बौधायनगृह्यसूत्रम्/गृह्यशेषः/प्रश्नः २

विकिस्रोतः तः


BaudhGSS.2.2
अथ द्वितीयप्रश्ने द्वितीयो ऽध्यायः
अथ गर्भाधानं व्याख्यास्यामः पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वाथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति प्रवेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।यतो ऽभयमभयं तन्नो अस्त्वव देवान्यजे हेड्यान्स्वाहा इति ।१।
स्विष्टकृतमवदाय तमन्तःपरिधि सादयित्वाथाज्याहुतीरुपजुहोति ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहा कनिष्ठाय स्वाहा कनिष्ठित्यै स्वाहा प्रतिष्ठाय स्वाहा प्रतिष्ठित्यै स्वाहा दम्पत्यै स्वाहा अयने स्वाहा अयनपतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा इति ।२।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।३।
हविष्यमन्नमभिमन्त्रयते तत्सवितुर्वृणीमहे वयं देवस्य भोजनम्श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि इति ।४।
अपरेणाग्निमुभौ जायापती प्राश्नीयाताम्तस्सवितुर्वरेण्यमिति ।५।
प्राश्याथ आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम्।६।
यं कामं कामयते तं मनसा ध्यायेदिति गर्भाधानं व्याख्यातम्।७।
इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने द्वितीयो ऽध्यायः
BaudhGSS.2.3
अथ द्वितीयप्रश्ने तृतीयो ऽध्यायः
अथ मङ्गलानि आवृतः स्त्रीभ्यः प्रतीयेरन्निन्वकाभिः प्रसृता वरैः प्रतिनन्दिता यां कामयेत दुहितरं प्रिया स्यादिति ।तां निष्ट्यायां दद्यात्।प्रियैव भवति ।नेव तु पुनरागच्छति इति ब्राह्मणावेक्षो विधिः ।१।
इन्वकाशब्दो मृगशीर्षे निष्ट्याशब्दः स्वाताविति ।२।
सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत्।३।
दत्तां गुप्तां द्योतामृषभां विनतां शरभां विकटां मुण्डां मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेत्।४।
नक्षत्रनामाः नदीनामाः वृक्षनामाः पर्वतनामाः प्रेष्यनामाः पक्षिनामाः पिशाचनामाश्च गर्हिताः सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत्।५।
शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयुरुपस्पृशेति नानाबीजानि संसृष्टानि वेद्याः पांसून्क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति पूर्वेषामुपस्वर्शने यथालिङ्गमृद्धिरुत्तमं परिचक्षते ।६।
बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत ।७।
बन्धुशीललक्षणसम्पन्नः श्चुतवानरोग इति वरसम्पत्।८।
यस्यां मनश्चक्षुषोः निबन्धस्तस्यामृद्धिर्नेतरदाद्रियेतेत्येके ।९।
अथ यद्यससम्भवेप्सु स्यात्तां परेषां स्थूलाढारिकाजीवचूर्णानि कारयित्वा सुप्तायां सम्बाध उपवपेतवज्यामिव धन्वनो हृदो मन्युं तनोमि ते ।इन्द्रापास्य पलिगमन्येभ्यः पुरुषेभ्यो ऽन्यत्र मतिति ।१०।
सिद्ध्यर्थे बभ्रुमूत्रेण प्रक्षाऌअयति ।११।
अथ विजननकाले क्षिप्रंसुवनं शिरस्त उदकुम्भं निधाय षत्तस्तूर्यन्तीमथास्या उदरमभिमृशति यथैव वायुः पवते यथा समुद्र एजति ।एवं ते गर्भ एजतु सह जरायुणा ऽपसर्पतु इति ।१२।
अथ यदि जरायुर्न पतेद्दर्भैरेव जठरं संमाष्टि तिल दे ऽवपद्यस्व न मांसमसि नो दलम्।स्थवित्र्यवपद्यस्य स्वप्स्ये इति ।१३।
प्रसिद्धं जातकर्म ।१४।
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने तृतीयो ऽध्यायः
BaudhGSS.2.4
अथ द्वितीयप्रश्ने चतुर्थो ऽध्यायः
अथ प्रजार्थिहोमः ।१।
पूर्वपक्षे पुण्ये नक्षत्रे ऽमावास्यायां विषुवे ऽयने वा नदीतीरे ऽश्वत्थच्छायायां वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वा प्राच्यां दिशि ब्रह्माणं प्रतिष्ठाप्य पार्श्वयोर्धातारं विधातारं दक्षिणतो धातारमुत्तरतो विधातारम्।२।
ततस्तानर्चयेत्पूर्वं ब्रह्माण प्रजापतिं परमेष्ठिनं हिरण्यगर्भमावाहयामि इत्यावाह्य सावित्र्या पाद्यं ददाति सावित्र्या निवेदयेदतैरेव नामधेयैश्शुक्लान्नं ब्रह्मणे मुद्गान्नं धातुः पीतान्न विधातुः ।३।
ततस्सावित्र्या अप आचम्य प्रणवेनाष्टशतं हुत्वा ब्रह्माणमुपतिष्ठते नमो वाचे नमो वाचस्पतये नमो ब्रह्मणे बृहते करोमि इत्येवं नमो धात्रै नमो विधात्रे इति ।४।
अग्निमुपतिष्टेत नमो ऽग्नये सप्तार्चिः सप्त जिह्वाः सप्तधा ऽग्निः प्रतिष्ठितः ।सप्तैव विश्वा भूतानि को ह्यग्निः प्रतितिष्ठति ।तत्त्वमसि विश्वमसि योनिरसि इति ।५।
अथ स्त्रियमाहूय सावित्र्या पलाशपर्णैरष्टोत्तरसहस्रैः स्नापयित्वा पुरुषसूक्तेन जुहुयात्तत्सम्पातेन मूर्ध्नि जुहुयात्प्रणवेन नमस्कुर्यात्।६।
अध्वर्युं वस्त्रकुण्डलाभ्यामलङ्करोति ।७।
ततस्सा गर्भिणी भवतीत्याह भगवान्बोधायनः ।८।
इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने चतुर्थो ऽध्यायः
BaudhGSS.2.5
अथ द्वितीयप्रश्ने पञ्चमो ऽध्यायः
अथ माघमासे शुक्लपक्षस्य सप्तम्यां ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा ऽग्रेणाग्निमादित्यमालिख्य संपरिस्तीर्य षोडशभिरर्कपर्णैरभ्यन्तराग्रैः प्रदक्षिणं मण्डलमास्तीर्य गन्धोदकेनाभ्युक्ष्य पुष्पैरवकीर्य धूपेनाधिवास्य तस्मिन्प्रणीतामद्भिः पूर्णां कृत्वोत्पूयादित्यमावाहयेत्।१।
आदित्यं नावमरोक्ष्ये पूर्णामुपरिवासिनीम्।अच्छिद्रां पारयिष्णुं शतारित्रां स्वस्तय ओं नम आदित्याय इति ।२।
परिधानप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति आयातु देवस्सवितोपयातु हिरण्ययेन सुवृता रथेन ।वहन्हंस्त सुभगं विद्मनापसं प्रयच्छन्तं पपुरिं पुण्यमच्छ इत्येकामाहुतिं हुत्वोत्तरार्धात्स्विष्टकृतमवदायान्तःपरिधि सादायित्वा बहुप्रकाररैरन्नैरादित्यं तर्पयति ओं नमो भगवत आदित्याय नमः ।क्लं नदीवृत्तिस्तटीरुवो नावमर्णालिसुरिणोरोरुमिविरिकिताकुनानारुसन्ध्यतुमे मन्त्रवदानि स्वाहा इति ।३।
अथाज्याहुतीरुपजुहोति स्थविरे स्वाहा तेजसे स्वाहा यमिन्द्रमाहुके स्वाहा इद्वयमुदुत्यं चित्रं तच्चक्षुः य उदगात्हमश्शुचिषत्वयस्सुमर्णाः अविश्वदेवं सूर्यो देवीमिति चत्वरि सूक्तानि ।द्वादश संपद्यन्ते द्वादश मासास्संवत्सरस्संवत्सरेण सर्वान्कामानवाप्नेति ।४।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।५।
तर्पयित्वा मनसा तान्ध्यात्वा प्रवाहयति उदस्तांप्सीत्सविता मित्रो अर्यमा सर्वानमित्रानवधीद्युगेन ।बृहन्तं मामकग्द्वीरवन्तं रथन्तरे श्रयस्व स्वाहा पृथिव्यां वामदेव्ये श्रयस्व स्वाहा ऽन्तरिक्षे बृहति श्रयस्व स्वाहा दिवि बृहता त्वोपस्तभ्नोमि इति ।६।
अथैना आदाय साहर्कपर्णैरुत्तिष्ठति उदायुषा इति ।७।
यत्रापस्तद्गत्वा ऽपो निनयति समुद्रं वः प्रहिणोमि स्वा योनिमपि यच्छत ।अच्छिद्रः प्रजाया भूयासं मा परासेचिमत्पयः इति ।८।
सपवित्रेण पाणिना ऽद्भिर्मार्जयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा याः सुगन्धा रसा वर्णाः इत्येताभिरिति ।९।
एत द्वन्यं पुण्यं पुत्र्यं पौत्र्यमायुष्यं स्वर्ग्यं सूर्याचन्द्रमसोस्सायुज्यं सलोकतामाप्नोतीति दीपयेदमुनेति ।१०।
इति बोधायनीयगृह्यशेषसूत्रे द्वितीयप्रश्ने पञ्चमो ऽध्यायः
BaudhGSS.2.6
द्वितीयप्रश्ने षष्ठो ऽध्यायः
अथातः पुत्रप्रतिग्रहकल्पं व्याख्यास्यामः ।१।
शोणितशुक्लसम्भवो मातृपितृनिमित्तकस्तस्य प्रदानपरित्यागविक्रयेषु मातापितरौ कर्तारौ भवतो न त्वेकं पुत्रं दद्यात्प्रति गृह्णीयाद्वा स हि सन्तानाय षूर्वेषाम्।२।
न तु स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वा ऽन्यत्रानुज्ञानाद्भर्तुः ।३।
पुत्रं प्रतिग्रहीष्यन्नुपकल्पयते द्वे वाससी द्वे कुण्डले अङ्गुलीयकं चाचार्यं च वेदपारगं कुशमयं बर्हिः पर्णमयमिध्ममिति ।४।
अथ बन्धूनां मध्ये राजनि चावेद्य दरिषदि वा ऽगारमध्ये ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वा ऽथ देवयजनोल्लोखनप्रभृत्याप्रणीताभ्यः कृत्वा दातुस्समीपं गत्वा पुत्रं मे देहि इति मिक्षेत ददामि इतीतर आह ।५।
तं पुत्रं प्रतिगृह्णाति धर्माय त्वा गृह्णामि सन्तत्यै त्वा गृह्णामि इति ।६।
अथैनं वस्त्रकुण्डलाभ्यामङ्गुलीयकेन चालङ्कृत्य परिधानप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति यस्त्वा हृदा कीरिणा मन्यमानः इति पुरोनुवाक्यामनूच्य यस्मै त्वं सुकृते जातवेदः इति याज्यया जुहोति ।७।
अथ आज्याहुतीरुपजुहोति व्याहृतीभिर्हुत्वा स्विष्टकृन्प्रभृति सिद्धमाधेनुवरप्रदानात्।८।
अथ दक्षिणां ददात्येते एव वाससी एते एव कुण्डले एतच्चाङ्गुलीयकम्।९।
यद्येवं कृते औरसः पुत्र उत्पद्यते तुरीयभागेष भवतीति ह स्माह भगवान्बोधायनः ।१०।
इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने षष्ठो ऽध्यायः
BaudhGSS.2.7
द्वितीयप्रश्ने सप्तमो ऽध्यायः
अथातो यज्ञोपवीतविधिं व्याख्यास्यामः ।१।
जीर्णे छेदे विनाशे वा हस्तपादान्प्रक्षाऌअयाप आचम्य ब्राह्मणकन्यकया वा ब्राह्मणविधवया वा शुचिस्नातया कृताचमनीयया निर्मितं सूत्रं गृहीत्वा ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य चतुरङ्गुलमात्र षण्णवतिसूत्रं परिमण्डलं वा द्वितीयमेवं तृतीयमद्भिः प्रक्षाऌअय आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा देवागारे गवां गोष्ठे नदीतीरे शुचौ देशे वा यत्र यत्र शुचिर्देशस्स्यात्बिल्वखादिरपलाशोदुम्बराश्वत्थवेण्वादियाज्ञिकवृक्षशाखायामवलम्ब्य सजीवं बध्नाति पितृभ्यो नमः इति प्रथममपसव्यम्।२।
सम्पन्ने हस्ते गृहीत्वा प्रतिष्ठापयति ओं भूः प्रतिष्ठापयामि ओं भुवः प्रतिष्ठापयामि ओं सुवः प्रतिष्ठापयामि ओं भूर्भुवस्सुवः प्रतिष्ठापयामि इति प्रतिष्ठाप्यापसव्यकृतं जपति भूर्भुवस्सुवः ।ओजो बलमित्येतमनुवाकम्।३।
अथ सावित्र्या त्रिगुणीकृत्य भूरग्निं च इति दक्षिणावृत्तिमभिमन्त्रयेत्भुवो वायुं च इति मध्यमावृत्तिं सुवरादित्यं च इत्युत्तरां भूर्भुवस्सुवश्चन्द्रमसं इति त्रिधावृत्तिं च ।४।
अथ सूत्रान्तेन बध्नाति यथा नश्श्रेयसः करतिति चतुर्भिर्मध्ये द्विगुणं भवति ।५।
तां भूः प्रतिष्ठापयामि इति पुनः प्रतिष्ठाप्य उशन्तस्त्वा हवामहे इत्यृचं जपित्वा प्रदक्षिणतो दृढं करोति ।६।
त्रयाणां ब्रह्मेश्वरविष्णूनां प्रमाणं कृत्वा ।७।
तन्तुद्विगुणितं सूत्रं विष्णुना त्रिगुणीकृतम्चतुर्वेदस्य चत्वारि त्रिवेदस्य त्रिकं भवेत्द्वे स्यातां वै द्विवेदस्य एकमेवैकवेदिनः ।८।
इति यज्ञोपवीतविधिर्व्याख्यातः ।९।
इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने सप्तमो ऽध्यायः
BaudhGSS.2.8
अथ द्वितीयप्रश्ने अष्टमो ऽध्यायः
अथ राजन्यवैश्ययोरुपनयनं प्रसिद्धम्।१।
एतावदेव नाना ।२।
आचार्य एव पक्वाज्जुहोति ।३।
ब्रह्मसूत्रमवोद्धृत्य त्रिष्टुग्भी राजन्यस्य जिघर्म्यग्निमा त्वा जिघर्मिं आयुर्दा अग्ने हविषो जुषाणः इति ।जगतीभिर्वैश्यस्य जनस्य गोपा अजनिष्ट जागृविः त्वामग्ने मानुषीरीडते विशः सप्त ते अग्ने समिधस्सप्तजिह्वाः इति ।४।
वैश्यस्य रथकारस्यैतावदेव नानाचार्य एव पक्वाज्जुहोति तत्सवितुर्वरेण्यमिति ।५।
अथाज्याहुतीरुपजुहोति क्षेत्रियै त्वा निरृत्यै त्वा इति षड्भिरनुच्छन्दसम्।नात्र जगतीभिर्वैश्यस्य जुहोति ।६।
अथाग्रेणाग्निं हुतशेषं दत्वा विरमेत्।७।
ब्राह्मणेन क्षत्रियायामुत्पन्नो ब्राह्मणवदेवैतावदेव नाना तस्य क्षेत्रियै त्वा इति व्याहृतीभिश्चेत्युपहोमः ।८।
क्षत्रियवदम्बष्ठस्य क्षेत्रियै त्वा इत्येवोपहोमः ।९।
क्षत्रियाद्वैश्यायामुत्पन्नः क्षत्रियवदेव क्षेत्रियै त्वा सावित्र्या चोपहोमः ।१०।
वैश्याच्छूद्रायामुत्पन्नस्तूष्णीं वैश्यवत्।११।
गायत्रीत्रिष्टुब्जगत्यः तत्सवितुर्वरेण्यमासत्येन युञ्जते मनः इति सावित्र्यो यथाक्रमं ब्राह्मणक्षत्रियवैश्यानाम्।१२।
उक्तं समावर्तनम्।समावर्तनप्रभृति स्नातकः पूर्वेण ग्रामान्निष्क्रमणप्रवेशनान्युत्तरेण वा वहिर्वाचं विसृजेदन्यत्र हस्तं दत्वां प्रसिद्धं स्नात्वा देवर्षिपितृंस्तर्पयित्वा दर्भेषु प्राङ्मुख उपविश्य दर्भान्दूर्वाश्च धारयमाणस्त्रीन्प्राणायामान्धारयित्वा सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वो ऽपरिमितकृत्वो वा दशावरं वेदानधीत्य प्रश्नमनुवाकं वा ऽधीयीत यावत्तरसमिति विज्ञायते ततो गृहानेति यत्किञ्चिद्ददाति सा दक्षिणा इति ब्राह्मणम्।१३।
अथ दैवतान्यर्चयति वैश्वदेवं करोति प्रसिद्धं बलिहरणम्।१४।
अथ वै भवति पञ्च वा एते महायज्ञास्सतति प्रतायन्ते सतति संतिष्ठन्ते देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः इत्येतदानुपूर्व्यं भवति ।१५।
अथ देवयज्ञः देवेभ्यस्स्वाहा व्याहृतीभिश्च इति ।अपि समिधं तद्देवयज्ञस्संतिष्ठते ।१६।
अथ पितृयज्ञः ब्राह्मणान्भोजयेत्पित्र्यानपि वा दक्षिणेनाग्निं दक्षिणाग्रान्दर्भान्संस्तीर्य गन्धपुष्पधूपदीपैरभ्यर्च्यालङ्कृत्य तेषु पिण्डं ददाति पितृभ्यस्स्वधा नमः इति अप्यपस्तत्पितृयज्ञस्संतिष्ठते ।१७।
अथ भूतयज्ञः उत्तरेणाग्निं प्रागग्रान्दर्भान्संस्तीर्य गन्धपुष्पधूपदीपैरलङ्कृत्य तेषु बलिमुपहरति भूतेभ्यो नमः इत्यापुष्पेभ्यस्तद्भूतयज्ञस्संतिष्ठते ।१८।
अथ मनुष्ययज्ञः ब्राह्मणेभ्यो ऽन्नं दद्यादौदनपात्रात्तन्मनुष्ययज्ञस्संतिष्ठते ।१९।
अथ ब्रह्मयज्ञः उक्तः ।२०।
कथमु खलु नित्यानामनुक्रम इति सन्ध्योपासनमग्न्युपस्थानं नित्यस्वाध्यायगृहकर्मस्नानादित्योपस्थानतर्पणजपयज्ञगृहदेवतार्चनवैष्वदेवपञ्चमहायज्ञात्मयज्ञसन्ध्योपासनाग्रिहोत्रात्मयज्ञसवेशनानीत्येतान्युदितहोमिनो ऽजस्राग्निहोत्रिणो ऽनुदितहोमिनो ऽग्निहोत्रं सन्ध्योपासनमिति क्रमः ।२१।
एतानि नित्यान्युपव्युषमारभ्यासवेशनात्प्रसिद्धम्।२२।
साय प्रातस्सपत्नीकः प्रीतिं वर्धयेत्।२३।
तस्याः पत्न्याः पूर्वरात्रावुपसंवेशनमार्धरात्रादधश्शयनमा ब्राह्ममुहूर्तादथोपोत्थाय नित्यान्यारभते ।२४।
इति व्याख्यातमुपनयनम्।२५।
इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने अष्टमो ऽध्यायः
BaudhGSS.2.9
अथ द्वितीयप्रश्ने नवमो ऽध्यायः
अथ जडबधिरमूकानां संस्कारं व्याख्यास्यामः ।१।
ऋतुर्यथाकामी स्यात्।२।
पुण्ये नक्षत्रे ब्राह्मणान्भोजयित्वाशिषो वाचयित्वा केशानोप्य स्नातं शुचिवाससं बद्धशिखं यज्ञोपवीतिनमप आचमय्य देवयजनमुदानयति ।३।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा याज्ञिकीं समिधमाज्येनाक्त्वा तूष्णीमभ्याधापयति ।तूष्णीमश्मानं स्थापयति ।यथालाभं तूष्णीं वासः परिधापयति ।तूष्णीं मेखलां परिव्ययति ।मन्त्रवद्ग्रन्थिं करोति ।तूष्णीमजिनं प्रतिमुञ्चति ।तूष्णीं दण्डं प्रयच्छति ।याज्ञिकस्य वृक्षस्य नाम प्रयच्छति ।४।
अथैनं दक्षिणे हस्ते गृह्णाति यस्मिन्भूतं च भव्यं च इति ।५।
अथैनं देवताभ्यः परिददाति देवेभ्यस्त्वा इति ।६।
अथैनमुपनयति देवस्य त्वा इति सर्वं नामग्रहणवर्जम्।७।
आचार्य एव पक्वाज्जुहोति तत्सवितुर्वरेण्यमिति ।८।
अथाज्याहुतीरुपजुहोति क्षेत्रियै त्वा इति षड्भिर्व्याहृतिभिश्च ।९।
अथ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।१०।
अथाग्रेणाग्निं याज्ञिकवृक्षस्य पर्णेषु हुतशेषं निदधाति तत्पुरस्ताद्व्याख्यातम्।११।
अथ पक्वादुपादाय प्राश्नाति ।१२।
तूष्णीं सर्वान्मन्त्रानाचार्य एव जपेदित्येके ।१३।
षण्डजडक्लीबान्धव्यसनिव्याधितोन्मत्तहीनाङ्गबधिराधिकाङ्गामयाव्यपस्मारिश्वित्रिकुष्ठीदीर्घरोगिणश्चैतेन व्याख्याता इत्येके ।१४।
सद्यो मधुपर्कं ददाति ।१५।
तिसृषु व्युष्टासु मधुपर्कवदा व्रतातूषणीम्।१६।
अथाग्निमुत्सृजति आयुर्दा अग्ने हविषो जुषाणः इति ।१७।
पिता वा भ्राता वात्मनि समारोपयेदित्येके ।१८।
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने नवमो ऽध्यायः
BaudhGSS.2.10
अथ द्वितीयप्रश्ने दशमो ऽध्यायः
अथातो ऽश्वत्थसंस्कारं व्याख्यास्यामः ।१।
ऋतुर्यथाकामी स्यात्।२।
पुण्ये नक्षत्र ब्राह्मणान्भोजयित्वाशिषो वाचयित्वा प्रदक्षिणमश्वत्थं परिसमूहति अश्वत्थे वो निषदनमिति ।३।
तमभ्यर्च्य यज्ञोपवीतं प्रतिमुञ्चति ।४।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा याज्ञिकीं समिधमाज्येनाक्त्वा तूष्णीमाधापयति ।यथालाभं तूष्णीं वासः परिधापयति ।तूष्णीं मेखलां परिव्ययति ।मन्त्रवद्ग्रन्थिं करोति ।तूष्णीमजिनं प्रतिमुञ्चति ।तूष्णीं दण्डं प्रयच्छति ।याज्ञिकस्य वृक्षस्य नाम प्रयच्छति ।५।
अथाश्वत्थमुपनयेत्देवस्य त्वा इति नामग्रहणवर्जम्।६।
आचार्य एव पक्वाज्जुहोति तत्सवितुर्वरेण्यमिति ।७।
अथाज्याहुतीरुपजूहोति क्षेत्रियै त्वा इति षड्भिर्व्याहृतिभिश्च ।८।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।९।
अथाग्रेणाग्निं पलाशपर्णेषु हुतशेषं निदधाति ।तत्पुरस्ताद्व्याख्यातम्।१०।
अथ पक्वादुपादायाथैनं निवेदयति ।११।
तूष्णीं सर्वान्मन्त्रानाचार्य एव जपेदित्याह भगवान्बोधायनः ।१२।
इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने दशमो ऽध्यायः
BaudhGSS.2.11
अथ द्वितीयप्रश्ने एकादशो ऽध्यायः
अथाहुते प्रसिद्धमुपनयनम्।१।
एतावदेव नाना ।२।
कुमारं भोजयित्वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य मङ्गलानि संस्तीर्य तेषु प्राङ्मुख आचार्य उपवेश्य तस्याग्रेण कुमारो दर्भेषु प्रत्यङ्मुख उपविश्योभयीरपस्सन्निषिञ्चत्युष्णासु शीता आनयति तस्य चौलवत्तूष्णीं केशानोप्य स्नाप्याच्छाद्यालङ्कृत्यादित्याभिमुखस्तिष्ठनजिनं वासो वा दक्षिणत उपवीय दक्षिणं बाहुमुद्धरते ऽवधत्ते सव्यमिति यज्ञोपवीतमिति ब्राह्मणम्।३।
यज्ञोपवीतिनमप आचमय्य देवयजनमुदानयति ।४।
कृष्णाजिनं ब्राह्मणस्येत्यादि ।चतुरङ्गुलं ब्राह्मणस्य त्र्यङ्गुलं राजन्यस्य द्व्यङ्गुलं वैश्यस्योपवीतवत्बध्नाति ।५।
अथ सावित्रीं भो अनुब्रूहि इत्युक्त्वा कुमारस्य दक्षिणे कर्णे उपदिशेदित्येके ।कर्णाभ्यां भूरि विश्रुतमित्युक्त्वोन्मुखावलोकनं कृत्वा वाचयति सावित्रीम्।६।
अथ सायंप्रातस्सन्ध्यां गृहस्थवत्समापयति ।७।
अथैनमग्निमुपसमाधाय प्रोक्षणीन्संस्कृत्य परिसमूह्य परिषिच्य व्याहृतीभिस्समिध आधापयतिषोढाविहितेनोपस्थापयति ।८।
तदाग्नेयं भस्म सङ्गृह्य वामपाणितके निक्षिप्य मा नस्तोके इत्यद्भिः शं नो देवीरभिष्टये इति संसृज्य संमेऌअय तिर्यक्त्रिपुण्ड्रमेकपुण्ड्रं वा ब्राह्मणस्य वर्तुऌआकारं राजन्यस्यार्धचन्द्राकृतिं वैश्यस्य ।९।
अङ्गानि सन्धापयति सरस्वती इति शिरसि मेधावी इति ललाटे तेजस्वी इति वक्षसि वर्चस्वी इति दक्षिणें ऽसे ब्रह्मवर्चसी इत्युत्तरें ऽसे अआयुष्मानिति ग्रीवायां भूयासमिति पिठरे स्वस्ति इति शिरस्यन्येषां स्त्रीणां वोर्ध्वपुण्डम्।१०।
प्रोक्षणीषु करं प्रक्षाऌय नमस्कृत्य प्रोक्षणीशेषं गेहस्योपरिष्टान्निनयेदित्याह भगवान्बोधायनः ।११।
इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने एकादशो ऽध्यायः
BaudhGSS.2.12
अथ द्वितीयप्रश्ने द्वादशो ऽध्यायः
यथो एतद्ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणामेवं विवाहं कुर्वन्त्यपरपक्षे ऽशुभे दिने वा ऽशुचिना वा विवाहं कुर्वन्ति विवाहेन नर्ध्नोतीति मन्येत वावसथात्पुनर्विवाहं कुर्वीत ।१।
अथ चेदौपासनारम्भात्प्राक्ज्वलनस्य नाशः पुनर्विवाहं कुर्वीत ।२।
अथ पुनर्विवाहं व्याख्यास्यामः ।३।
उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे पूर्वेद्युर्नान्दीमुखं कृत्वोपवसति ।४।
अथ श्वोभूते ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वोभौ शुची स्नातौ शुक्लवाससावलङ्कारेणालङ्कृत्य जायां समीक्षते अभ्रातृघ्नीमिति प्रतिपद्य सप्तपदान्तं कृत्वा ऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वाथास्या उपोत्थाय हृदयदेशमभिमृशतीति सिद्धमाधेनुवरप्रदानादत ऊर्ध्वं नाद्रियेत ।५।
अथ पुनर्विवाहेष्वेतानुत्सीदन्ति प्रतिसरं स्नानं वासः प्रतोदमिषुं च पूर्वं भोजनमर्ध्यं व्रतं त्रिरात्रमित्यादिविवाहशेषान्वर्जयेदित्याह भगवान्बोधायनः ।६।
इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने द्वादशो ऽध्यायः
BaudhGSS.2.13
अथ द्वितीयप्रश्ने त्रयोदशो ऽध्यायः
अथातो विष्णुप्रतिष्ठाकल्पं व्याख्यास्यामः द्वादश्यामेकादश्यां श्रोणाया वा यानि चान्यानि शुभनक्षत्राणि तेषु पूर्वेद्युरेव युग्मान्ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा समागतायां निशायां कपिलापञ्चगव्येन सहिरण्ययवदूर्वाङ्कुराश्वत्थपलाशपर्णेन सुवर्णोपधानं प्रतिकृतिं कृत्वा ऽभिषिञ्चति आपो हि ष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन व्याहृतीभिश्च ।१।
पुष्पफलाक्षतमिश्रेर्यवदूर्वाङ्कुरं पादपीठे निक्षिपति इदं विष्णुर्विचक्रमे इति ।२।
प्रतिसरमाबध्नाति रक्षोहणं वाजिनमाजिघर्मि इति ।३।
अथैनं नदीतटाकह्रदनिर्झरसरस्तीर्थानामन्यतमेष्वहतेन वाससा कुशबन्धमाल्यमाच्छाद्याधिश्रयति अव ते हेडः उदुत्तममिति ।४।
अथ श्वोभूते स्नात्वाहतवाससश्चत्वारो ब्राह्मणाः प्रतिमामुत्थापयेयुः उत्तिष्ठ ब्रह्मणस्पते इति ।५।
अथ शुचौ देशे समवस्थाप्य गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम्।आप्यायस्वेति श क्षीरं दधिक्राव्णेति वै दधि ।शुक्रमसि ज्योतिरसीत्याज्यं देवस्य त्वा कुशोदकम्।इत्येतत्पञ्चगव्यं नाम ।६।
अत्राह कपिलाया वरं क्षीरं श्वेतायाश्च वरं दधि ।रक्तायास्तु घृतं श्रेष्ठं शेषौ शबलकृष्णयोः ।इति ।७।
एतेन आ वो राजानमिति स्नापयति ।८।
शमीपलाशखादिरबिल्वाश्वत्थविकङ्कतन्यग्रोधपनसाम्रशिरीषोदुम्बराणां सर्वयाज्ञिकवृक्षाणां चर्मकषायकलशेनाभिषिञ्चति अश्वत्थे वो निषदनमित्येतेनानुवाकेन ।९।
मणिमुक्ताप्रवाऌअरजतताम्राणामप्सु निमग्नानां पूर्णकलशेनाभिषिञ्चति हिरण्यवर्णामिति नवर्चेन ।१०।
हिरण्येन तेजसा चक्षुर्विमोचयेत्तेजोसि इति ।११।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति विष्णोर्नुकमिति पुरोनुवाक्यामनूच्य परो मात्रया इति याज्यया जुहोति ।१२।
अथ पुरुषसूक्तेनाज्यहुतीरुपजुहोति इदं विष्णुर्विचक्रमे इति पादयोस्स्पृशेत्।१३।
पुनस्तेनैवाज्याहुतीर्जुहुयात्विष्णोर्नुकमिति नाभिदेशेस्पृशेत्।१४।
पुनस्तेनैवाज्याहुतीर्जुहुयाततो देवा अवन्तु नः इति मूर्ध्नि स्पृशेत्।१५।
पुनस्तेनैवाज्याहुतीर्जुहुयादथ सर्वाङ्गं स्पृशेत्पौरुषेण सूक्तेन ।१६।
होमान्ते उदु त्यं जातवेदसमित्युत्थाप्य शाकुनेन सूक्तेन देवालयं प्रवेश्य मणिमुक्ताप्रवाऌअसुवर्णरजतानि पादपीठे निधाय अतो देवा अवन्तु नः इति विष्णुं स्थापयेत्।१७।
अथ गन्धपुष्पधूपदीपान्याकाशोन्मुखानि कृत्वोपोत्थाय आवाहनं करीति प्रणवयुक्तव्याहृतिभिर्व्यस्तैस्समस्तैश्च ओं भूः पुरुषमावाहयाम्यों भुवः पुरुषमावाहयाम्यों सुवः पुरुषमावाहयाम्यों भूर्भुवस्सुवः पुरुषमावाहयामि इत्यावाह्य रत्नाम्बुकलशेनाभिषिञ्चति प्रणवेन धारयेत्ब्रह्म इति विज्ञायते ।१८।
प्रणवेन कूर्चं ददाति ।१९।
दूर्वाविष्णुक्रान्तश्यामाकपद्मपत्रकलशेन पाद्यं ददाति ।२०।
एलालवङ्गतक्वोलकर्पूरमिश्रकलशेनाचमनीयं ददाति ।२१।
आपःक्षीरकुशाग्रैश्चाक्षतैर्यवतण्डुलैस्तिलैस्सिद्धार्थकैश्चार्ध्यं ददाति ।२२।
इमा आपश्शान्ताश्शिवाश्शिवतमाः पूताः पूततमा मेध्यामेध्यतमा अमृतां अमृतरसाः पाद्या आचमनीया अर्ध्यास्ता जुषन्तां प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान्महाविष्णुर्विष्णवे नमः इति पाद्यमाचमनीयमर्ध्यं ददाति ।२३।
इदं विष्णुर्विचक्रमे इति प्रतिसरं वित्रंसयति ।२४।
देवतां नमस्कृत्वाथ गन्धं ददाति इमे गन्धाश्शुभा दिव्यास्सर्वगन्धैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः ।२५।
प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महाविष्णुर्विष्णवे नमः इति ।२६।
माल्यं ददाति इमे माल्याश्शुभा दिव्यास्सर्वमाल्यैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः ।२७।
प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महाविष्णुर्विष्णवे नमः इति ।२८।
पुष्पं ददाति इमे पुष्पाश्शुभा दिव्यास्सर्वपुष्पैरलङ्कृताः ।पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः ।२९।
प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महाविष्णुर्विष्णवे नमः इति ।३०।
धूपं ददाति वनस्पतिरसो धूपो धूपेभ्यो धूप उत्तमः आघ्रेयस्सर्वदेवानां धूपो ऽयं प्रतिगृह्यताम्।३१।
प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महाविष्णुर्विष्णवे नमः इति ।३२।
अथ दीपं ददाति ज्योतिश्शुक्रश्च तेजश्च देवानां सततं प्रियः भास्वरस्सर्वभूतानां दीपो ऽयं प्रतिगृह्यताम्।३३।
प्रतिगृह्ययां प्रतिगृह्णातु भगवान्महविष्णुर्विष्णवे नमः इति ।३४।
अथ द्वादशनामभिः पुष्पाणि दद्यात्तैरेव तर्पणानि कृत्वा कृसरपायसगुऌओदनं हरिद्रोदनमिति हवींषि ।पवित्रं ते विततमिति पायसं निवेदयेत्।घृताप्लुतं पूर्णशरावं गुऌओदनं निवेदयेत्।कृसरं तिलमिश्रमाज्यं जुहुयात्वासुदेवाय स्वाहा ।सङ्कर्षणाय स्वाहा ।प्रद्युम्नाय स्वाहा ।अनिरुद्धाय स्वाहा ।ईशान्यै स्वाहा ।श्रियै स्वाहा ।सरस्वत्यै स्वाहा ।पुष्ट्यै स्वाहा ।विष्णवे स्वाहा ।पुरुषसूक्तेन विष्णोर्नुकं तदस्य प्रियं प्रतद्विष्णुः परोमात्रया विचक्रमे त्रिर्देवः इति द्वादशनामभिः अमुष्मै स्वाहामुष्मै स्वाहा इति स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।३५।
अथ सर्वहविषां बलिमुपहरति त्वामेकमाद्यं पुरुषं पुरातनं नागयणं विश्वसृजं यजामहे ।त्वमेव यज्ञो विहितो विधेयस्त्वमात्मनात्मन्प्रतिगृह्णीष्व हव्यमिति ।३६।
अथाग्रेणाग्निमश्वत्थपर्णेषु हुतशेषं निदधाति भूर्भुवस्सुवरोमिति ।३७।
द्विश्चतुर्वा प्रदक्षिणं साग्निं परिक्रामति विश्वभुजे नमः ।सर्वभुजे नमः ।आत्मने नमः ।परमात्मने नमः ।सर्वात्मने नमः इति ।३८।
ब्रह्मचारी गृहस्थो वा द्वादश ब्राह्मणान्संयतान्हरिद्रोदनं भोजयेत्।सन्तिष्ठते विष्णुप्रतिष्ठाविधिः ।३९।
इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने त्रयोदशो ऽध्यायः
BaudhGSS.2.14
द्वितीयप्रश्ने चतुर्दशो ऽध्यायः
अथातो महापुरुषस्याहरहः परिचर्याविधिं व्याख्यास्यामः ।१।
स्नातश्शुचिश्शुचौ समे देशे गोमयेनोपलिप्य देवस्य प्रतिकृतिं कृत्वाक्षतपुष्पैर्यथालाभमर्चयित्वा सह पुष्पोदकेन महापुरुषमावाहयेतों भूः पुरुषमावाहयाम्यों भुवः पुरुषमावाहयाम्यों सुवः पुरुषमावाहयाम्यों भूर्भुवस्सुवः पुरुषमावाहयामि इत्यावाह्य आयातु भगवान्महापुरुषः इति कुशैरासनं दद्यात्भगवतो ऽयं कूर्चो दर्भमयस्त्रिवृद्धरितस्सुवर्णस्तं जुषस्व इति ।२।
अथ सावित्र्या पात्रमद्भिः प्रक्षाऌय तिरःपवित्रमप आनीय पुनस्तेनैवापो ऽभिमन्त्र्य सपवित्रेणादित्यं दर्शयेतोमित्यातमितोः ।३।
तासां त्रीणि पदा विचक्रमे इति पाद्यं ददाति ।४।
अथ व्याहृतिभिर्निर्वाल्यं व्योह्य इदं विष्णुविचक्रमे इत्यर्ध्यं दद्यात्।५।
दिवो वा विष्णो इत्याचमनीयम्।६।
अथैनं स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानम्वामदेव्यर्चा यजुः पवित्रेण इति ।७।
अथाद्भिस्तर्पयति केशवं तर्पयामि इति द्वादशनामधेयैर्व्याहृतीभिः प्रदक्षिणमुदकं परिषिच्य प्रणवेन वासो ददाति सावित्र्या यज्ञोपवीतं इदं विष्णुर्विचक्रमे इत्याचमनीयं गन्धद्वारामिति गन्धं इरावती इत्यक्षतं तद्विष्णोः इति पुष्पं सावित्र्या धूपं उद्दीप्यस्व इति दीपं देवस्य त्वा इति हविर्निवेदनम्।८।
अथास्मै द्वादशनामभिः पुष्पाणि दद्यात्।त्रीणि पदा विचक्रमे इति प्रतिपदं दद्यात्सुमृडीका भवन्तु नः इत्यन्तेन ।९।
अथैन वैष्णवीभि ऋग्यजुस्सामाथर्वभिः स्तुतिभिस्तुन्वन्ति ।१०।
व्याहृतीभिः पुरुषमुद्वासयेतों भूः पुरुषमुद्वासयामि इत्यादिभिः प्रयातु भगवान्महापुरुषः क्षेमाय विजयाय पुनस्संदर्शनाय च इति ।११।
प्रतिमास्थानेष्वावाहनोद्वासनवर्जमहरहस्त्वाचक्षत इत्याह भगवान्बोधायनः ।१२।
इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने चतुर्दशो ऽध्यायः
BaudhGSS.2.15
अथ द्वितीयप्रश्ने पञ्चदशो ऽध्यायः
अथातस्संप्रवक्ष्यामि विष्णोस्स्नपनमुत्तमम्
प्रासादस्याग्रतो विद्वान्कुर्यात्स्वपनमण्डपम्।१।
मण्डपस्य च मध्ये तु वेदिकां सम्प्रकल्पयेत्
अचलप्रतिष्ठितो यत्र देवस्तत्र न वेदिका ।२।
तस्यास्समीपे तत्स्थाने कलशस्थानमुत्तमम्
सङ्ख्या च नव तेषां तु स्थापनं प्रणवेन तु ।३।
यत्किञ्चित्क्रियते चात्र प्रणवेनैव कथ्यते
स्थापनं कलशानां तु प्रागादीशानमन्ततः ।४।
एतेनैव क्रमेणात्र सर्वं कर्म विधीयते
नवमं कलशं मध्ये स्थापयेदन्ततो बुधः ।५।
कूर्चेषु स्थापयेत्सर्वान्व्रीहिप्रस्थस्थितेषु च
व्रीहयश्शालयः प्रोक्ताः कलशस्थापने बुधैः ।६।
तेषामभावे यत्किञ्चिद्ग्राम्यं धान्यमिहेष्यते
पूरयेत्कलशान्सर्वान्शुद्धस्फटिकसन्निभैः ।७।
जलैस्तु मध्यमं तत्र पञ्चगव्येन पूरयेत्
कूर्चान्निधाय सर्वेषु शरावैरपिधाय च ।८।
अरिक्तैरेव कर्तव्यः शरावैर्नवभिस्सदा
अपिधानक्रिया तेषां शालिजैरेव तण्डुलैः ।९।
अर्चयेत्कलशान्सर्वान्गन्धपुष्पादिभिः क्रमात्
प्राप्ते मुहूर्त आवाह्य परमात्मानमात्मवान्।१०।
पूर्वोक्तविधिनावाह्य देवमानीय वेदिकाम्
अर्चयित्वा ततो विष्णुमर्चितैरेव सर्वशः ।११।
आनीतं वेदिकायां तु गोमयेनापरेण तु
उपलिप्ते ऽक्षतैः कीर्णे शालिभिर्व्रीहिभिश्च तत्।१२।
प्राङ्मुखं देवमासीनं सन्निदध्यात्ततः क्षणात्
तत्रैव त्वचलस्थाने न चावाहनमिष्यते ।१३।
तत्रैव नित्यसान्निध्याद्देवस्य परमात्मनः
आसनादिक्रमाद्दद्यात्सूक्तं पौरुषमाश्रितः ।१४।
ततः कलशमादाय कुर्यात्स्नपनमादितः
मन्त्रा एते तु मन्तव्या स्नापने परमात्मनः ।१५।
वैष्णवं सूक्तमापो हि हिरण्येति च सप्तकम्
पवमानानुवाकं च सर्वे साधारणास्स्मृताः ।१६।
अनुक्तमन्त्रं यत्किञ्चिन्न गृह्णीयात्ततो बुधः
अनेन विधिवत्कृत्वा स्नापनं पुरुषस्य तु ।१७।
दत्वा पायसमन्नं तु शेषं परिसमापयेत्
नित्यदेवार्चने यत्स्यात्कलशस्नापनं तु वै ।१८।
स्नापनस्य त्रयश्चोक्ताः ब्रह्मजज्ञानमन्त्रतः
वामदेव्यं ततः कुर्यात्पवित्रं यजुषश्च यत्।१९।
पवमानानुवाकं च सर्वे साधारणास्स्मृताः
विषुवायनसङ्क्रान्तौ चन्द्रसूर्यग्रहे तथा ।२०।
अर्चनायाश्च विच्छेदे कदाचित्कालभेदतः
उपघाते ऽपि वान्यस्मिन्दुस्स्वप्ने तु भयंकरे ।२१।
आद्यं तु स्नापनं कुर्यात्सर्वशान्तिर्भविष्यति
अथ देवोत्सवं कुर्यान्मुच्यते सर्वपातकैः ।२२।
इह लोके परत्रापि सुखमेवास्य वर्धते
पश्चाद्विष्णोश्च सायुज्यमेतीत्यत्र न संशयः ।२३।
जगद्धिताय कृष्णाय स्नापनं कृतवान्हि यः
इत्याह भगवान्बोधायनः ।२४।
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने पञ्चदशो ऽध्यायः
BaudhGSS.2.16
अथ द्वितीयप्रश्ने षोडशो ऽध्यायः
अथातो रुद्रप्रतिष्ठाकल्पं व्याख्यास्यामः ।१।
चतुर्थ्यामष्टम्यामार्द्रायामपभरण्यां वा चतुर्दश्यां वा यानि चान्यानि शुभनक्षत्राणि तेषु पूर्वेद्युरेव युग्मान्ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिं इति वाचयित्वा समागतायां निशायां कपिलापञ्चगव्येन सहिरण्ययवदूर्वाङ्कुराश्वत्थपलाशपर्णेन सुवर्णोपधानं प्रतिकृतिं कृत्वाभिषिञ्चति आपो हिष्ठा मयुभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन व्याहृतिभिश्च ।२।
पुष्पफलाक्षतमिश्रयवदूर्वाङ्कुरं पादपीठे निक्षिपति नमस्ते रुद्र मन्यवे इति ।३।
प्रतिसरं बध्नाति रक्षोहणं वाजिनमिति ।४।
अथ नदीतटाकह्रदनिर्झरसरस्तीर्थानामन्यतमेष्वहतेन वाससा कुशबन्धां मालामाच्छाद्याधिवासयति अवते हेडः उदुत्तममिति ।५।
अथ श्वोभूते स्नात्वाहतवाससश्चत्वारो ब्राह्मणाः प्रतिमामुत्थापयेयुः उत्तिष्ठ ब्रह्मणस्पते इति ।६।
अथ शुचौ देशे समवस्थाप्य गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयमाप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि शुक्रमसि ज्योतिरसीत्याज्यं देवस्य त्वा कुशादिकम्।७।
इत्येतत्पञ्चगव्यं नाम ।८।
अत्राह कपिलाया वरं क्षीरं श्वेतायास्तु वरं दधि रक्ताया वरमाज्यं च शेषौ शबऌअकृष्णयोः इति ।९।
एतेन नमस्ते अस्तु धन्वने इत्यष्टाभिः स्नापयति ।१०।
अथ शमापलाशखादिरबिल्वाश्वत्थविकङ्कतन्यग्रोधपनसाम्रशिरीषोदुम्बरसर्वयाज्ञिकवृक्षाणां चर्मकषायकलशेनाभिषिञ्चति अश्वत्थे वो निषदनमित्येतेन ।११।
मणिमुक्ताप्रवाऌआनामप्सु निमग्नानां पूर्णकलशेनाभिषिञ्चति हिरण्यवर्णाः इति पूर्वोक्तेन ।१२।
हिरण्येन तेजसा चक्षुर्विमोचयेत्तेजो ऽसि इति ।१३।
लिङ्गे चेन्निवर्तते चक्षुषोरभावात्।१४।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति या त इषुश्शिवतमा इत्यान्तादनुवाकस्य ।१६।
अथाज्याहुतीरुपजुहोति द्रापे सहस्राणि इत्येताभ्यामनुवाकाभ्यां प्रत्यृचं सर्वो वै रुद्रः इति पादपीठे स्पृशेत्।१७।
पुनस्ताभिरेवाज्याहुतीर्जुहुयात्कद्रुद्राय इति नाभिदेशे स्पृशेत्।१८।
पुनस्ताभिरेवाज्याहुतीर्जुहुयात्नमो हिरण्यबाहवे इति मूर्ध्नि स्पृशेत्।१९।
पुनस्ताभिरेवाज्याहुतीर्जुहुयात्सर्वाङ्गमुपस्पृशेत्रुद्रेण समस्तेन ।२०।
ततः उदु त्यं जातवेदसमित्युत्थाप्य पञ्चब्रह्मसंज्ञकेन पञ्चानुवाकेन देवालयं प्रवेश्य मणिमुक्ताप्रवाऌअसुवर्णरजतानि पादपीठे निधाय नमस्ते रुद्र मन्यवे इति रुद्रं स्थापयेत्।२१।
अथ गन्धपुष्पधूपदीपान्याकाशोन्मुखानि कृत्वा उपोत्थायावाहनं करोति प्रणवयुक्तव्याहृतीभिर्व्यस्ताभिस्समस्ताभिश्च ओं भूः पुरुषमावाहयाम्यों भुवः पुरुषमावाहयाम्यों सुवः पुरुषमावाहयाम्यों भूर्भुवस्सुवः पुरुषमावाहयामि इति आयातु भगवान्महादेवः इत्यावाह्य रत्नाम्बुकलशेनाभिषिञ्चति प्रणवएन धारयेत्ब्रह्म इति विज्ञायते ।२२।
प्रणवेन कूर्चं ददाति ।२३।
विष्णुपदाश्यामाकपद्मपत्रकलशेन पाद्यं ददाति ।२४।
एलालवङ्गतककोलकर्पूरमिश्रकलशेनाचमनीयं ददाति ।२५।
आपःक्षीरकुशाग्रैश्चाक्षतैर्यवतण्डुलैः ।यवैस्सिद्धार्थकैश्चार्ध्यं ददाति इमा आपश्शिवाश्शिवतमाः पूततमा मेध्या मेध्यतमा अमृता अमृतरसाः पाद्या आचमनीया अर्ध्यास्ता जुषतां प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महादेवो रुद्राय नमः इति पाद्यमाचमनीयमर्ध्यं ददाति ।२६।
नमस्ते रुद्र मन्यवे इति प्रतिसरं विस्रंसयति ।२७।
देवतां नमस्कृत्याथ गन्धं ददाति इमे गन्धाश्शुभा दिव्यास्सर्वगन्धैरलङ्कृताः ।पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः ।प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महादेवो रुद्राय नमः इति ।२८।
अथ माल्यं ददाति इमे माल्याश्शुभा दिव्यास्सर्वमाल्यैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महादेवो रुद्राय नमः इति ।२९।
अथ पुष्पं ददाति इमे पुष्पश्शुभा दिव्यास्सर्वपुष्पैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महादेवो रुद्राय नमः इति ।३०।
अथ धूपं ददाति वनस्पतिरसो धूपो धूपाढ्यो धूप उत्तमः आघ्रेयस्सर्वदेवानां धूपो ऽयं प्रतिगृह्यताम्प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महादेवो रुद्राय नमः इति ।३१।
अथ दीपं ददाति ज्योतिश्शुक्रश्च तेजश्च देवानां सततं प्रियः भास्वरस्सर्वभूतानां दीपो ऽयं प्रतिगृह्यताम्प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महादेवो रुद्राय नमः इति ।३२।
अथ भवाय इत्यष्टाभिः पुष्पाणि दद्यात्तैरेव तर्पणानि कृत्वा कृसरं पायसं गुऌओदनं हरिद्रोदनमिति हवींषि पवित्रं ते विततमिति पायसं निवेदयेत्।३३।
घृताप्लुतं पूर्णशरावं गुऌओदनं निवेदयेत्।३४।
कृसरमाज्यमिश्रं जुहुयात्भवाय देवाय स्वाहा इत्यष्टाभिः भवस्य देवस्य पत्न्यै स्वाहा इत्यादिभिः ।३५।
अथ हरिद्रोदनं जुहुयात्भवस्य देवस्य सुताय स्वाहा इत्यष्टाभिः ।३६।
अथ त्र्यम्बकं यजामहे मा नो महान्तं मा नस्तोके आर्द्रया रुद्रः हेती रुद्रस्य आरात्ते अग्निः विकिरिद विलोहित सहस्राणि सहस्रधा सहस्राणि सहस्रशः इति ।द्वादशनामभिः शिवाय शङ्कराय सहमानाय शितिकण्ठाय कपर्दिने ताम्राय अरुणाय अपगुरमाणाय हिरण्यबाहवे सस्थिञ्जराय बभ्लुशाय हिरण्याय स्वाहा इति ।३७।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।३८।
हविषां बलिमुपहरति त्वामेकमाद्यं पुरुषं पुरातनं रुद्रं शिवं विश्वसृजं यजामहे ।त्वमेव यज्ञो विहितो विधेयस्त्वमात्मनात्मन्प्रतिगृह्णीष्व हव्यमिति ।३९।
अथाग्रेणाग्निमश्वत्थपर्णेषु हुतशेषं निदधाति भूर्भुवस्सुवरोमिति ।४०।
द्विः चतुर्वा सहाग्निं प्रदक्षिणं परिक्रामति विश्वभुजे नमः ।सर्वभुजे नमः ।आत्मने नमः ।परमात्मने नमः इति ।४१।
ब्रह्मचारी गृहस्थो वा द्वादश ब्राह्मणान्संयतान्हरिद्रोदनेन भोजयेत्।४२।
संतिष्ठते प्रतिष्ठाविधिः ।४३।
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने षोडशो ऽध्यायः
BaudhGSS.2.17
अथ द्वितीयप्रश्ने सप्तदशो ऽध्यायः
अथातो महादेवस्याहरहः परिचर्याविधिं व्याख्यास्यामः स्नातश्शुचिस्समे शुचौ देशे गोमयेनोपलिप्य देवस्य प्रतिकृतिं कृत्वा ऽक्षतपुष्पैर्यथालाभमर्चयित्वा सह पुष्पोदकेन महादेवमावाहयेतों भूः पुरुषमावाहयामि इत्यादि आयातु भगवान्महादेवः इति ।१।
यो रुद्रो अग्नौ इति यजुषा पात्रमभिमन्त्र्य प्रक्षाऌय तिरःपवित्रमप आनीय पुनस्तेनैवाभिमन्त्र्य सह पवित्रेणादित्यं दर्शयेतोमित्यातमितोः ।२।
तासां पाद्यमिति पाद्यं ददाति ।३।
अथ व्याहृतीभिर्निर्माल्यं व्यपोह्यार्घ्यमाचमनीयं दत्वा ऽभिषिञ्चति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानम्कद्रुदाय त्वरितरुद्रं वामदेव्यं आपो वा इदमिति च ।४।
अथ व्याहृतीभिः प्रदक्षिणमुदकं परिषिच्य पवित्रं पादमूले निधायाद्भिस्तर्पयति भवं देवं तर्पयामि इत्यष्टाभिः ।५।
ओं नमो भगवते रुद्राय त्र्यम्बकाय इति वस्त्रयज्ञोपवीते दद्यात्।६।
भवाय देवाय नमः इत्यष्टाभिः पुष्पाणि दद्यात्।७।
त्वरितरुद्रेण गन्धपुष्पधूपदीपं ददाति ।८।
देवस्य त्वा इति हविषो निवेदयेत्।९।
त्र्यम्बकमिति परिषेकं दद्यात्।१०।
अमृतोपस्तरणमसि इति प्रतिपदं कृत्वा हविरविरुद्धं सर्वं स्वादु वस्तु कन्दमूलफलानि दद्यात्।११।
मुहूर्तमनवेक्षमाण आसीनो हविरुद्वासयामि इति निवेद्यमुद्वास्य अमृतापिधानमसि इति प्रतिपदं कृत्वा त्रयम्बकमित्याचमनीयं दद्यात्।१२।
सर्वोपकरणैरर्चयित्वा भवाय देवाय नमः इत्यादिभिः अमुष्मै नमो ऽमुष्मै नमः इति गन्धादीन्ददाति ।१३।
रौद्रीभिः ऋग्यजुस्सामाथर्वभिस्स्तुतिभिस्स्तुन्वन्त्यार्षैस्स्तोत्रैश्च नमस्कृत्य प्रयातु भगवान्महादेवः इति विसर्जयति ।१४।
लिङ्गस्थानेष्वावाहनोद्वासनवर्जमहरहः स्वस्त्ययनमित्याचक्षत इत्याह भगवान्बोधायनः ।१५।
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने सप्तदशो ऽध्यायः
BaudhGSS.2.18
अथ द्वितीयप्रश्ने अष्टादशो ऽध्यायः
अथातो रुद्रस्नानार्चनविधिं व्याख्यास्यामः आदित एव तीर्थे स्नात्वोदेत्याहतं वासः परिधाय शुचिः प्रयतो ब्रह्मचारी शुक्लवासाः ईशानस्य प्रतिकृतिं कृत्वा तस्य दक्षिणाप्रत्यग्देशे तन्मुखः स्थित्वा आत्मनि देवताः स्थापयेत्प्रजनने ब्रह्मा तिष्ठतु ।पादयोर्विष्णुस्तिष्ठतु ।हस्तयोर्हरस्तिष्ठतु ।बाह्वो रुद्रस्तिष्ठतु ।जठरे ऽग्निस्तिष्ठतु ।उदरे पृथिवी तिष्ठतु ।हृदये शिवस्तिष्ठतु ।कण्ठे वसवस्तिष्ठन्तु ।वक्त्रे सरस्वती तिष्ठतु ।नासिकयोर्वायुस्तिष्ठतु ।नयनयोश्चन्द्रादित्यौ तिष्ठेताम्।कणयोरश्विनौ तिष्ठेताम्।ललाटे रुद्रास्तिष्ठन्तु ।मूर्ध्न्यादित्यास्तिष्ठन्तु ।शिरसि महादेवस्तिष्ठतु ।शिखायां वासुदेवस्तिष्ठतु ।पृष्ठे पिनाकी तिष्ठतु ।पुरतश्शूली तिष्ठतु ।पार्श्वयोश्शिवाशङ्करौ तिष्ठेताम्।सर्वतो वायुस्तिष्ठतु ।सर्वतो ऽग्निज्वाला मालापरिवृतास्तिष्ठन्तु ।सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु ।मां रक्षन्तु इति ।अग्निर्मे वाचि श्रितः इति यथालिङ्गमङ्गानि संमृज्याथैनं गन्धाक्षतपत्रपुष्पधूपदीपैराराधयेत्।१।
अथैनं प्रसादयति आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः आराधयामि शक्त्या त्वानुगृहाण महेश्वर ।२।
त्र्यम्बकं यजामहे इति च ।३।
अथैनमावाहयति आ त्वा वहन्तु हरयस्सचेतसश्श्वेतैरश्वैस्सह केतुमद्भिः ।वाताजितैर्बलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वोमिति ।४।
स्थापिते नावाहनम्।५।
अथास्मा आसनं ददाति सद्योजातमिति भवे भवे इति पाद्यं भवोद्भवाय नमः इत्यर्घ्यं रुद्राय नमः इत्याचमनीयं व्याहृतीभिर्निर्माल्यं व्यपोह्याथैनं स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानं कद्रुद्राय सर्वो वै कया नश्चित्र आभुवतापो वा इदं सर्वमिति च ।६।
व्याहृतीभिः प्रदक्षिणमुदकं परिषिच्य पवित्र पादमूले निधायाद्भिस्तर्पयति भवं देवं तर्पयामि इत्यष्टाभिः वामदेवाय नमः इति वस्त्रं ज्येष्ठाय नमः इति यज्ञोपवीतं रुद्राय नमः इत्याचमनीयं कालाय नमः इति गन्धं कलविकरणाय नमः इत्यक्षतं बलविकरणाय नमः इति पुष्पं बलप्रमथनाय नमः इति धूपं सर्वभूतदमनाय नमः इति दीपं मनोन्मनाय नमः इति काले नैवेद्यं रुद्राय नमः इत्याचमनीयं ददाति ।७।
अथास्याघोरतनूरुपतिष्ठते अघोरेभ्यो ऽथ घोरेभ्यः इति ।८।
अथ रुद्रगायत्रीं जपेत्तत्पुरुषाय विद्महे इत्येतां रौद्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वो ऽपरिमितकृत्वो वा दशावरम्।९।
अथैनमाशिषमाशास्ते ईशानस्सर्वविद्यानामिति ।१०।
अथास्य मूर्ध्नि कलशधारया सन्ततमभिषिञ्चति नमस्ते रुद्र मन्यवे इत्येकादशानुवाकान्जपेत्।सर्वो वै रुद्रः इति त्रीननुवाकान्सद्यो जातमिति पञ्चानुवाकानिमा रुद्राय इति द्वादशर्चानन्यांश्च रौद्रमन्त्रान्यथाशक्ति जपेत्।११।
एवमेकादशकृत्वो ऽभिषिञ्चति ।१२।
जपान्ते जपान्ते अग्नाविष्णू सजोषसा इत्येकादशानुवाकानामेकमेकमनुवाकं जपेत्।१३।
सर्वेषामन्ते पुनराराधयेत्सद्यो जातमित्यासनादि दीपान्तं पूर्वोक्तं सर्वं कृत्वा मनोन्मनाय नमः इति पायसादि महाहविर्निवेदयेद्रौद्रीभिस्स्तुतिभिस्स्तुन्वन्ति ।१४।
तदेतद्रुद्रस्नानार्चनं पापक्षयार्थी व्याधिमोचनार्थी श्रीकामश्शान्तिकामः पुष्टिकामस्तुष्टिकाम आयुष्काम आरोग्यकामो मोक्षकामश्च कुर्यात्।१५।
अथ यथाशक्ति दक्षिणां ददाति दशगावस्सुवर्णभूषिता ऋषभैकादशास्तदभाव एकां गां दद्यादित्याह भगवान्बोधायनः ।१६।
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने अष्टादशो ऽध्यायः
BaudhGSS.2.19
अथ द्वितीयप्रश्ने एकोनविंशो ऽध्यायः
अथातः पुनःप्रतिष्ठाकल्पं व्याख्यास्यामः पूर्वोक्तेषु नक्षत्रेषु यानि चान्यानि शुभनक्षत्राणि शुक्लपक्ष उदगयने वसन्तादिकाले पूर्वं प्रतिष्ठितस्यापि बुद्धिपूर्वकमेकरात्रं द्विरात्रमेकमासं द्विमासं वा ऽर्चनाविच्छेदे शूद्ररजस्वलापतिताद्युपप्लवे वा पूर्वेद्युरेव युग्मान्ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा समागतायां निशायां जलाधिवास कृत्वा श्वोभूत उत्थाय द्वौ कलशौ स्थापयेदेकं पञ्चगव्येन पूरयित्वा ऽपरं शुद्धोदकेन सह रत्नेन स्नापयेत्।१।
अष्टसहस्रमष्टशतमष्टाविंशतिं वा मूलमन्त्रेण रुद्रगायत्र्या स्नापयित्वा पुष्पाणि दद्याद्यथालाभमर्चयित्वा गुडोदनं निवेदयेत्।२।
एवंकृते ऽस्य शान्तिर्भवति ।३।
बुद्धिपूर्वेणार्चनाविच्छेदे स्नापनं कर्तव्यम्।४।
एवं कुर्वाणः स्वस्ति ऋद्धिमाप्नोतीत्याचक्षते ।५।
एवं पुनः प्रतिष्ठामन्त्रेण प्रतिष्ठापयेदित्याह भगवान्बोधायनः ।६।
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने एकोनविंशो ऽध्यायः
BaudhGSS.2.20
अथ द्वितीयप्रश्ने विंशो ऽध्यायः
अतः परं प्रवक्ष्यामि पञ्चगव्यविधिं क्रमात्
उत्तमं द्रोणमेकं तु मध्यमं तु तदर्धकम्।१।
तदर्धमधमं ज्ञेयं त्रिविधं परिकीर्तितम्
प्रथपादं घृतं प्रोक्तं गोमूत्र द्विगुणं भवेत्।२।
गोमयं कुडुपं प्रोक्तं दधि प्रस्थसमन्वितम्
क्षीरं प्रस्थद्वयं प्रोक्तं ।३।
स्नापनं पञ्चगव्येन भुक्तिमुक्तिप्रदं नृणाम्
कपिलाया वरं क्षीरं श्वेतायास्तु वरं दधि
रक्ताया वरमाज्यं वै शेषौ शवलकृष्णयोः ।४।
_प्रयतो देवस्य गृहं गत्वा पुरतो मण्डपे समे देशे गोमयेनोपलिप्य व्रीहिभिर्यवैर्वा खारिमात्रं तदर्धं वा संगृह्य सौवर्णं राजतं कांस्यं मृण्मयं वा नव कलशान्याचति ।५।
तन्तुना परिवेष्ट्य शुचौ देशे निधाय स्थण्डिलस्य दक्षिणता उदङ्ङासीनो _दशनामभिर्ब्राह्मणानामन्त्र्य पुण्याहं वाचयित्वा प्रोक्ष्य व्रीहिभिस्स्थण्डिलं कृत्वा तस्य मध्यतः प्रादेशाद्दक्षिणवामपार्श्वे सुवर्णशकलेन ऋजुमुल्लिखेत्ब्रह्म जज्ञानमिति दक्षिणतः ।पिता विराजामित्युत्तरतः ।तयोर्दक्षिणतो नाके सुपर्णमिति तयोरुत्तरतः आप्यायस्व इति ।सन्ततमृजुमुल्लिखेत्यो रुद्रो अग्नौ इति पश्चात्।सर्वो वै रुद्रः इति पुरस्तात्।तयोः पश्चातिदं विष्णुर्विचक्रमे इति ।तयोः पुरस्तातिन्द्रं विश्वा अवीवृधनिति ।६।
अथाभ्युक्ष्य शकलं निरस्याप उपस्पृश्य भूर्भुवस्सुवरों ब्रह्मणे नमः इति मध्यमपदे ऽभ्यर्च्य ईशानाय नमः इतीशपदे तत्पुरुषाय नमः इति पूर्वे अघोराय नमः इति दक्षिणे वामदेवाय नमः इत्युत्तरे सद्योजाताय नमः इति पश्चिमे हृदयाय नमः इति दक्षिणपूर्वे शिरसे नमः इत्युत्तरपूर्वे शिखायै नमः इति दक्षिणपश्चिमे कवचाय नमः इति पश्चिमोत्तरे अस्त्राय नमः इति दिग्विदिक्ष्वभ्यर्च्य ब्रह्मणे नमः इति मध्ये प्रधानकलशं स्थाप्य ईशादिपदेषु तत्तन्मन्त्रेण कलशान्संस्थाप्य प्रोक्षणीस्संस्कृत्य पात्राणि प्रोक्ष्य गव्यानि च प्रोक्षणीपात्रपरिमाणं कुशोदकं देवस्य त्वा इति ब्रह्मकुम्भे आनयति ।आपो वा इदं सर्वमित्यभिमन्त्र्य कूर्चं निधायेशपात्रे सपवित्रेण क्षीरम्।पुरुषे दधि ।अघोरे घृतम्।सौम्ये गोमयम्।वारुणे गोमूत्रम्।हृदये पिष्टं कदऌयादीनि च ।नाऌइकेरं शिरसि ।आमलकं शिखायाम्।कवचे हारिद्रम्।तत्तन्मन्त्रेणावाहनाद्याचमनान्तं कृत्वा संपरिस्तीर्याथैनं स्नापयति आपो हिष्ठा मयो भुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानं कद्रुद्राय सर्वो वै कया नश्चित्रः आपो वा इदमिति प्रदक्षिणमुदकं व्याहृतीभिः परिषिच्याथाद्भिस्तर्पयति ।स्वेन मन्त्रेण गन्धपुष्पधूपदीपैरभ्यर्च्य बलिमुपहृत्य तत्सवितुर्वरेण्यमिति सद्यःपात्रमादाय ब्रह्मपात्रेण योजयेत्सद्योजातमित्यनुवाकेन ।गन्धद्वारामिति वामदेवमादाय वामदेवानुवाकेन ब्रह्मपात्रेण योजयेत्।आप्यायस्व इति क्षीरकुम्भमादायेशानानुवाकेन योजयेत्।दधिक्राव्ण्णः इति दध्यादाय पुरुषानुवाकेन योजयेत्।शुक्रमसि इत्यनुद्रुत्य घृतमादायाघोरानुवाकेन योजयेत्।सोहमिति _फलैरवकीर्य गन्धादिभिरभ्यर्च्य व्योमव्यापिना संपूज्य पञ्चगव्यं भवतीति ।७।
अथ देवस्य समीपं गत्त्वा निर्माल्यं व्यपोह्य प्रणवेन _देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बादुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामिन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि इति त्रिभिः ।अथ पिष्टामलकहरिद्रादिभिः स्नापयति ।सुरभिमत्या ऽब्लिङ्गाभिर्वारुणीभिः हिरण्यवर्णाभिः पावमानीभिः व्याहृतीभिरन्यैश्च पवित्रसमूहैश्चमकनमकादिभिरभिषेकं कुर्यात्।८।
पुनरेव यथाशक्ति दक्षिणां दद्यादाचार्याय वस्त्रकुण्डलाभरणाङ्गुलीयधेनुभूम्यादीनि दद्यात्।९।
सर्वं पाप्मानं तरति तरति ब्रह्महत्यां
ब्रह्मणस्सायुज्यं सलोकतामाप्नोति ।१०।
नाऌइकेराम्रपनसकदऌईनां फलत्रयम्
शर्करामधुसंयुक्तं पञ्चामृतमिति स्मृतम्।११।
ब्रह्मपात्रस्थितं तोयं चतुःप्रस्थं प्रचक्षते
_कपित्थफलमात्रकम्।१२।
यावत्सम्पादितं भक्त्या तावत्सम्पादयेद्बुधः
इत्याह भगवान्बोधायनः ।१३।
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने विंशो ऽध्यायः
BaudhGSS.2.21
अथ द्वितीयप्रश्ने एकविंशो ऽध्यायः
अथातस्संप्रवक्ष्यामि देवस्य स्नपने विधिम्
महतो लिङ्गदेशे वा कारयेद्वेदिकां बुधः ।१।
मण्डलं च पुराणोक्तं कृत्वा स्नपनमारभेत्
अचलप्रतिष्ठितो यत्र देवस्तत्र न वेदिका ।२।
तस्यास्समीपे तत्स्थाने कलशस्थानमुत्तमम्
संख्या च नव तेषां तु स्थापनं प्रणवेन तु ।३।
यत्किंचित्क्रियते तत्र प्रणवेनैव कथ्यते
स्थापनं कलशानां तु प्रागादीशानमन्ततः ।४।
एतैरेव क्रमैरत्र सर्वं कर्म विधीयते
नवमं कलशं मध्ये स्थापयेदन्ततो बुधः ।५।
कूर्चेषु स्थापयेत्सर्वं व्रीहिभिस्तण्डुलेषु च
व्रीहयश्शालयः प्रोक्ताः कलशांस्थापयेद्बुधः ।६।
तेषामभावे यत्किंचिद्ग्राम्यं धान्यमिहेष्यते
पूरयेत्कलशांत्सर्वान्शुद्धस्फटिकसन्निभैः ।७।
जलैस्तु मध्यमं तत्र पञ्चगव्येन पूरयेत्
कूर्चान्निधाय सर्वेषु शरावैरपिधाय च ।८।
अरिक्तैरेव कर्तव्यश्शरावैर्नवभिस्सदा
अपिधानक्रिया तेषां शालिजैरेव तण्डुलैः ।९।
अर्चयेत्कलशांत्सर्वान्गन्धपुष्पादिभिः क्रमात्
प्राप्ते मुहूर्त आवाह्य परमात्मानमात्मवान्।१०।
रुद्रदेवं शिवं साक्षाद्यच्च सर्वस्य दैवतम्
तस्मादावाहयेत्प्राज्ञः सर्वत्रावाहने विधिः ।११।
एष औत्सर्गिकः प्रोक्तो देवतानां च तर्पणे
नारायणादि विष्णोस्स्याद्रुद्रस्य तु शिवादिकम्।१२।
जपध्यानादि सर्वं स्यात्विकल्पं मनसि श्रयेत्
रौद्रं च सूक्तमापो हि हिरण्येति च सप्तकम्।१३।
वैकल्पिकैरेव कुर्यान्मध्येति तु न विद्यते
अथ हैके वदन्त्येवं स्नापने तु महाप्रभोः ।१४।
सद्योजातादिपञ्चैव सर्वो वै रुद्र इत्यपि
एतैरन्यैश्च कुर्याद्वै स्नापनं सार्वकालिकम्।१५।
एवं च कुर्यात्स्नाने तु स्नापने ऽर्चा तथा भवेत्
इत्याह भगवान्बोधायनः ।१६।
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने एकाविंशो ऽध्यायः
BaudhGSS.2.22
अथ द्वितीयप्रश्ने द्वाविंशो ऽध्यायः
अथ देवयोः पूजाकरणे सर्वत्र त्रीणि पदा विचक्रमे त्र्यम्बकं यजामहे इत्येताभ्यां यथालिङ्गमासनं पाद्यमाचमनीयं च ।१।
एतयोस्त्रैवर्णिकधर्मत्वात्सर्वत्र वचनाल्लोकप्रसिद्धप्राप्तप्रतिषेधाभावात्क्रियत इति ह स्माह बोधायनः ।२।
एवं प्रतिष्ठाप्य वा कुर्यात्तयोरेव सायुज्यं सलोकतामाप्नोति ।३।
यदि त्रिंशत्संवत्सरादूर्ध्वं क्रियेत ततो देवयोः परमं पदं ब्रह्मसंज्ञितं तदेव सगण आप्नोति ।४।
यदि तत्प्रवणः स्याद्य उ चैनदेवं विदुर्यस्मै प्रब्रूते यस्मै वा करोति तस्मै शतं दद्यान्माषाणां ब्राह्मणो राजन्यस्सहस्रं दद्याद्वैश्यो यथाश्रद्धं दद्यात्।५।
न स्त्रीशूद्रौ कुर्यातां यदि कुर्यातां स्वतन्त्रोपदेशे आचार्य आश्रय इति ।६।
स्वतन्त्रयोस्तयोश्चेद्वृत्तिक्षीणो ऽपि ब्राह्मणः पतत्येवेति शालिकिः ।७।
अथ देवयोर्यथाकामी स्याद्यस्यांकस्यांचिदवस्थायां जले वा स्थण्डिले वा प्रतिमासु वा सर्वं कृत्वा ऽभ्यर्चयेन्न तु प्रमाद्येत्।८।
देशाभावे द्रव्याभावे साधारणे कुर्यान्मनसा वा ऽर्चयेदिति ।तदाह भगवान्पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।इति ।९।
भक्तिनम्रः एतान्मन्त्रानधीयीत न त्वेवानर्चकः स्यादन्यतरस्योभयोर्वा ततस्तयोरेव सायुज्यं सलोकतामाप्नोति ।१०।
य एतयोरर्चनां कुरुते ऽन्यत्र पुत्रशिष्येभ्यः स्त्रियाश्च तस्मै सौवर्णं शङ्खं सुवर्णोपधानं वा दद्यादृषभं रुद्रस्य दक्षिणेत्याह भगवान्बोधायनः ।११।
प्रतिष्ठाकरणे स्नापनकरणे वाचार्याय तदुपकरणं सर्वं दत्वा ऋषभैकादश गा दद्यादित्याह भगवान्बोधायनः ।१२।
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने द्वाविंशो ऽध्यायः
BaudhGSS.2.col.
अथ देवयोः पूजाकरणे ।अथातस्संप्रवक्ष्यामि ।अतः परं प्रवक्ष्यामि ।अथातः पुनःप्रतिष्ठाकल्पम्।अथातो रुद्रस्नानार्चनविधिम्।अथातो महादेवस्याहरहः ।अथातो रुद्रप्रतिष्ठाकल्पम्।अथातस्संप्रवक्ष्यामि विष्णोः ।अथातो महापुरुषस्याहरहः ।अथातो विष्णुप्रतिष्ठकल्पम्।यथो एतद्ग्रहाणाम्।अथाहुते प्रसिद्धमुपनयनम्।अथातो ऽश्वत्थसंस्कारम्।अथ जडबधिरमूकानां संस्कारम्।अथ राजन्यवैश्ययोः ।अथातो यज्ञोपवीतविधिम्।अथातः पुत्रप्रतिग्रहकल्पम्।अथ माघमासे ।अथ प्रजार्थिहोमः ।अथ मङ्गलानि ।अथ गर्भाधानम्।अथातः पञ्चमीश्राद्धम्।२२।
अथातः पञ्चमीश्राद्धम्।अथ गर्भाधानम्।अथ मङ्गलानि ।अथ प्रजार्थिहोमः ।अथ माघमासे ।अथातः पुत्रप्रतिग्रहकल्पम्।अथातो यज्ञोपवीतविधिम्।अथ राजन्यवैश्ययोः ।अथ जडबधिरमूकानां संस्कारम्।अथातोश्वत्थसंस्कारम्।अथाहुते प्रसिद्धमुपनयनम्।यथो एतद्ग्रहाणाम्।अथातो विष्णुप्रतिष्ठाकल्पम्।अथातो महापुरुषस्याहरहः ।अथातस्संप्रवक्ष्यामि विष्णोः ।अथातो रुद्रप्रतिष्ठाकल्पम्।अथातो महादेवस्याहरहः ।अथातो रुद्रस्नानार्चनविधिम्।अथातः पुनः प्रतिष्ठाकल्पम्।अतः परं प्रवक्ष्यामि ।अथातस्संप्रवक्ष्यामि देवस्य ।अथ देवयोः पूजाकरणे ।२३।
इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्नः समाप्तः