कुष्ठी सदातुरः ।।
ततो भवेत्पशुघ्नश्च व्यालग्राही ततो भवेत् ।। ८२ ।।
तदंते च भवेद्दस्युर्धर्महीनश्च गृध्रकः ।।
ततो भेवत्स रजकस्तैलकारस्ततो भवेत् ।। ८३ ।।
ततो भवेद्देवलको ब्राह्मणश्च सदाऽशुचिः ।।
उपवासासमर्थश्चेदेकं विप्रं च भोजयेत् ।। ८४ ।।
तावद्धनानि वा दद्याद्यद्भुक्तं द्विगुणं भवेत् ।।
सहस्रसंमितां देवीं जपेद्वा प्राणसंयमान् ।। ।। ८५ ।।
कुर्याद्द्वादशसंख्याकान्यथार्थं तद्व्रते नरः ।।
इत्येवं कथितं वत्स श्रुतं यद्धर्मवक्त्रतः ।।
व्रतोपवासपूजानां विधानमकृते च यत् ।। ८६ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे नारायणनारदसंवादे श्रीकृष्णजन्मखण्डे कृष्णजन्माष्टमीव्रतपूजोपवासनिरूपणं नामा ष्टमोऽध्यायः ।। ८ ।।