ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ३०

विकिस्रोतः तः
← अध्यायः २९ ब्रह्मवैवर्तपुराणम्
अध्यायः ३०
वेदव्यासः

श्रीनारायण उवाच ।।
लम्बोदरो हरिरुमापतिरीशशेषा ब्रह्मादयः सुरगणा मनवो मुनीन्द्राः ।।
वाणीशिवात्रिपथगा कमलादिकाश्च संचिन्तयेद्भगवतश्चरणारविन्दम् ।। १ ।।
संसारसागरमतीव गभीरघोरं दावाग्निसर्पपरिवेष्टितचेष्टिताङ्गम् ।।
संलंघ्य गन्तुमभिवाञ्छति यो हि दास्यं संचिन्तयेद्भगवतश्चरणारविन्दम् ।। २ ।।
गोवर्द्धनोद्धरणकीर्त्तिरतीव खिन्ना भूर्धारिता च दशनाग्रत एव चार्द्रा ।।
विश्वानि लोमविवरेषु बिभर्तुरादेः संचिन्तयेद्भगवतश्चरणारविन्दम् ।। ३ ।।
वेदाङ्गवेदमुखनिःसृतकीर्त्तिरंशैर्वेदाङ्गवेदजनकस्य हरेर्विधातुः।।
जन्मान्तकादिभयशोकविदीर्णदेहः संचिन्तयेद्भगवतश्चरणारविन्दम् ।।४।।
गोपाङ्गनावदनपङ्कजषट्पदस्य रासेश्वरस्य रसिकारमणस्य पुंसः।।
वृन्दावने विहरतो व्रजवेषविष्णोः संचिन्तयेद्भगवतश्चरणारविन्दम्।।५।।
चक्षुर्निमेषपतितो जगतां विधाता तत्कर्म वत्स कथितुं भुवि कः समर्थः।।
त्वं चापि नारद मुने परमादरेण संचिन्तनं कुरु हरेश्चरणारविन्दम् ।।६ ।।
यूयं वयं तस्य कलाकलांशाः कलाकलांशा मनवो मुनीन्द्राः ।।
कलाविशेषा भवपारमुख्या महान्विराड् यस्य कलाविशेषः ।। ७ ।।
सहस्रशीर्षा शिरसः प्रदेशे बिभर्त्ति सिद्धार्थसमं च विश्वम् ।।
कूर्मे च शेषो मशको गजे यथा कूर्मश्च कृष्णस्य कलाकलांशः ।। ८ ।।
गोलोकनाथस्य विभोर्यशोऽमलं श्रुतौ पुराणे नहि किंचन स्फुटम् ।।
न पाद्ममुख्याः कथितुं समर्थाः सर्वेश्वरं तं भज पाद्ममुख्यम् ।। ९ ।।
विश्वेषु सर्वेषु च विश्वधाम्नः सन्त्येव शश्वद्विधिविष्णुरुद्राः ।।
तेषां च संख्याः श्रुतयश्च देवाः परं न जानन्ति तमीश्वरं भज ।।1.30.१०।।
करोति सृष्टिं स विधेर्विधाता विधाय नित्यां प्रकृतिं जगत्प्रसूम् ।।
ब्रह्मादयः प्राकृतिकाश्च सर्वे भक्तिप्रदां श्रीप्रकृतिं भजन्ति।। ११ ।।
ब्रह्मस्वरूपा प्रकृतिर्न भिन्ना यया च सृष्टिं कुरुते सनातनः ।।
श्रियश्च सर्वाः कलया जगत्सु माया च सर्वे च तया विमोहिताः।।१२।।
नारायणी सा परमा सनातनी शक्तिश्च पुंसः परमात्मनश्च ।।
आत्मेश्वरश्चापि यया च शक्तिमांस्तया विना स्रष्टुमशक्त एव ।। १३ ।।
गत्वा विवाहं कुरु वत्स साम्प्रतं कर्तुं प्रयुक्तश्च पितुर्निदेशः।।
गुरोर्निदेशप्रतिपालको भवेः सर्वत्र पूज्यो विजयी च सन्ततम्।।१४।।
स्वपत्नीं पूजयेद्यो हि वस्त्रालङ्कारचन्दनैः।।
प्रकृतिस्तस्य सन्तुष्टा यथा कृष्णो द्विजार्च्चने।।१५।।
सा च योषित्स्वरूपा च प्रतिविश्वेषु मायया ।।
योषितामपमानेन पराभूता च सा भवेत् ।। १६ ।।
दिव्या स्त्री पूजिता येन पतिपुत्रवती सती ।।
प्रकृतिः पूजिता तेन सर्वमङ्गलदायिनी।।१७।।
मूलप्रकृतिरेका सा पूर्णब्रह्मस्वरूपिणी ।।
सृष्टौ पञ्चविधा सा च विष्णुमाया सनातनी ।। १८ ।।
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः ।।
सर्वासां प्रेयसी कान्ता सा राधा परिकीर्तिता ।। १९ ।।
नारायणप्रिया लक्ष्मीः सर्वसम्पत्स्वरूपिणी ।।
रागाधिष्ठातृदेवी या सा च पूज्या सरस्वती ।। 1.30.२० ।।
सावित्री वेदमाता च पूज्यरूपा विधेः प्रिया ।।
शङ्करस्य प्रिया दुर्गा यस्याः पुत्रो गणेश्वरः ।। २१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे भगवत्स्तुतितत्स्वरूपवर्णनं नाम त्रिंशत्तमो ऽध्यायः ।। ३० ।।

।। इति श्रीब्रह्मवैवर्ते महापुराणे प्रथमं ब्रह्मखण्डं सम्पूर्णम् ।।