ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०१

विकिस्रोतः तः
ब्रह्मवैवर्तपुराणम्
अध्यायः ०१
वेदव्यासः
अध्यायः ०२ →

श्रीगणेशाय नमः ।।
।। अथ ब्रह्मवैवर्ते ब्रह्मखण्डम् ।।
गणेशब्रह्मशसुरेशशेषाः सुराश्च सर्वे मनवो मुनीन्द्राः ।।
सरस्वतीश्रीगिरिजादिकाश्च यं नमन्ति देव्यः प्रणमामि तं विभुम।।१।।
स्थूलास्तनूर्विदधतं त्रिगुणं विराजं विश्वानि लोमविवरेषु महान्तमाद्यम्।।
सृष्ट्युन्मुखः स्वकलयाऽपि ससर्ज सूक्ष्मं नित्यं समेत्य हृदि यस्तमजं भजामि।।२।।
ध्यायन्ते ध्याननिष्ठाः सुरनरमनवो योगिनो योगरूढाः सन्तः स्वप्नेऽपि सन्तं कतिकतिजनिभिर्यं न पश्यन्ति तप्त्वा ।।
ध्याये स्वेच्छामयं तं त्रिगुणपरमहो निर्विकारं निरीहं भक्त्या ध्यानैकहेतोर्निरुपमरुचिरश्यामरूपं दधानम् ।। ३ ।।
वन्दे कृष्णं गुणातीतं परं ब्रह्माच्युतं यतः ।।
आविर्बभूवुः प्रकृतिब्रह्मविष्णुशिवादयः ।।४।।
ॐ नमो भगवते वासु देवाय ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। १ ।।
अमृतपरमपूर्वं भारतीकामधेनुं श्रुतिगणकृतवत्सो व्यासदेवो दुदोह ।।
अतिरुचिरपुराणं ब्रह्मवैवर्त्तमेतत्पिबत पिबत मुग्धा दुग्धमक्षय्यमिष्टम्।।२।।
भारते नैमिषारण्ये ऋषयः शौनकादयः ।।
नित्यां नैमित्तिकीं कृत्वा क्रियामूषुः कुशासने ।। १ ।।
एतस्मिन्नन्तरे सौतिमागच्छन्तं यदृच्छया ।।
प्रणतं सुविनीतं तं विलोक्य ददुरासनम् ।। २।।
तं सम्पूज्यातिथिं भक्त्या शौनको मुनिपुङ्गवः।।
पप्रच्छ कुशलं शांतं शान्तः पौराणिकं मुदा ।। ३ ।।
वर्त्मायासविनिर्मुक्तं वसन्तं सुस्थिरासने ।।
सस्मितं सर्वतत्त्वज्ञं पुराणानां पुराणवित् ।। ४ ।।
परं कृष्णकथोपेतं पुराणं श्रुति संमतम्।।
मङ्गलं मङ्गलार्हं च मङ्गल्यं मङ्गलालयम् ।। ५ ।।
सर्वमङ्गलबीजं च सर्वदा मङ्गलप्रदम् ।।
सर्वामङ्गलनिघ्नं च सर्वसंपत्करं परम् ।। ६ ।।
हरिभक्तिप्रदं शश्वत्सुखदं मोक्षदं भवात् ।।
तत्त्वज्ञानप्रदं दारपुत्रपौत्रविवर्द्धनम् ।। ७ ।।
पप्रच्छ सुविनीतं च सुप्रीतो मुनिसंसदि ।।
यथाऽऽकाशे तारकाणां द्विजराजो विराजते ।। ८ ।।
।। शौनक उवाच ।। ।।
प्रस्थानं भवतः कुत्र कुत आयासि ते शिवम् ।।
किमस्माकं पुण्यदिनमद्य त्वद्दर्शनेन च ।। ९ ।।
वयमेव कलौ भीता विशिष्टज्ञानवर्जिताः ।।
मुमुक्षवो भवे मग्नास्तद्धेतुस्त्वमिहागतः ।। 1.1.१० ।।
भवान्साधुर्महाभागः पुराणेषु पुराणवित् ।।
सर्वेषु च पुराणेषु निष्णातोऽतिकृपानिधिः ।। ११ ।।
श्रीकृष्णे निश्चला भक्तिर्यतो भवति शाश्वती ।।
तत्कथ्यतां महाभाग पुराणं ज्ञानवर्द्धनम् ।। १२ ।।
गरीयसी या साक्षाच्च कर्ममूलनिकृन्तनी ।।
संसारसन्निबद्धानां निगडच्छेदकर्तरी ।। १३ ।।
भवदावाग्निदग्धानां पीयूष वृष्टिवर्षिणी ।।
सुखदाऽऽनन्ददा सौते शश्वच्चेतसि जीविनाम् ।। १४ ।।
यत्रादौ सर्वबीजं च परं ब्रह्मनिरूपणम् ।।
तस्य सृष्ट्युन्मुखस्यापि सृष्टेरुत्कीर्त्तनं परम्।। १५ ।।
साकारं वा निराकारं परमात्मस्वरूपकम् ।।
किमाकारञ्च तद्ब्रह्म तद्ध्यानं किञ्च भावनम् ।। १६ ।।
ध्यायन्ते वैष्णवाः किंवा शान्ताश्च योगिनस्तथा ।।
मतं प्रधानं केषां वा गूढं वेदे निरूपितम् ।। १७ ।।
प्रकृतेश्च य आकारो यत्र वत्सनिरूपितः ।।
गुणानां लक्षणं यत्र महदादेश्च निश्चयः ।। १८ ।।
गोलोकवर्णनं यत्र यत्र वैकुण्ठवर्णनम् ।।
वर्णनं शिवलोकस्य यत्रान्यत् स्वर्गवर्णनम् ।। १९ ।।
अंशानां च कलानां च यत्र सौते निरूपणम् ।।
के प्राकृताः का प्रकृतिः क आत्मा प्रकृतेः परः ।। 1.1.२० ।।
निगूढं जन्म येषां वा देवानां देवयोषिताम् ।।
समुत्पत्तिः समुद्राणां शैलानां सरितामपि ।। २१ ।।
के वांऽशाः प्रकृतेश्चापि कलाः का वा कलाकलाः ।।
तासाञ्च चरितं ध्यानं पूजास्तोत्रादिकं शुभम् ।। २२ ।।
दुर्गा सरस्वती लक्ष्मी सावित्रीणाञ्च वर्णनम् ।।
यत्रैव राधिकाख्यानमत्यपूर्वं सुधोपमम् ।। २३ ।।
जीवकर्मविपाकश्च नरकाणाञ्च वर्णनम् ।।
कर्मणां खण्डनं यत्र यत्र तेभ्यो विमोक्षणम् ।। २४ ।।
येषाञ्च जीविनां यद्यत्स्थानं यत्र शुभाशुभम्।।
जीविनां कर्मणो यस्माद्यासु यासु च योनिषु।। २५ ।।
जीविनां कर्मणो यस्माद्योयो रोगो भवेदिह ।।
मोक्षणं कर्मणो यस्मात्तेषाञ्च तन्निरूपय ।। २६ ।।
मनसा तुलसी काली गङ्गा पृध्वी वसुन्धरा ।।
आसां यत्र शुभाख्यानमन्यासामपि यत्र वै ।। २७ ।।
शालिग्रामशिलानाञ्च दानानाञ्च निरूपणम् ।।
अपूर्वं यत्र वा सौते धर्माधर्मनिरूपणम् ।। २८ ।।
गणेश्वरस्य चरितं यत्र तज्जन्म कर्म च ।।
कवचस्तोत्रमन्त्राणां गूढानां यत्र वर्णनम् ।। २९ ।।
यदपूर्वमुपाख्यानमश्रुतं परमाद्भुतम् ।।
कृत्वा मनसि तत्सर्वं साम्प्रतं वक्तुमर्हसि ।। 1.1.३० ।।
यत्र जन्म भ्रमो विश्वे पुण्यक्षेत्रे च भारते ।।
परिपूर्णतमस्यापि कृष्णस्य परमात्मनः ।। ३१ ।।
जन्म कस्य गृहे लब्धं पुण्ये पुण्यवतो मुने ।।
सुतं प्रसूता का धन्या मान्या पुण्यवती सती ।। ३२ ।।
आविर्भूय च तद्गेहात्क्वागतः केन हेतुना ।।
गत्वा किं कृतवांस्तत्र कथं वा पुनरागतः ।। ३३ ।।
भारावतरणं केन प्रार्थितो गोश्चकार सः ।।
विधाय किंवा सेतुं च गोलोकं गतवान्पुनः ।। ३४ ।।
इतीदमन्यदाख्यानं पुराणं श्रुतिदुर्लभम् ।।
दुर्विज्ञेयं मुनीनां च मनोनिर्मलकारणम् ।। ३५ ।।
स्वज्ञानाद्यन्मया पृष्टमपृष्टं वा शुभाशुभम् ।।
सद्यो वैराग्यजननं तन्मे व्याख्यातुमर्हसि ।। ३६ ।।
शिष्यपृष्टमपृष्टं वा व्याख्यानं कुरुते च यः ।।
स सद्गुरुः सतां श्रेष्ठो योग्यायोग्ये च यः समः ।। ३७ ।।
सौतिरुवाच ।।
सर्वं कुशलमस्माकं त्वत्पादपद्मदर्शनात् ।।
सिद्धक्षेत्रादागतोऽहं यामि नारायणाश्रमम् ।। ३८ ।।
दृष्ट्वा विप्रसमूहं च नमस्कर्तुमिहागतः ।।
द्रष्टुं च नैमिषारण्यं पुण्यदं चापि भारते ।। ३९ ।।
देवं विप्रं गुरुं दृष्ट्वा न नमेद्यस्तु संभ्रमात् ।।
स कालसूत्रं व्रजति यावच्चन्द्रदिवाकरौ ।। 1.1.४० ।।
हरिर्ब्राह्मणरूपेक्षण शश्वद् भ्रमति भूतले ।।
सुकृती प्रणमेत्पुण्याद्ब्राह्मणं हरिरूपिणम् ।। ४१ ।।
भगवन्यत्त्वया पृष्टं ज्ञातं सर्वमभीप्सितम् ।।
सारभूतं पुराणेषु ब्रह्मवैवर्त्तमुत्तमम् ।। ।। ४२ ।।
पुराणोपपुराणानां वेदानां भ्रमभञ्जनम् ।।
हरिभक्तिप्रदं सर्वतत्त्वज्ञानविवर्द्धनम् ।। ४३ ।।
कामिनां कामदं चेदं मुमुक्षूणां च मोक्षदम् ।।
भक्तिप्रदं वैष्णवानां कल्पवृक्षस्वरूपकम् ।। ४४ ।।
ब्रह्मखण्डं सर्वबीजं परब्रह्मनिरूपणम् ।।
ध्यायन्ते योगिनः सन्तो वैष्णवा यत्परात्परम् ।।४५।।
वैष्णवा योगिनः सन्तो न च भिन्नाश्च शौनक ।।
स्वाज्ञानपरिपाकेन भवन्ति जीविनः क्रमात् ।। ।।४६।।
सन्तो भवन्ति सत्सङ्गाद्योगिसंगेन योगिनः ।।
वैष्णवा भक्तसंगेन क्रमात्सद्योगिनः पराः ।।४७।।
यत्रोद्भवश्च देवानां देवीनां सर्वजीविनाम् ।।
ततः प्रकृतिखण्डे च देवीनां चरितं शुभम् ।। ४८ ।।
जीवकर्मविपाकश्च शालिग्रामनिरूपणम् ।।
तासां च कवच स्तोत्रमन्त्रपूजानिरूपणम् ।। ४९ ।।
प्रकृतेर्लक्षणं तत्र कलांशानां निरूपणम् ।।
कीर्त्तेरुत्कीर्तनं तासां प्रभावश्च निरूपितः ।। 1.1.५० ।।
सुकृतीनां दुष्कृतीनां यद्यत्स्थानं शुभाशुभम् ।।
वर्णनं नरकाणां च रोगाणां मोक्षणं ततः ।। ५१ ।।
ततो गणेशखण्डे च तज्जन्म परिकीर्तितम् ।।
अतीवापूर्वचरितं श्रुतिवेदसुदुर्लभम् ।। ५२ ।।
गणेशभृगुसंवादे सर्वतत्त्वनिरूपणम् ।।
निगूढकवचस्तोत्रमन्त्रतन्त्र निरूपणम् ।। ५३ ।।
श्रीकृष्णजन्मखण्डं च कीर्तितं च ततः परम् ।।
भारते पुण्यक्षेत्रे च श्रीकृष्णजन्म कर्म च ।। ५४ ।।
भुवो भारावतरणं क्रीडाकौतुकमङ्गलम् ।।
सतां सेतुविधानं च जन्मखण्डे निरूपितम् ।। ५५ ।।
इदं ते कथितं विप्र पुराणप्रवरं परम् ।।
चतुःखण्डैः परिमितं सर्वधर्मनिरूपणम् ।। ५६ ।।
सर्वेषामीप्सितं श्रीदं सर्वाशापूर्णकारणम् ।।
ब्रह्मवैवर्तकं नाम सर्वाभीष्टफलप्रदम् ।। ५७ ।।
सारभूतं पुराणेषु केवलं वेदसंमितम् ।।
विवृतं ब्रह्मकार्त्स्न्यं च कृष्णेन यत्र शौनक ।। ५८ ।।
ब्रह्मवैवर्तकं तेन प्रवदन्ति पुराविदः ।।
इदं पुराणसूत्रं च पुरा दत्तं च ब्रह्मणे ।। ५९ ।।
निरामये च गोलोके कृष्णेन परमात्मना ।।
महातीर्थे पुष्करे च दत्तं धर्माय ब्रह्मणा ।।1.1.६०।।
धर्मेण दत्तं पुत्राय प्रीत्या नारायणाय च ।।६१।।
नारदो व्यासदेवाय प्रददौ जाह्नवीतटे ।।
व्यासः पुराणसूत्रं तत्संव्यस्य विपुलं महत् ।। ६२ ।।
मह्यं ददौ सिद्धक्षेत्रे पुण्यदेशे मनोहरम् ।।
मयेदं कथितं ब्रह्मंस्तत्समग्रं निशामय ।। ६३ ।।
अष्टादशसहस्रं तु व्यासेनेदं पुराणकम् ।।
पुराणकार्त्स्न्यश्रवणे यत्फलं लभते नरः ।।
तत्फलं लभते नूनमध्यायश्रवणेन च ।। ६४ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डेऽनुक्रमणिका नाम प्रथमोऽध्यायः ।। १ ।।