सामग्री पर जाएँ

बृहत्-तन्त्रसारः/परिच्छेदः ०४

विकिस्रोतः तः
← परिच्छेदः ०३ बृहत्-तन्त्रसारः
परिच्छेदः ४
कृष्णानन्द आगमवागीश
परिच्छेदः ०५ →

चतुर्थः परिच्छेदः

अथ प्रकीर्णकम् ।

तत्र पूजायां दिग्विधानम् ।

विष्णुविषये नारदीये :

स्नातः शुक्लाम्बरधरश्चाचान्तः पूर्वदिङ्मुखः ।
शुद्धासनं समासाद्य भूतोत्सारणमाचरेत् ।। १ ।।

अन्यत्र तु निबन्धे :

उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ।
बद्धपद्मासनो मन्त्री समाहितजितेन्द्रियः ।। २ ।।

सारसमुच्चयेऽपि :

प्रागाननो धनददिग्बदनोऽथ वापीति ।
रात्रो पूजने नायं निमयः ।। ३ ।।

तथा च स्मृतिः :

रात्रावुदङ्मुखः कुर्यात् देवकार्यं सदैव हि ।
शिवार्चनं सदाप्येवं शुचिः कुर्यादुदङ्मुखः ।। ४ ।।

अथ पूजायां विहितनिषिद्धानि :

यन्त्रतन्त्रप्रकाशे :

लिङ्गद्वयं तथा नार्च्यं गणेशद्वयमेव च ।
शक्तिद्वयं तथा सूर्यद्वयमेकत्र नार्चयेत् ।। ५ ।।
द्वे चक्रे द्वारकायान्तु शालग्रामशिलाद्वयम् ।
एतेषामर्चनान्नित्यमुद्वेगं प्राप्नुयाद्गृही ।। ६ ।।

लैङ्गे :

एकीकृत्य च लिङ्गानि दशपञ्चशतानि च ।
प्रत्येकेनाथवा देवि बिल्वपत्रैः प्रपूजयेत् ।। ७ ।।
एकं पाशुपतं लिङ्गं मृच्छिलादिविनिर्मितम् ।
शालग्रामशिलामेकां गृहस्थोऽपि प्रपूजयेत् ।। ८ ।।

यामले :

नाक्षतैरर्चयेद्विष्णुं न तुलस्या विनायकम् ।
न दूर्वया यजेद् दुर्गां बिल्वपत्रैर्दिवाकरम् ।। ९ ।।
उन्मत्तमर्कपुष्पञ्च विष्णोर्वर्ज्य सदा बुधैः ।। १० ।।

गौतमीये :

न रक्तचन्दनं जातु गृह्णीयाद्रक्तपुष्पकम् ।
विल्वपत्रैस्तत्प्रसूनैर्नार्चयेद्देवकीसुतम् ।। ११ ।।

यत्तु तत्रैव :

कमले करवीरे द्वे तुलस्यौ जातिकेतके ।
नागकेशर पावन्ती कह्लारं चम्पकोत्पले ।
नान्द्यावर्त्तञ्च यूथी च मल्लिका नवमल्लिका ।
कुन्दं मन्दारकञ्चैव सौगन्धिकञ्च केशरम् ।
कुरुण्टाशोकसर्जानि बिल्वञ्च मुनिपुष्पकम् ।
पत्रमामलकं शुद्धं कर्णिकारं पलाशजम् ।
एतान्यन्यानि पुष्पाणि यथालाभं समर्चयेत् ।
इति यद्बिल्वविधानं तद्विहितपुष्पाभावे ।। १२ ।।

तन्त्रान्तरे :

देवीनामर्क-मन्दारावादित्ये तगरं तथा ।
गणेशाय च सूर्याय रक्तपुष्पमतिप्रियम् ।
शिवे कुन्दं मदन्तीञ्च यूथीं बन्धूककेतके ।
रक्तां जवां त्रिसन्ध्यो द्वे मालतीं केतकीन्तथा ।
घुसृणं कुमुदं रक्तं हयारिञ्च विसर्जयेत् ।। १३ ।।

तथा :

उग्रगन्धमगन्धञ्च कृमिकेशादिदूषितम् ।
वासोभिः संभृतं नीतं मतिमान्नार्चयेच्छिवे ।। १४ ।।
कलिकाभिस्तथा नार्च्यं विना चम्पकपद्मकैः ।
शुष्कैश्च नार्चयेद्विष्णुं पत्रैः पुष्पैः फलैरपि ।
स्नात्वानीतैः पर्युषितैर्याचितैः कुष्णवर्णकैः ।
स्वयं विकसितैः पुष्पैः स्वयञ्च पतितैर्भुवि ।
वर्जयेद् वृहतीपुष्पमगन्धञ्च विशेषतः ।
स्वयं विकसितैरिति पुरुषेण स्वयं विकासितैरित्यर्थः ।। १५ ।।
त्रिपत्रन्यूनकुसुमैर्नार्चयेत् तु कदाचन ।
भूगतञ्चाङ्गसंस्पृष्टं केशकीटादिदूषितम् ।
कुमुदं पाटलञ्चैव शिरीषं परिवर्जयेत् ।
भूगतं वर्जयेत् पुष्पं शेफालीं वकुलं विना ।। १६ ।।

तथा :

बिल्वस्य खादिरस्यैव तथा धात्रीदलस्य च ।
तमालस्य च पद्मस्य छिन्नभिन्ने न दूष्यति ।। १७ ।।

गौतमीये :

मलिनं भूमिसंस्पृष्टं कृमिकेशादिदूषितम् ।
पर्युषितानि पुष्पानि वर्जयेद् देवतार्चने ।
तिष्ठेद् दिनद्वयं शुद्धं पद्ममामलकं तथा ।
तुलसी सर्वदा शुद्धा तथा बिल्वदलानि च ।
दिनैकं करवीराणि योग्यानि च तपोधन ।। १८ ।।

ज्ञानार्णवे :

पुष्पैः पर्ययुषितैर्देवि, नार्चयेत् स्वर्णजैरपि ।
निर्माल्यभूतैः कुसुमैरुच्छिष्टैः परमेश्वरि ।। १९ ।।

त्रिपुरामधिकृत्य वाराहीये :

पलाशकाशकुसुमैर्नार्चयेद् दूरतस्त्यजेत् ।
धात्रीतमालजैः पत्रैस्तुलसीद्वितयैस्तथा ।
पूजनात् पातको तु स्याल्लग्नैश्चापि श्रियं हरेत् ।
त्रिपुरापूजने वर्ज्या तुलसी सर्वदा बुधैः ।
तुलसीघ्राणमात्रेण क्रुद्धा भवति सुन्दरी ।। २० ।।

कौलावलीये :

रक्तमार्घ्यं श्वेतदूर्वां नीलकण्ठंकुरुण्टकम् न दद्यात् तु
महादेव्यै यदीच्छेच्छुभमात्मनः ।। २१ ।।

योगिनीतन्त्रेऽपि :

देवीमधिकृत्य :

झिण्टीपुष्पेण पीतेन-श्वेतेन तगरेण च ।
श्वेतोड्रेण च पुष्पेण वर्जयेत् पूजनं सदा ।
तुलस्यौ द्वे च मन्दारकह्लारज-तमालजैः ।
नार्चयेत् तु महादेवीं कुशकाशोद्भवेन च ।। २२ ।।

तथा सर्वमधिकृत्य :

बकुलस्य त्वशोकस्य अर्जुनस्य महेश्वरी ।
पूजयेद् वृन्तवर्ज्येन सवृन्तेन च वर्जयेत् ।
विष्णुक्रान्ता जवा नागकेशरं नागवल्लभम् ।
वन्धूकञ्चैव मन्दारं सवृन्तेन समर्चयेत् ।
न स्पृशेदहस्तवर्जञ्च भूगतञ्च न संस्पृशेत् ।
शेफालिबकुले भद्रे भूगतेऽपि समर्चयेत् ।
मालूरं भूगतं देयं तस्य काष्ठस्य चन्दनम् ।
बिल्वस्य मूलकं वर्ज्यं कदल्या पत्रकं तथा ।

तथा :

बिल्वपत्रञ्च माध्यञ्च तमालामलकीदलम् ।
कह्लारं तुलसीञ्चैव पद्मञ्च मुनिपुष्पकम् ।
एतत् पर्युषितं स्याद्यच्चान्यत् कलिकात्मकम् ।
नीरजस्य च बिल्वस्य तुलस्या दलमेव च ।
न दूष्येच्छिन्न-भिन्नञ्च जातीपुष्पञ्च शङ्करि ।। २३ ।।

तथा नक्षत्रविद्यादौमत्स्यसूक्ते :

पुष्पं श्रेष्ठं रक्तकोकं बन्धूकं शतपत्रकम् ।
वर्वराद्वितरञ्चैव कर्णिकाद्वयन्तथा ।
वकमन्दारचूतानि करवीराणि शस्यते ।
मल्लिकाद्वितयं जाती क्षौमपुष्पं जयन्तिका ।
बिल्वपत्रं कुरुवकं मुनिपुष्पञ्च केशरम् ।
वासन्तीद्वितञ्चैव काशपुष्पं मरूवकम् ।
मदनञ्च लवङ्गञ्च यूथीं शेफालिकान्तथा ।
सुगन्धिश्वेतलौहित्यकुसुमैरर्चयेद्दलैः ।
बिल्वैर्मरूवकाद्यैश्च तुलसीदलवर्जितैः ।। २४ ।।

यद्यपि :

तुलसीवर्जिता पूजा न जातु भवेत् ।
इति तथापि तान्नियमस्तु न त्रिपुरादौ ।। २५ ।।

तथा च :

सुन्दरी भैरवी-काली-ब्रह्मविघ्न-विवस्वताम् ।
तुलसीवर्जिता पूजा सा पूजा विफला भवेत् ।
इति अविफला सफला इत्यर्थः ।
तेन भैरव्यादिपूजायां तुलसी सदैव त्याज्या पूर्ववचनात् ।
इतरासान्तुं पूजायां तदसत्त्वे सत्त्वे वा न दोषः ।। २६ ।।
नाक्षतैरर्चयेद्विष्णुं इति पुष्पाभावेऽतिदेशप्राप्तस्य तण्डुलस्य
निषेधपरम् ।। २७ ।।

तथा हि :

पुष्पाभावे जलेनापि दूर्वया तण्डुलेन वा ।
नित्यं पूजा प्रकर्त्तव्या पुष्पाभावेन सुन्दरि ।
न त्वर्घ्यादिनिषेधपरम् ।। २८ ।।

तथा च :

गन्ध-पुष्पाक्षत-यव-कुशाग्र-तिलसर्षपैः ।
सदूर्वैः सर्वदेवानामेतदर्घ्यमुदाहृतम् ।
एवं न दूर्वया यजेद् दुर्गामित्यादि ।। २९ ।।
विना वै दूर्वया देवि पूजा नास्तीह कर्हिचित् ।
तस्माद्दूर्वा ग्रहीतव्या सर्वपुष्पमयी शिवे ।
इति श्रीक्रमीयवाक्यात् ।। ३० ।।

तथा च राघवभट्टः :

सर्वैः पुष्पैः सदा पूज्या विहिताविहितैरपि ।
कर्तव्या सर्वदेवानां भक्तियोगोऽत्र कारणम् ।। ३१ ।।

तथा तन्त्रान्तरे :

देवीपूजा सदा कार्या जलजैः स्थलजैरपि ।
विहितैरविहितैर्वापि भक्तियुक्तेन चेतसा ।
इदन्तु विहितपुष्पाभावे अत्यन्त भक्तिविषयम् ।। ३२ ।।

तथा कालीतन्त्रे :

अपामार्गैश्च भृङ्गैश्च तुलसीवर्जितैः शुभैः ।। ३३ ।।

मुण्डमालातन्त्रे :

धुस्तूराशोकबकुलश्वेतकृष्णापराजिता ।
इत्यादि पुष्पनियमो बोद्धव्यः ।। ३४ ।।

अथ जपविशेषः :

तत्र सेतुं विना जपस्य व्यर्थत्वात्तन्निरूप्यते ।। ३५ ।।

तत्र कालिकापुराणे :

शास्त्राणां प्रणवः सेतुर्मन्त्राणां प्रणवः स्मृतः ।
स्रवत्यनोंकृतः पूर्वं परस्ताच्च विशीर्यति ।
निःसेतुसलिलं यद्वत्क्षणान्निम्नं प्रगच्छति ।
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् ।। ३६ ।।
चतुर्दशः स्वरो योऽसौ सेतुरौकारसंज्ञकः ।
स चानुस्वारनादाभ्यां शूद्राणां सेतुरुच्यते ।। ३७ ।।

अथ पञ्चाङ्गशुद्धिः :

पञ्चाङ्गशुद्धिं विना पूजाया निष्फलत्वात्तन्निरूप्यते ।

तत्र कुलार्णवे :

आत्म-स्थान-मन्त्र-द्रव्य-देवशुद्धिस्तु पञ्चमी ।
यावन्न कुरुते देवि तस्य देवार्चनं कुतः ।
पञ्चशुद्धिं विना पूजा अभिचाराय कल्पते ।। ३८ ।।
सुस्नातैर्भूतशुद्ध्या च प्राणायामादिभिस्तथा ।
षडङ्गाद्यखिलन्यासैरात्मशुद्धिरुदीरिता ।। ३९ ।।
सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत् शुभम् ।
वितान-धूप-दीपादि-पुष्पमाल्यादिशोभितम् ।
पञ्चवर्णरजोभिश्च स्थानशुद्धिरितीरिता ।। ४० ।।
ग्रथित्वा मातृकावर्णैर्मूलमन्त्राक्षराणि च ।
क्रमोत्क्रमाद् द्विरावृत्त्या मन्त्रशुद्धिरितीरिता ।। ४१ ।।
पूजाद्रव्याणि सम्प्रोक्ष्य मूलास्त्रैश्च विधानतः ।
दर्शयेद्धेनुमुद्रादीन् द्रव्यशुद्धिः प्रकीर्तिता ।। ४२ ।।
पीठे देवीं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् ।
मूलमन्त्रेण माल्यादीन् धूपादीनुदकेन च ।
त्रिवारं प्रोक्षयेद्विद्वान् देवशुद्धिरितीरिता ।
पञ्चशुद्धिं विधायेत्थं पश्चात्पूजां समाचरेत् ।। ४३ ।।

अथमन्त्रसिद्धेरूपायः :

तदुक्तं गौतमीये :

सम्यगनुष्ठितो मन्त्रो यदि सिद्धिर्न जायते ।
पुनस्तेनैव कर्त्तव्यं ततः सिद्धो भवेद्ध्रुवम् ।। ४४ ।।
पुनरनुष्ठितो मन्त्रो यदि सिद्धो न जायते ।
पुनस्तेनैव कर्त्तव्यं ततः सिद्धो न संशयः ।। ४५ ।।
पुनः सोऽनुष्ठितो मन्त्रो यदि सिद्धो न जायते ।
उपायास्तत्र कर्त्तव्यः सप्त शंकरभाषिताः ।। ४६ ।।
भ्रामणं रोधन वश्यं पीडनं पोषशोषणे ।
दहनान्तं क्रमात् कुर्यात् ततः सिद्धो भवेन्मनुः ।। ४७ ।।
भ्रामणं वायुबीजेन ग्रथनं क्रमयोगतः ।
तन्मन्त्रं यन्त्रे त्वालिख्य शिह्लकर्पूरकुंकुमैः ।
उशीरचन्दनाभ्यान्तु मन्त्रं संग्रथितं लिखेत् ।। ४८ ।।
क्षीराज्यमधुतोयानां मध्ये तल्लिखितं भवेत् ।
पूजनाज्जपनाद्धोमात्भ्रामितः सिद्धिदो भवेत् ।। ४९ ।।
भ्रामितो यदि न सिद्धयेद्रोधनं तस्य कारयेत् ।
सारस्वतेन बीजेन संपुटीकृत्य संजपेत् ।
एवं रुद्धो भवेत् सिद्धो न चेदेतद्वशीकुरु ।। ५० ।।
अलक्तं चन्दनं कुष्ठं हरिद्रा मादनं शिला ।
एतैस्तु मन्त्रमालिख्य भूर्जपत्रे सुशोभने ।
धार्यं कण्ठे भवेत् सिद्धिः पीडनं वास्य कारयेत् ।। ५१ ।।
अधोरोत्तरयोगेन पदानि परिजप्य वै ।
ध्यायेच्च देवता तद्वद्धरोत्तर रूपिणीम् ।
विद्यामादित्यदुग्धेन लिखित्वाक्रम्य चांघ्रिणा ।
तथा भूतेन मन्त्रेण होमः कार्यो दिने-दिने ।
पीडितो लज्जयाविष्टः सिद्धः स्यादथ पोषयेत् ।। ५२ ।।
बालायाः त्रितयं बीजमाद्यन्ते तस्य योजयेत् ।
गोक्षीरमधुनालिख्य विद्यांपाणौ विभावयेत् ।
पोषितोऽयं भवेत् सिद्धो न चेत्कुर्वीत शोषणम् ।। ५३ ।।
द्वाभ्यान्तु वायुबीजाभ्यां मन्त्रः कुर्याद् विदर्भितम् ।
एषा विद्या गले धार्या लिखित्वा वरभस्मना ।
शोषितश्चाप्यसिद्धश्चेद्दहनीयोऽग्निबीजतः ।। ५४ ।।
आग्नेयेन तु बीजेन मन्त्रेष्वेकैकमक्षरम् ।
आद्यन्तमध-ऊर्ध्वञ्च योजयेद् दाहकर्मणि ।
ब्रह्मवृक्षस्य तैलेन मन्त्रमालिख्य धारयेत् ।
कण्ठदेशे ततो मन्त्रः सिद्धः स्याच्छङ्करोदितम् ।। ५५ ।।
शिव उवाचः इत्येवं कथितं सम्यक् केवलं तव भक्तितः ।
एकेनैव कृतार्थः स्याद्बहुभिः किमु सुव्रते ।। ५६ ।।
अथान्यत् संप्रवक्ष्यामि मन्त्रसिद्धेस्तु कारणम् ।
मातृकापुटितं कृत्वा मन्त्रञ्च प्रजपेत् सुधीः ।
क्रमोत्क्रमाच्छतावृत्या तदन्ते केवलं मनुम् ।
एवन्तु प्रत्यहं कुर्यात् यावल्लक्षं समाप्यते ।
निश्चितं मन्त्रसिद्धिः स्यादित्युक्तं तन्त्रवेदिभिः ।। ५७ ।।

अथ सिद्धिलक्षणम् :

मनोरथानामक्लेशः :

सिद्धिरुत्तम-लक्षणम् ।
मृत्युनां हरणं तद्वद्देवतादर्शनन्तथा ।
प्रयोगोऽस्याक्लेशसिद्धिः सिद्धेस्तु लक्षणं परम् ।। ५८ ।।
परकायप्रवेशश्च पुरप्रवेशनं तथा ।
ऊर्ध्वोत्क्रमणमेवं हि चराचरपुरे गतिः ।
खेचरीमेलनञ्चैव तत्कथाश्रवणादिकम् ।
भूच्छिद्राणि प्रपश्येत् तु तदुत्तमस्य लक्षणम् ।
ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ।
नृपाणां तद्गणानाञ्च वशीकरणमुत्तमम् ।
सर्वत्र सर्वलोकेषु चमत्कारकरः सुखी ।
रोगापहरणं दृष्ट्या विषापहरणन्तथा ।
पाण्डित्यं लभते मन्त्री चतुर्विधमयत्नतः ।
वैराग्यञ्च मुमुक्षुत्वं त्यागिता सर्ववश्यता ।
अष्टाङ्ग योगाभ्यासनं भोगेच्छापरिवर्जनम् ।
सर्वभूतेष्वनुकम्पा सार्वज्ञादिगुणोदयः ।
इत्यादिगुणसम्पत्तिर्मध्यसिद्धेस्तु लक्षणम् ।। ५९ ।।
ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ।
नृपाणां तद्गणानाञ्च वात्सल्यं लोकवश्यता ।
महैश्वर्यं धनित्वञ्च पुत्रदारादिसम्पदः ।
अधमाः सिद्धयः प्रोक्ता मन्त्रिणां प्रथमभूमिका ।
सिद्धमन्त्रस्तु यः साक्षात् स शिवो नात्र संशयः ।। ६० ।।

मन्त्राणां दोषाः :

मुण्डमालातन्त्रे शङ्कर उवाच :

भुवनेशी महाविद्या देवराजेन वै पुरा ।
आराधिता महाविद्या वीर्यहीनाभवत् तदा ।। ६१ ।।
एकाक्षरी वीर्यहीना वाग्भवेनोज्वलीकृता ।
कामराजाख्यविद्या या विद्या सा पुष्पधन्वना ।
शरेण पीडिता पूर्वं भुवनेश्याः प्रतिष्ठिता ।। ६२ ।।
कुमारी या च विद्येयं त्वया शप्ता पतिव्रते ।
केवलं शिवरूपेण शक्तिरूपेण केवलम् ।
मया प्रतिष्ठिता विद्या तारा चन्द्रस्वरूपिणी ।। ६३ ।।

भैरव्यादिविद्यामधिकृत्य :

सुप्ता दग्धा कीलिता च सैव संहाररूपिणी ।
मदोन्मत्ता मूर्च्छिता च हीनवीर्या च स्तम्भिता ।
छिन्ना रुद्धा च वृद्धा च निर्वीजा शक्तिहीनका ।। ६४ ।।

तथा विश्वसारे :

छिन्नो रुद्धः शक्तिहीनः पराङ्मुखः उदीरितः ।
वधिरो नेत्रहीनश्च कीलितः स्तम्भितस्तथा ।
दग्धः स्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः ।
भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः ।
हृतवीर्यश्च हीनश्च प्रध्वस्तो बालकः पुनः ।
कुमारस्तु युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा ।
निर्वीजः सिद्धिहीनश्च मन्दः कूटस्तह्ता पुनः ।
निरंशकः सत्त्वहीनः केकरो जीवहीनकः ।
धूमितालिङ्गितौ स्यातां मोहितश्च क्षुधार्त्तकः ।
अतिदृप्तोऽङ्गहीनः स्यादतिक्रुद्धः समीरितः ।
अतिकूरश्च सव्रीडः शान्तमानस एव च ।
स्थानभ्रष्टश्च विकलो निःस्नेहः परिकीर्त्तितः ।
अतिवृद्धः पीडितश्च वक्ष्याम्येषाञ्च लक्षणम् ।। ६५ ।।
मनोर्यस्यादिमध्यान्तेष्वानिलं बीजमुच्यते ।
संयुक्तं वा वियुक्तं वा स्वराक्रान्तं त्रिधा पुनः ।
चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः ।। ६६ ।।
आदिमध्यावसाने तु भूबीजद्वयलाञ्छितः ।
रुद्धमन्त्रः स विज्ञेयो भूक्तिमुक्तिविवर्जितः ।। ६७ ।।
मायात्रितत्त्वश्रीबीजरावहीनश्च यो मनुः ।
शक्तिहीनः स कथितो यस्य मध्ये न वर्त्तते ।। ६८ ।।
कामबीजं मुखे माया शिरस्यंकुशमेव च ।
असौ पराङ्मुखः प्रोक्तो हकारो बिन्दुसंयुतः ।। ६९ ।।
आद्यन्तमध्येष्विन्दुर्वा स भवेद्बधिरः स्मृतः ।
पञ्चवर्णो मनुर्यः स्याद्रेफार्केन्दुविवर्जितः ।
नेत्रहीनः स विज्ञेयो दुःख शोकामयप्रदः ।। ७० ।।
आदिमध्यावसानेषु हंसः प्रासादवाग्भवौ ।
हकारो बिन्दुमाञ्जीवो रावश्चापि चतुष्फलः ।
माया नमामि च पदं नास्ति यस्मिन् स कीलितः ।। ७१ ।।
एकं मध्ये द्वयं मूर्ध्नि यस्मिन्नस्त्रपुरन्दरौ ।
न विद्येते स मन्त्रस्तु स्तम्भितः सिद्धिवर्जितः ।। ७२ ।।
वह्निवायुसमायुक्तो यस्य मन्त्रस्य मूर्ध्नि ।
सप्तधा दृश्यते तन्तु दग्धमन्त्रं प्रचक्षते ।। ७३ ।।
अस्त्रं द्वाभ्यां त्रिभिःषड्भिरष्टभिर्दृश्यतोऽक्षरैः ।
स्रस्तः स कथितो मन्त्रः सर्वसिद्धिविवर्जितः ।। ७४ ।।
यस्य मुखे नास्ति माया प्रणवो वा विधानतः ।
शिवो वा शक्तिरथवा भीताख्यः स प्रकीर्त्तितः ।। ७५ ।।
आदौ मध्ये तथा चान्ते यस्य मार्णचतुष्टयम् ।
स एव मलिनो मन्त्रः सर्वविघ्न समन्वितः ।। ७६ ।।
यस्य मध्ये दकारो वा कवचं मूर्ध्नि द्विधा ।
अस्त्रं तिष्ठति मन्त्रः स तिरस्कृत उदाहृतः ।। ७७ ।।
द्योद्वयं हृदये शीर्षे वषट् वौषट् च मध्यतः ।
स एव भेदितो मन्त्रः सर्वशास्त्रविवर्जितः ।। ७८ ।।
त्रिवर्णो हंसहीनो यः सुषुप्त उदाहृतः ।। ७९ ।।
मन्त्रो वाप्यथवा विद्या सप्ताधिकदशाक्षरः ।
फट्कारपञ्चकादिर्यो मदोन्मत्त उदाहृतः ।
तद्वदस्त्रं स्थितं मध्ये यस्य मन्त्रः स मूर्च्छितः ।। ८० ।।
विरामेऽङ्गस्य ये मन्त्रो हृतवीर्य स उच्यते ।। ८१ ।।
आदौ मध्ये तथा चान्ते चतुरस्त्रयुतो मनुः ।
ज्ञातव्यो भीम इत्येव यः स्यादष्टादशाक्षरः ।। ८२ ।।
एकोनविंशत्यर्णो वा यो मन्त्रस्तारसंयुतः ।
हृल्लेखांकुशबीजाढ्यः प्रध्वस्तस्तं प्रचक्षते ।। ८३ ।।
सप्तवर्णः स्मृता बालः कुमारोऽष्टाक्षरः स्मृतः ।
षोडशार्णो युवा प्रौढश्चत्वारिंशल्लिपिमनुः ।। ८४ ।।
त्रिंशदर्णश्चतुःषष्टिवर्णो मन्त्रः शताक्षरः ।
चतुःशताक्षरश्चपि वृद्धः स परिकीर्त्तितः ।। ८५ ।।
नवाक्षरो ध्रुवयुतो मनुनिस्त्रिंश ईरितः ।
यस्यावसाने हृदयं शिरोमन्त्री च मध्यतः ।
शिखा वर्म च न स्यातां वौषट् फट्कार एव वा ।
शिवशक्त्यर्णहीनो वा स निर्बीज उदाहृतः ।। ८६ ।।
एषु स्थानेषु फट्कारः प्रौढा यस्मिन्प्रदृश्यते ।
स मन्त्रः सिद्धिहीनः स्यात्मन्दः पंक्त्यक्षरो मनुः ।। ८७ ।।
कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः ।
द्विवर्णः सत्त्वहीनः स्याच्चतुर्ववर्णस्तु केकरः ।। ८८ ।।
षडक्षरो जीवहीनः सार्द्धसप्ताक्षरो मनुः ।
सार्द्धद्वादशवर्णोऽपि धूमितः सतु निन्दितः ।। ८९ ।।
सार्द्धबीजद्वयं तद्वत् एकविंशतिवर्णकः ।
विंशत्यर्णस्त्रिंशदर्णो यः स्यादालिङ्गितः स्मृतः ।। ९० ।।
द्वाविंशत्यक्षरो मन्त्रो मोहितः परिकीर्त्तितः ।
द्वात्रिंशद्वर्णो मन्त्रो यः सप्तविंशतिवर्णकः ।
क्षुधात्तः स तु विज्ञेयो चतुर्विंशतिवर्णकः ।। ९१ ।।
एकादशाक्षरो वापि पञ्चविंशतिवर्णकः ।
त्रयोविंशतिवर्णो वा मन्त्रो दृप्त उदाहृतः ।। ९२ ।।
षड्विंशत्यक्षरो मन्त्रोः षट्त्रिंशदर्णकस्तथा ।
त्रिंशदेकोनवर्णो वा त्वङ्गहीनः स एव हि ।। ९३ ।।
अष्टाविंशदक्षरो वा एकत्रिंशदथापि वा ।
अतिक्रुद्धः स विज्ञेयो निन्दितः सर्वकर्मसु ।। ९४ ।।
त्रिंशदक्षरको मन्त्रस्त्रयस्त्रिंशदथापि वा ।
अतिक्रूरः स विज्ञेयो निन्दितः सर्वकर्मसु ।। ९५ ।।
चत्वारिंशतमारभ्य त्रिषष्टिर्यावता भवेत् ।
तावत्संख्या निगदिता मन्त्राः सव्रीडसंज्ञकाः ।। ९६ ।।
पञ्चषष्ट्यक्षरा ये र्स्युमन्त्रास्ते शान्तमानसाः ।
एकोनशतपर्यन्तं पञ्चषष्ट्यक्षरादितः ।
ते सर्वे कथिता मन्त्राः स्थानभ्रष्टा न शोभनाः ।। ९७ ।।
त्रयोदशाक्षरा ये र्स्युमन्त्राः पञ्चदशाक्षराः ।
ते सर्वे विकला ज्ञेयाः शतं सार्द्धं शतन्तथा ।। ९८ ।।
शतद्वयं द्विनवतिरेकहीना तथापि वा ।
यावत् शतत्रयं संख्या निःस्नेहास्ते प्रकीर्त्तिताः ।। ९९ ।।
चतुःशतमथारभ्य यावद्वर्ण-सहस्रकम् ।
अतिवृद्धः स मन्त्रस्तु सर्वशास्त्रविवर्जितः ।। १०० ।।
सहस्रार्णाधिका मन्त्रा दण्डकाः पीडिताह्वयाः ।
द्विसहस्राक्षरा मन्त्राः खण्डशः सप्तधा कृताः ।
ज्ञातव्याः स्तोत्ररूपास्ते मन्त्रा एते यथा स्थिताः ।
तथा विद्याश्च बोद्धव्या मन्त्रिभिः सर्वकर्मसु ।
दोषानिमानविज्ञाय यो मन्त्रं भजते बुधः ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ।। १ ।।

अथ मन्त्राणां दोषशान्तिः :

तत्रैव :

छिन्नादिदुष्टा ये मन्त्रास्तन्त्रे तन्त्रे निरूपिताः ।
ते सर्वे सिद्धिमायान्ति मातृकार्णप्रभावतः ।। २ ।।
मातृकार्णैः पुटिकृत्य मन्त्रं विद्यां विशेषतः ।
शतमष्टोत्तरं पूर्वं प्रजपेत् फलसिद्धये ।
तदा मन्त्रो महाविद्या यथोक्तफलदा भवेत् ।। ३ ।।
मातृकापुटितं कृत्वा मध्ये वर्णं निधाय च ।
मन्त्रवर्णांस्ततः कुर्यात् शोधनः तन्त्रसम्मतम् ।। ४ ।।
बद्धा च योनिमुद्रां तां सङ्कोच्याधारपङ्कजम् ।
तदुत्पन्नान्मन्त्रवर्णान् कुर्वतश्च गतागतान् ।
ब्रह्मरन्ध्रावधि ध्यात्वा वायुमापूर्य कुम्भयेत् ।
सहस्रं प्रजपेन्मन्त्री मन्त्रदोषप्रशान्तये ।। ५ ।।

तथा :

एषु दोषेषु पत्रेषु मायां काममथापि वा ।
क्षिप्त्वा चादौ श्रियञ्चैव तद्दूषणविमुक्तये ।। ६ ।।

तथा :

तारसम्पुटितो वापि दुष्टमन्त्रोऽप् सिध्यति ।
यस्य यत्र भवेद्भक्तः सोऽपि मन्त्रोऽस्य सिध्यति ।। ७ ।।

तथा :

प्रणवो मातृका देवी हृल्लेखेत्यमृतत्रयम् ।
अमृतत्रयसंयोगाद्दुष्टमन्त्रोऽपि सिध्यति ।। ८ ।।

अथ होमार्थं कुण्डनियमः :

तत्र कुण्डपदव्युत्पत्तिमाह सारावलीधृतविश्वसारे :

कौ पृथिव्यां विलं देवि दृश्यते सुमनोहरम् ।
तस्मात्कुण्डं समाख्यातं साधकानां हिताय वै ।
बिलं गर्त्तम् ।
सुमनोहर-मेखलायोन्यादिविशिष्टमित्यर्थः ।। १ ।।
तत्र तावत् गृहनिर्णयः ।

तत्रापि प्रथमं भूमिनिर्णयः :

गौतमीये :

भूमेः परिग्रहं कुर्याद्यावदायतनं भवेत् ।। २ ।।
शुक्लमृत्स्ना तु या भूमिर्ब्राह्मी सा परिकीर्त्तिता ।
क्षत्रियां रक्तमद्भूमिर्हरिद्वैश्या प्रकीर्त्तिता ।
कृष्णाभूमिर्भवेत्शूद्रा चतुर्द्धा भूःप्रकीर्त्तिता ।
ब्राह्मी सर्वार्थ सिद्धिः स्यात् क्षत्रिया राज्यदा मता ।
धन्यधान्यकरीं वैश्या शूद्रा तु निन्दिता भवेत् ।। ३ ।।

गणेशविमर्षिण्याम् :

आदौ भूमिं परीक्षेत वास्तुशास्त्रविशारदः ।
शल्यादिशोधनं कुर्यात् पौरुषं वा खनेत् ततः ।। ४ ।।
वास्तोः संयोज्य पूर्वस्याम् ऐशान्यामुत्तरेऽपि वा ।
दिशि सङ्कल्पयेन्मन्त्री मण्डपञ्च विभागतः ।। ५ ।।
नवहस्तप्रमाणं वा सप्तहस्तमथापि वा ।
पञ्चहस्तप्रमाणं वा चतुरस्रं समन्ततः ।
पञ्चहस्तन्तु एककुण्डपक्षे ।। ६ ।।

तदुक्तं तत्रैव :

एककुण्डमतेनान्यत् पञ्चहस्तगृहं भवेत् ।
तदेककुण्डं गृहस्योत्तरभागे प्रशस्तम् ।। ७ ।।

यथा :

अथोत्तरे तथा कुण्डमेकं वेदास्रमुद्धरेत् ।
लक्षहोमे तु तत्कुर्यात् गृहमध्ये न दूषणम् ।। ८ ।।

तथा वसिष्ठसंहितायाम् :

वास्तोरीशानभागे तु मण्डलं रचयेत् सुधीः ।
षड्द्वादशाष्टभिर्हस्तैः षोडशैर्वा समन्ततः
चतुर्द्वारसमायुक्तं तोरणाद्यैरलंकृतम् ।। ९ ।।

निबन्धे :

तत्त्रिभागमिते क्षेत्रेऽरत्निमात्रसममुन्नतम् ।
चतुरस्रां ततो वेदीं मण्डलाय प्रकल्पयेत् ।। १० ।।

अथ प्रसङ्गान्नवकुण्डानि :

तत्र शारदायाम् :

प्राक्प्रोक्ते मण्डपे विद्वान्वेदिकाया बहिस्त्रिधा ।
क्षेत्रं विभज्य मध्येऽंशे पूर्वादि परिकल्पयेत् ।। १ ।।
अष्टाशास्वष्टकुण्डानि रम्याकाराण्यनुक्रमात् ।। २ ।।

तथा च वसिष्ठसंहितायाम् :

अष्टकुण्डप्रकारमाह ।
चतुरस्रं योनिमर्द्धचन्द्रं त्र्यस्रं सुवर्त्तुलम् ।
षडस्रं पङ्कजाकारमष्टास्रं तानि नामतः ।। ३ ।।
(कुण्डप्रकाराणिः चित्र ५१)
आचार्यकुण्ड मध्ये स्याद्गौरीपतिमहेन्द्रयोः ।
हस्तमात्रमितां भूमिं पूर्ववत्परिसूत्रयेत् ।
समन्तात्कुण्डमेतत् तु चतुरस्रं शुभावहम् ।। ४ ।।
चतुरस्रीकृतं क्षेत्रं पञ्चधा विभजेत् सुधीः ।
न्यसेत् पुरस्तादेकांशं कोणार्द्धार्द्ध प्रमाणतः ।। ५ ।।
भ्रामयेत् तेन मानेन तथान्यदपि मन्त्रवित् ।
सूत्रयुग्मं ततो दद्यात् कुण्डं योनिनिभं भवेत् ।। ६ ।।
चतुरस्रीकृतं क्षेत्रं दशधा विभजेत् सुधीः ।
एकमेकं त्यजेदंशं अध ऊर्द्ध्वञ्च तन्त्रवित् ।
ज्यासूत्रं पातयेदग्रे तन्मानाद्भ्रामयेत् ततः ।
अर्द्धचन्द्रनिभं कुण्डं रमणीयमिदं भवेत् ।। ७ ।।
अग्रे सम्मुखे प्रक्षिप्त-शरधनुर्वदिति भट्टव्याख्यानात् ।

तथा च :

ज्यासूत्रं पातयेदग्रे शरावार्द्धतया यतः ।। ८ ।।
चतुर्द्धा भेदिते क्षेत्रे न्यसेदुभयपार्श्वयोः ।
एकैकमंशं तन्मानादग्रतो लाञ्छयेत् ततः ।
सूत्रत्रयं बुधः कुर्यात् त्र्यस्रं कुण्डमुदाहृतम् ।। ९ ।।
अष्टादशांशो क्षेत्रेऽंशं न्यसेदेकं बहिर्बुधः ।
भ्रामयेत् तेन मानेन वृत्तं कुण्डमुदाहृतम् ।। १० ।।
अष्टधा विभजेत् क्षेत्रं मध्ये सूत्रस्य पार्श्वयोः ।
भागं न्यसेदेकमेकं मानेनानेन मध्यतः ।। ११ ।।
कुर्यात् पार्श्वद्वये मत्स्यचतुष्कं मन्त्रवित्तमः ।
सूत्रषट्कं ततो दद्यात् षडस्रं कुण्डमीरितम् ।। १२ ।।
चतुरस्रीकृतं क्षेत्रं विभज्याष्टादशांशतः ।
एकं भागं बहिर्न्यस्य भ्रामयेत् तेन वर्त्तुलम् ।। १३ ।।
वृत्तानि कर्णिकादीनां बहिस्त्रीणि प्रकल्पयेत् ।
पद्मकुण्डमिति प्रोक्तं विलोचनमनोहरम् ।
बहिरिति मध्ये, वहिःशब्दो मध्यवाचकः अव्ययानामनेकार्थ-
त्वादिति गुरवः ।
कर्णिकादीनां वृत्तानि बहिर्बहिः कुर्यादिति भट्टः ।
अन्यथा मानाधिक्यापद्येः ।। १४ ।।
चतुरस्रेऽष्टवा भक्ते कुर्याद् वृत्तचतुष्टयम् ।
कर्णिकाकेशरौ मध्ये तृतीये पत्रकाण्यथ ।
तदग्राणि चतुर्थे स्युर्वृत्तान्येवं प्रकल्पयेदिति भट्टः ।। १५ ।।
पूर्वोक्तं विभजेत् क्षेत्रं चतुर्विंशतिभागतः ।
एकं भाग बहिर्न्यस्य चतुरस्रं प्रकल्पयेत् ।
अन्तःस्थचतुरस्रस्य कोणार्द्धार्द्धप्रमाणतः ।
वाह्यस्य चतुरस्रस्य कोणाभ्यां परिकल्पयेत् ।
दिशं प्रति यथान्यायमष्टौ सूत्राणि पातयेत् ।
अष्टास्रं कुण्डमेतद्धि तन्त्रविद्भिरुदीरितम् ।। १६ ।।
यावान्कुण्डस्य विस्तारः खननं तावदेव हि ।
कुण्डानां यादृशं रूपं मेखलानाञ्च ताऋशम् ।
कुण्डानां मेखलास्तिस्रो मुष्टिमात्रेण ताः क्रमात् ।
एवं प्रोक्तानि कुण्डानि कथ्येते स्रुक्स्रुवौ ततः ।। १७ ।।
प्रकल्पयेत् स्रुवं यागे वक्ष्यमाणेन वर्त्मना ।
श्रीपर्णी-शिंशपा-क्षीर-शाखिष्वेकतमं गुरुः ।। १८ ।।
गृहीत्वा विभजेद्धस्तमात्रं षट्त्रिंशता पुनः ।
हस्तमात्रं बाहुमात्रम् ।। १९ ।।

तथागस्त्यो :

स्रुचं बाहुप्रमाणेन होमार्थं विदधीत वै ।
विंशत्यंशैर्भवेद् दण्डो वेदी तैरष्टाभिर्भवेत् ।। २० ।।
एकांशेन मितः कण्ठः सप्तांशेन मितं मुखम् ।
वेदीत्र्यंशेन विस्तारः कण्ठस्य परिकीर्त्तितः ।। २१ ।।
मुखं कण्ठप्रमाणं स्यात् मुखे मार्गं प्रकल्पयेत् ।
कनिष्ठांगुलिमानेन सर्पिषो निर्गमाय च ।। २२ ।।
वेदीमध्ये विधातव्या भागेनैकेन कर्णिका ।
विदधीत बहिस्तस्या एकांशेनाभितोऽवटम् ।। २३ ।।
तस्य खातं त्रिभिर्भागैर्वृत्तमर्द्धांशतो बहिः ।
अंशेनैकेन परितो दलानि परिकल्पयेत् ।। २४ ।।
मेखला मुखवेद्योः स्यात् परितोऽर्द्धांशमानतः ।
दण्डमूलाग्रयोः कुम्भौ गुणवेदांगुलैः क्रमात् ।। २५ ।।
गण्डीयुग्मं समांशं स्याद् दण्डस्यानाह ईरितः ।
षड्भिरंशैः पृष्ठभागो वेद्याः कूर्माकृतिर्भवेत् ।। २६ ।।
हंसस्य वा हस्तिनो वा पौत्रिणो वा मुखं लिखेत् ।
मुखस्य पृष्ठभागेऽस्याः सम्प्रोक्तं लक्षणं स्रुचः ।। २७ ।।
स्रुचश्चतुर्विंशतिभिर्भागैरारचयेत् स्रुवम् ।
द्वाविंशत्या दण्डमानम् अंशैरेतस्य कीर्त्तितम् ।। २८ ।।
चतुर्भिरंशैरानाहः कर्षाज्यग्राहि-तच्छिरः ।
अंशद्वयेन विलिखेत् पङ्के मृगपदाकृतिम् ।। २९ ।।
दण्डमूलाग्रयोर्गण्डी भवेत् कङ्कणभूषिता ।
स्रुवस्य विधिराख्यातः सर्वतन्त्रसमन्वितः ।
गण्डी कुम्भः कङ्कणञ्च ।
गण्डी कङ्कणकुम्भयोरिति भागुरिः ।। ३० ।।

तयोरभावे तु वसिष्ठे :

पलाशपत्रे निश्छिद्रेरुचिरे स्रुक्स्रुवौ ततः ।
विदध्यात्वाश्वत्थपत्रे संक्षिप्ते होमकर्मणित ।। ३१ ।।

अथ कुण्डानां विशेषफलानि :

निबन्धे :

सर्वसिद्धिकरं पुंसां चतुरस्रमुदाहृतम् ।
पुत्रप्रदं योनिकुण्डमर्द्धेन्द्वाभं शुभप्रदम् ।। ३२ ।।
शत्रुक्षयकरं त्र्यस्रं वर्त्तुलं शान्तिकर्मणि ।
छेदमारणयोः कुण्डं षडस्रं पद्मसन्निभम् ।
दृष्टिदं रोगशमनं कुण्डमष्टास्रमीरितम् ।। ३३ ।।

अथ काम्य-होमार्थं कुण्डनिर्णयः :

तदुक्तं सिद्धसारस्वते :

सान्तौ पुष्टौ तथारोग्ये कुण्डञ्च चतुरस्रकम् ।
आकर्षणे त्रिकोणं स्यादुच्चाटे वर्त्तुलं तथा ।
मारणे च तथा योज्यं वर्त्तुलं मन्त्रिभिः सदा ।। ३४ ।।

तन्त्रान्तरे :

उदीच्यां पौष्टिके कुण्डं वारुणे शान्तिकादिषु ।
उच्चाटे चानिले कुण्डं याम्ये च मारणं भवेत् ।। ३५ ।।

तथा च :

विप्राणां चतुरस्रं स्याद्राज्ञां वर्त्तुलमिष्यते ।
वैण्यानामर्द्धचन्द्राभं शूद्राणां त्र्यस्रमीरितम् ।। ३६ ।।
चतुरस्रन्तु सर्वेषां केचिदिच्छन्ति तान्त्रिकाः ।
चतुरस्रे महेशानि सर्वकर्माणि साधयेत् ।

तथा :

सर्वाधिकारिकं कुण्दं सर्वदं चतुरस्रकम् ।। ३७ ।।

गृहादिकरणे हस्तनियमः :

गौतमीये :

रथादिदोलिका चैव पोतं शकटमेव च ।
मानांगुलेन कर्त्तव्यं नान्येनापि कदाचन ।। ३८ ।।
मुष्ट्यरत्निप्रमाणानि यत्किञ्चित् कथितानि च ।
यजमानस्य कर्त्तव्यं नान्यस्यापि कदाचन ।। ३९ ।।

तथा :

मानक्रियायामुक्तायामनुक्ते मानकर्त्तरि ।
मानकृद्यजमानः स्याद्विदुषामेव निर्णयः ।। ४० ।।
चतुर्विंशत्यंगुलाढ्यं हस्तं तन्त्रविदो विदुः ।
कर्त्तुर्दक्षिणहस्तस्य मध्यमांगुलिपर्वणः ।
मध्यस्व दैर्घ्यमानेन मानांगुलमुदाहृतम् ।। ४१ ।।

तन्त्रान्तरे :

कर्मकर्त्तुनिजांगुष्ठतिर्यङ्मानेन मध्यमम् ।
प्रमाणांगुष्ठमेतत् तु सर्वकर्मणि चापरे ।। ४२ ।।
यजमानासन्निधाने पुनः ।
यवानां तण्डुलैरेकमंगुलं चाष्टभिर्भवेत् ।
अदीर्घयोजितैर्हस्तश्चतुर्विंशतिभिर्भवेत् ।। ४३ ।।

वययोऽनुक्रमे पुनः :

अष्टभिस्तैर्भवेज्ज्येष्ठं मध्यमं सप्तभिर्यवैः ।
कन्यसं षड्भिरुद्दिष्टमंगुलं मुनिसत्तमैः ।। ४४ ।।
सहस्रे खलु होतव्ये कुर्यात् कुण्डं करात्मकम् ।
द्विहस्तमयुते तच्च लक्षहोमे चतुष्करम् ।। ४५ ।।
षट्करे वेदलक्षञ्चाष्टकरे दशलक्षकम् ।
दशहस्तन्तु कोट्यां वै हस्तसंख्या व्यवस्थिता ।
दशहस्तात् परं कुण्डं नास्ति होमे महीतले ।। ४६ ।।

शारदायाम् :

कोट्यामष्टकरं स्मृतमिति द्रव्यस्य गुरुत्वाऽगुरुत्वेन बोद्धव्यम् ।

तथा च :

एकहस्तमितं कुण्डं लक्षहोमे विधीयते ।
अत्राप्याज्यहोमे मधु-घृत-दूर्वा-करवीरादिहोमे च बोद्धव्यम् ।।
४७ ।।

तथा :

मुष्टिमात्रमितं कुण्डं शतार्द्धे च प्रचक्षते ।
शतहोमेऽरत्निमात्रं हस्तमात्रं सहस्रके ।
द्विहस्तमयुते लक्षे चतुर्हस्तमुदाहृतम् ।
दशलक्षे तु षडहस्तं कोट्यामष्टकरं स्मृतम् ।
एकहस्तमिते कुण्डे लक्षमेकं विधीयते ।
लक्षाणां दशकं यावत् तावद्धस्तेन वर्द्धयेत् ।। ४८ ।।

द्विहस्तादिकुण्डमानं तु गौतमीये :

पूर्वपूर्वस्य कुण्डस्य कोणसूत्रन्तु यद्भवेत् ।
उत्तरोत्तरकुण्डानां मानं तत् परिकीर्त्तितम् ।
कर्णसूत्रप्रमाणेन द्विहस्तं कुण्डमाहरेत् ।
सर्वकुण्डेषु सर्वत्र वर्द्धयेद् विधिनामुना ।। ४९ ।।

कुण्डप्रकरणे विशेषमाह गौतमीये :

ततः कुण्डं खनेन्मन्त्री यथा शास्त्रविधानतः ।
त्यक्त्वा सर्पस्य गात्रञ्च शिरोदेशं प्रयत्नतः ।
शिरोघाते भवेन्मृत्युः पिण्डेषु पिण्डघातनम् ।
पूच्छे तु दुखसम्भूतिः क्रोडे सर्वार्थसाधनम् ।। ५१ ।।

नागशिर-आदि-निर्णयो यथा :

वास्तुप्रमाणेन तु गात्रकेण, वमेन शेते खलु नित्यकालम् ।
त्रिभिस्तु मासैः परिवृत्य भूमौ, तं वास्तुनागं प्रवदन्ति
सिद्धाः ।। ५२ ।।
भाद्रादिके वासवदिक्शिराः स्यात्, मार्गादिकेषु त्रिषु
याम्यमूर्द्धा ।
प्रत्यक्शिराः स्यात्खलु फाल्गुननादौ, ज्येष्ठादिकौवेरशिराः स
नागः ।। ५३ ।।
यावान्कुण्डस्य विस्तारः खननं तावदिष्यते ।
खाताधिके भवेद्रोगी खातहीने धनक्षयः ।। ५४ ।।
वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले ।
मेखलारहिते शोको ह्यधिके वित्तसंक्षयः ।। ५५ ।।
भार्याविनाशकं प्रोक्तं कुण्डं योन्या विना कृतम् ।
अपत्यध्वंसनं प्रोक्तं कुण्डं कण्ठविवर्जितम् ।। ५६ ।।
सात्विकी मेखला पूर्वा द्वितीया राजसी स्मृता ।
तृतीया तामसी प्रोक्ता मेखलानां विनिर्णयः ।। ५७ ।।
कुण्डानां मेखलास्त्रिस्रो मुष्टिमात्रे तु ताः क्रयात् ।
उत्सेधायामतो ज्ञेयात्वेकार्द्धांगुलि सम्मिता ।। ५८ ।।
अरत्निमात्रकुण्डे तु तास्त्रिद्व्येकांगुलात्मिकाः ।
हस्तमात्रमिते कुण्डे वेदाग्निनयनांगुलाः ।। ५९ ।।
कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणांगुलाः ।
चतुर्हस्ते तु ता ज्ञेया वसुतर्कयुगांगुलाः ।। ६० ।।
कुण्डे रसकरे तास्तु पंक्त्यष्टर्त्वंगुलाः क्रमात् ।
वसुहस्तमिते कुण्डे भानुपंक्त्यष्टकांगुलाः ।
दश हस्तमिते कुण्डे मनुभानुदशांगुलाः ।
विस्तारोत्सेधतो ज्ञेया मेखलाः सर्वतो बुधैः ।। ६२ ।।
होतुरग्रे योनिरासामुपर्यश्वत्थपत्रवत् ।
मेखलानां भवेदन्तः परितो नेमिरंगुला ।। ६३ ।।
एकहस्तस्य कुण्डस्य वर्द्धयेत् ताः क्रमात् सुधीः ।
दशहस्तान्तमन्येषामर्द्धांगुलवशात्पृथक् ।
एकहस्तस्य एकहस्तान्तस्य ।
नाभियोन्योरेकमानस्य दृष्टत्वात् ।। ६४ ।।

गौतमीये :

प्रथमे मेखले योनिं कुण्डोष्ठीं होतुरग्रतः ।
कुर्यात् गजोष्ठवत्तान्तु कुण्डवित्सर्वलक्षणम् ।। ६५ ।।
मुष्ट्यरत्न्येकहस्तानां कुण्डानां योनिरीरिता ।
षट्-चतुर्द्व्यंगुलायामविस्तारोन्नतिशालिनी ।। ६६ ।।
एकांगुलन्तु योन्यग्रं कुर्यादीषदधोमुखम् ।
एकैकांगुलतो योनिं कुण्डेष्वन्येषु वर्द्धयेत् ।
यवद्वयप्रमाणेन योन्यग्रमपि वर्द्धयेत् ।। ६७ ।।

गणेशविमर्षिण्याम् :

मेखलानां बहिःस्थानं स्थलमित्यभिधीयते ।
चतुरस्रस्थलारब्धं नालं मध्ये सरन्ध्रकम् ।
स्थूलमूलन्तु सूक्ष्माग्रं तन्नालं स्यान्मनोहरम् ।
बाह्यस्थमेखलावाह्यस्थलादारभ्य कारयेत् ।। ६८ ।।

तथा :

स्थलादारभ्य नालं स्यात् योन्या मध्ये सरन्ध्रकम् ।
सरन्ध्रकमित्युभयत्र संवध्यते ।। ६९ ।।

तदुक्तं गौतमीये :

स्थलादारभ्य नालं स्यात् सरन्ध्रं योनिमध्यतः ।
सूक्ष्माग्रं स्थलमूलञ्च सरन्ध्रं नालमिष्यते ।
योन्या मध्ये विलं कुर्यात् तदाज्यग्राहिसंज्ञकम् ।
मध्यतो मध्यपर्यन्तमित्यर्थः ।। ७० ।।

तथा वसिष्ठे :

पृष्ठोन्नता गजोष्ठीव सच्छिद्रा मध्यमोन्नता ।
सरन्ध्रमिति मध्यमेखलायामित्यर्थः ।

तथा च :

नालमेखलयोर्मध्ये परिधेः स्थापनाय च ।
रन्ध्रं कुर्यात् तथा विद्वान् द्वितीयमेखलोपरि ।। ७१ ।।

परिधिस्तु :

बाहुमात्राः परिधय ऋजवः सत्वचोऽब्रणाः ।
त्रयो भवन्त्यशीर्णाग्रा एकेषान्तु चतुर्द्दिशम् ।
मुष्ट्यरत्न्येकहस्तानां नाभिरुत्सेक भावतः ।
नेत्रवेदांगुलोपेता कुण्डेष्वन्येषु वर्द्धयेत् ।
यवद्वयक्रमेणैव नाभिं पृथगुदारधीः ।
योनिकुण्डे योनिमब्जकुण्डे नाभिञ्च वर्जयेत् ।
नाभिक्षेत्रं त्रिधा भित्वा मध्ये कुर्वीत कर्णिकाम् ।
बहिरंशद्वयेनाष्टौ पत्राणि परिकल्पयेत् ।। ७२ ।।

नवकुण्डपक्षे योनिनियममाह सिद्धान्तशेखरे :

इन्द्राग्नियमदिक्कुण्डे योनिः सौम्यमुखी स्थिता ।
योनिः पूर्वमुखान्येषु पूर्वेशामुत्तरामता ।
हस्तमात्रं स्थण्डिलं वा संक्षिप्ते होमकर्मणि ।
अंगुलोत्सेधसंयुक्तं चतुरस्रं समन्ततः ।
आदाय दक्षिणे पाणौ स्रुवं त्रिमधुरः हविः ।
प्राङ्मुखो वह्निजायान्ते जुहुयान्न्युब्जपाणिना ।
नमोऽन्तेन नमो दद्यात् स्वाहान्ते द्विठमेव च ।
पूजायामाहुतौ चैव सर्वत्रायं विधिः स्मृतः ।
नमोऽन्त इति पौराणिकमन्त्रपरम् ।। ७३ ।।

तथा च ब्रह्मपुराणम् :

ओङ्कारादिसमायुक्तं नमस्कारान्त-कीर्त्तितम् ।
स्वनाम सर्वसत्वानां मन्त्र इत्यभिधीयते ।

यथा :

इदं पाद्यं ओं आदित्याय नमः ।
इदमर्घ्यं ओं आदित्याय नमः इत्यादि ।
द्रव्यादीनि समुल्लिख्य पश्चादुल्लेखयेत् सुरानित्यादिवचनात् ।
न तु ओं आदित्याय नमः, एतत् पाद्यं सूर्याय नमः इत्यादि ।। ७४ ।।
तान्त्रिके नायं नियमः, अर्घ्यादौ वैषम्यं स्यात् ।
मन्त्रेणोङ्कारपूतेन स्वाहान्तेन विचक्षणः ।
स्वाहावसाने जुहुयात् ध्यायन् वै मन्त्रदेवताम् ।
ओङ्कारपूतेनेत्यादि इदमपि वेदिकमन्त्रपरम् ।
अन्यथा मन्त्रान्तरप्रसङ्गः ।
तेनस्वाहान्तमन्त्रे स्वाहान्तरं न वक्तव्यम् ।। ७५ ।।
स्रुवस्य पञ्चांगुलं त्यक्त्वा शंखमुद्रया धारणम् ।

तदाह :

पञ्चांगुलं बहिस्त्यक्त्वा धारयेत् शङ्खमुद्रयेति ।। ७६ ।।

यत्र होमसंख्या नोक्ता तत्र च :

संख्याऽनुक्तौ शतं साष्टं सहस्रं वा जपादिषु ।
अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते ।। ७७ ।।

अथ नित्यहोमः :

तदुक्तं सोमभुजगावल्याम् :

नाजप्तः सिध्यते मन्त्रो नाहुतश्च फलप्रदः ।
नानिष्टो यच्छते कामान् तस्मात् त्रितयमर्चयेत् ।
पूजया लभते पूजां जपात्सिद्धिर्न संशय ।
विभूतिञ्चाग्निकार्येण सर्वसिद्धिञ्च विन्दति ।। ७८ ।।

नीलतन्त्रेऽपि :

नित्यहोमं प्रवक्ष्यामि सर्वार्थं येन विन्दति ।
सपर्यां सम्यगापाद्य बलिपूर्वं चरेद्विधिम् ।
ततो होमं तर्पणञ्च चरेत् साधकसत्तमः ।
बलिवैश्यादिकञ्चैव ब्राह्मणः समुपाचरेत् ।। ७९ ।।
अर्घ्योदकेन सम्प्रोक्ष्य तिस्रो रेखाः समालिखेत् ।
विधिवदग्निमानीय क्रव्यादेभ्यो नमस्तथा ।
मूलमन्त्रं समुच्चार्य कुण्डे वा स्थण्डिलेऽपि वा ।
भूमौ वा संस्तरेद्वह्निं व्याहृतित्रितयेन च ।
स्वाहान्तेन त्रिधा हुत्वा षडङ्गहवनं चरेत् ।
ततो देवीं समावाह्य मूलेन षोडशाहुतिम् ।
हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिन्दुमण्डले ।। ८० ।।

श्यामादौ विशेषः :

भैरवांश्च हुनेदष्टौ आज्यान्विततिलैः शुभैः ।
पूर्वादिदिक्क्रमेणैव ततो होमं समाचरेत् ।। ८१ ।।

अथ संक्षेपहोमप्रयोगः :

कुण्डे वा स्थण्डिले वापि वीक्षणादिभिः संस्कृते ।। १ ।।

तथा च :

वीक्षणं मूलमन्त्रेण शरेण ताडनं मतम् ।
तेनैव प्रोक्षणं प्रोक्तं वर्मणाभ्युक्षणं मतम् ।। २ ।।
प्रागग्रा उदगग्राश्च तिस्रो रेखाः समालिखेत् ।
ततो मूलमुच्चार्य ओं कुण्डाय नमः इति सम्पूज्य प्रागग्रा
उदगग्रास्तिस्रस्तिस्रो रेखाः कर्त्तव्याः ।
प्रागग्रेषु मुकुन्देशपुरन्दरान् प्रादक्षिण्येन सम्पूज्य
उदगग्रेषु ब्रह्मवैवस्वतेन्दून्पूजयेत् ।। ३ ।।
सुन्दरी पक्षे तु सर्वत्र षट्तारीप्रयोगः ।

षट्तारी च :

ऐं ह्रीं श्रीं ऐं क्लीं सौः ब्रह्मणे नमः ।
एवं क्रमेण पूजयेत् ।। ४ ।।

तथा ब्रह्मसंहितायां होमकाण्डे :

ऐशान्यां वेदिकां हस्तविस्तारोन्नतिशालिनीम् ।
कृत्वास्मिन् स्थापयेत् कुम्भं यथोक्तक्रमयोगतः ।
ततः सम्पूज्येद् देवं यथा विध्युपचारकैः ।
ततो होमं प्रकूर्वीत देवतासन्निधानतः ।। ५ ।।
ततः कुण्डमध्ये षट्कोणवृत्त-त्रिकोणं तद्बहिरष्टदलपद्मं
तद्बहिश्चतुरस्रं चतुर्द्वारसमेतं लिखित्वा तदुपरि मूलेन
पुष्पाञ्जलीन् दद्यात्, सुन्दरी पक्षे तु बालया ।। ६ ।।
ततः सर्वाणि प्रणवेनाभ्युक्ष्य वह्नेर्योगपीठमार्चयेत् ।

तद्यथा :

कर्णिकोपर्याधारशक्त्यादीन् सम्पूज्याग्न्यादिकोणचतुष्केषु ओं
धर्माय नमः एवं ज्ञानाय वैराग्याय ऐश्वर्याय ।
पूर्वादिदिक्षु अधर्माय अज्ञानाय अवैराग्याय अनैश्वर्याय ।
मध्ये ओं अनन्ताय एवं पद्माय अं अकर्मण्डलाय
द्वादशकलात्मने नमः, ओं सोममण्डलाय षोडशकलात्मने
नमः, रं वह्निमण्डलाय द्वादशकलात्मने नमः ।
ततः केशरेषु पूर्वादिमध्ये च ओं पीतायै नमः एवं श्वेतायै
नमः अरुणायै नमः कृष्णायै धूम्रायै तीव्रायै स्फुलिङ्गिन्यै
रुचिरायै ज्वालिन्यै ।
ततो रं वह्न्यासनाय नमः ।। ७ ।।
ततो वागीश्वरीमृतुस्नातां नीलेन्दीवरलोचनाम् ।
वागीश्वरेण संयुक्ताम् इति ध्यात्वा ओं ह्रीं वागीश्वराय नमः
ओं ह्रीं वागीश्वर्ये नमः ।
इति पञ्चोपचारैः सम्पूज्य सूर्यकान्तादिसंभूतं
श्रोत्रियगेहजं वा वह्निमानयेत् ।
सुन्दरी पक्षे तु कामेश्वरं कामेश्वरीं पूजयेत् ।। ८ ।।

गौतमीये :

पाषाणभवमग्निञ्च यदि वाऽरुणिसम्भवम् ।
श्रोत्रियाणां गेहजञ्च वनस्थं वाथवा हरेत् ।। ९ ।।
निरग्निब्राह्मणाल्लब्धो ह्यर्द्धलाभकरो भवेत् ।
क्षत्रबन्धोश्चतुर्थांशं फलं दद्याद्धुताशनः ।
वैश्याच्छूद्राच्च विफलं जायते होमकर्मणि ।
तस्मात् सर्वप्रयत्नेन वह्निमुक्तं समाहरेत् ।। १० ।।

तन्त्रान्तरे :

द्विजातिभवनाद्वापि वह्निमानीय साधकः ।
वौषडन्तेन मूलेन मन्त्रितं तं विलोकयेत् ।
अग्निमावाहयेदस्त्रमन्त्रेण तदनन्तरम् ।
हुं-फडन्तेन मूलेन क्रव्यादांशं परित्यजेत् ।। ११ ।।
ततः ओं वह्नेर्योगपीठाय नमः ।
चतुर्दिक्षु ओं वामायै नमः ।
एवं ज्येष्थायै रौद्र्यै अम्बिकायै ।
ततो मूलमूचार्य अमुकदेवताकुण्डाय नमः इति कुण्डं
सम्पूज्य तदधो वागीश्वरीं तत्तदेवतारूपाम् ऋतुमतीं
ध्यात्वा यथोक्तं वह्निमानीय वीक्षणादिभिः संस्कृत्य रमिति
तस्माद् वह्निमुद्धृत्य मूलमुच्चार्यं हुं फट् क्रव्यादेभ्यः
स्वाहा इत्यनेन क्रव्यादांशं परित्यज्य वह्निमन्त्रेण संरक्ष्य
हुमित्यवगुण्ठ्य धेनुमुद्रयामृतीकृत्य बाहुभ्यां समुद्धृत्य
कुण्डोपरि त्रिः परिभ्राम्य जानुस्पृष्टमहीतलः शिवबीजबुद्ध्या
आत्मनोऽभिमुखं देव्या योनावेनं क्षिपेत् ।। १२ ।।
ततो ह्रीं वह्निमूर्तये नमः इत्यभ्यर्च्य रं वह्निचैतन्याय नमः
इति चैतन्यं संयोज्य ओं चित्पिङ्गल हन हन दह दह पच पच
सर्वज्ञाज्ञापय स्वाहा ज्वालयेत् ।

ततः :

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् इत्युपतिष्ठेत् ।। १३ ।।
ततोऽग्ने त्वममुकदेवतानामासि इति नाम कृत्वा ओं वैश्वानर
जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा ।
अनेनार्घ्यादिभिः सम्पूज्य ओं अग्नेर्हिरण्यादिसप्तजिह्वाभ्यो नमः ।
ओं सहस्रार्चिषे हृदयाय नमः इत्यादि अग्निषडङ्गेभ्यो नमः ।
ओं अग्नये जातवेदसे इत्याद्यष्टमूर्तिभ्यो नमः, तद्बाह्ये ओं
ब्राह्म्याद्यष्टशक्तिभ्यो नमः तद्बहिः ओं पद्माद्यष्टनिधिभ्यो
नमः, तद्बाह्ये ओं इन्द्रादिलोकपालेभ्यो नमः, तद्बाह्ये ओं
वज्राद्यस्त्रेभ्यो नमः ।। १४ ।।
ततः प्रादेशमात्रं कुशपत्रद्वयं घृतमध्ये निक्षिप्य
सव्यापसव्यमध्यभागेषु इडां पिङ्गलां सुषुम्नां ध्यात्वा
होमं कुर्यात् ।
स्रुवेण दक्षिण भागादाज्यं गृहीत्वा ओं अग्नये स्वाहेति
अग्नेर्दक्षिणनेत्रे जुहुयात् ।
तथा वामभागादाज्यं गृहीत्वा ओं सोमाय स्वाहा इति वामनेत्रे
जुहुयात् ।
ततो मध्यभागादाज्यं गृहीत्वा ओं अग्नीषोमाभ्यां
स्वाहेत्यग्नेर्ललाटनेत्रे जुहुयात् ।
पुनर्दक्षिणतः ओं नमः इति घृतं गृहीत्वा ओं अग्नये स्विष्टिकृते
स्वाहेति अग्निमुखे ।। १५ ।।

ततो महाव्याहृतिहोमः :

ओं भूः स्वाहा ओं भुवः स्वाहा ओं स्वः स्वाहा ।
ओं वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय
स्वाहेत्यनेन त्रिवारं जुहुयात् ।
ततोऽग्नौ मूलेन पीठपूर्वकं देवतां सम्पूज्य तन्मुखे
घृतेन मूलमन्त्रेण पञ्चविंशतिवारं जुहुयात् ।
आत्मना सह वह्निदेवतयोरैक्यं विभाव्य
मूलमन्त्रेनैकादशाहुतीर्जुहुयात् ।
ततो मूलमन्त्रस्याङ्गदेवताभ्यः स्वाहा एवं
आवरणदेवताभ्यः स्वाहा ।
शक्तश्चेत् प्रत्येकमेकैकाहुतिं जुहुयात् ।
ततः संकल्पं विधाय तत्तत्कल्पोक्तद्रव्येण होमं कुर्यात् ।। १६ ।।
ततो मूलमन्त्रेण पूर्णाहुतिं दत्त्वा संहारमुद्रया
स्वेष्टदेवतां हृदये समानीय क्षमस्वेति विसृज्य दक्षिणां
दत्त्वा अच्छिद्रावधारणं कुर्यात् ।
इति संक्षेपहोमविधिः ।। १७ ।।

अथ बृहद्धोमपद्धतिः :

आचार्योऽलंकृतो यागमण्डपद्वारमागत्य सामान्यार्घ्यं
विधाय द्वारपूजां कृत्वा गृहं प्रविश्य तत्तत्कल्पोक्तदेवताम्
सम्पूज्य ऐशान्यं दिशि हस्तप्रमाणां वेदिकां विधाय तदुपरि
घटं संस्थाप्य यथाशक्ति सम्पूज्य वीक्षणादिभिः कुण्डं
संस्कुर्यात् ।

एतदुक्तं ब्रह्मसंहितायां होमकाण्डे :

ऐशान्यां वेदिकां हस्तविस्तारोन्नतिशालिनीम् ।
कृत्वास्मिन् स्थापयेत् कुम्भं यथोक्त क्रमयोगतः ।
तत्र सम्पूजयेद् देवं यथाविध्युपचारकैः ।
ततो होमं प्रकुर्वीत देवतासन्निधानतः ।। १ ।।
वीक्षणं मूलमन्त्रेण शरेण ताडनं मतम् ।
तेनैव प्रोक्षणं दर्भैर्वर्मणाभ्युक्षणं मतम् ।
अस्त्रेण रक्षणं कृत्वा ततः संस्कारमारभेत् ।
ततो मूलमुच्चार्य ओं कुण्डाय नमः इति कुण्डं सम्पूजयेत् ।। २ ।।
तारादौ तु तत्तद्देवतानामोच्चार्य कुण्डाय नमः इति वदेत् ।
ततः कुण्डमध्ये प्रागग्रा उदगग्रास्तिस्रस्तिस्रो रेखा विलिखेत् ।
ततः संक्षेपहोमपद्धत्युक्तक्रमेण सर्वं करणीयम् ।

तन्त्रे :

द्विजातिभवनाद्वापि वह्निमानीय साधकः ।
वौषडन्तेन मूलेन मन्त्रितं तं विलोकयेत् ।
अग्निमावाहयेदस्त्रमन्त्रेण तदनन्तरम् ।
हुंफडन्तेन मूलेन क्रव्यादांशं परित्यजेत् ।। ३ ।।
ततोऽग्निं वीक्षणादिभिः संस्कृत्य औदर्यवैन्दवाग्निभ्यां
भौमस्य वह्नेरैक्यं विभाव्य रं वह्निचैतन्यं कल्पयामीति
पावके चैतन्यं विधाय ओंकारेणाष्टोत्तरशतमभिमन्त्र्य
धेनुमुद्रया अमृतीकृत्य फडिति संप्रोक्ष्य हुमित्यवगुण्ठ्य रं
वह्निमूर्त्तये नमः इति गन्धपुष्पादिभिः सम्पूज्य कुण्डस्योपरि
त्रिः परिभ्राम्य प्रणवोच्चारण पूर्वकं जानुस्पृष्टमहीतलः
शिवबीज-बुद्ध्या आत्मनोऽभिमुखं देव्या योनावेनं क्षिपेत् ।

ततो वागीश्वरवागीश्वरीभ्यां आचमनीयादिकं दत्त्वा :

तथा गर्भे धृतां ध्यायेत्वह्निरूपान्त वेवताम् ।
पश्चाद्गर्भस्य रक्षार्थं प्रदद्याद्दर्भकंकणम् ।
चित्पिङ्गल हन हन पच पच दह दह सर्वज्ञाज्ञापय स्वाहा इति
मन्त्रेण वह्निं ज्वालयेत् ।। ४ ।।

ततो बद्धाञ्जलिः सन् :

ओं अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ।
इत्यनेन वह्निमुपतिष्ठेत् ।। ५ ।।
ततो स्वदेहे वह्नेर्जिह्वान्यासं कुर्यात् ।

तद्यथा :

लिङ्गे सरयूं हिरण्यायै नमः ।
पायौ षरयूं कनकायै नमः ।
मूर्ध्निं शरयूं रक्तायै नमः ।
वक्त्रे वरयूं कृष्णायै नमः ।
घ्राणे लरयूं सुप्रभायै नमः ।
नेत्रे ररयूं बहुरूपायै नमः ।
सर्वगात्रे यरयूं अतिरक्तायै नमः ।
एताः सात्त्विकयागकर्मणि ।। ६ ।।
काम्यकर्मणि तु उक्तबीजेन सह पद्मरागा सुवर्णा भद्रलोहिता
रोहिता श्वेता धूमिनी करालिका एता राजस्यः ।
क्रूरकर्मणि तु पूर्वबीजेन सह विश्वमूर्त्तिः स्फुलिङ्गिनी
धूम्रवर्णा मनोजवा लोहिता कराला कालो एतस्तामस्यः ।
न्यासन्तु बीजयोगेन पूर्ववत् कर्मभेदेन सर्वत्र बोद्धव्यः ।। ७ ।।

तथा च शारदायाम् :

लिङ्गपायुशिरोवक्त्रघ्राणनेत्रेषु सर्वतः ।
वह्नियार्घीशसंयुक्ताः सादियान्ताः सविन्दवः ।
वह्निमन्त्राः समुद्दिष्टा जिह्वानां सप्तदेशिकैः ।। ८ ।।

ततः कराङ्गन्यासौ यथा :

सहस्रार्चिषे अंगुष्ठाभ्यां नमः स्वस्तिपूर्णाय तर्जनीभ्यां
स्वाहा उत्तिष्ठपुरुषाय मध्यमाभ्यां वषट् धूमव्यापिने
अनामिकभ्यां हुं सप्तजिह्वाय कनिष्ठाभ्यां वौषट्
धनुर्द्धराय करतलपृष्ठाभ्यां फट् ।
एवं हृदयादिषु सहस्रार्चिषे हृदयाय नमः इत्यादि ।। ९ ।।

ततो मूर्तिन्यासः यथाः :

मूर्ध्नि ओं अग्नये जातवेदसे नमः, दक्षांसे ओं अग्नये सप्तजिह्वाय
नमः, दक्षपार्श्वे ओं अग्नये हव्यवाहनाय नमः, दक्षकट्यां
ओं अग्नये अश्वोदरजाय नमः, लिङ्गे ओं अग्नये वैश्वानराय नमः,
वामकट्यां ओं अग्नये कौमारतेजसे नमः, वामपार्श्वे ओं अग्नये
विश्वमुखाय नमः, वामांसे ओं अग्नये देवमुखाय नमः ।
सर्वत्र आदौ प्रणवः ।। १० ।।

तथा च :

मूर्त्तीरष्टौ ततो न्यस्येद्देशिको जातवेदसः ।
मूर्द्धांशपार्श्वकट्यन्धुकटिपार्श्वांसकेषु च ।
जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः ।
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः ।
कौमारतेजाः स्याद्विश्वमुखी देवमुखः स्मृतः ।
ताराद्यग्निपदाद्याः स्युर्नत्यन्ता वह्निमूर्त्तयः ।। ११ ।।
ततो रं वह्न्यासनाय नमः इति वह्नेरासनं कल्पयित्वा मूर्त्तिं
तत्र विचिन्तयेत् ।
इष्टं शक्तिं स्वस्तिकाभीतिमुञ्चैर्दीर्घैर्दोभिधारयन्तं
जवाभम् ।
होमाकल्पं पद्मसंस्थं त्रिनेत्रं ध्यायेद्वह्नि बद्धमौलिं
जटाभिः ।। १२ ।।
ततो मेखलानामुपरि बालया विशुद्धैस्तोयैः परिषिच्य
मेखलायां गर्भशून्यैर्दर्भैरग्रेण मूलमाच्छादयन्
त्रिस्त्रिः परिवेष्टयेत् ।
तत प्राचीवर्ज्यं दिक्षु परिधीन् विनिक्षिप्य तत्र प्रादक्षिण्येन
ब्रह्मादिदेवताः पूज्याः ।। १३ ।।
पुनर्वह्निं ध्यात्वा तत्र पीठे आवाह्यानेन मन्त्रेण
गन्धादिभिः पूजयेत् ।
ओं वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्मणि साधय
स्वाहा इदं पाद्यं अग्नेय नमः इत्यादिक्रमेण ।
मेखलायां वामां ज्येष्ठां रौद्रीं अम्बिकाञ्च पूजयेत् ।
मध्ये षट्कोणे सरयूं हिरण्यायै नमः षरयूं कनकायै
नमः शरयूं रक्तायै नमः वरयूं कृष्णायै नमः
लरयूं सुप्रभायै नमः ररयूं बहुरूपायै नमः यरयूं
अतिरक्तायै नमः ।
एतासामधिष्ठातृदेवतास्तन्त्रान्तरे-
अमर्त्त्यपितृगन्धर्वयक्षनागपिशचकाः ।
राक्षसः सप्तजिह्वानामीरिता अधिदेवताः ।
एवं काम्ये सरयूं पद्मरागायै नमः इत्यादि ।
क्रूरे सरयूं विश्वमूर्तये नमः इत्यादि ।। १४ ।।

यदा गणेशविमर्षिण्याम् :

हिरण्या सप्तहेमाभा शूलपाणेर्दिशि स्थिता ।
वैदूर्यवर्णा कनका प्राच्यां दिशि समाश्रिता ।
तरुणादित्यसंकाशा रक्ता जिह्वाग्निसंस्थिता ।
कृष्णानीलाभ्रसंकाशा नैर्-ऋत्यां दिशि संस्थिता ।
सुप्रभा पद्मरागाभा वारुण्यां दिशि संस्थिता ।
अतिरक्ता जवाभा सा वायव्यां दिशि संस्थिता ।
बहुरूपा यथाख्याता दक्षिणोत्तर संस्थिता ।। १५ ।।
ततः केशरेषु अग्नयादिकोणे मध्ये दिक्षु च ओं सहस्रार्चिषे
हृदयायः नमः ओं स्वस्तिपूर्णाय शिरसे स्वाहा, ओं उत्तिष्ठ
पुरुषाय शिखायै वषट्, ओं धूमव्यापिने कवचाय हुं, ओं
सप्तजिह्वाय नेत्रत्रयाय वौषट्, ओं धनुर्द्धराय अस्त्राय फट् ।
ततः पूर्वादिदलेषु ओं अग्नये जातवेदसे नमः, ओं अग्नये सप्तजिह्वाय
नमः, ओं अग्नये हव्यवाहनाय नमः, ओं अग्नये अश्वोदरजाय
नमः, ओं अग्नये वैश्वानराय नमः, ओं अग्नये कौमारतेजसे नमः,
ओं अग्नये विश्वमुखाय नमः, ओं अग्नये देवमुखाय नमः ।
इति वह्निमूर्त्तीः शक्तिस्वस्तिकधारिणी सम्पूज्य लोकपालान्
स्वस्वदिक्षु पूजयेत् ।। १६ ।।
ततो हस्ताभ्यां स्रुक्स्रुवौ गृहीत्वा अधोमुखौ कृत्वा वह्नौ
त्रिवारं प्रतप्य दर्भानादाय यथा क्रमं
तदग्रमूलमध्यानि शोधयित्वा दक्षिणहस्तेन सम्प्रोक्षः पुनः
प्रतप्य दर्भानग्नौ प्रक्षिप्य आत्मनो दक्षिणभागे कुशान्तरे
स्थापयेत् ।। १७ ।।
ततः आज्यस्थालीमात्मसम्मुखमानीय अस्त्रजप्तेन वारिणा तां
संशोध्य तस्यामाज्यं निक्षिप्य वीक्षणादिभिस्तत्तत् संस्कुर्यात् ।।
१८ ।।
ततो वायव्यऽङ्गारमुद्धृत्य तेषु नमः इति मन्त्रेणाज्यस्थालीं
निवेशयेत् ।
ततो दर्भयुग्मं संदीप्याज्ये क्षिप्त्वा अनेन निक्षिपेत् ।
नमः इति मन्त्रेण दीप्तदर्भयुग्मेनाज्यं नीराज्य
तद्दर्भयुग्मं अग्नौ विसर्जयेत् ।। १९ ।।
ततः फडिति मन्त्रेण घृते प्रज्वलितान्दर्भान् प्रदर्श्य तानग्नौ
क्षिपेत् ।
ततो घृतं गृहीत्वा पुनरङ्गारं वह्नौ संयोज्य जलं स्पृष्ट्वा
दक्षिणहस्तोपरिभावेनाधोमुखेनांगुष्ठोपकनिष्ठाभ्यां
प्रादेशसम्मितौ दर्भौ धृत्वा अस्त्रेण घृतं पवित्रीकृत्य नमः इति
मन्त्रेण तत्कुशाभ्यां आत्मसम्मुखे धृतसम्प्लवं कुर्यात् ।। २० ।।
ततः प्रादेशमात्रं सग्रन्थिदर्भयुग्मं धृतान्तरे क्षिप्त्वा
द्वौ भागौ कृत्वा शुक्लकृष्णपक्षौ स्मरेत् ।
ततो वामे इडानाडी दक्षिणे पिङ्गलां मध्ये सुषुम्नां ध्यात्वा
होमं कुर्यात् ।। २१ ।।

तद्यथा :

नमः इति मन्त्रेण स्रुवेणदक्षिणभागादाज्यमादाय
अग्नेर्दक्षिणलोचने ओं अग्नये स्वाहा इति जुहुयात् ।
तद्वद्वामतः आज्यमादाय ओं सोमाय स्वाहा इति अग्नेर्वमलोचने
जुहुयात् ।
तन्मध्यभागादाज्यमादाय अग्नेर्भाललोचने ओं अग्नीषोमाभ्यां
स्वाहा इति जुहुयात् ।
ततो नमः इति मन्त्रेण स्रुवेणाज्यं दक्षिणभागादादाय
वह्निमुखे ओं अग्नये स्विष्टिकृते स्वाहा इति जुहुयात् ।
सर्वत्राहुतिसम्पातः पात्रान्तरे ।। २२ ।।

ततो महाव्याहृतिहोमः :

ओं भूं स्वाहा ओं भुवः स्वाहा ओं स्वः स्वाहा ।
ततो वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय
स्वाहा, इत्यनेन त्रिवारं हुत्वा अग्नेर्गर्भाधानादिक्रियाः
सम्पादयेत् ।। २३ ।।

तद्यथा :

गर्भाधानं पुंसवनं सीमन्तोन्नयनं जातकर्म
नामकरणं निष्क्रमणं अन्नप्राशनं चूडाकरणम्
उपनयनं महाव्रतम् उपनिषत्स्नानं गोदानं उद्वाहाख्यम् ।
क्रूरकर्मणि माराणन्तम् ।

तथा च :

शुभेषु स्युर्ध्विवाहान्ता मृत्व्यन्तोः क्रूरकर्मसु ।। २४ ।।

तत्र क्रमः :

ओं अग्नेर्गर्भाधानं सम्पादयामि स्वाहा ।
इति प्रतिकर्माणि क्रमेणाज्याहुतीर्जुहुयात् ।। २५ ।।
सुन्दरीपक्षे तु ओं अग्नेर्?गर्भाधानं कल्पयामि ऐं नमः ।
३६०) इत्येकैकाहुतिं दद्यात्, इति कल्पसूत्रप्रतिपादितम् ।। २६ ।।
नामकरणे तु मूलदेवीं समभ्यर्च्य तन्नामकरणाय च ।
हुनेत् पञ्चमबाणेन आहुतीनां त्रयं तथा ।
कामाग्निस्तवं हुताशनेति नाम कुर्यादनन्तरम् ।
ततो वह्नेः पितरौ (वागीश्वरवागीश्वर्यौ) सम्पूज्यात्मनि योजयित्वा
मूलाग्रमध्येषु धृतप्लुताः समिधः पञ्च मनसा ध्यात्वा
जुहुयात् ।। २७ ।।
ततो वह्नेः पूर्वोक्तजिह्वाङ्गमूर्त्तीनाम् एकैकाहुतिं दत्त्वा
स्रुवेण चतुर्वारमाज्यमादाय स्रुचि निधाय स्रुवेण तां पिधाय
उत्तिष्ठन् ओं वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि
साधय स्वाहा ।
वौषडित्यनेन जुहुयात् ।। २८ ।।
ततो विघ्नेश्वरमन्त्रेण दशाहुतीर्जुहुयात् ।

तद्यथा :

ओं स्वाहा, ओं शीं स्वाहा, ओं शीं ह्रीं स्वाहा, ओं श्रीं ह्रीं क्लीं
स्वाहा, ओं श्रीं ह्रीं क्लीं ग्लौं स्वाहा, ओं श्रीं ह्रीं क्लीं
ग्लौं गं स्वाहा, ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये
स्वाहा, ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर-वरद स्वाहा

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर-वरद सर्वजनं
स्वहा ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे
वशमानय स्वाहा ।

तथा च प्रपञ्चसारे :

ताराद्यैर्दशभिर्देवि पूर्वपूर्वसमन्वितैः ।
मनुना गाणपत्येन हुनेत्पूर्वं दशाहुतीः ।। २९ ।।
ततो देवतायाः पीठं वह्नौ समभ्यर्च्य वह्निरूपां तां
विचिन्त्य पञ्चोपचारादिभिः पूजयेत् ।। ३० ।।
सुन्दरीपक्षे तु षडाननमन्त्रेण अङ्गमन्त्रेण च सम्पूज्य ओं
ह्रीं श्रीं समस्तप्रटकगुप्ततरसम्प्रदायकुलकौलिनि - गर्भ -
रहस्यातिरहस्यपरमातिरहस्ययोगिनीचक्र-श्रीपादुकां
पूजयामीति विशेषः ।। ३१ ।।
तारादौ तु ब्राह्म्यादि-लक्ष्म्यादि-इन्द्रादि-वज्रादींश्च पूजयेत् इति
विशेषः ।। ३२ ।।
ततो वह्निमुखे मूलमन्त्रेण घृतेन पञ्चविंशाहुतीर्जुहुयात् ।
ततो वह्निदेवतयोरात्मना सह ऐक्यं विभाव्य मूलेनाज्येन
एकादशाहुतीर्जुहुयात् ।
ततस्तत्तद्देवताया आवरणदेवतानां प्रत्येकैकाहुतीर्जुहुयात् ।। ३३
।।
ततः सङ्कल्पिततत्तत्कल्पोक्तविहितद्रव्यैर्होमं कुर्यात् ।

तद्यथा :

बहुरूपाख्यजिह्वायां जुहुयात् सर्वकर्मणि ।
यतः समस्तसिद्धीनां सावित्री बहुरूपिकेति ।। ३४ ।।

यामले :

कुण्डमध्ये हिरण्याख्या वश्याकर्षण कर्मणि ।
कनकाख्या स्तम्भनादौ रक्ताख्या द्वेषणे तथा ।
कृष्णाख्या मारणे शस्ता सुप्रभा शान्तिकर्मनि ।
उच्चाटनेऽतिरक्ताख्या बहुरूपा सुसिद्धिदा ।। ३५ ।।
ओं भूरग्नये पृथिव्यै महते च स्वाहा ।
ओं भूवो वायवे अन्तरीक्षाय च दिवे महते च स्वाहा ।
ओं स्वश्चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते च स्वाहा ।
ओं भूर्भुवः स्वश्चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते च स्वाहा ।।
३६ ।।

काम्यहोमे अंगुलिनियमस्तु :

तर्जन्यंगुष्ठयोगात् तु शान्त्यर्थं जुहुयान्नरः ।
दाहज्वराभिचाराणामनामांगुष्ठमुद्रया ।
विद्वेषोच्चाटने चैव मारणे च प्रशस्यते ।
प्रादेशिनीमध्यमाभ्यां वधोपशमनं भवेत् ।
वपुर्मेधा तथा कान्तिर्नींतिपुष्ट्यादिके तथा ।
आकर्षणानि सर्वाणि दूरादर्थगातानि च ।
तर्जन्यनामिकायोगात्सद्य एव भवन्ति हि ।
मोहनं वश्यकामञ्च प्रीतिसंवर्द्धनन्तथा ।
प्रदेशिनी कनिष्ठाभ्यां सर्वमेतत् प्रसिद्ध्यति ।
मोहनाकर्षणञ्चैव क्षोभणोच्चाटनं तथा ।
कनिष्ठामध्यमांगुष्ठसंयोगेन तु लीलया ।
विधियुक्तेन होमेन तथा द्रव्यानुयोगतः ।
सर्वे मन्त्राः प्रसिद्ध्यन्ति मुद्रामन्त्रप्रयोगतः ।। ३७ ।।
ततो होमद्रव्याणि स्रुवेण स्रुचि निधाय, तेनाच्छाद्य, तौ नाभौ
(नाभिसमीपे) संस्थाप्य, इतः पूर्वमित्यादिमन्त्रेण
मूलमन्त्रेण च पूर्णाहुतिं दत्त्वा संहारमुद्रया
आत्मन्युद्वास्य पुनर्व्याहृतिभिर्हुत्वा,
अग्नेर्जिह्वाङ्गमूर्त्तीनामेकैकाहुतिं दद्यात् ।। ३८ ।।
ततः पूर्ववन्मेखलोपरि अद्भिः परिषिच्यात्मनि संहारमुद्रया
पावकं योजयित्वा परिधीन्सपरिस्तरान् अग्नौ क्षिपेत् ।
विशेषस्तु नैमित्तिके कर्मणि एतान्दहेत् ।
नित्ये कर्मणि न दहेत् ।

तथा च शारदायाम् :

नैमित्तिके दहेन्मन्त्री नित्ये न तु दहेदिमान् ।। ३९ ।।
ततो दक्षिणां दद्यात् ।

तथा च ज्ञानमालायाम् :

सुवर्णमयुते दद्यात् लक्ष्ये दशसुवर्णकम् ।
दक्षिणा तु प्रदातव्या यथा होमे तथा जपे ।
अलाभे दक्षिणा ज्ञेया गुरुसन्तोषकारिणीति ।। ४० ।।
यदि दीक्षाङ्गहोमस्तदा देवताया आवरणदेवतायाश्च
होमानन्तरम् ।
आज्यान्वितैस्तिलैः कल्पविहितैर्द्रव्यैर्वा देवताया अष्टोत्तर सहस्रं
शतं वा जुहुयात् ।। ४१ ।।
ततः सुधौतदन्ताढ्यं शिष्यं स्नातं कुण्डान्तिकमानीय
दिव्यदृष्ट्या तं विलोक्य-तच्चैतन्यं गुरुरात्मनि संयोज्य,
अध्वविशोधनं कुर्यात् ।

तद्यथा :

कुशगुच्छेन शिष्यस्य पादं स्पृशन् ओं शोधयामि कलाध्वनिं
स्वाहेति आज्यान्वितैस्तिलैरष्टाहुतीर्जुहुयात् ।
एवमन्धुं (पायुं) स्पृष्ट्वा ओं शोधयामि तत्त्वाध्वानं स्वाहा

नाभिं स्पृष्ट्वा ओं शोधयामि भुवनाध्वानं स्वाहा ।
हृदयं स्पृष्ट्वा शोधयामि वर्णाध्वनं स्वाहा ।
भालं स्पृष्ट्वा ओं शोधयामि पदाध्वानं स्वाहा ।
मूर्द्धानं स्पृष्ट्वा ओं शोधयामि मन्त्राध्वानं स्वाहा ।
सर्वत्राष्टाहुतीर्जुहुयात् ।
एवं क्रमेण तत् परशिवे संहृत्य पुनः सृष्टिवर्त्मना
तत्तदाहुतिभिः क्रमेण जनयेत् ।

तद्यथा :

मन्त्राध्वनं पदाध्वा पदाध्वनो वर्णाध्वा वर्णाध्वनो
भुवनाध्वा भुवनाध्वनस्तत्त्वाध्वा तत्त्वाध्वनः कलाध्वा ।
एवं क्रमेण जुहुयात् ।
ततो दिव्यदृष्ट्या तं शिष्यं विलोकयन् आत्मस्थितं तच्चैतन्यं
शिष्ये नियोजयेत् ।
ततः स्रुचा पूर्णाहुतिदनादि कर्म समाप्य, पूर्वोक्त, क्रमेण
दीक्षां कारयेत् ।
इति वृहद्धोमपद्धतिः ।। ४२ ।।

अथ होमद्रव्याणां परिमाणम् :

कर्षमात्रं घृतं होमे शुक्तिमात्रं पयःस्मृतम् ।
उक्तानि पञ्चगव्यानि तत्समानि मनीषिभिः ।
तत्समं मधुदुग्धान्नमक्षमात्रमुदाहृतम् ।
दधि प्रसृतिमात्रं स्याल्लाजाः स्युर्मुष्टिसम्मिताः ।
पृथुकास्तत्प्रमाणाः स्युः शक्तयोऽपि तथोदिताः ।
गुडपलार्द्धमानं स्यात् शर्करापि तथा स्मृता ।
ग्रासार्द्धं चरुमानं स्यादिक्षुः पर्वावधिः स्मृतः ।
एकैकं पत्रपुष्पाणि तथा पूपानि कल्पयेत् ।
कदलीफलनारङ्गं फलान्येकैकशो विदुः ।
मातुलुङ्गं चतुःखण्डं पनसं दशधा कृतम् ।। ४३ ।।
अष्टधा नारिकेलानि खण्डितानि विदुर्बुधाः ।
त्रिधाकृतं फलं बिल्वं कपित्थं ख्ण्डितं द्विधा ।
उर्वारुकफलं होमे कथितं खण्डितं त्रिधा ।
फलान्यन्यान्यख्ण्डानि समिधः स्युर्दशांगुलाः ।
दूर्वात्रयं समुद्दिष्टं गुडूची चतुरंगुला व्रीहयो
मुष्टिमात्राः स्युर्मुद्गा माषा यवा अपि ।
तण्डुलाः स्युस्तदर्द्धांशाः कोद्रवा मुष्टिसम्मिताः ।
गोधूमा रक्तकमला विहिता मुष्टिमानतः ।
तिलाश्चुल्लुकमात्राः स्युः सर्षपास्तत्प्रमाणतः ।
शुक्तिप्रमाणं लवणं मरिचान्यपि विंशतिः ।
पुरं (गुग्गुलु) वदरमानं स्याद्रामठं (हिंगु) तत्समं
स्मृतम् ।
चन्दनागुरुकर्पूरकस्तूरीकुंकुमानि च ।
तिन्तिडीबीजमानानि समुद्दिष्टानि देशिकैः ।। ४३-क ।।
वैश्वानरं स्थितं ध्यायेत् समिद्धोमेषु देशिकः ।
शयानमाज्यहोमेषु निषण्णं शेषवस्तुषु ।। ४४ ।।
अस्यान्तर्जुहुयाद्वह्नेर्विपश्चित्सर्वकर्मसु ।
कर्णहोमे भवेद्व्याधिर्नेत्रेऽन्धत्वं समीरितम् ।
नासिकायां मनःपीडामस्तके धनसंशयः ।। ४५ ।।
यतः काष्ठं ततः श्रोत्रं यतो धूमोऽत्र नासिका ।
यत्राल्पज्वलनं नेत्रं यतोऽङ्गारस्ततः शिरः ।
यत्र प्रज्वलिता ज्वाला सा जिह्वा जातवेदसः ।। ४६ ।।
स्वर्णसिन्दूरबालार्ककुंकुमक्षौद्रसन्निभः ।
सुवर्णरेतसो वर्णः शोभनः परिकीर्त्तितः ।। ४७ ।।
भेरीवारिदहस्तीन्द्रनिनादोऽग्निः शुभावहः ।
नाशचम्पकपुन्नागपाटलायूथिकानिभः ।
पद्मेन्दीवरकह्लारसर्पिर्गुग्गुलुसन्निभः ।
पावकस्य शुभो गन्ध इत्युक्तस्तन्त्रवेदिभिः ।। ४८ ।।
प्रदक्षिणास्त्यक्तकम्पाश्छत्राभाः शिखिनः शिखाः ।
सुखदा यजमानस्य राज्यस्यापि विशेषतः ।। ४९ ।।
कुन्देन्दु धवलो धूमो वह्नेः प्रोक्तः शुभावहः ।
कृष्णः कृष्णगतेर्वर्णो यजमानं विनाशयेत् ।
श्वेतो राज्यं निहन्त्याशु वायसस्वरसन्निभः ।
स्वरस्वरसमो वह्नेर्ध्वनिः सर्वविनाशकृत् ।
पूतिगन्धो हुतभुज्यो होतुर्दुःखप्रदो भवेत् ।। ५० ।।
छिन्ना वृत्ता शिखा कुर्यात्मृत्युं धनपरिक्षयम् ।
शुकपक्षनिभो धूमः पारावतसमप्रभः ।
हानिं तुरगजातीनां गवाञ्च कुरुतेऽचिरात् ।
एवंविधेषु दोषेषु प्रायश्चित्ताय देशिकः ।
मूलेनाज्येन जुहुयात् पञ्चविंशतिमाहुतीः ।
इति होमप्रकरणं समाप्तम् ।।

अथ षट्कर्मलक्षणम् :

शारदायाम् :

अथाभिधास्ये तन्त्रेऽस्मिन्सम्यक् षट्कर्मलक्षणम् ।
सर्वतन्त्रानुसारेण प्रयोगफलसिद्धिदम् ।। १ ।।
शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः ।
मारणान्तानि शंसन्ति षट्कर्माणि मनीषिणः ।। २ ।।
रोगकृत्याग्रहादीनां निरासः शान्तिरीरिता ।
वश्यं जनानां सर्वेषां विधेयत्वमुदीरितम् ।। ३ ।।
प्रवृत्तिरोधः सर्वेषां स्तम्भनं तदुदीरितम् ।
स्निग्धानां द्वेषजननं मिथो विद्वेषणं मतम् ।। ४ ।।
उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीर्त्तितम् ।
प्राणिनां प्राणहरणं मारणं तदुदाहृतम् ।
स्वदेवतादिक्कालादीन् ज्ञात्वा कर्माणि साधयेत् ।। ५ ।।
रतिर्वाणी रमां ज्येष्ठा दुर्गा काली यथाक्रमम् ।
षट्कर्मदेवताः प्रोक्ताः कर्मादौ ताः प्रपूजयेत् ।। ६ ।।
कालीभद्रकाली ।
ईशचन्द्रेन्द्रनिर्-ऋतिवायव्यग्नानां दिशो मताः ।
सूर्योदयं समारभ्य घटिकादशकं क्रमात् ।
ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने ।
बसन्तग्रीष्मवर्षाख्य-शरद्धेमन्तशैशिराः ।। ७ ।।
अत्र घटिका दण्डाः ।
यद्वा अर्द्धरात्रं शरत्कालो हेमन्तश्च प्रभातकः ।
पूर्वाह्नो वै बसन्तः स्यान्मध्याह्नो ग्रीष्म एव च ।
प्रावृट्कालोऽपराह्नः स्यात् प्रदोषः शिशिर स्मृतः ।। ८ ।।

अथवा :

ऊषायोगे च हेमन्तः प्रभाते शिशिरागमः ।
प्रहरार्द्धे बसन्तः स्यात्ग्रीष्मो मध्यन्दिनागमे ।
तुर्ययामे च वर्षाख्यः शरदस्तं गते रवौ ।। ९ ।।
हेमन्तः शान्तिके प्रोक्तो बसन्तो वश्यकर्मणि ।
शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः प्रावृडुच्चाटने
ज्ञेय शरन्मारणकर्मणि ।। १० ।।

अथ तिथिनियमः :

पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ।
बुध्येज्यवारसंयुक्ता विज्ञेया शान्ति कर्मणि ।
गुरुचन्द्रयुता षष्ठी चतुर्थी च त्रयोदशी ।
नवमी पौष्टिके शस्ता चाष्टमी नवमी तथा ।
दशम्येकादशी चैव भानुशुक्रदिनान्विता ।
आकर्षणे त्वमावस्या नवमी प्रतिपत्तथा ।
पौर्णमासी मन्दभानौ विज्ञेया द्वेषकर्मणि ।। ११ ।।
कृष्णा चतुर्दशी तद्वदष्टमी मन्दवारकाः ।
उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः ।। १२ ।।
चतुर्दश्यष्टमी कृष्णा अमावस्या तथैव च ।
मन्द भौमदिनोपेता शस्ता मारणकर्मणि ।। १३ ।।
बुधचन्द्रदिनोपेता पञ्चमी दशमी सिता ।
पौर्णमासी तु विज्ञेया तिथिः स्तम्भनकर्मणि ।। १४ ।।
शुभग्रहोदये कुर्यात् शुभानि च शुभोदये ।
रोद्रकर्मणि रिक्तार्के मृत्युयोगे च मारणम् ।। १५ ।।

चामुण्डा तन्त्रे :

जपेत् पूर्वमुखो वश्ये दक्षिणञ्चाभिचारके ।
पश्चिमे स्तम्भनं विद्यादुत्तरे शान्तिकं भवेत् ।। १६ ।।
आकर्षणमथाग्नेये नैर्-ऋते मारणं तथा ।
उच्चाटनन्तु वायव्ये ऐशान्यां मोक्षदायकम् ।
तथाभिचारे कार्या च दक्षिणप्लवना मही ।। १७ ।।
बसनं लोहितं प्रोक्तं ऊष्णीषं लोहितं स्मृतम् ।
भूषणं लौहद्रव्येण वामेन पूजनादिकम् ।। १८ ।।
नरस्नायुविशेषेण मारणे रज्जुरीरिता ।
मृतस्य युद्धशून्यस्य दन्तेन गर्दभस्य वा ।
कृत्वाक्षमालां जप्तव्यं शत्रूणां वधमिच्छता ।
भग्नेभदन्तमणिभिर्जपेदाकर्षकर्मणि ।
साध्यकेशसूत्रप्रोतैस्तुरङ्गदशनोद्भवः ।
अक्षमालां समालोक्य विद्वेषोच्चाटने जपेत् ।। १९ ।।

अथ आसनादिकथनम् :

पद्माख्यं स्वस्तिकं भूयो विकटं कुक्कुटं पुनः ।
वज्रं भद्रकमित्याहुरासनानि मनीषिणः ।। २० ।।
पद्मासनन्तु संयोज्य जानूर्वोरन्तरे करौ ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ।
अन्यानि वक्तव्यानि ।। २१ ।।
षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाश गदाह्वयाः ।
मूषलाशनिखड्गाख्याः शान्तिकादिषु कर्मसु ।। २२ ।।
जलं शान्तिर्विधौ शस्तं वश्ये वह्निरुदीरितः ।
स्तम्भने पृथिवीशस्ता विद्वेषे व्योम कीर्त्तितम् ।
उच्चाटने स्मृतो वायुर्भूयोऽग्निर्मारणे स्मृतः ।। २३ ।।
तत्तद्भूतोदये सम्यक्तत्तन्मण्डलसंयुतम् ।
तत्तत्कर्म विधातव्यं मन्त्रिणा निश्चितात्मना ।। २४ ।।
शितांशुसलिल - क्षौणी-व्योम-वायु-हविर्भुजाम् ।
वर्णाः स्युर्मन्त्र बीजानि षट्कर्मसु यथाक्रमम् ।। २५ ।।
ग्रथनञ्च विदर्भञ्च संपुटो रोधनन्तथा ।
योगः पल्लव इत्येते विन्यासाः षट्सु कर्मसु ।। २६ ।।
मन्त्रेणान्तरितान् कुर्यान्नामवर्णान् यथाविधि ।
ग्रथनं तद्विजानीयात् प्रशस्तं शान्तिकर्मणि ।। २७ ।।
मन्त्रार्णद्वयमध्यस्थं साध्यनामाक्षरं लिखेत् ।
विदर्भ एष विज्ञेयो मन्त्रिभिर्वश्यकर्मणि ।। २८ ।।
आदावन्ते च मन्त्रः स्यान्नाम्नोऽसौ संपुटः स्मृतः ।
एष स्यात् स्तम्भने शस्त इत्युक्तो मन्त्रवेदिभिः ।। २९ ।।
नाम्न आद्यन्तमध्येषु मन्त्रः स्याद्रोधनं मतम् ।
विद्वेषणविधानेषु प्रशस्तमिदमुत्तमम् ।। ३० ।।
मन्त्रस्यान्ते भवेन्नाम योगः प्रोच्चाटने मतः ।
अन्ते नाम्नो भवेन्मन्त्रः पल्लवो मारणे मतः ।। ३१ ।।
सितरक्तपीतमिश्रकृष्णधूम्राः प्रकीर्त्तिताः ।
वर्णतो मन्त्रसंप्रोक्ता देवताः षट्सु कर्मसु ।। ३२ ।।
मन्त्राणां लेखनद्रव्यं चन्दनं रोचनं निशा ।
गृहधूमश्चिताङ्गारो मारणेऽष्टविषाणि च ।
श्येनाग्नि लोणपित्तानि धुस्तूरकरसः शुभः ।
गृह धूमस्त्रिकटुकं विषाष्टकमुदीरितम् ।। ३३ ।।
देवता कालमुद्रादीन् सम्यक् ज्ञात्वा विचक्षणः ।
षट्कर्माणि प्रयुञ्जयोत यथोक्तफलसिद्धये ।। ३४ ।।

कुलार्णवे :

उच्चाटने वषट्प्रोक्तं हूं फडन्तश्च मारणे ।
स्तम्भने च नमः प्रोक्तं स्वाहा शान्तिकपौष्टिके ।। ३५ ।।
होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः ।
मन्त्रान्ते योजयेन्मत्री जपकाले यथा स्थिति ।

अस्यार्थः :

एतानि तत्तत्कर्माणि जपकाले मन्त्रान्ते योजयित्वा मन्त्रं जपेत् ।
होमादिषु नायं नियमः ।
इत्याह होमे नेति इति केचित् ।
तन्न ।
अग्निकार्ये जपेत् स्वाहा नमः ।
सर्वत्र चार्च्चने ।
शान्ति-पुष्टि वशद्वेषाकर्षोच्चाटनमारणे ।
स्वाहा स्वधा वषट् हुञ्च वौषट् फट् योजयेत् क्रमात् ।
वश्याकर्षणसन्तापज्वरे स्वाहा प्रकीर्त्तिता ।
क्रोधोपशमने शान्तौ प्रीतौ योज्यं नमो बुधैः ।
वौषट् सम्मोहनोद्दीप-पुष्टि-मृत्युञ्जयेषु च ।
हुङ्कारं प्रीतिनाशे च मारणेच्छेदने तथा ।
उच्चाटने च विद्वेषे वौषट्पंगुकृतौ वषट् ।
मन्त्रोद्दीपन कार्येषु लाभालाभे वषट् स्मृतः ।
इति विशेषवचनाद्धोमेऽप्ययं विधिः ।। ३६ ।।

शान्तिकादौ मन्त्रलिखने पात्रादिनियमस्तु तत्रैव :

शान्तिके राजतं ताम्रं भूर्जपत्रन्तु वश्यके ।
सर्वकार्येषु सौवर्णं क्रूरे स्यात् प्रेतकर्पटम् ।। ३७ ।।
त्रिगन्धं शान्तिके प्रोक्तं पञ्चगव्यन्तु वश्यके ।
सर्वकार्येऽष्टगन्धः स्यात् क्रूरे चाष्टविषाणि च ।। ३८ ।।
शान्तिके लेखनीदूर्वा वश्यादौ शिखिपुच्छिका ।
हेम्ना सर्वाणि कार्याणि क्रूरे स्यात् काकपुच्छिका ।। ३९ ।।
गृहेषु शान्किर्म स्यात्वश्यञ्च चण्कागृहे ।
देवालये च सर्वाणि श्मशाने क्रूरकर्म च ।। ४० ।।

अथ भूतानामुदयः :

दण्डकारा गतिर्भूमेः पुटयोरुभयोरपि ।
तोयस्यपावकस्योर्ध्वे गातस्तिर्यक् नभस्वतः ।
गतिर्व्योम्नो भवेन्मध्ये भूतानामुदयः स्मृतः ।
धरणेरुदये कुर्यात् स्तम्भनं वशमात्मवित् ।
शान्तिकं पौष्टिकं कर्म तोयस्य समये वसोः ।
मारणादीनि मरुतो विपक्षोच्चाटनादिकम् ।
क्ष्वेडादिनाशने शस्तमुदये च विहायसः ।। ४१ ।।

अथ भूतानां मण्डलानि :

वृत्तं दिवस्तत्षड्विन्दुलाञ्छितं मातरिश्वनः ।
त्रिकोणं स्वस्तिकोपेतं वह्नेरर्द्धेन्दुसंयुतम् ।
अम्भोजमम्भसो भूमेश्चतुरस्रं सवज्रकम् ।
तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः ।
वर्णैः स्वै रञ्जितान्याहुः स्वस्वनामावृतान्यापि ।
स्वच्छं वियत्मरुत्कृष्णो रक्तोऽग्निर्विशदं पयः ।
पीता भूमिरित्यादि ।। ४३ ।।

प्रयोगान्तरं कुलार्णवे :

एकलक्षं जपेन्मन्त्रं ध्यानन्याससमन्वितः ।
प्रयोगदोष शान्त्यर्थमात्मरक्षार्थकारणम् ।
नचेत्फलञ्च नाप्नोति देवताशापमाप्नुयात् ।। ४३ ।।

यत्तुः :

न कुर्यात् मारणं कर्म कुर्याच्चेदयुतं जपेत् ।
तत्तु प्रायश्चित्तपरमिति ।



अथ स्तवकवचानि

वाराहीतन्त्रे :

प्रणवञ्चादिमे जप्त्वा स्तोत्रं वा संहितां पठेत् ।
अन्ते च प्रणवं दद्यादित्युवाचादिपुरुषः ।
एवं सर्वत्र विज्ञेयमन्यथा विफलं भवेत् ।। ४५ ।।

अथादौ भुवनेश्वरीस्तोत्रम्

ईश्वर उवाच :

अथानन्दमयीं साक्षाच्छब्दब्रह्मस्वरूपिणीम् ।
ईडे सकलसम्पत्त्यै जगत्कारणमम्बिकाम् ।। १ ।।
आद्यामशेषजननीमरविन्दयोनेर्विष्णोः शिवस्य च वपुः
प्रतिपादयित्रीम् ।
सृष्टिस्थितिक्षयकरीं जगतां त्रयाणां, स्तुत्वा गिरं
विमलयाम्यहमम्बिके त्वाम् ।। २ ।।
पृथ्व्या जलेन शिखिना मरुतां वरेण होत्रेन्दुना दिनकरेण च
मूर्त्तिभाजः ।
देवस्य मन्मथरिपोरपि शक्तिमत्ताहेतुस्त्वमेव खलु पर्वतराजपुत्रि
।। ३ ।।
तिस्रोतसः सकलदेवसमर्च्चिताया वैशिष्ट्यकारणमवैमि तदेव
मातः ।
त्वत्पादपङ्कजपरागपवित्रितासु शम्भोर्जटासु नियतं
परिवर्तनं यत् ।। ४ ।।
आनन्दयेत् कुमुदिनीमधिपः कलानां नान्यामिनः कमलिनीमथ
नेतरां वा ।
एकस्य मोदनविधौ परमेक ईष्टे त्वं तु प्रपञ्चमभिनन्दयसि
स्वदृष्ट्या ।। ५ ।।
आद्याप्यशेषजगतां नव यौवनासि
शैलाधिराजतनयाप्यतिकोमलासि ।
त्रयाः प्रसूरपि यथा न समीक्षितासि ध्येयासिगौरि मनसो न पथि
स्थितासि ।। ६ ।।
आसाद्य जन्म मनुजेषु चिराद्दुरापं तत्रापि पाटवमवाप्य
निजेन्द्रियाणाम् ।
नाभ्यर्चयन्ति जगतां जनयित्रि ये त्वां निःश्रेणिकाग्रमधिरुह्य
पुनः पतन्ति ।। ७ ।।
कर्पूरचूर्णहिमवारिविलोडितेन ये चन्दनेन कुसुमैश्च
सुजातगन्धैः ।
आराधयन्ति हि भवानि समुत्सुकास्त्वां ते
खल्वशेषभुवनादिभुवः प्रथन्ते ।। ८ ।।
आविश्यमध्यपदवीं प्रथमे सरोजे सुप्ताहिराजसदृशी विरचयय
विश्वम् ।
विद्युल्लतावलयविभ्रममुद्वहन्ती पद्मानि पञ्च विदलयय
खमश्नुवाना ।। ९ ।।
तन्निगतामृतरसैः परिषिक्तगात्रमार्गेण तेन निलयं
पुनरप्यवाप्ता ।
येषां हृदि स्फुरसिजातु न ते भवेयुर्मातर्महेश्वरकुटुम्बिनि
गर्भभाजः ।। १० ।।
आलम्बिकुण्डलभरामभिरामवक्त्रामापीवरस्तनतटीं
तनुवृत्तमध्याम् ।
चन्ताक्षसूत्रकलसां लिखिताढ्यहस्तामावर्तयामि मनसा तव
गौरि मूर्त्तिम् ।। ११ ।।
आस्थाय योगमवजित्य च वैरिषट्कमाबध्य चेन्द्रियगणं मनसि
प्रसन्ने ।
पाशांकुशाभयवराढ्यकरां सुवक्त्रामालोकयन्ति
भुवनेश्वरि योगिनस्त्वाम् ।। १२ ।।
उत्तप्तहाटकनिभा
करिभिश्चतुर्भिरावर्जितामृतघटैरभिषिच्यमाना ।
हस्तद्वयेन नलिने रुचिरे वहन्ती पद्मापि साभयवरा भवसि त्वमेव
।। १३ ।।
अष्टाभिरुग्रविविधायुधवाहिनीभिर्दोर्वल्लरीभिरधिरुह्य
मृगाधिराजम् ।
दूर्वादलद्युतिरमर्त्यविपक्षपक्षान्न्यक्कुर्वती त्वमसि देवि
भवानि दुर्गा ।। १४ ।।
आविर्निदाघजलशीकरशोभिवक्त्रां गुञ्जाफलेन
परिकल्पितहारयष्टिम् ।
पीतांशुकामसितकान्तिमनङ्गतन्द्रामाद्यां
पुलिन्दतरुणीमसकृत्स्मरामि ।। १५ ।।
हंसैर्गतिक्वणितनूपुरदूरकृष्टै
मूर्तैरिवाप्तवचनैरनुगम्यमानौ ।
पद्माविवोर्ध्व मुखरूढसुजातनालौ श्रीकण्ठपत्निश्रिरसा
विदधे तवांघ्री ।। १६ ।।
द्वाभ्यां समीक्षितुमतृप्तिमतेव दृग्भ्यामुत्पाट्य भालनयनं
वृषकेतनेन ।
सान्द्रानुरागतरलेन निरीक्ष्यमाणे जङ्घै शुभे अपि भवानि
तवानतोस्मि ।। १७ ।।
ऊरू स्मरामि जितहस्तिकरावलेपौ स्थौल्येन मार्द्दवतया
परिभूतरम्भौ ।
श्रोणीभरस्य सहनौ परिकल्प्य दत्तौ स्तम्भाविवाम्बरवसा तव
मध्यमेन ।। १८ ।।
श्रोण्यौस्तनौ च युगपत्प्रथरिष्यतोच्चैर्बाल्यात्परेण वयसा
परिहृष्टसारः ।
रोमावलीविलसितेन विभाव्य मूर्ति मध्यं तव स्फुरतु मे हृदयस्य
मध्ये ।। १९ ।।
सख्यः स्मरस्य हरनेत्रहुताशभीरोलर्वाण्यवारिभरितं
नवयौवनेन ।
आपाद्य दत्तमिव पल्लवमप्रविष्.यं नाभि कदापि तव देवि न
विस्मरेयम् ।। २० ।।
ईशोपि गेहपिशुनं भसितं दधाने काश्मरी
कर्द्दममनुस्तनपङ्कजे ते ।
स्नातोत्थितस्य करिणः क्षणलक्ष्यफेनौ सिन्दूरितौ स्मरयतः
समदस्य कुम्भौ ।। २१ ।।
कण्ठातिरिक्तगलदुज्वलकान्तिधाराशोभौ भुजौ
निजरिपोर्मकरध्वजेन ।
कण्ठग्रहाय रुचितौ किल दीर्घपाशौ मातर्मम स्मृतिपथं न
विलङ्घयेताम् ।। २२ ।।
नात्यायतं रचितकम्बुविलासचौर्यं भूषाभरेण विविधेन
विराजमानम् ।
कण्ठं मनोहरगुणं गिरिराजकन्ये सञ्चिन्त्य तृप्तिमुपयामि
कदापि नाहम् ।। २३ ।।
अत्यायताक्षमभिजातललाटपट्टं मन्दस्मितेन दरफुल्लकपोल
रेखम् ।
बिम्बाधरं बदनमुन्नतदीर्घनासं यस्ते स्मरत्यसकृदम्ब स
एव जातः ।। २४ ।।
आविस्तुषारकरलेखमनल्पगन्धपुष्पोपरिभ्रमदलिव्रजनिर्विशेषम् ।
यश्चेतसा कलयते तव केशपाशं तस्य स्वयं गलति देवि
पुराणपाशः ।। २५ ।।
श्रुतिसुरचितपाकं धीमतां स्तोत्रमेतत् पठति य इह मर्त्यो
नित्यमार्द्रान्तरात्मा ।
स भवति पदमुच्चैः सम्पदं
पादनम्रक्षितिपमुकुटलक्ष्मीलक्षणानां चिराय ।। २६ ।।

इति भुवनेश्वरीस्तोत्रं समाप्तम् ।

अथ भुवनेश्वरीकवचम् ।

श्रीदेव्युवाच :

भुवनेश्वर्याश्च देवेश या या विद्याः प्रकाशिताः ।
श्रुताश्चाधिगताः सर्वाः श्रोतुमिच्छामि सांप्रतम् ।। १ ।।
त्रैलोक्यमङ्गलं नाम कवचं यत्पुरोदितम् ।
कथयस्व महादेव प्रीतिकरं परम् ।

ईश्वर उवाच :

शृणु पार्वति वक्ष्यामि सावधानावधारय ।
त्रैलोक्य मङ्गलं नाम कवचं मन्त्रविग्रहम् ।। ३ ।।
सिद्धविद्यामयं देवि सर्वैश्वर्य समन्वितम् ।
पठनाद्धारणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ।। ४ ।।
त्रैलोक्यमङ्गलस्यास्य कवचस्य ऋषिः शिवः ।
छन्दो विराट् जगद्धात्री देवता भुवनेश्वरी ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ।। ५ ।।
ह्रीं बीजं मे शिरः पातु भुवनेशी ललाटकम् ।
ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् ।। १ ।।
श्रीं पातु दक्षकर्णं मे त्रिवर्णाम्ता महेश्वरी ।
वामकर्णं सदा पातु ऐं घ्राणं पातु मे सर्वदा ।। २ ।।
ह्रीं पातु वदनं देवि ऐं पातु रसनां मम ।
वाक्पुटा च त्रिवर्णात्मा कण्ठं पातु परात्मिका ।। ३ ।।
श्रीं स्कन्धौ पातु नित्यं ह्रीं भुजौ पातु सर्वदा ।
क्लीं करौ त्रिपुटेशानी त्रिपुरैश्वर्यदायिनी ।। ४ ।।
आं पातु हृदयं ह्रीं मे मध्यदेशं सदावतु ।
क्रौं पातु नाभिदेशं मे त्र्यक्षरी भुवनेश्वरी ।। ५ ।।
सर्वबीजं सदा पृष्ठं पातु सर्ववशंकरी ।
ह्रीं पातु गुह्यदेश मे नमोभगवति कटिम् ।। ६ ।।
माहेश्वरी सदा पातु सक्थिनी जानुयुग्मकम् ।
अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम् ।। ७ ।।
सप्तदशाक्षरी पायादन्नपूर्णाखिलं वपुः ।
तारं माया रमा कामः षोडशार्णास्ततः परम् ।। ८ ।।
शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा ।
तारंदुर्गेयुगंरक्षणीस्वाहेति च दशाक्षरी ।। ९ ।।
जयदुर्गा घनश्यामा पातु मां सर्वतो मुदा ।
मायाबीजादिका चैषा दशर्णा च ततः परा ।। १० ।।
उत्तप्तकाञ्चनाभासा जयदुर्गाऽनलेऽवतु ।
तारं ह्रीं दुं च दुर्गायै नमोऽष्टार्णात्मिका परा ।। ११ ।।
शङ्खचक्रधनुर्बाणधरा मां दक्षिणेऽवतु ।
महिषमर्दिनि स्वाहा वसुवर्णात्मिका परा ।। १२ ।।
नैर्-ऋत्यां सर्वदा पातु महिषासुरनाशिनी ।
माया पद्मावती स्वाहा सप्तार्णा परिकीर्त्तिता ।। १३ ।।
पद्मावती पद्मसंस्था पश्चिमे मां सदाऽवतु ।
पाशांकुश पुटा मायेहि परमेश्वरि स्वाहा ।। १४ ।।
त्रयोदशार्णा ताराद्या साश्वारूढाऽनलेऽवतु ।
सरस्वति पंचस्वरे नित्यक्लिन्ने मदद्रवे ।। १५ ।।
स्वाहा वस्वक्षरी विद्या मामुत्तरे सदाऽवतु ।
तारं माया तु कवचं खे रक्षेत्सततं वधूः ।। १६ ।।
हूं क्षें ह्रीं फट् महाविद्या द्वादशार्णाखिलप्रदा ।
त्वरिताष्टाहिभिः पायाच्छिवकोणे सदा च माम ।। १७ ।।
ऐं क्लीं सौः सततं बालामूर्द्धदेशे ततोऽवतु ।
बिंद्वन्ता भैरवी बाला भूमौ मां सर्वदाऽवतु ।। १८ ।।
इति ते कथितं पुण्यं त्रैलोक्यमङ्गलं परम् ।
सारात्सारतरं पुण्यं महाविद्यौघविग्रहम् ।। १९ ।।
अस्यापि पठनात् सद्यः कुबेरोपि धनेश्वरः ।
इन्द्राद्याः सकला देवा धारणात्पठनाद्यतः ।
सर्वसिद्धीश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः ।
पुष्पाञ्जल्यष्टकं दत्त्वामूलेनैव सकृत्पठेत् ।। २० ।।
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
प्रीतिमन्योन्यतः कृत्वा कमला निश्चला गृहे ।। २१ ।।
बाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः ।
यो धारयति पुण्यात्मा त्रैलोक्यमङ्गलाभिधम् ।। २२ ।।
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ।। २३ ।।
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।
बहुपुत्रवती भूयाद्वन्ध्यापि लभते सुतम् ।। २४ ।।
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ।
एतत् कवचमज्ञात्वा यो भजेद्भुवनेश्वरीम् ।। २५ ।।
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमापुन्यात् ।। २७ ।।

इति श्रीरुद्रयामले देवीश्वरसंवादे त्रैलोक्यमङ्गलं नाम
भुवनेश्वरीकवचं समाप्तम् ।

अथ अन्नपूर्णास्तोत्रम् ।

ओं नमः कल्याणदे देवि नमः शङ्करवल्लभे ।
नमो भक्तिप्रिये देवि ह्यन्नपूर्णे नमोऽस्तु ते ।। १ ।।
नमो मायागृहीताङ्गी नमः शङ्करवल्लभे ।
माहेश्वरि नमस्तुभ्यमन्नपूर्णे नमोऽस्तु ते ।। २ ।।
अन्नपूर्णे हव्यवाहपत्नीरूपे हर प्रिये ।
कलाकाष्ठास्वरूपे च ह्यन्नपूर्णे नमोऽस्तु ते ।। ३ ।।
उद्यद्भानुसहस्राभे नयनत्रयभूषिते ।
चन्द्रदूडे महादेवि ह्यन्नपूर्णे नमोऽस्तु ते ।। ४ ।।
विचित्रवसने देवि त्वन्नदानरतेऽनघे ।
शिवनृत्यकृतामोदे ह्यन्नपूर्णे नमोऽस्तु ते ।। ५ ।।
षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये ।
ब्रह्माण्यादिस्वरूपे च ह्यन्नपूर्णे नमोऽस्तु ते ।। ६ ।।
देवि चन्द्रकलापीठे सर्वसाम्राज्यदायिनी ।
सर्वानन्दकरे देवि ह्यन्नपूर्णे नमोऽस्तु ते ।। ७ ।।
साधकाभीष्टदे देवि भवदुःख विनाशिनि ।
कुचभारनते देवि ह्यन्नपूर्णे नमोऽस्तु ते ।। ८ ।।
इन्द्राद्यर्चित पादाब्जे रुद्रादिरूपधारिणि ।
सर्वसम्पत्प्रदे देवि ह्यन्नपूर्णे नमोऽस्तु ते ।। ९ ।।
पूजाकाले पठेद्यस्तु स्तोत्रमेतत् समाहितः ।
तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ।। १० ।।
प्रातःकाले पठेद्यस्तु मन्त्रजापपुरःसरम् ।
तस्यैवान्नसमृद्धिः स्याद्बर्द्धमाना दिने दिने ।। ११ ।।
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।
प्रकाशात् सिद्धिहानिस्तद्गोपायेद्यत्नतः सुधीः ।। १२ ।।

इत्यन्नपूर्णास्तोत्रं समाप्तम् ।

अथ अन्नपूर्णाकवचम् ।

श्रीदेव्युवाच :

कथिताश्चान्नपूर्णाया या या विद्याः सुदुर्लभाः ।
कृपया कथिताः सर्वाः श्रुताश्चाधिगता मया ।। १ ।।
साम्प्रतं श्रोतुमिच्छामि कवचं यत्पुरोदितम् ।
त्रैलोक्यमङ्गलं नाम कवचं मन्त्रविग्रहम् ।। २ ।।

ईश्वर उवाच :

शृणु पार्वति वक्ष्यामि सावधानवधारय (त्रैलोक्यमङ्गलं
नामकवचं ब्रह्मनामकम्) ।
ब्रह्मविद्यास्वरूपञ्च महदैश्वर्यदायकम् ।
पठनाद्धारणान्मर्त्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ।। ३ ।।
त्रैलोक्य-रक्षणस्यास्य कवचस्य ऋषिः शिवः ।
छन्दो विराडन्नपूर्णा देवता सर्वसिद्धिदा
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ।। ४ ।।
ह्रीं नमो भगवत्यन्ते माहेश्वरि पदं ततः ।। ५ ।।
अन्नपूर्णे ततः स्वाहा चैषा सप्तदशाक्षरी ।
पातु मामन्नपूर्णा सा या ख्याता भुवनत्रये ।। ६ ।।
विमाया प्रणवाद्यैषा तथा सप्तदशाक्षरी ।
पात्वन्नपूर्णा सर्वाङ्गे रत्नकुम्भान्नपात्रदा ।। ७ ।।
श्रीबीजाद्या तथैवैषा द्विरन्ध्रार्णा तथा मुखम् ।
प्रणवाद्या भ्रुवौ पातु कण्ठं वाग्बीजपूर्विका ।। ८ ।।
कामबीजादिका चैषा हृदयं तु महेश्वरी ।
तारं श्रीं ह्रीं च नमोन्ते च भगवतीपदं ततः ।। ९ ।।
माहेश्वरी पदं चान्नपूर्णे स्वाहेति पातु मे ।
नाभिमेकार्णविंशर्णा पायान्माहेश्वरी सदा ।। १० ।।
तारं माया रमा कामः षोडशार्णास्ततः परम् ।
शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा ।। ११ ।।
करौ पादौ सदा पातु रमा कामो ध्रुवस्तथा ।
ध्वजञ्च सर्वदा पातु विंशत्यर्णात्मिका च या ।। १२ ।।
अन्नपूर्णा महाविद्या ह्रीं पातुभुवनेश्वरी ।
शिरः श्रीं ह्रीं तथा क्लीं च त्रिपुटा पातु मे गुदम् ।। १३ ।।
षट्दीर्घभाजा बीजेन षडङ्गानि पुनन्तु माम् ।
इन्द्रो मां पातु पूर्वे च वह्निकोणेऽनलोऽवतु ।। १४ ।।
यमो मां दक्षिणे पातु नैर्-ऋत्यां निर्-ऋतिस्तथा ।
पश्चिमे वरुणः पातुवायव्यां पवनोऽवतुस्तथा ।। १५ ।।
कुबेरश्चोत्तरे पातु मामैशान्यं शङ्करोऽवतु ।
ऊर्ध्वाधः पातु सततं ब्रह्मानन्तो यथा क्रमात् ।। १६ ।।
पान्तु वज्राद्ययुधानि दशदिक्षु यथा क्रमात् ।
इति ते कथितं पुण्यं त्रैलोक्यरक्षणं परम् ।। १७ ।।
यद्धृत्वा पठनाद्देवाः सर्वैश्वर्यमवाप्नुयुः ।
ब्रह्मा विष्णुश्च रुद्रश्च धारणात्पठनाद्यतः ।। १८ ।।
सृजत्यवति कल्पे-कल्पे पृथक् पृथक् ।
पुष्पाञ्जल्यष्टकं देव्यै मूलेनैव समर्पयेत् ।। १९ ।।
कवचस्यास्य पठनात् पूजायाः फलमाप्नुयात् ।
वाणी वक्त्रे वसेत् तस्य सत्यं सत्यं न संशयः ।। २० ।।
अष्टोत्तरशतं चास्य पुरश्चर्याविधिः स्मृतः ।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि ।। २१ ।।
कण्ठे वा दक्षिणे बाहौ सोपि पुण्यवतां वरः ।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रं प्राप्य पार्वति ।
माल्यानि कुसुमान्येव सुखदानि भवन्ति हि ।। २२ ।।

इति भैरवतन्त्रे भैरवभैरवीसंवादे अन्नपूर्णा कवचं
समाप्तम् ।

अथ त्रिपुटास्तोत्रम् :

वाराभीतिहस्तं द्विबाहुं प्रसन्नं, शिवं सुप्रसन्नं
स्वशक्त्योपविष्टम् ।
प्रसन्नास्यविम्बं प्रकाशस्वरूपं शिरः पद्ममध्ये गुरुं
भावयामि ।। १ ।।
बकं वह्निसंस्थं त्रिमूर्त्त्या प्रजुष्टं, शशाङ्केन युक्तं
तवाद्यं स्वबीजम् ।
सुवर्णप्रभं ये जपन्ति त्रिशक्ते, श्रियं सौभगत्वं लभन्ते
नरास्ते ।। २ ।।
नभोवायुमित्रं ततो वामनेत्रं, सुधाधामविम्बं
नियोज्यैकवक्त्रम् ।
द्वितीयं स्वबीजं सुरश्रेणिवन्द्यं त्वदीयं विभाव्य श्रियं
प्राप्नुवन्ति ।। ३ ।।
विरिञ्चिं क्षितिस्थं ततो वामनेत्रं विधुं नादयुक्तं
दिनेशाभबीजम् ।
विभाव्यैव सम्मोहयन्ति त्रिलोकीं जपादीश्वरत्वं लभन्ते
नरेन्द्राः ।। ४ ।।
त्रयं सन्नियोज्य स्मरारिप्रिये ये, त्रिसन्ध्यं जपन्ति त्वदङ्गं
विभाव्य ।
न तेषां रिपुर्वाक्प्रयोग करोति, स्मरास्तेऽङ्गनानां गृहे श्रीस्तु
तेषाम् ।। ५ ।।
मुखे भारती गद्यपद्यप्रबन्धा, न हिंसन्ति हिंस्राः
सुरास्तान्नमन्ति ।
तदंघ्रिद्वयं भूषणं मूर्ध्नि राज्ञां करे सिद्धयो
दुर्ग्रहास्तांस्त्यजन्ति ।। ६ ।।
वने पारिजातद्रुमाणां वृथिव्यां सुवर्णप्रभायां
मणिव्यूहगेहे ।
स्मरेद्वेदिकायां लसद्रत्नसिंहासने पद्ममष्टारकं
संविचिन्त्य ।। ७ ।।
स्फुरत्कर्णिकायां परं योनियुग्मं
तदन्तर्गतामुञ्चहेमप्रभां याम् ।
लसत्कुण्डलामिन्दुवक्त्रां त्रिनेत्रां स्फुरत्कम्बुकण्ठां
सुवक्षोजनभ्राम् ।। ८ ।।
महारत्नवज्रोल्लसद्बाहुवृन्दैः सुपद्मद्वयं पाशकं
कार्मुकञ्च ।
सुवर्णांकुशं पुष्पबाणान् ।
दधानां बृहद्रत्न भूषां सुमध्यां सुकाञ्चीम् ।। ९ ।।
तुलाकोटिरस्यस्फुरत्पादपद्मां किरीटद्यलंकारयुक्तां
प्रसन्नाम् ।
सिते चामरे दर्पणं तत्करण्डं समुद्गं सुकर्पूरपूर्णं
धृताभिः ।। १० ।।
त्रिलोकीविधात्रीं जगत्तापहर्त्रीं, जगत्क्षोभकर्त्रीम्
जगल्लोकधात्रीम् ।
सदानन्दपूर्णां हकारार्द्धवर्णां त्रिबिन्दुस्वरूपां
त्रिशक्तिं भजामि ।। ११ ।।
चिरं चिन्तयित्वा तदेतत् स्वरूपां, पूरो यन्त्रमध्ये समावाह्य
भक्त्या ।
स्वयम्भूप्रसूनादिभिः पूजयित्वा, चतुवर्गसिद्धिं लभेत्
पामरोऽपि ।। १२ ।।
श्रियं श्रीपतिं पार्वतीमीश्वरञ्च, रतिं कामदेवं षडङ्गेन
सार्द्धम् ।
स्वयोनौ तथा मन्त्रमुक्त्वा भवानीं क्रमात् पूजयित्वा नरेन्द्रो
भवेत् सः ।। १३ ।।
निधी द्वौ च पार्श्वद्वये संविभाव्य, प्रपूज्या महिष्यस्ततो
लोकपालाः ।
तदस्त्राणि तत्तद्दलाग्रे प्रपूज्य, भवस्याष्टसिद्धिं
लभेन्मानवोऽपि ।। १४ ।।
क्षितिस्तवं विधात्री जगत्सृष्टिकर्त्री, त्वमापोऽपि विष्णुर्जगत्पालिका
च ।
त्वमग्निस्तु रुद्रौ जगत्क्षोभकर्त्री, त्वमैश्वर्ययुक्ता
जगद्वायुरूपा ।। १५ ।।
त्वमाद्या शिवे शम्भुकान्ते शरण्ये, जगद्ब्रह्मरन्ध्रे सदारं
भ्रमीषि ।
निराधारगम्या भवस्यैकपूण्या, त्वमाकाशकल्पा भवानि
प्रसीद ।। १६ ।।
भवाम्भोधिमध्ये निपात्यैव सर्वं, मुनीनाञ्च गर्वं
सुखर्वं करोषि ।
अतस्तां न जाने चिदानन्दरूपे, प्रकाशस्वरूपे भवानि प्रसीद ।।
१७ ।।
जपित्वा भक्त्या जनो मन्दचेता, जपन्नेकलक्षं कवित्वं करोति ।
विचिन्त्य स्वरूपं त्वदीयं त्रैलोक्यां, लभेद्दुर्लभत्वं भवानि
प्रसीद ।। १८ ।।
त्वमाधारशक्तिस्त्वमाधेयरूपा, जगद्व्यापिका त्वं
जगद्व्याप्यरूपा ।
अभावस्त्वमेका गुणातीतरूपा त्वमेवासि भावो भवानि प्रसीद ।।
१९ ।।
अणुस्त्वं विभुस्त्वं त्वमेवासि विश्वं, स्तुतिः का भवत्या
जगत्यां विभाति ।
तथापि त्वदीया गुणा मां दिशन्ति, स्तुतिं कर्त्तुमेवं भवानि
प्रसीद ।। २० ।।
इदं स्तोत्रमत्यन्तगुह्यं नरा ये, पठन्ति त्रिसन्ध्यं कुलान्ते
जपित्वा ।
न तेषामसाध्यं त्रिलोकीजनानां, लभन्ते स्वरूपं भवानि
प्रसीद ।। २१ ।।

इति त्रिपुटास्तोत्रं समाप्तम् ।

अथ त्रिपुटाकवचम् :

श्रीदेव्युवाच :

भगवन्-सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ।
त्रिशक्तिरूप लक्ष्म्याश्च कवचं यत्प्रकाशितम् ।
सर्वार्थसाधनं नाम कथयस्व मयि प्रभो ।। १ ।।

ईश्वर उवाच :

शृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ।
सर्वार्थसाधनं नाम त्रैलोक्ये चातिदुर्लभम् ।। २ ।।
सर्वसिद्धिमयं देवि सर्वैश्वर्यप्रदायकम् ।
पठनाद्धारणान्मर्त्त्यस्त्रैस्लोकैश्वर्यभाग्भवेत् ।। ३ ।।
सर्वाथसाधनस्यास्य कवचस्य ऋषिः शिवः ।
छन्दो विराट् त्रिशक्तिः श्रीर्जगद्धात्री च देवता ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तित ।। ४ ।।
श्री बीजं मे शिरः पातु लक्ष्मीरूपा ललाटकम् ।
ह्रीं पातु दक्षनेत्रं मे वामनेत्रं सुरेश्वरी ।। ५ ।।
क्लीं पातुदक्षपार्श्वे मे वामं कामेश्वरी तथा ।
लक्ष्मीर्घ्राणं सदा पातु वदनं केशवः ।। ६ ।।
गौरी तु रसनां पातु कण्ठं पातु महेश्वरः ।
स्कन्धदेश रतिः पातु भुजौ तु मकरध्वजः ।। ७ ।।
शंखनिधिः करौ पातु वक्षः पद्मनिधिस्तथा ।
ब्राह्मी कुक्षिं सदा पातु नाभि पातु महेश्वरी ।। ८ ।।
कौमारी पृष्ठदेशं मे गुह्यं रक्ष तु वैष्णवी ।
वाराही सक्थिनी पातु ऐन्द्री पातु पदद्वयम् ।। ९ ।।
भार्यां रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान् ।
इन्द्रः पूर्वे सदा पातु आग्नेयामग्निदेवता ।। १० ।।
याम्ये यमः सदा पातु नैर्-ऋत्यां निर्-ऋतिस्तथा ।
पश्चिमे वरुणः पातु वायव्यां वायुदेवता ।। ११ ।।
सौम्ये सोमः सदा पातु ऐशान्यामीश्वरोऽवतु ।
ऊर्ध्वं प्रजापतिः पातु अधश्चानन्तदेवता ।। १२ ।।
राजद्वारे श्मशाने च अरण्ये प्रान्तरे तथा ।
जले स्थले चान्तरीक्षे शत्रूणां निचये तथा ।। १३ ।
एताभिः सहिता देवी त्रिबीजात्मा महेश्वरी ।
त्रिशक्तिश्च महालक्ष्मीः सर्वत्र मां सदावतु ।। १४ ।।
इति ते कथितं देवि सारात्सारतर परम् ।
सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ।। १५ ।।
अस्यापि पठनात्सद्यः कुबेरोऽपि धनेश्वरः ।
इन्द्राद्याः सकला देवा धारणात् पठनाद्यतः ।
सर्वसिद्धिश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः ।। १६ ।।
पुष्पाञ्जल्यष्टकं दद्यान्मूलेनैव पठेत्सकृत् ।
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।। १७ ।।
प्रीतिमन्योन्यतः कृत्वा कमला निश्चला गृहे ।
वाणी च निवसद्वक्त्रे सत्यं सत्यं न संशयः ।। १८ ।।
यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ।
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ।। १९ ।।
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।
बहुपुत्रवती भूत्वा बन्ध्यापि लभते सुतम् ।। २० ।।
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तत्तनुम् ।
एतत् कवचमज्ञात्वा यो जपेत् परमेश्वरी ।
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ।। २ ।।

इति रुद्रयामले त्रिशक्त्याः सर्वार्थ साधनं नाम कवचं
समाप्तम् ।

अथ दुर्गायाः शतनामस्तोत्रम् ।

ईश्वर उवाच :

शतनाम प्रवक्ष्यामि शृणुष्व कमलानने ।
अस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ।। १ ।।
ओं सती साध्वी भव प्रीता भवानि भवमोचिनी ।
आर्या दुर्गा जया आद्या त्रिनेत्रा शूलधारिणी ।। २ ।।
पिनाकधारिणी चित्रा चन्द्रघण्टा महातपाः ।
मनोबुद्धिरहङ्कारा चित्तरूपा चिता चितिः ।। ३ ।
सर्वमन्त्रमयी सत्या सत्यानन्दस्वरूपिणी ।
अनन्ता भाविनी भाव्या भव्याऽभव्या सदागतिः ।। ४ ।।
शम्भुपत्नी देवमाता च चिन्ता रत्नप्रिया सदा ।
सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ।। ५ ।।
अपर्णा चैकवर्णा च पाटला पाटलावती ।
पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी ।। ६ ।।
अमेयविक्रमा त्रूरा सुन्दरी कुलसुन्दरी ।
वनदुर्गा च मतङ्गी मतङ्गमुनिपूजिता ।। ७ ।।
ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ।
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ।। ८ ।।
विमलोत्कर्षिणी ज्ञाना क्रिया सत्या च वाक्प्रदा ।
बहुला बहुलप्रेमा सर्ववाहनवाहना ।। ९ ।।
निशुम्भशुम्भहनिनी महिषासुरमर्दिनी ।
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ।। १० ।।
सर्वासुरविनाशा च सर्वदानवघातिनी ।
सर्वशास्त्रमयी विद्या सर्वास्त्रधारिणी तथा ।। ११ ।।
अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी ।
कुमारी चैक कन्या च कैशोरी युवती यतिः ।। १२ ।।
अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा ।
महादेवी मुक्तकेशी घोररूपा महाफला ।। १३ ।।
अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी ।। १४ ।।
नारायणी भद्रकाली विष्णुमाया जलोदरी ।। १५ ।।
शिवदूती कराली च अनन्ता परमेश्वरी ।
कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ।। १६ ।।
य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् ।
नासाध्यं विधते देवि त्रिषु लोकेषु पार्वति ।। १७ ।।
धनं धान्यं सुतं जायां द्वयं हस्तिमेव च ।
चतुरङ्गं तथा चान्ते लाभेन्मुक्तिञ्च शाश्वतीम् ।। १८ ।।
कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् ।
पूजयेत् परया भक्त्या पठन्नामशताष्टकम् ।। १९ ।।
तस्या सिद्धिर्भवेद्देवि सर्वैः सुरवरैरपि ।
राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात् ।। २० ।।
गोरोचनालक्तककुंकुमेन, सिन्दूरकर्पूरमधुत्रयेण ।
विलिख्य यन्त्रं विधिना विधिज्ञो, भवेत्सदा धारयते पुरारिः ।। २१ ।।
भौमावास्यानिशाभागे चन्द्रे शतभिषां गते ।
विलिख्य प्रपठेत् स्तोत्रं स भवेत् सम्पदा प्रदम् ।। २२ ।।

इति विश्वसारतन्त्रे दुर्गानामस्तोत्रं समाप्तम् ।

अथ श्रीदुर्गाकवचम् ।

ईश्वर उवाच ।

शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा धारयित्वा च नरो मुच्येत सङ्कटात् ।। १ ।।
अज्ञात्वा कवचं देवि दुर्गामन्त्रञ्च यो जपेत् ।
स नाप्नोति फलं तस्य परे च नरकं व्रजेत् ।। २ ।।
इदं गुह्यतमं देवि कवचं तव कथ्यते ।
गोपनीयं प्रयत्नेन सावधानावधारय ।। ३ ।।
उमा देवी शिरः पातु ललाटं शूलधारिणीं ।
चक्षुषो खेचरी पातु कर्णौ चत्वरवासिनी ।। ४ ।।
सुगन्धा नासिके पातु वदनं सर्वसाधिनी ।
जिह्वां च चण्डिका पातु ग्रीवां सौभद्रिका तथा ।। ५ ।।
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।
कण्ठ पातु महावाणी जगन्माता स्तनद्वयम् ।। ६ ।।
हृदयं ललिता देवी उदरं सिंहवाहिनी ।
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ।। ७ ।।
महाबला च जंघे द्वे पादौ भूतलवासिनी ।
एवं स्थितासि देवि त्वं त्रैलोक्य रक्षणात्मिके ।
रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते ।। ८ ।।
इत्येत्कवचं देवि महाविद्याफलप्रदम् ।
यः पठेत् प्रातरुत्थाय सर्वतीर्थफलं लभेत् ।। ९ ।।
यो न्यसेत् कवचं देहे तस्य विघ्नं न कुत्रचित् ।
भूतप्रेतपिशाचेभ्यो भयन्तस्य न विद्यते ।। १० ।।
रणे राजकुले वापि सर्वत्र विजयी भवेत् ।
सर्वत्र पूजामाप्नोति देवीपुत्र इव क्षितौ ।। ११ ।।

इति कुब्जिका तन्त्रे दुर्गाकवचं समाप्तम् ।।

अथ महिषमर्दिनीस्तोत्रम् ।

भैरव उवाच :

मच्चित्ते चर चण्डि चूर्णितदुराचारप्रचण्डासुरे, स्वैरं दारय
भूरिदुर्द्दरदरद्रोहोर्मिमर्मापदः ।
तोनायं निरुपद्रुतो निरुपम श्रीपादपद्माटवी
प्राप्तानन्तरसार्णवे मम मनोहंसश्चिरं नन्दतु ।। १ ।।
हित्वा चण्डि हिरण्यदारण
पटुप्रोद्दामहस्तांगुलिस्फायत्कम्रसुमेरुसोदरशटाटोपं
नृसिंहं सुराः ।
मातस्त्वत्पशुपाशपेषणपटु-श्रीपादसंसेविनं, सेवन्ते
करिवैरिण किमरिभिर्भीतिर्भवत्सेविनाम् ।। २ ।।
चण्डि त्वद्विषयान्तराक्षरपदं श्रोत्रान्तरञ्चेद्गतं, तत्तत्त्वं
पुरुषप्रकृत्यनुगतं ब्रह्मादिभिर्गीयते ।
तस्माद्देवि समस्तदैवतसुधासारैकधामस्फुरत्-श्रीमत्पादप-
योजचुम्बनपरं मामद्य सम्भावय ।। ३ ।।
मन्निन्दा यदि वास्तु ते कुलपथाचाराद्वरं मास्तु वा, किर्त्तिः
केशवकौशिकार्च्चनचरी नैवास्तु मत्सन्निधिः ।
मातर्ब्रह्महरिस्मरारि हुतभुग्दैत्यारिसेवास्पदं,
श्रीमत्पादपयोजचिन्तनविधौ चित्तं सदैवास्तु नः ।। ४ ।।
निर्दिष्टोऽस्मि यदि तदीयपदयुक्पूर्वापरीभावने, निर्द्दिष्टस्य तदा
ममापि विरलं किं वास्तु सिद्धास्पदम् ।
तस्माद्देवि कृपाभराञ्चिततरं श्रीपादपद्मद्वयं,
मच्चित्तेऽक्षतसम्पदं प्रसरतु क्षेमङ्करि क्षम्यताम् ।। ५ ।।
स्वात्मानं परिरभ्य भूतपतिरप्युन्मादमासादितः, स्फारं
जीवनरक्षणे स च कृती नैवाभविष्यत् प्रभुः ।
दैवाद्विच्युतचन्द्रचन्दनरस
प्रागल्भ्यगर्भस्रवन्माध्वीपूर्णभवत्पदैककमलामोदेन
नास्वादितः ।। ६ ।।
हाहा मातरनादि-
मोहजलधिव्याहारसिद्धाखिलब्रह्मानन्दरसाभिषेक
विलसत्स्वान्तोदरे मादृशि ।
युष्माकं सुरवृन्दनिर्भरमनस्तापाभिभूतिक्षमः
श्रीमद्भक्तिरसातिदुर्द्दिनपरीवाहः सदा सर्पतु ।। ७ ।।
तत्पादस्फुरदंशुजालजठराच्चण्डांशुकोटिस्खलद्ध्वान्तस्वा-
न्तविसारिनिर्मलचिदानन्दत्रयं दैवतम् ।
सर्गं संसृजति स्थितिं वितनुते सृष्टिं पुनर्लुम्पति,
प्रोद्भिन्नाञ्जन नीलनीरदमहश्चित्ते सदैवास्तु नः ।। ८ ।।
या शस्वन्महिषच्छलस्फुटमिलद्गर्जद्विधावत्स्खलद्वक्त्रान्तः
प्रसरत्तमस्तमशिरोदैत्यं समालम्बते ।
सा दुर्गा भयदुर्ग दुर्गतिहरा लक्षान्तरत्रासिनी,
दृष्यद्दैवतवैरिदारणपटुर्जीयाज्जयाह्लादिनी ।। ९ ।।
नृत्यत्खेटकचामराञ्चलचलच्छक्राद्यखर्वावरस्फायत्सैन्य-
शिलीमुखोच्छलदनल्पाजिह्मताम्राम्बुधौ ।
झञ्झावातविसर्पिनर्त्तितशिरः-साटोपदुष्टासुरक्रट्यत्-
खण्डविखण्डताखिलशकुन्तक्षुत्पिपासोज्ज्वले ।। १० ।।
चञ्चत्कम्रविरामकालकालतीव्रास्फालसम्पादकोन्माद्यन्माहिष
-तिर्यगानतशिरः-शृङ्गान्तराले स्थले ।
वस्वर्णैर्वसुपत्रमध्यकलितैर्वद्धा श्रुतीर्मातृभिः सेव्ये
चारुणाङ्गने रणमुदा घूर्णायमानां स्मरेत् ।। ११ ।।
ऊर्ध्वाधः क्रमसव्यवामकरयोश्चक्रं दरं कर्तृकां,
खेटं बाणधनुस्त्रिशूलभयहृन्मुद्रां दधानां शिवाम् ।
श्यामां नीलघनोच्चकुन्तलचयप्रोन्नद्धजूटां
स्खलद्वीरास्फाललसत्करालवदनां घोराट्टहासोद्भटाम् ।। १२ ।।
एवं ये तव देवि मूर्त्तिमनघां ध्यायन्ति दुर्गादिभिः,
शक्राद्यैरभिपूजितां परपुरक्षोभादिकं कुर्वते ।
राज्यं शत्रुजयः सदर्थधीषणा
काव्यामृतादर्शनस्तम्भोच्चटनमारणादिकृतिनां तेषां
स्वयं जायते ।। १३ ।।
स्तोत्रं ते चरणारविन्दयुगलध्यानावधानाग्मया
मन्त्रोद्धारकुलोपचारचरितं गूढोपदिष्टं यदि ।
ये शृण्वन्ति पठन्ति देवि तरसा श्रीमोक्षकामादयस्तेषां
हस्तगता भवन्ति जगतां मातर्नमस्ते जयः ।। १४ ।।

इति महिषमर्द्दिनीस्तोत्रं समाप्तम् ।

अथ महिषमर्द्दिनीकवचम् ।

ईश्वर उवाच :

अथवक्ष्ये महेशानि कवचं सर्वकामदम् ।
यस्य प्रसादमासाद्य भवेत्साक्षात्सदाशिवः ।। १ ।।
ओंकारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये ।
प्रपठेत्कवचं नित्यं मन्त्रवर्णस्य सिद्धये ।। २ ।।
महिषमर्द्दिन्याः कवचस्य भगवान्महाकाल-
ऋषिरनुष्टुप्छन्दः ।
आद्याशक्तिर्देवता चतुर्वर्गफलप्राप्तये विनियोगः ।। ३ ।।
क्लीं पातु मस्तके देवी कामिनी कामदायिनी ।
मकारः पातु मां देवी चक्षुर्युग्मे महेश्वरी ।। ४ ।।
हिकारः पातु वदनं हिंगुलासुरनायिका ।
षकारः पातु मां श्वेता जिह्वायाञ्चापराजिता ।। ५ ।।
मकारः पातु मां देवी मर्द्दिनि सुरनायिका ।
र्द्दिकारः पातु मां देवी सावित्री कालनाशिनी ।। ६ ।।
निकारः पातु मां नित्या हृदये बाहुपार्श्वयोः ।
नाभौ लिङ्गे गुदे कण्ठे कर्णयोः पृष्ठस्तथा ।
शिखायां कवचे पादे मुखे जङ्घायुगे तथा ।। ७ ।।
सर्वाङ्गे पातु मां स्वाहा सर्वशक्ति समन्विता ।
कामाद्या पातु मां स्वाहा सर्वाङ्गे मर्द्दिनी शिरः ।। ८ ।।
दशाक्षरी महाविद्या सर्वाङ्गे पातु मर्द्दिनी ।
मर्द्दिनी पातु सततं मर्द्दिनी रक्षयेत् सदा ।। ९ ।।
राजस्थाने तथा दुर्गे सिंहव्याघ्रभयादिषु ।
श्मशाने प्रान्तरे दुर्गे नौकायां वह्निमध्यतः ।
मर्द्दिनी पातु सततं मर्द्दिनी रक्षयेत् सदा ।। १० ।।
दुर्गा पातु सदा देवी आर्या पातु सदा मम ।
प्रभा पातु महेशानि कनका सर्वदावतु ।। ११ ।।
कृत्तिका पातु सततं अभया सर्वदावतु ।
प्रभा पातु महामाया माया पातु सदा मम् ।। १२ ।।
प्रभा पातु महेशानि विमला पातु सर्वदा ।
नन्दिनी पातु सततं सुप्रभा सर्वदावतु ।। १३ ।।
विजया पातु सर्वत्र देव्यङ्गे नवशक्तयः ।
शक्तयः पान्तु सततं मुद्रां पान्तु सदा मम् ।। १४ ।।
जया पातु सदा सूक्ष्मा विशुद्धा पातु सर्वदा ।
योगिन्यः पान्तु सततं खेचर्यः पान्तु सर्वदा ।। १५ ।।
डाकिन्यः पान्तु सततं सिद्धाः पान्तु सदा मम् ।
सर्वत्र सर्वदा पातु देवी महिषमर्द्दिनी ।। १६ ।।
इति ते कथितं दिव्यं कवचं सर्वकामदम् ।
यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्नतः ।। १७ ।।
गोपितं सर्वतन्त्रेषु विश्वसारे प्रकीर्त्तितम् ।
सर्वत्र सुलभा विद्या कवचं दुर्लभं महत् ।। १८ ।।
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ।
न्यूनाङ्गे अतिरिक्तांगे क्रूरेमिथ्याभिभाषणे ।
न स्तवं दर्शयेद्दिव्यं कवचं सुरदुर्लभम् ।। १९ ।।
यत्र तत्र न वक्तव्यं शङ्करेण च भाषितम् ।
दत्त्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात् ।। २० ।।
मन्त्राः पराङ्मुखा यान्ति शापं दत्त्वा सुदारुणम् ।
अशुभञ्च भवेत् तस्य तस्माद्यत्नेन गोपयेत् ।। २१ ।।
गोरोचना कुंकुमेन भूर्जपत्रे महेश्वरि ।
लिखित्वा शुभयोगे च ब्रह्मेन्द्रे वैधृतौ तथा ।। २२ ।।
आयुष्मत् सिद्धियोगे वा ववे वा कौलवे तथा ।
वणिजे श्रवणायाञ्च रेवत्यां वा पुनर्वसौ ।। २३ ।।
उत्तरात्रययोगे हि तथा पूर्वात्रयेषु च ।
अश्विन्यां वा रोहिण्यां वा तृतीयानवमीतिथौ ।। २४ ।।
अष्टम्यां वा चतुर्द्दश्यां षष्ठ्यां वा पञ्चमीतिथौ ।
कुह्वां वा पूर्णिमायां वा निशायां प्रान्तरे तथा ।। २५ ।।
एकलिंगे श्मशाने च शून्यागारे शिवालये ।
गुरुणा वैष्णवौर्वपि स्वयम्भूकुसुमैस्तथा ।। २६ ।।
शुक्लैर्वा रक्तकुसुमैश्चन्दनैः रक्तसंयुतैः ।
शवाङ्गारैश्चितावस्त्रे लिखित्वा धारयेत् पुनः ।
तस्य सर्वार्थसिद्धिः स्यात्शङ्करेण च भाषितम् ।
कुमारीं पूजयित्वा तु देवी सूक्तं निवेद्य च ।
पठित्वा भोजयेद्विप्रान् प्रवरान्वेदपारगान् ।
आखेटकमुपाख्यानं कुर्याच्चैव दिनत्रयम् ।
तदा धरेन्महारक्षां कवचं सर्वकामदम् ।। २८ ।।
नाधयो व्याधयस्तस्य दुःखशोकभयं क्वचित् ।
वादी मूको भवेद्दृष्ट्वा राजा च सेवकायते ।। १९ ।।
मासमेकं पठेद्यस्तु प्रत्यहं नियतः शुचिः ।
दिवा भवेद्धविष्याशी रात्रौ शक्तिपरायणः ।
षट्सहस्रप्रमाणेन प्रत्यहं प्रजपेत् सदा ।
षण्मासैर्वा त्रिभिर्मासैः खेचरो भवति ध्रुवम् ।। ३० ।।
अपुत्रो लभते पुत्रधनो धनवान्भवेत् ।
अरोगी बलवांश्चैव राजा च दासतामियात् ।। ३१ ।।
रजस्वलाभगे नित्यं जपेद्विद्यां विशेषतः ।
य एवं कुरुते धीमान् स एव श्रीसदाशिवः ।। ३२ ।।

इति विश्वसारतन्त्रे महिषमर्द्दिनीकवचं समाप्तम् ।

अथ लक्ष्मीस्तोत्रम् ।

ईश्वर उवाच :

त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे ।
यथा त्वमचला कृष्णे तथा भव मयि स्थिरा ।। १ ।।
ईश्वरी कमला चञ्चला लक्ष्मीश्चला भूतिर्हरिप्रिया ।
पद्मा पद्मालया सम्पदुच्चैः श्रीपद्मधारिणी ।। २ ।।
द्वादशैतानि नामानि लक्ष्मीं सम्पूज्य यः पठेत् ।
स्थिरा लक्ष्मीर्भवेत् तस्य पुत्रदारादिभिः सह ।। ३ ।।

इति विश्वसारतन्त्रे लक्ष्मीस्तोत्रं समाप्तम् ।

अथ अक्ष्मीकवचम् ।

ईश्वर उवाच :

अथ वक्ष्ये महेशानि कवचं सर्वकामदम् ।
यस्य विज्ञानमात्रेण भवेत् साक्षात्सदाशिवः ।। १ ।।
नार्चनं तस्य देवेशि मन्त्र मात्रं जपेन्नरः ।
स भवेत् पार्वतीपुत्रः सर्वशास्त्रपुरस्कृतः ।। २ ।।
विद्यार्थिनां सदा सेव्या धनदात्री विशेषतः ।
विद्यार्थिभिस्सदा सेव्या कमला विष्णुवल्लभा ।। ३ ।।

अस्याश्चतुरक्षरीविष्णुवनितायाः कवचस्य श्रीभगवान् शिव
ऋषिरनुष्टुप्छन्दो वाग्भवी देवता वाग्भवं बीजं लज्जा शक्तिः
रमा कीलकं कामबीजात्मकं कवचं मम
सुकवित्वसुपाण्डित्यसर्वसिद्धिसमृद्धये विनियोगः ।

ऐंकारो मस्तके पातु वाग्भवी सर्वसिद्धिदा ।
ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी ।। ४ ।।
जिह्वायां मुखवृत्ते च कर्णयोर्गण्डयोर्नसि ।
ओष्ठाधारे दन्तपंक्तौ तालुमूले हनौ पुनः ।। ५ ।।
पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी ।
कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती ।। ६ ।।
हृदये मणिबन्धे च ग्रीवायां पार्श्वयोर्द्वयोः पुनः ।
पृष्ठदेशे तथा गुह्ये वामे च दक्षिणे तथा ।। ७ ।।
उपस्थे च नितम्बे च नाभौ जङ्घाद्वये पुनः ।
जानुचक्रे पदद्वन्द्वे घुटिकगुलिमूलके ।। ८ ।।
स्वधा तु प्राणशक्त्यां वा सीमन्यां मस्तके तथा ।
सर्वांगे पातु कामेशी महादेवी समुन्नतिः ।। ९ ।।
पुष्टिः पातु महामाया उत्कृष्टः सर्वदाऽवतु ।
ऋषिः पातु सदा देवि सर्वत्र शम्भुवल्लभा ।। १० ।।
वाग्भवी सर्वदा पातु पातु मां हरगेहिनी ।
रमा पातु महादेवी पातु माया स्वराट् स्वयम् ।। ११ ।।
सर्वांगे पातु मां लक्ष्मीर्विष्णुमाया सुरेश्वरी ।
विजया पातु भवने जया पातु सदा मम ।। १२ ।।
शिवदूती सदा पातु सुन्दरी पातु सर्वदा ।
भैरवी पातु सर्वत्र भेरुण्डा सर्वदाऽवतु ।। १३ ।।
त्वरिता पातु मां नित्यमुग्रतारा सदाऽवतु ।
पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु ।। १४ ।।
नवदुर्गा सदा पातु कामाख्या सर्वदाऽवतु ।
योगिन्यः सर्वदा पान्तु मुद्राः पान्तु सदा मम ।। १५ ।।
मात्राः पान्तु सदा देव्यश्चक्रस्था योगिनीगणाः ।
सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा ।। १६ ।।
पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा ।
इति ते कथितं दिव्यं कवचं सर्वसिद्धये ।। १७ ।।
यत्र तत्र न वक्तव्यं यदीच्छेदात्मनो हितम् ।
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ।। १८ ।।
न्यूनांगेह्यतिरिक्तागे दर्शयेन्न कदाचन ।
न स्तवं दर्शयेद्दिव्यं दर्शनाच्छिवहा भवेत् ।। १९ ।।
कुलीनाय महेच्छाय दुर्गाभक्तिपराय च ।
वैष्णवाय विशुद्धाय दद्यात्कवचमुत्तमम् ।। २० ।।
निजशिष्याय शान्ताय धनिने ज्ञानिने तथा ।
दद्यात्कवचमित्युक्तं सर्वतन्त्रसमन्वितम् ।। २१ ।।
शनौ मङ्गलवारे च रक्तचन्दनकैस्तथा ।
यावकेन लिखेन्मन्त्रं सर्वचक्रसमन्वितम् ।। २२ ।।
विलिखेत्कवचं दिव्यं स्वयम्भुकुसुमैः शुभैः ।
स्वशुक्रैः पुरशुक्रैश्च नानागन्धसमन्वितैः ।। २३ ।।
गोरोचना कुंकुमेन रक्तचन्दनकेन वा ।
सुतिथौ शुभयोगे वा श्रवणायां रवेर्दिने ।। २४ ।।
अश्विन्यां कृत्तिकायां वा फल्गुन्यां वा मघासु च ।
पूर्वभाद्रपदायोगे स्वात्यां मङ्गलवासरे ।। २५ ।।
विलिखेत्प्रपठेत्स्तोत्रं शुभयोगे सुरालये ।
आयुष्मत्प्रीतियोगे च ब्रह्मयोगे विशेषतः ।। २६ ।।
इन्द्रयोगे शुभे योगे शुक्रयोगे तथैव च ।
कौलवे बालवे चैव वणिजे चैव सत्तमः ।। २७ ।।
शून्यागारे श्मशाने वा विजने च विशेषतः ।
कुमारीं पूजयित्वा च यजेद्देवीं सनातनीम् ।। २८ ।।
मत्स्यैर्मांसैः शाकपूपैः पूजयेत् परदेवताम् ।
घृताद्यैः सोपकरणैः पुष्पधूपैर्विशेषतः ।। २९ ।।
ब्राह्मणान्भोजयित्वा च पूजयेत् परमेश्वरीम् ।
आखेटकमुपाख्यानं तत्र कुर्याद्दिनत्रयम् ।। ३० ।।
तदा कुर्यान्महारक्षां शङ्करेण प्रभाषितम् ।
मारणद्वेषणादीनि लभते नात्र संशयः ।
स भवेत् पार्वतीपुत्रः सर्वशास्त्र पुरस्कृतः ।। ३१ ।।
गुरुर्देवो हरः साक्षात्पत्नी तस्य हरप्रिया ।
अभेदेन यजेद्यस्तु तस्य सिद्धिरदूरतः ।। ३२ ।।
पठति य इह मर्त्यो नित्यमार्द्रान्तरात्मा जपफलमनुमेवं
लक्ष्यते यद्विशेषम् ।
स भवति पदमुच्चैः सम्पदा
पादनम्रक्षितिपमुकुटलक्ष्मीलक्षणानां चिराय ।। ३३ ।।

इति विश्वसारतन्त्रे लक्ष्मीकवचं समाप्तम् ।

अथ सरस्वतीस्तोत्रम् ।

ब्रह्मोवाच :

ह्रीं ह्री हृद्यैकबीजे शशिरुचिकमलाकल्पविस्पष्टशोभे भव्ये
भव्यानुकूले कुमतिवनदवे विश्ववन्द्यांघ्रिपद्मे ।
पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि
प्रोत्प्लुष्टाज्ञानकूटे हरिनिजदयिते देवि संसारसारे ।। २ ।।
ऐं ऐं ऐं इष्टमन्त्रे कवलभवमुखाम्भोजभूतिस्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मेऽप्य विदितविषये नापि विज्ञाततत्त्वे विश्वं
विश्वान्तराले सुरवरनमिते निष्कले नित्यशुद्धे ।। ३ ।।
ह्रीं ह्रीं ह्रीं जापतुष्टे हिमरुचिमुकुटे वल्वकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ।
विद्ये वेदान्तगीते श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे
मार्गातीतप्रभावे भव मम वरदा शारदे शुभ्रहारे ।। ४ ।।
ध्रीं ध्रीं ध्रीं धारणाख्ये धृतिमतिनुतिभिर्नामभिः
कीर्तनीये नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।
पुण्ये पुण्यप्रभावे हरिहरनमिते वर्णशुद्धे सुवर्णे मात्रे
मात्रार्द्धतत्त्वे मतिमति मतिदे माधवप्रीतिनादे ।। ५ ।।
ह्रीं क्षीं धीं ह्रीं स्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते
सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जम्भनिस्तम्भविद्ये ।
मोहे मुग्धप्रवाहे मम कुरु सुमतिं ध्वान्तविध्वंसनित्ये
गीर्गौर्वाग्भारती त्वं कविवृषरसना सिद्धिदा सिद्धविद्या ।। ६ ।।
सौं सौं सौं शक्तिबीजे कमलभवमुखाम्भोजभूतस्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मेप्यविदितविभवे जाप्यविज्ञानतत्त्वे विश्वे
विश्वान्तराले सुरगणनमिते निष्कले नित्यशुद्धे ।। ७ ।।
स्तौमि त्वां त्वां च वन्दे भज मम रसनां मा कदाचित्
त्यजेथाः मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे या तु
पापम् ।
मा मे दुःखं कदाचिद्विपदि च समयेऽप्वस्तु मे नाकुलत्वं
शास्त्रे वादे कवित्त्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदाचित् ।। ८ ।।
इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो वाणीं
वाचस्पतेरप्यभिमतविभवो वाक्पटुर्नष्टपङ्कः ।
स स्यादिष्टार्थलाभी सुतमिवसततं पाति तं सा च देवी
सौभाग्यं तस्य लोके प्रसरति कविता विघ्नमस्तं प्रयाति ।। ९ ।।
ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।
सारस्वतो नरः पाठात्स स्यादिष्टार्थलाभवान् ।। १० ।।
पक्षद्वयेपि यो भक्त्या त्रयोदश्येकविंशतिम् ।
अविच्छेदं पठेद्धीमान्ध्यात्वा देवीं सरस्वतीम् ।। ११ ।।
शुक्लाम्बरधरां देवीं शुक्लाभरणभूषिताम् ।
वाञ्छितं फलमाप्नोति स लोके नात्र संशयः ।। १२ ।।
इति ब्रह्मा स्वयं प्राह सरस्वत्याः स्तवं शुभम् ।
प्रयत्नेन पठेन्नित्यं सोऽमृतत्वं प्रयच्छति ।। १३ ।।

इति ब्रह्मपुराणे ब्रह्मणा कृतं सरस्वत्याः स्तोत्रं सम्पूर्णम् ।

अथ गणेशस्तोत्रम् ।

ओं कारमाद्यं प्रवदन्ति सन्तो वाचः श्रुतीनामपि यं गृणन्ति ।
गजाननं देवगणानतांघ्रिं भजेऽहमर्द्धेन्दुकृतावतंसम्
।। १ ।।
पादारविन्दार्चन तत्पराणां संसारदावानलभङ्गदक्षम् ।
निरन्तरं निर्गतदानतोयैस्तं नौमि विघ्नेश्वरमम्बुजाभम् ।। २ ।।
कृताङ्गरागं नवकुंकुमेन मत्तालिमालं मदपङ्कलग्नाम् ।
निवारयन्तं निजकर्णतालैः को विस्मरेत्पुत्रमनङ्ग शत्रोः ।। ३ ।।
शम्भोर्जटाजूटनिवासिगङ्गाजलं समानीय कराम्बुजेन ।
लीलाभिराराच्छिवमर्चयन्तं गजाननं भक्तियुता भजन्ति ।। ४ ।।
कुमारभुक्तौ पुनरात्महेतोः पयोधरौ पर्वतराजपुत्र्याः ।
प्रक्षालयन्तं करशीकरेण मौग्ध्येन तं नागमुखं भजामि
।। ५ ।।
त्वया समुद्भतगजास्यहस्ताद्येशीकराः पुष्कररन्ध्रमुक्ताः ।
व्योमाङ्गने ते विचरन्ति ताराः कालात्मना मौक्तिकतुल्यभासः ।। ६ ।।
क्रीडारते वारिनिधौ गजास्ये वेलामतिक्रामति वारिपूरे ।
कल्पावसानं परिचिन्त्य देवाः कैलाशनाथं श्रुतिभिः स्तुवन्ति ।। ७
।।
नागानने नागकृतोत्तरीये क्रीडारते देवकुमारसंघैः ।
त्वयि क्षणं कालगतिं विहाय तौ प्रापतुः कन्दुकतामितेन्दु ।। ८ ।।
मदोल्लसत्पञ्चमुखैरजस्रमध्यापर्यन्तं सकलागमार्थान् ।
देवानृषोन्भक्तजनैकमित्रं हेरम्बमर्क्कारुणमाश्रयामि ।। ९ ।।
पादाम्बुजाभ्यामतिकोमलाभ्यां कृतार्थयन्तं कृपया
धरित्रीम् ।
अकारणं कारणमाप्तवाचां तन्नागवक्त्रं न जहाति चेतः ।। १०
।।
येनार्पितं सत्यवतीसुताय पुराणमालिख्य विषाणकोट्या ।
तं चन्द्रमौलेस्तनयं तपोभिराराध्यमानन्दघनं भजामि ।।
११ ।।
पदं श्रुती नामपदं स्तुतीनां लीलावतारं परमात्ममूर्त्तेः

नागात्मको वा पुरुषात्मको वेत्यभेद्यमाद्यं भज विघ्नराजम् ।।
१२ ।।
पाशांकुशौ भग्नरदं त्वभीष्टं करैर्दधानं
कररन्ध्रमुक्तैः ।
मुक्ताफलाभैः पृथुशीकरौघैः सिञ्चन्तमङ्गं
शिवयोर्भजामि ।। १३ ।।
अनेकमेकं गजमेकदन्तं चैतन्यरूपं जगदादि बीजम् ।
ब्रह्मेति यं वेदविदो वदन्ति तं शम्भुसूनुं सततं भजामि ।। १४
।।
स्वाङ्केस्थिताया निजवल्लभाया मुखाम्बुजालोकनलोलनेत्रम् ।
स्मेराननाब्जं मदवैभवेन रुद्धं भजे विश्वविमोहनं तम् ।।
१५ ।।
ये पूर्वमाराध्य गजानन त्वां सर्वाणि शास्त्राणि पठन्ति
तेषाम् ।
त्वत्तो न चान्यत्प्रतिपाद्यमेतैस्तदास्ति चेत्सर्वमसत्यकल्पम् ।। १६ ।।
हिरण्यवर्णं जगदीशितारं कविं पुराणं रविमण्डलस्थम् ।
गजाननं यं प्रविशन्ति सन्तस्तत्कालयोगैस्तमहं प्रपद्ये ।। १७ ।।
वेदान्तगीतं पुरुषं भजेऽहमात्मानमानन्दघनं हृदिस्थम्

गजाननं यन्महसा जनानां विघ्नान्धकारो विलयं प्रयाति ।।
१८ ।।
शम्भोः समालोक्य जटाकलापं शशाङ्कखण्डं निजपुष्करेण

स्वभग्नदन्तं प्रविचिन्त्य मौग्ध्यादाक्रष्टुकामः श्रियमातनोतु
।। १९ ।।
विघ्नार्गलानां विनिपातनार्थं यं नारिकेलैः कदलीफलाद्यैः

प्रभावयन्तो मदवारणास्यं प्रभुं सदाभीष्टमहं
भजेयम् ।। २० ।।
यज्ञैरनेकैर्बहुभिस्तपोभिराराध्यमाद्यं गजराजवक्त्रम्
स्तुत्यानया ये विधिवत् स्तुवन्ति ते सर्वलक्ष्मीनिधयो भवन्ति ।। २१ ।।

इति गणेशस्तवराजः समाप्तः ।

अथ हरिद्रागणेशकवचम् ।

ईश्वर उवाच :

शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च नरो मुच्यते सर्वसङ्कटात् ।। १ ।।
अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ।। २ ।।
ओं आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ।। ३ ।।
गणाक्रीडो नेत्रयुग्मं नासायां गणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धये ।। ४ ।।
जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाशश्च वक्षसि ।। ५ ।।
गणानां नायकः पातु बाहुयुग्मं मम ।
विघ्नकर्ता च उदरे विघ्नकर्ता च लिङ्गके ।। ६ ।।
गजवक्त्रः कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुनः ।। ७ ।।
व्यालयज्ञोपवीतो मां पातु पादयुगे तथा ।
जापकः सर्वदा पातु जानुजङ्घेगणाधिपः ।। ८ ।।
हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ।। ९ ।।
कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् ।
सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम् ।। १० ।।
सर्वसम्पत्प्रदं साक्षात्सर्वपापविमोक्षणम् ।
सर्वसम्पत्प्रदंसाक्षात्सर्वशत्रुक्षयं करम् ।। ११ ।।
ग्रहपीडा ज्वरो रोगो ये चान्ये गुह्यकादयः ।
पठनाद्धारणादेव नाशमायान्ति तत्क्षणात् ।। १२ ।।
धनधान्यकरं देवि कवचं सुरपूजितम् ।
समं नास्ति मेहेशानि त्रैलोक्ये गणपस्य च ।। १३ ।।
हारिद्रस्य महेशानि कवचस्य च भूतले ।
किमन्यैरसदालपैर्यत्रायुर्व्ययतामियात् ।। १४ ।।

इति विश्वसारतन्त्रे हरिद्रागणेशकवचं समाप्तम् ।

अथ श्रीसूर्यकवचम् ।

श्री सूर्य उवाच :

साम्ब साम्ब महाबाहो शृणु मे कवचं शुभम् ।
त्रैलोक्यमङ्गलं नाम कवचं परमाद्भुतम् ।। १ ।।
यज्ज्ञात्वा मन्त्रवित्सम्यक् फलमाप्नोति निश्चितम् ।
यद्धृत्वा च महादेवो गणनामधिपोऽभवत् ।। २ ।।
पठनाद्धारणाद्विष्णुः सर्वेषां पालकः सदा ।
एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ।। ३ ।।
कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतम् ।
श्रीसूर्योदेवता चात्र सर्वदेवनमस्कृतः ।। ४ ।।
आरोग्ययशोमोक्षेषु विनयोगः प्रकीर्त्तितः ।
प्रणवो मे शिरः पातु घृणिर्मे पातु भालकम् ।। ५ ।।
सूर्योऽव्यान्नयनद्वन्द्वमादित्यः कर्णयुग्मकम् ।
अष्टाक्षरो महामन्त्रः सर्वाभीष्टफलप्रदः ।। ६ ।।
ह्रीं बीजं मे मुखं पातु हृदयं भुवनेश्वरी ।
चन्द्रबीजं विसर्गाढ्यं पातु मे गुह्यदेशकम् ।। ७ ।।
त्र्यक्षरोऽसौ महामन्त्रः सर्वतन्त्रेषु गोपितः ।
शिवो वह्निसमायुक्तो वामाक्षिविन्दुभूषितः ।। ८ ।।
एकाक्षरो महामन्त्रः श्रीसूर्यस्य प्रकीर्त्तितः ।
गुह्याद्गुह्यतरो मन्त्रो वांछाचिन्तामणिः स्मृतः ।। ९ ।।
शीर्षादिपादपर्यन्तं सदा पातु मनूत्तमः ।
इति ते कथितं दिव्यं त्रिषु लोकेषु दुर्लभम् ।। १० ।।
श्रीप्रदं कान्तिदं नित्यं धनारोग्यविवर्धनम् ।
कुष्ठादिरोगशमनं महाव्याधिविनाशनम् ।। ११ ।।
त्रिसन्ध्यं यः पठेन्नित्यमरोगी बलवान्भवेत् ।
बहुना किमिहोक्तेन यद्यन्मनसि वर्त्तते ।। १२ ।।
तत्तत्सर्वं भवत्येव कवचस्य च धारणात् ।
भूतप्रेतपिशाचाश्च यक्षगन्धर्वराक्षसाः ।। १३ ।।
ब्रह्मराक्षसवेताला नैवद्रष्टुमपि क्षमाः ।
दूरादेव पलायन्ते तस्य संकीर्तनादपि ।। १४ ।।
भूर्जपत्रे समालिख्य रोचनागुरुकुंकुमैः ।
रविवारे च संक्रान्त्यां सप्तम्याञ्च विशेषतः ।। १५ ।।
धारयेत् साधकश्रेष्ठस्त्रैलोक्यविजयी भवेत् ।
त्रिलोहमध्यगं कृत्वा धारयेद् दक्षिणे भुजे ।। १६ ।।
शिखायामथवा कण्ठे सोऽपि सूर्यो न संशयः ।
इति ते कथितं साम्ब त्रैलोक्यमङ्गलाभिधम् ।। १७ ।।
कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम् ।
अज्ञात्वा कवचं दिव्यं यो जपेत् सूर्यमनूत्तमम् ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ।। १८ ।।

इति ब्रह्मयामले त्रैलोक्यमङ्गलं नाम सूर्यकवचं समाप्तम् ।

अथ श्रीविष्णुस्तवः ।

ओं आदाय वेदान्सकलान्समुद्रान्निहत्य शङ्खं रिपुमत्युदग्रम् ।
दत्ताः पुरा येन पितामहाय विष्णुं तमाद्यं भज मत्स्यरूपम्
।। १ ।।
दिव्यामृतार्थं मथिते महाब्धौ देवासुरैर्वासुकिमन्दराद्यैः ।
भूमेर्महावेगविघूर्णितायास्तं कूर्ममाधारगतं स्मरामि
।। २ ।।
समुद्रकाञ्ची सरिदुत्तरीया वसुन्धरा मेरुकिरीटभारा ।
द्रंष्ट्राग्रतो येन समुद्धृता भूस्तमादिकोलं शरणं प्रपद्ये
।। ३ ।।
भक्तार्तिभङ्गक्षमया धिया यः स्तम्भान्तरालादुदितो नृसिंहः

रिपुं सुराणां निशितैर्नखार्ग्रैर्विदारयन्तं न च विस्मरामि ।। ४
।।
चतुस्समुद्राभरणा धरित्री न्यासाय नालं चरणस्य यस्य ।
एकस्य नान्यस्य पदं सुराणां त्रिविक्रमं सर्वगतं नमामि ।। ५
।।
त्रिःसप्तकृत्वो नृपतीन्निहत्य यस्तर्पणं रक्तमयं ।
चकार दोर्द्दण्डबलेन सम्यक् तमादिशूरं प्रणमामि रामम् ।। ६
।।
कुले रघूणां समवाप्य जन्म विधाय सेतुं जलधेर्जलान्तः ।
लङ्केश्वरं यः समयाञ्चकार सीतापति तं प्रणमामि भक्त्या
।। ७ ।।
हलेन सर्वांनसुरान्निकृष्य चकार चूर्णं मुसलप्रहारैः ।
यः कृष्णमासाद्य बलं बलीयान्, भक्त्या भजे तं
बलभद्ररामम् ।। ८ ।।
पुरा सुराणामसुरान्विजेतुं सम्भावयञ्छ्रीवरचिह्नवेशम् ।
चकार यः शास्त्रममोघकल्पं तं मूलभूतं प्रणतोस्मि
बुद्धम् ।। ९ ।।
कल्पावसाने निखिलः सुरैः स्वैः सङ्घट्टयामास निमेषमात्रात् ।
यस्तेजसा स्वेन ददाह भीमो विष्ण्वात्मकं तं तुरगं भजामः
।। १० ।।
शङ्खं सुचक्रं सुगदां सरोजं दिर्भिर्दधानं
गरुडाधिरुढम् ।
श्रीवत्सचिह्नं जगदादिमूलं तमालनीलं हृदि विष्णुमीडे ।। ११ ।।
क्षीराम्बुधौ शेषविशेषकल्पे शयानमन्तः स्मितशोभिवक्त्रम् ।
उत्फुल्लनेत्राम्बुजमम्बुदाभमाद्यं श्रुतीनामसकृत्स्मरामि ।। १२
।।
प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् ।
धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमम् ।। १३ ।।

इति श्रीविष्णुस्तवः समाप्तः ।

अथ श्रीरामस्तोत्रम् ।

श्रीहनूमनुवाच :

तिरश्चामपि राजेति समवायं समीयुषाम् ।
यथा सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम् ।। १ ।।
सकृदेव प्रपन्नाय विशिष्टामैरयाच्छ्रयम् ।
विभीषणायाब्धितटे यस्तं वीरं नमाम्यहम् ।। २ ।।
यो महान पूजितो व्यापी महाब्धेः करुणामृतम् ।
स्तुतं जटायुना येन महाविष्णुं नमाम्यहम् ।। ३ ।।
तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः ।
प्रकाशते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम् ।। ४ ।।
सर्वतो मुखतो येन लीलया दर्शिता रणे ।
राक्षसेश्वरयोधानां तं वन्दे सर्वतोमुखम् ।। ५ ।।
नृभावं यः प्रपन्नानां हिनस्ति च तथा नृषु ।
सिंहः सत्त्वेष्विवोत्कृष्टस्तं नृसिंहं नमाम्यहम् ।। ६ ।।
यस्याद्विभ्यति वातार्कज्वलनेन्द्राः समृत्यवः ।
भियं तिनोति पापानां भीषणं तत् नमाम्यहम् ।। ७ ।।
परस्य योग्यतापेक्षारहितो नित्यमङ्गलम् ।
ददात्येव निजौदार्याद्यस्तं भद्रं नमाम्यहम् ।। ८ ।।
यो मृत्युं निजदासानां मारयत्यखिलेष्टदः ।
तत्रोदाहृतयो बह्वयो मृत्युमृत्युं नमाम्यहम् ।। ९ ।।
यत्पादपद्मप्रणतो भवेदुत्तमपुरुषः ।
तमीशं सर्वदेवानां नमनीयं नमाम्यहम् ।। १० ।।
आत्मभागं समुत्क्षिप्य दास्येनैव रघूद्वहम् ।
भजेऽहं प्रत्यहं रामं ससीतं सहलक्ष्मणम् ।। ११ ।।
नित्यं श्रीरामभद्रस्य किङ्करा यमकिङ्कराः ।
शिवमयो दिशस्तस्य सिद्धयस्तस्य दासिकाः ।। १२ ।।
इमं हनूमता प्रोक्तं मन्त्रराजात्मकं स्तवम् ।
पठेदनुदिनं यस्तु स रामे भक्तिमान् भवेत् ।। १३ ।।

इति श्रीहनूमत्कल्पे मन्त्रराजात्मकं श्रीरामस्तोत्रं समाप्तम् ।

अथ रामाष्टशतकं नाम स्तोत्रम् ।

वेदव्यास उवाच :

शृणु गाङ्गेय वक्ष्यामि रामस्याद्भुतकर्मणः ।
नामाष्टशतकं पुण्यं महापातकनाशनम् ।
नातः परतरं गुह्यं त्रिषु लोकेषु विद्यते ।। १ ।।
कैलासशिखरे रम्ये नानारत्नविभूषिते ।
एकाग्रप्रयतो भूत्वा विष्णुमाराध्य भक्तितः ।
उपविष्टस्ततो भोक्तुं पार्वतीं शङ्करोऽब्रवीत् ।। २ ।।
पार्वत्येहि मया सार्द्धं भोक्तुं भुवनवन्दिते ।
तमाह पार्वती देवी जप्त्वा नामसहस्रकम् ।
ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो ।। ३ ।।
ततस्तां पार्वती प्राह प्रहसन् परमेश्वरः ।
धन्यानि कृतपुण्यासि विष्णुभक्तासि पार्वति ।। ४ ।।
दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि ।
रकारादीनि नामामि शृण्वतो मम पार्वति ।। ५ ।।
मनः प्रसन्नतामेति रामनामाभिशङ्कया ।
रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयते ।। ६ ।।
राम रामेति रमे रामे मनोरमे ।
सहस्रनाममध्ये तु रामनाम वरानने ।
रामेत्युक्त्वा महादेवि भुंक्ष्ण सार्द्धं मयाधुना ।। ७ ।।
ततो रामेति नामोक्त्वा सहभुक्त्वा च पार्वती ।
ततो भुक्त्वा महादेवी पतिना सह संस्थिता ।। ८ ।।
पप्रच्छ श्रीमहादेवं प्रीतिप्रवणमनसा ।
सहस्रनामभिस्तुल्यं राम नाम त्वयोदितम् ।
तस्यान्यान्यपि नामानि सन्ति चेद्रावणद्विषः ।
कथ्यतां मम देवेश तत्र मे प्रीतिरुत्तमा ।। ९ ।।

श्रीशङ्कर उवाच :

शृणु नामानि वक्ष्यामि रामचन्द्रस्य पार्वति ।
लौकिका वैदिकाः शब्दा ये केचित् सन्ति पार्वति ।
नामानि रामभद्रस्य सहस्रन्तेषु चाधिकम् ।। १० ।।
तेषु चात्यन्तमुख्यं हि नाम्नामष्टोत्तरं शतम् ।
विष्णोरेकैकनामानि सर्ववेदाधिकं फलम् ।। ११ ।।
तादृङ्नामसहस्रेषु राम नाम परम् मतम् ।
जपतः सर्ववेदांश्च सर्वमन्त्रांश्च पार्वति ।
तस्मात्कोटिगुणं पुण्यं रामनाम्नैव लभ्यते ।। १२ ।।
अथ श्रीरामाष्टोत्तरशतनामस्तोत्रस्य ईश्वर-ऋषिरनुष्टुप्छन्दः
श्रीरामचन्द्रो देवता श्रीरामचन्द्र प्रीत्यर्थं जपे विनियोगः ।। १३
।।
ओं श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ।। १४ ।।
जानकीवल्लभो जैत्रो चितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ।। १५ ।।
बालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः ।
सत्यव्रतो व्रतफलः सदा हनूमदाश्रयः ।। १६ ।।
कौशलेयः खरध्वंसी विराधवधपंडितः ।
विभीषणपरित्राता दशग्रीवाशिरोहरः ।। १७ ।।
सप्तताल प्रभेत्ता च हरकोदण्डखण्डनः ।
जामदग्न्यमहादर्पज्वलनस्ताडकान्तकः ।। १८ ।।
वेदान्तसारोऽमेयात्मा भववैद्यश्च भेषजः ।
दूषणत्रिशिरोहन्ता त्रिमूर्त्तिस्त्रिगुणस्त्रयी ।। १९ ।।
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारीति कीर्त्तनः ।
त्रिलोकीरक्षको धन्वी दण्डाकारण्यपुण्यकृत् ।। १० ।।
अहल्यापावनश्चैव पितृभक्तो वरप्रदः ।
जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः ।। २१ ।।
ऋक्षवानरसङ्घाती चित्रकुटसमाश्रयः ।
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ।। २२ ।।
सर्वदेवाधिदेवेश्च मृतबालकजीवनः ।
मायामारीचहन्ता च महाभोगो महाभुजः ।। २३ ।।
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः ।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ।। २४ ।।
सर्वपुण्याधिकफलस्तीर्थः सर्वाघनाशनः ।
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा ।। २५ ।।
पुण्योदयो दयासारः पुराणः पुरुषोत्तमः ।
स्मितवक्त्रो मितभाषी पूर्णभाषी च राघवः ।। २६ ।।
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तरः ।
मायामानुषचारित्रो महादेवाभिपूजितः ।। २७ ।।
सेतुकृज्जितवारीशः सर्वतोर्थमया हरिः ।
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्द्धरः ।। २८ ।।
सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः ।
शिवलिङ्गप्रतिष्ठाता सर्वाघगणवर्जितः ।। २९ ।।
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
परं ज्योतिः परं धाम पराकाष्ठा परात्परः ।। ३० ।।
परेशः परागः पारः सर्वदेवात्मकः शिवः ।
इत्येतत्रामभद्रस्य नाम्नामष्टोत्तरं शतम् ।। ३१ ।।
गुह्याद्गुह्यतरं देवि तव प्रीत्या प्रकीर्त्तितम् ।
यः पठेत्शृणुयाद्वापि भक्तियुक्तेन चेतसा ।
स सर्वैर्मुच्यते पापैः कल्पकोटिशतोद्भवैः ।। ३२ ।।
जलानि स्थलतां यान्ति शत्रवो यान्ति मित्रताम् ।
राजानो दासतां यान्ति वह्न्यो यान्ति सौम्यताम् ।। ३३ ।।
आनुकूल्यञ्च भूतानि स्थैर्यं यान्ति चला श्रियः ।
अणुग्रह ग्रहा यान्ति नाशमायान्त्यपद्रवाः ।। ३४ ।।
पठतो भक्तिभावेन जनस्य गिरिसम्भवे ।
यः पठेत् परया भक्त्या तस्य वश्यं जगत्त्रयम् ।
यद्यत्कामयते चित्ते तत्तदाप्नोति कीर्त्तनात् ।
यः पठेद्रामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ।
ज्ञानेनापि च कुवर्णो न स पापेन लिप्यते ।। ३६ ।।
सर्ववेदेषु तीर्थेषु दानेषु च तपःसु च ।
तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते ।। ३७ ।।
पुण्येकालेषु सर्वेषु पठन्नानन्त्यमश्नुते ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वैकुण्ठे वासमाप्नोति दशपूर्वैर्दशापरैः ।। ३८ ।।
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणी नराः ।। ३९ ।।
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ।। ४० ।।
इमं मंत्रं महेशानि जपेन्नेव दिवानिशम् ।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ।। ४१ ।।
इत्येतद्रामचन्द्रस्य माहात्म्यं वेदसम्मतम् ।
कथितं तव गाङ्गेय यतस्त्वं वैष्णवोत्तमः ।। ४२ ।।
वन्दामहे महेशानं हरकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ।। ४३ ।।

इति पद्यपुराणे पार्वतीश्वरसंवादे श्रीरामचन्द्रस्तवराजः
समाप्तः ।

अथ श्रीरामकवचम् ।

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ।
सासितूणधनुर्बाणपाणिं नक्तञ्चरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ।। १ ।।
रामरक्षां पठेत् प्राज्ञः पापघ्नी सर्वकामदाम् ।। २ ।।
अस्य श्रीरामकवचस्य बुधकौशिक ऋषिर्गयत्रीच्छन्दः
श्रीरामचन्द्रो देवता श्रीरामचन्द्र प्रीत्यर्थं जपे विनियोगः ।। ३ ।।
ओं शिरो मे राघवः पातु भालं दशरथात्मजः ।
कौशलेयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।। ४ ।।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ।
जिह्वां विद्यानिधिं पातु कण्ठं भरतवन्दितः ।। ५ ।।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ।
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।। ६ ।।
वक्षः पातु कबन्धारिः स्तनौ गीर्वाणवन्दितः ।
पार्श्वो कुलपतिः पातु कुक्षिमिक्ष्वाकुनन्दनः ।। ७ ।।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ।
गुह्यं जितेन्द्रियः पातु पृष्ठ पातु रघूत्तमः ।। ८ ।।
सुग्रीवेशः कटीं पातु सक्थिनी हनूमत्प्रभुः ।
उरु रघूत्तमः पातु रक्षः कुलविनाशकृत् ।। ९ ।।
जानुनी सतुकृत्पातु जङ्घ दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामाऽखिलं वपुः ।। १० ।।
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखो पुत्री विजयी विनयी भवेत् ।। ११ ।।
पातालभूतलव्योमचारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ।। १२ ।।
रामेति रामभद्रति रामचन्द्रति वा स्मरण ।
नरो न लिप्यते पापैर्भुक्ति मुक्तिञ्चविन्दति ।। १३ ।।
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः करे धारयेत् तस्य करस्थाः सर्वसिद्धयः ।। १४ ।।
भूर्जपत्रे त्विमां विद्यां गन्धचन्दनचर्चिताम् ।
कृत्वा वै धारयेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ।। १५ ।।
काकबन्ध्या च या नारी मृतवत्सा च या भवेत् ।
बह्वपत्या जीववत्सा सा भवेन्नात्र संशयः ।। १६ ।।
वज्रपञ्जरनामेदं यो रामकवचं पठेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ।। १७ ।।
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हैर्ः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ।। १८ ।।
धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ शुभौ ।
वीरौ मां पथि रक्षेतां वावुभौ रामलक्ष्मणौ ।। १९ ।।
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ।। २० ।।
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामक्ष्मणौ ।। २१ ।।
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां वो रघूत्तमौ ।। २२ ।।
आत्तसज्यधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ।। २३
।।
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
यच्छन्मनोरथञ्चास्मान् रामः पातु सलक्ष्मणः ।। २४ ।।
अग्रतस्तु नृसिंहो मे पृष्ठतो गरुडध्वजः पार्श्वयोस्तु ।
धनुष्मन्तौ सशरौ रामलक्ष्मणौ ।। २५ ।।
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौशलेयो रघूत्तमः ।। २६ ।।
वेदान्तवेद्यो यज्ञेशः पुराणः पुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ।। २७ ।।
दक्षिणे लक्ष्मणो धन्वी वामे च जानकी शुभा ।
पुरतो मारुतिर्यस्य तं नमामि रघूत्तमम् ।। २८ ।।
आपदामपहन्तारं दातारं सर्वसम्पदाम् ।
गुणाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।। २९ ।।
एतानि मम नामानि मद्भक्तो यः सदा पठेत् ।
अश्वमेधायुतं पुण्य स प्राप्नोनि न संशयः ।। ३० ।।

इति पद्मपुराणे वेदव्यासकृतौ भगवद्वसिष्ठ
श्रीबुधकौशिकप्रणीतं वज्रपञ्जरं नाम श्रीरामकवचं
समाप्तम् ।

अथ श्रीकृष्णस्तोत्रम् ।

प्रसीद भगवन् मह्यमज्ञानात्कुण्ठितात्मने ।
तवांघ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम् ।। १ ।।
अज प्रसीद भगवन्नमितद्युतिपञ्जर ।
अप्रमेय प्रसीदास्मद्दुःखहन् पुरुषोत्तम ।। २ ।।
स्वसंवेद्य प्रसीदास्मदानन्दात्मन्ननामय ।
अचिन्त्यसार विश्वात्मन् प्रसीद परमेश्वर ।। ३ ।।
पसीद तुङ्ग तुङ्गानां प्रसीद शिवशिभन ।
प्रसीद गुणगम्भीर गम्भीराणां महाद्युते ।। ४ ।।
प्रसीदाव्यक्तविस्तीर्ण विस्तीर्णानामगोचर ।
प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तयायिनाम् ।। ५ ।।
गुरोर्गरीयान् सर्वेश प्रसीदानन्त देहिनाम् ।
जय माधव मायात्मन् जय शाश्वत शङ्खभृत् ।। ६ ।।
जय शङ्खधर श्रीमन् जय नन्दकनन्दन् ।
जय चक्रगदापाणे जय देव जनार्दन ।। ७ ।।
जय रत्नवरावद्धकिरीटाक्रान्तमस्तक ।
जय पक्षिपतिच्छायानिरुद्धार्ककरारुण ।। ८ ।।
नमस्ते नरकाराते नमस्ते मधुसूदन ।
नमस्ते ललितापाङ्ग नमस्ते नरकान्तक ।। ९ ।।
नमः पापहरेशान नमः सर्वभयापह ।
नमः सम्भृतसर्वात्मन् नमः सम्भृतकौस्तुभ ।। १० ।।
नमस्ते नयनातीत नमस्ते भयहारक ।
नमो विभिन्नवेशाय नमः श्रुतिपथातिग ।। ११ ।।
नमस्त्रिमूर्तिभेदेन स्वर्गस्थित्यन्तहेतवे ।
विष्णवे त्रिदशारातिजिष्णवे परमात्मने ।। १२ ।।
चक्रभिन्नारिचक्राय चक्रिणे चक्रबन्धवे ।
विश्वाय विश्ववन्द्याय विश्वभूतानुवर्तिने ।। १३ ।।
नमोऽस्तु योगिध्येयाय नमोऽस्त्वध्यात्मरूपिणे ।
भक्तिप्रियाय भक्तानां नमस्ते मुक्तिदायिने ।। १४ ।।
पूजनं हवनं चेष्टा ध्यानं पश्चान्नमस्क्रिया ।
देवेश कर्म सर्वं मे भवेदाराधनं तव ।। १५ ।।
इति हवनजपार्चाभेदतो विष्णुपूजानिरतो हृदयकर्मा यस्तु मन्त्री
चिराय ।
स खलु सकलकामान् प्राप्य कृष्णान्तरात्मा
जननमृतिविमुक्तामुत्तमां मुक्तिमेति ।। १६ ।।
गागोपगोपिकावीतं गोपालं गोषु गोप्रदम् ।
गोपैरीड्यं गोसहस्रैर्नौमि गोकुलनायकम् ।। १७ ।।
प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् ।
धर्मार्थकाममोक्षाणामप्तये पुरुषोत्तमम् ।। १८ ।।

इति कृष्णस्त्रोत्रं समाप्तम् ।

अथ गोपालस्त्रोत्रम् ।

नारद उवाच :

नवीननीरदश्यामं नीलेन्दीवरलोचनम् ।
वल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ।। १ ।।
स्फुरद्वर्हदलाद्वद्धनीलकुञ्चितमूर्द्धजम् ।
कदम्बकुसुमोद्वद्धवनमालाविभूषितम् ।। २ ।।
गण्डमण्डलसंसर्गिचलत्काञ्चनकुण्डलम् ।
स्थूलमुक्ताफलोदारहारद्योतितवक्षसम् ।। ३ ।।
हेमाङ्गदतुलाकोटिकिरीटोज्वलविग्रहम् ।
मन्दमारुतसंक्षोभवल्गिताम्बरसञ्चयम् ।। ४ ।।
रुचिरौष्ठपुटन्यस्त-वंशोमधुरनिःस्वनैः ।
लसद्गोपालिकाचेतो मोहयन्तं मुहुर्मुहुः ।। ५ ।।
वल्लवी?वदनाम्भोजमधुपानमधुव्रतम् ।
क्षोभयन्तं मनस्तासां सस्मेरापाङ्गवीक्षणैः ।। ६ ।।
यौवनोद्भिन्नदेहाभिः संसक्ताभिः परस्परम् ।
विचित्राम्बरभूषाभिर्गोपनारीभिरावृतम् ।। ७ ।।
प्रभिनाञ्जनकालिन्दीजलकेलिकलोत्सुकम् ।
योधयन्तं क्वचिद्गोपान् व्याहरन्तं गवां गणम् ।
कालिन्दीजलसंसर्गिशीतलानिलसेविते ।
कदम्बपादपच्छाये स्थितं वृन्दावने क्वचित् ।। ९ ।।
रत्नभूधरसंलग्नरत्नासनपरिग्रहम् ।
कल्पपादमध्यस्थ हेममण्डपिकागतम् ।। १० ।।
वसन्तकुसुमामोदसुरभीकृतदिङ्मुखे ।
गोवर्द्धनगिरौ रम्ये स्थितं रासरसोत्सुकम् ।। ११ ।।
सव्यहस्ततलन्यस्त-गिरिवर्यातपत्रकम् ।
खण्डिताखण्डतोन्मुक्तमुक्तासारघनाघनम् ।। १२ ।।
वेणुवाद्यमहोलास-कृतहुङ्कारनिःस्वनैः ।
सवत्सैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम् ।। १३ ।।
कृष्णमेवानुगायद्भिस्तच्चेष्टावशवर्त्तिभिः ।
दण्डपाशोद्यतकरैर्गोपालैरुपशोभितम् ।। १४ ।।
नारदाद्यैर्मुनिश्रेष्ठैर्वेदवेदाङ्गपारगैः ।
प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम् ।। १५ ।।
य एवं चिन्तयेद्देवं भक्त्या संस्तौति मानवः ।
त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम् ।। १६ ।।
राजवल्लभतामेति भवेत् सर्वजनप्रियः ।
अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम् ।। १७ ।।

इति गौतमीय तन्त्रे श्रीगोपालस्तोत्रं समाप्तम् ।

अथ श्रीकृष्णकवचम् ।

पुलस्त्य उवाच :

भगवन्सर्वधर्मज्ञ कवचं यत्प्रकाशितम् ।
त्रैलोक्यमङ्गलं नाम कृपया कथय प्रभो ।। १ ।।

सनत्कुमार उवाच ।

शृणु विप्रेन्द्र वक्ष्यामि कवचं परमाद्भुतम् ।
नारायणेन कथितं कृपया ब्रह्मणे पुरा ।। २ ।।
ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि ते ।
अतिगुह्यतरं तत्त्वं ब्रह्ममन्त्रौघविग्रहम् ।। ३ ।।
यद्धृत्वा पठनाद्ब्रह्मा सृष्टिं वितनुते ध्रुवम् ।
यद्धृत्वा पठनात् पाति महालक्ष्मीर्जगत्त्रयम् ।। ४ ।।
पठनाद्द्धारणाच्छंभुः संहर्ता सर्वतत्त्ववित् ।
त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् ।। ५ ।।
वरदृप्तान् जघानैव पठनाद्धारणाद्यतः ।
एवमिन्द्रादयः सर्वे सर्वेश्वर्यमवाप्नुयुः ।। ६ ।।
इदं कवचमत्यन्तं गुप्तं कुत्रापि नो वदेत् ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ।। ७ ।।
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ।
त्रैलोक्यमङ्गलस्यास्य कवचस्य प्रजापतिः ।। ८ ।।
ऋषिश्छन्दश्च गायत्री देवी नारायणः स्वयम् ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ।। ९ ।।
प्रणवो मे शिरः पातु नमो नारायणाय च ।
भालं मे नेत्रयुगलमष्टार्णो भुक्तिमुक्तिदः ।। १० ।।
क्लीं पायाच्छ्रोत्रयुग्मं चैकाक्षरसर्वमोहनः ।
क्लीं कृष्णाय सदा घ्राणं गोविन्दायेति जिह्विकाम् ।। ११ ।।
गोपीजनपदं वल्लभाय स्वाहाऽननं मम ।
अष्टादशाक्षरो महामत्रः कण्ठं पातु दशाक्षरः ।। १२ ।।
गोपीजनपदं वल्लभाय स्वाहा भुजद्वयम् ।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः स्कन्धौ दशाक्षरः ।। १३
।।
क्लीं कृष्ण क्लीं करौ पायात् क्लीं कृष्णायाङ्गजोऽवतु ।
हृदयं भुवनेशानि क्लीं कृष्णाय करौ स्तनौ मम ।। १४ ।।
गोपालायाग्निजायान्तं कुक्षियुग्मं सदाऽवतु ।
क्लीं कृष्णाय सदा पातु पार्श्वयुग्मं मनूत्तमः ।। १५ ।।
कृष्णगोविन्दकौ पातु स्मराद्यो ङेयुतो मनुः ।
अष्टाक्षरः पातु नाभिं कृष्णेति द्व्यक्षरोऽवतु ।। १६ ।।
पृष्ठं क्लीं कृष्णकङ्कालं क्लीं कृष्णाय द्विठान्तकः ।
सक्थिनीं सततं पातु श्रीं ह्रीं क्लीं कृष्णठद्वयम् ।। १७ ।।
ऊरू सप्ताक्षरः पायात्त्रयोदशाक्षरोऽवतु ।
श्रीं ह्रीं क्लीं पदतो गोपीजनवल्लभपदं ततः ।। १८ ।।
भाय स्वाहेति पायुं वै क्लीं ह्रीं श्रीं स दशार्णकः ।
जानुनी च साद पातु ह्रीं श्रीं क्लीं च दशाक्षरः ।। १९ ।।
त्रयोदशाक्षरः पातु जङ्घे चक्राद्युदायुधः ।
अष्टादशाक्षरो ह्रीं-श्रीं-पूर्वको विंशदर्णकः ।। २० ।।
सर्वाङ्गं मे सदा पातु द्वारकानायको बली ।
नमो भगवते पश्चाद्वासुदेवाय तत्परम् ।। २१ ।।
ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदाऽवतु ।
श्रीं ह्रीं क्लीं च दशार्णस्तु क्लीं ह्रीं श्रीं षोडशार्णकः ।।
२२ ।।
गदाद्युदायुधो विष्णुर्मामग्नेर्दिशि रक्षतु ।
ह्रीं श्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदाऽवतु ।। २३ ।।
तारो नमो भगवते रुक्मिणीवल्लभाय च ।
स्वाहेति षोडशार्णोऽयं नैर्-ऋत्यां दिशि रक्षतु ।। २४ ।।
क्लीं हृषीकपदेशाय नमो मां वरुणोऽवतु ।
अष्टादशार्णः कामान्तो वायव्ये मां सदाऽवतु ।। २५ ।।
श्रीं मायाकामकृष्णाय गोविन्दाय द्विठो मनुः ।
द्वादशार्णात्मको विष्णुरुत्तरे मां सदाऽवतु ।। २६ ।।
वाग्भवं कामकृष्णाय ह्रीं गोविन्दाय ततः परम् ।
श्रीं गोपीजनवल्लभान्ते भाय स्वाहा करौ ततः ।। २७ ।।
द्वाविंशत्यक्सरो मन्त्रो मामैशान्ये सदाऽवतु ।
कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम् ।। २८ ।।
नमामि देवकीपुत्रं नृत्यराजानमच्युतम् ।
द्वात्रिंशदक्षरो मन्त्रोऽप्यधो मां सर्वदाऽवतु ।। २९ ।।
कामदेवाय विद्महे पुष्पबाणाय धीमहि ।
तन्नोऽनङ्गः प्रचोदयादेषा मां पातु चोर्ध्वतः ।। ३० ।।
इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् ।
त्रैलोक्यमङ्गलं नाम कवच ब्रह्मरूपकम् ।। ३१ ।।
ब्रह्मणा कथितं पूर्वं नारायणमुखाच्छ्रुतम् ।
तव स्नेहान्मयाऽख्यातं प्रवक्तव्यं न कस्यचित् ।। ३२ ।।
गुरुं प्रणम्य विधिवत्कवचं प्रपठेत् ततः ।
सकृद्द्विस्त्रिर्यथाज्ञानं स हि सर्वतपोमयः ।। ३३ ।।
मन्त्रेषु सकलेष्वेव देशिको नात्र संशयः ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ।। ३४ ।।
हवनादिदशांशेन कृत्वा तत्साधयेद्ध्रुवम् ।
यदि स्यात्सिद्धकवचो विष्णुरेव भवेत् स्वयम् ।। ३५ ।।
मन्त्रसिद्धिर्भवेत् तस्य पुरश्चर्याविधानतः ।
स्पर्धामुद्धूय सततं लक्ष्मीर्वाणी वसेत् ततः ।। ३६ ।।
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत् सकृत् ।
दशवर्षसहस्राणां पूजायाः फलमाप्नुयात् ।। ३७ ।।
भूर्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद् यदि ।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ।। ३८ ।।
अश्वमेधसहस्राणि वाजपेयशतानि च ।
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ।। ३९ ।।
कलां नार्हन्ति तान्येव सकृदुच्चारणात्ततः ।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।। ४० ।।
त्रैलोक्यं क्षोभयेत्येव त्रैलोक्यविजयी भवेत् ।
इदं कवचमज्ञात्वा यजेद्यः पुरुषोत्तमम् ।। ४१ ।।
शतलक्षं प्रजप्तोऽपि न मन्त्रस्तस्य सिद्ध्यति ।। ४२ ।।

इति सनत्कुमारतन्त्रे त्रैलोक्यमङ्गलं नाम श्रीकृष्णकवचं
समाप्तम् ।

अथ नृसिंहकवचम् ।

नारद उवाच :

इन्द्रादिदेववृन्देश इड्येश्वरं जगत्पते ।
महाविष्णोर्नृसिंहस्य कवचं ब्रूहि मे प्रभो ।। १ ।।
यस्य प्रपठनाद्विद्वांस्त्रैलोक्यविजयी भवेत् ।

ब्रह्मोवाच :

शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोधन ।
कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम् ।। २ ।।
यस्य पठनाद्वाग्मी त्रैलोक्यविजयी भवेत् ।
स्रष्टाहं जगतां वत्स पठनाद्धारणाद्यतः ।। ३ ।।
लक्ष्मीर्ज्जगत्त्रयं पाति संहर्ता च महेश्वरः ।
पठनाद्धारणाद्देवा बभूवुश्च दिगीश्वराः ।। ४ ।।
ब्रह्ममन्त्रमयं वक्ष्ये भ्रान्तादिविनिवारकम् ।
यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी भवेत् ।। ५ ।।
पठनाद्धारणाद्यस्य शास्ता च क्रोधभैरवः ।
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री नृसिंहो देवता विभुः ।। ६ ।।
क्ष्रौं बीजं मे शिरः पातु चन्द्रवर्णो महामनुः ।। ७ ।।
ओं उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ।। ८ ।।
द्वात्रिंशदक्षरो मन्त्रो मन्त्रराजः सुरद्रुमः ।
कण्ठं पातु ध्रुवं क्ष्रौं हृद्भगवते चक्षुषी मम ।। ९ ।।
नरसिंहाय च ज्वालामालिने पातु कर्णकम् ।
दीप्तदंष्ट्राय च तथाग्निनेत्राय च नासिकाम् ।। १० ।।
सर्वरक्षोघ्नाय च तथा सर्वभूतहिताय च ।
सर्वज्वरविनाशाय दह दह पदद्वयम् ।। ११ ।।
रक्षरक्ष वर्ममन्त्रः स्वाहा पातु मुखं मम ।
तारादिरामचन्द्राय नमः पातु हृदं मम ।। १२ ।।
क्लीं पायात्पार्श्वयुग्मं च तारो नमः पदं ततः ।
नारायणाय नाभिं च आं ह्रीं क्रौं क्ष्रौं च हुं फट् ।। १३ ।।
षडक्षरः कटिं पातु ओं नमो भगवते पदम् ।
वासुदेवाय च पृष्ठं क्लीं कृष्णाय ऊरुद्वयम् ।। १४ ।।
क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः ।
क्ली ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम् ।। १५ ।।
क्ष्रौं नृसिंहाय क्ष्रौं च सर्वाङ्गे मे सदाऽवतु ।
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।। १६ ।।
तव स्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ।
गुरुपूजां विधायाथ गृह्णीयात्कवचं ततः ।। १७ ।।
सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत् ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ।। १८ ।।
हवनादीन्दशांशेन कृत्वा साधकसत्तमः ।
ततस्तु सिद्धकवचः पुण्यात्मा मदनोपमः ।। १९ ।।
स्पर्द्धामुद्धूय भवने लक्ष्मीर्वाणी वसेत् ततः ।
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत्सकृत् ।। २० ।।
अपि वर्षसहस्राणां पूजायां फलमाप्नुयात् ।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि ।। ३१ ।।
कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ।
योषिद्वामभुजे चैव पुरुषो दक्षिणे करे ।। २२ ।।
बिभृयात् कवचं पुण्यं सर्वसिद्धियुतो भवेत् ।
काकवन्ध्या च या नारी मृतवत्सा च या भवेत् ।। २३ ।।
जन्मवन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।। २४ ।।
त्रैलोक्यं क्षोभयत्येवं त्रैलोक्यविजयी भवेत् ।
भूतप्रेतपिशाचाश्च राक्षसा दानवाश्च ये ।। २५ ।।
तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ।
यस्मिन्गृहे च कवचं ग्रामे वा यदि तिष्ठति ।
तद्देशं तु परित्यज्य प्रयान्ति ह्यतिदूरतः ।। २६ ।।

इति ब्रह्मसंहितायां त्रैलोक्यमंगलं नाम नृसिंहकवचं
समाप्तम् ।

अथ शिवस्तोत्रम् ।

धरापोग्निमरुद्व्योममखेशेन्द्वर्कमूर्तये ।
सर्वभूतान्तरस्थाय शङ्कराय नमो नमः ।। १ ।।
श्रुत्यन्तः कृतवासाय श्रुतये श्रुतिजन्मने ।
अतीन्द्रियाय महसे शाश्वताय नमोनमः ।। २ ।।
स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शम्भवे ।
भवाय भवसम्भूतदुःखहन्त्रे नमोऽस्तु ते ।। ३ ।।
तर्कमार्गातिभूताय तपसां फलदायिने ।
चतुर्वर्गवदान्याय सर्वज्ञाय नमोनमः ।। ४ ।।
आदिमध्यान्तशून्याय निरस्ताशेषभीतये ।
योगिध्येयाय महते निर्गुणाय नमोनमः ।। ५ ।।
विश्वात्मनेऽविचिन्त्याय विलसच्चन्द्रमौलये ।
कन्दर्पदर्पनाशाय कालहन्त्रे नमोऽस्तु ।। ६ ।।
विषाशनाय विहरद्वृषस्कन्धमुपेयुषे ।
सरिद्वामसमाबद्धकपर्दाय नमोनमः ।। ७ ।।
शुद्धाय शुद्धभावाय शुद्धानामन्तरात्मने ।
पुरान्तकाय पूर्णाय पुण्यनाम्ने नमोनमः ।। ८ ।।
भक्ताय निजभक्तानां भूक्तिमुक्तिप्रदायिने ।
विवाससेऽविवासाय विश्वेन शास्त्रे नमोनमः ।। ९ ।।
त्रिमूर्त्तिमूलभूताय त्रिनेत्राय नमोनमः ।
त्रिधाम्नाधामरूपाय जन्मघ्नाय नमोनमः ।। १० ।।
देवासुरशिरोरत्नकिरणारुणितांघ्रये ।
कान्ताय निजकान्तायै दत्तार्द्धाय नमोनमः ।। ११ ।।
स्तोत्रेणानेन पूजायां प्रीणयेज्जगतः पतिम् ।
भक्तिमुक्तिप्रदं भक्त्या सर्वज्ञं परमेश्वरम् ।। १२ ।।
तस्यासाध्यं त्रिभुवने न किञ्चिदपि वर्त्तते ।
ऐहिकं किं फलं तत्र मुक्तिरेव करे स्थिता ।। १३ ।।

इति शिवस्तोत्रं समाप्तम् ।

अथ शिवस्यकवचम् ।

श्रीदेव्युवाच :

भगवन् देवदेवेश सर्वाम्नाय प्रपूजित ।
सर्वं मे कथितं देव कवचं न प्रकाशितम् ।। १ ।।
प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय ।
सर्वरक्षाकरं देव यदि स्नेहेऽस्ति मां प्रति ।। २ ।।

श्री भगवानुवाच :

प्रासादमन्त्रकवचस्य वामदेव-ऋषिः स्मृतः ।
पंक्तिश्छन्दश्च देवेशि सदाशिवोऽत्र देवता ।
साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्त्तितः ।। ३ ।।
ओं शिरो मे सर्वदा पातु प्रासादाख्य सदाशिवः ।। ४ ।।
सडक्षरस्वरूपो मे वदनन्तु महेश्वरः ।
अष्टाक्षरः शक्तिरुद्धश्चक्षुषी मे सदावतु ।। ५ ।।
पञ्चाक्षरात्मा भगवान्भुजौ मे परिरक्षतु ।
मृत्युञ्जयस्त्रिवीजात्मा आयु रक्षतु मे सदा ।। ६ ।।
वटमूलसमासीनो दक्षिणामूर्तिरव्ययः ।
सदा मां सर्वतः पातु षट्त्रिंशार्णस्वरूपधृक् ।। ७ ।।
द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु ।
त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ।। ८ ।।
चिन्तामणिर्बीजरूपो अर्द्धनारीश्वरो हरः ।
सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ।। ९ ।।
एकाक्षरस्वरूपात्मा कूटरूपी महेश्वरः ।
मार्तण्डभैरवी नित्यं पादौ मे परिरक्षतु ।। १० ।।
तुम्बुराख्यो महाबीजस्वरूपस्त्रिपुरान्तकः ।
सदा मां रणभूमौ च रक्षतु त्रिदशाधिपः ।। ११ ।।
ऊर्द्धमूर्द्धानमीशानो मम रक्षतु सर्वदा ।
दक्षिणस्यां तत्पुरुषोऽव्यान्मे गिरिविनायकः ।। १२ ।।
अघोराख्यो महादेवः पूर्वस्यां परिरक्षतु ।
महादेवः पश्चिमस्यां सदा मे परिरक्षतु ।
उत्तरस्यां सदा पातु सद्योजातस्वरूपधृक् ।। १३ ।।
इत्थं रक्षाकरं देवि कवचं देवदुर्लभम् ।
प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ।। १४ ।।
पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ।
कीर्त्तिश्रीकान्तिमेधायुर्वृत् हितो भवति ध्रुवम् ।। १५ ।।
कण्ठे यो धारयेदेतत्कवचं मतस्वरूपम् ।
युद्धे विजयमाप्नोति द्यूते वादे च साधकः ।। १६ ।।
कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ।
देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः ।। १७ ।।
कवचं शिरसा यस्तु धारयेद्यतमानसः ।
करस्तास्तस्य देवेशि अणिमाद्यष्टसिद्धयः ।। १८ ।।
भूर्जपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् ।।
रजतोदरसंविष्टां कृत्वा च धारयेत् सुधीः ।। १९ ।
सम्प्राप्य महतीं लक्ष्मीमन्ते मद्देहपरूधृक् ।
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।। २० ।।
शिष्यय भक्तियुक्ताय साधकाय प्रकाशयेत् ।
अन्यथा सिद्धिहानिः स्यात् सत्यमेतन्मनोरमे ।। २१ ।।
तव स्नेहान्महादेवि कथितं कवचं शुभम् ।
न देयं कस्यचित् भद्रे यदीच्छेदात्मनो हितम् ।। २२ ।।
योऽर्चयेत् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् ।
तेनार्चिता महादेवि सर्वे देवा न संशयः ।। २३ ।।

इति भैरवतन्त्रे श्रीसदाशिव-कवचं समाप्तम् ।

अथ वटुकभैरवस्तोत्रम् ।

कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ।। १ ।।

श्रीपार्वत्युवाच :

भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।
आपदुद्धारणं मन्त्रं सर्वसिद्धिप्रदं नृणाम् ।। २ ।।
सर्वेषाञ्चैव भूतानां हितार्थं वाञ्छितं मया ।
विशेषतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ।। ३ ।।
अङ्गन्यास-करन्यास-बीजन्याससमन्वितम् ।
वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम् ।। ४ ।।

श्री भगवानुवाच :

शृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।
सर्वदुःखप्रशमनं सर्वशत्रुनिवर्द्धनम् ।। ५ ।।
अपस्मारादिरोगाणां ज्वरादीनां विशेषतः ।
नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ।। ६ ।।
ग्रहराजभयानाञ्च नाशनं सुखवर्द्धनम् ।
स्नेहाद्वक्ष्यामि ते मन्त्रं सर्वसारमिदं प्रिये ।। ७ ।।
सर्वकामार्थदं मन्त्रं राज्यभोगप्रदं नृणाम् ।
आपददुद्धारणं मन्त्रं वक्ष्यामीति विशेषतः ।। ८ ।।
प्रणवं पूर्वमूच्चार्य देवीप्रणवमुद्धरेत् ।
वटुकायेति वै पश्चादापदुद्धरणाय च ।। ९ ।।
कुरुद्वयं ततः पश्चाद्वटुकाय पुनः क्षिपेत् ।
देवीप्रणवमुद्धृत्य मन्त्रोद्धारमिमं प्रिये ।। १० ।।
मन्त्रोधारमिमं देवि त्रैलोक्यस्यापि दुर्लभम् ।
अप्रकाश्यमिमं मन्त्रं सर्वशक्ति समन्वितम् ।। ११ ।।
स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ।
विद्रवन्ति भयार्ता वै कलेरुद्रादिव प्रजाः ।। १२ ।।
पठेद् वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ।
नाग्निचौरभयं वापि ग्रहराजभयं तथा ।। १२ ।।
न च मारीभयस्तस्य सर्वत्र सुखवान्भवेत् ।
आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिसम्पदः ।
भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् ।। १४ ।।

श्रीपार्वत्युवाच :

य एष भैरवो नाम आपदुद्धारको मतः ।
त्वया च कथितो देव भैरवः कल्प उत्तमः ।
तस्य नाम सहस्राणि अयुतान्यर्बुदानि च ।
सारमुद्धृत्य तेषां वै नामाष्टशतकं वद ।। १६ ।।

श्री भगवानुवाच :

यस्तु संकीर्तयेदेतत् सर्वदुष्टनिवर्हणम् ।
सर्वान् कामनवाप्नोति साधकः सिद्धिमेव च ।। १७ ।।
शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ।।
आपदुद्धारकस्येह नामाष्टशतमुत्तमम् ।। १८ ।।
सर्वपापहरं पुण्यं सर्वापद्विनिवारकम् ।
सर्वकामार्थदं देवि साधकानां सुखावहम् ।। १९ ।।
देहाङ्गन्यासनञ्चैव पूर्वं कुर्यात् समाहितः ।
भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् ।
अक्ष्णोर्भूताश्रयं न्यस्य वदने तीक्ष्णदर्शनम् ।
क्षेत्रपं कर्णयोर्मध्ये क्षेत्रपालं हृदि न्यसेत् ।
क्षेत्राख्यं नाभिदेशे तु कट्यां सर्वाघनाशनम् ।
त्रिनेत्रमूर्वोर्विन्यस्य जङ्घ्यो रक्तपाणिकम् ।
पादयोर्देवदेवेशं सर्वाङ्गे वटुकं न्यसेत् ।। २० ।।
एवं न्यासविधिं कृत्वा तदनन्तरमुत्तमम् ।
पठेदेकमनाः स्तोत्रं नामाष्टशतसंज्ञकम् ।
नामाष्टशतकस्यापि छन्दोऽनुष्टुबुदाहृतम् ।
वृहदारण्यको नाम ऋषिश्च परिकीर्त्तितः ।
देवता कथिता चेत्सद्भिर्वटुकभैरवः ।
सर्वकामार्थसिद्धार्थे विनियोगः प्रकीर्त्तितः ।। २१ ।।
भैरवो भूतनाथश्च भूतात्मना भूतभावनः ।
क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ।। १ ।।
श्मशानवासी मांसाशी खर्पराशी मखान्तकृत् ।
रक्तपः प्राणपः सिद्धः सिद्धिदः सिद्धसेवितः ।। २ ।।
करालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ।। ३ ।।
शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवो भीमो भूतपो योगिनीपतिः ।। ४ ।।
धनदो धनहारी च धनदः प्रतिभाववान् ।
नागहारो नागकेशो व्योमकेशः कपालभृत् ।। ५ ।।
कालः कपालमाली च कामनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपात् ।। ६ ।।
त्रिवृत्तनयनो डिम्भः शान्तः शान्तजनप्रियः ।
वटुको वटुकेशश्च खट्वाङ्गवरधारकः ।। ७ ।।
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डुलोचनः ।। ८ ।।
प्रशान्तः शान्तिदः शुद्धः शङ्करः प्रियबान्धवः ।
अष्टमूर्त्तिनिधीशश्च ज्ञानचक्षुस्तमोमयः ।। ९ ।।
अष्टाधारः सर्पयुक्तः शशी विषधरः शिवः ।
भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ।। १० ।।
कङ्कालधारी मुण्डो च नागयज्ञोपवीतवान् ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ।। ११ ।।
शुद्धनीलाञ्जनप्रख्यदेहो मुण्डविभूषितः ।
बालभुक्बलिभूतात्मा कामी कामपराक्रमः ।। १२ ।।
सर्वापत्तारको दुर्गो दुष्टभूतनिषेवितः ।
काली कलानिधिः कान्तः कामिनीवशकृद्वशी ।
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः प्रभाववान् ।। १३ ।।
अष्टोत्तरशतं नाम भैरवस्य महात्मनः ।
मया ते कथितं देवि रहस्यं सर्वकामदम् ।। १४ ।।
य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् ।
न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं तथा ।। १५ ।।
न शत्रुभ्यो भयं किञ्चित् प्राप्नोति मानव क्वचित् ।। १६ ।।
पातकानां भयं नैव पठेत् स्तोत्रमनन्यधीः ।
मारीभये राजभये तथा चौराग्निजे भये ।। १७ ।।
औत्पातिके महाघोरे तथा दुःखस्वप्नजे भये ।
बन्धने च महाघोरे पठेत् स्तोत्रं समाहितः ।। १८ ।।
सर्वे प्रशमनं यान्ति भयाद्भैरवकीर्तनात् ।
एकादश सहस्रन्तु पुरश्चरणमिष्यते ।। १९ ।।
त्रिसन्ध्यं य पठेद्देवि संवत्सरमतन्द्रितः ।
स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानुषः ।। २० ।।
षण्मासान्भूमिकामस्तु स जप्त्वा लभते महीम ।
राजा शत्रुविनाशाय जपेन्मासाष्टकं पुनः ।। २१ ।।
रात्रौ वारत्रयञ्चैव नाशयत्येव शात्रवान् ।
जपेन्मासत्रयं रात्रौ राजानं वशमानयेत् ।। २२ ।।
धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः ।
पठेद्वारत्रयं यद्वा वारमेकं तथा निशि ।। २३ ।।
धनं पुत्रांस्तथा दारान् प्राप्नूयान्नात्र संशयः ।। २४ ।।
भीतो भयात्प्रमुच्येत देवि सत्यं न संशयः ।
यान्यान्समीहते कामांस्तांस्तान् प्राप्नोति नित्यशः ।। २५ ।।
अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् ।
सुकुलीनाय शान्ताय ऋजवे दम्भवर्जिते ।
दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् ।। २६ ।।
ध्यानं वक्ष्यामि देवस्य यथा ध्यात्वा पठेन्नरः ।
शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।
भुजङ्गमेखलं देवमग्निवर्णशिरोरुहम् ।। २७ ।।
दिगम्बरं कुमारीशं वटुकाख्यं महाबलम् ।
खट्वाङ्गमसिपाशञ्च शूलञ्चैव तथा पुनः ।। २८ ।।
डमरुञ्च कपालञ्च वरदं भूजगन्तथा ।
नीलजीमुतसङ्काशं नीलाञ्जनचयप्रभम् ।। २९ ।।
दंष्ट्राकरालवदनं नूपुराङ्गदसंकुलम् ।
आत्मवर्णसमोपेतं सारमेयसमन्वितम् ।। ३० ।।
ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात् ।। ३१ ।।
ओं करकलितकपालः कुण्डली दण्डपाणिस्तरुणतिमिरनीलो
व्यालयज्ञोपवीती ।
क्रतुसमयसपर्याविघ्नविच्छेदहर्ता जयति वटुकनाथः सिद्धिदः
साधकानाम् ।। ३२ ।।
एतत्श्रुत्वा ततो देवी नामाष्टशतमुत्तमम् ।
भैरवाय प्रहृष्टाभूत् स्वयञ्चैव महेश्वरी ।। ३३ ।।

इति विश्वसारे आपदुद्धारकल्पे वचुकभैरवस्तराज समाप्तः ।

अथ भैरवीस्त्रोम् ।

स्तुत्यानया त्वां त्रिपुरे स्तोष्येऽभीष्टफलाप्तये ।
यया व्रजस्ति तां लक्ष्मीं मनुजाः सुरपूजिताम् ।। १ ।।
ब्रह्मादयः श्रुतिशतैरपि सूक्ष्मरूपां, जानन्ति नैव
जगदादिमनादिमूर्तिम् ।
तस्माद्वयं कुचलतां नव कुंकुमाभां स्थूलां स्तुमः
सकलवाङ्मय मातृभूताम् ।। १ ।।
सद्यः समुद्यतसहस्रदिवाकराभां विद्याक्षसूत्रवरदाभय
चिह्नहस्ताम् ।
नेत्रोत्पलैस्त्रिभिरलंकृतवक्त्रपद्मां त्वां तारहाररुचिरां
त्रिपुरे भजामः ।। २ ।।
सिन्दूरपूररुचिरं कुचभारनम्रं जन्मान्तरेषु
कृतपुण्यफलैकगम्यम् ।
अन्योन्यभेदकलहाकुलमानसास्ते जानन्ति किं
जडधियस्तवरूपमम्ब ।। ३ ।।
स्थूलां वदन्ति मुनयः श्रूतयो गृणन्ति सूक्ष्मां वदन्ति
वचसामधिवासमन्ये ।
त्वां मूलमाहुरपरे जगतां भवानि
मन्यामहेवयमपारकृपाम्बुराशिम् ।। ४ ।।
चन्द्रावतंसकलितां शरदिन्दुशुभ्रां पञ्चाशदक्षरमयीं
हृदि भावयन्ति ।
त्वां पुस्तकं जपवटीममृताम्बुकुम्भं व्याख्यां च
हस्तकमलैर्दधतीं त्रिनेत्राम् ।। ५ ।।
शम्भुस्तवमद्रितनया कलितार्द्धभागो विष्णुस्त्वम्ब
कमलापरिरब्धदेहः ।
पद्मोद्भवस्त्वमपि वागधिवासभूमिस्तेषां क्रियाञ्च जगति
त्रिपुरे त्वमेव ।। ६ ।।
आश्रित्य वाग्भवांश्चतुरः परादीन भावान्पदेषु
विहितान्समुदीरयन्तीम् ।
कण्ठादिभिश्च करणैः परदेवतां त्वां सञ्चिन्मयीं हृदि
कदापि न विस्मरामि ।। ७ ।।
आकुञ्च्य वायुमवजित्य च वैरिषट्कमालोक्य निश्चलधिया
निजनासिकाग्रम् ।
ध्यायन्ति मूर्ध्नि कलितेन्दुकला वतंसं त्वद्रूपम्ब
कृतिनस्तरुणार्कमित्रम् ।। ८ ।।
त्वं प्राप्य मन्थरिपोर्वपुरर्द्धभागं सृष्टिं करोषि जगतामिति
वेदवादः ।
सत्यं तदद्रितनये जगदेकमातर्नो चेदशेषजगतः स्थितिरेव न स्यात्
।। ९ ।।
पूजां विधाय कुसुमैः सुरपादपानां पीठे तवाम्ब
कनकाचलगह्वरेषु ।
गायन्ति सिद्धवनिताः सह
किन्नरीभिरास्वादितासवरसारुणनेत्रपद्माः ।। १० ।।
विद्युद्बिलासवपुशः श्रियमुद्बहन्तीं यान्तीं
स्ववासभवनाच्छिवराजधानीम् ।
सौषुम्नवर्त्मकमलानि विकासयन्तीं देवीं भजे हृदि
परामृतसिक्तगात्रीम् ।। ११ ।।
आनन्दजन्मभवनं भवनं श्रुतीनां चैतन्यमात्रतनुमम्ब
तवाश्रयामि ।
ब्रह्मेशविष्णुभिरुपासित पादपद्मां सौभाग्यजन्मवसतीं
त्रिपुरे यथावत् ।। १२ ।।
शब्दार्थभाविभुवनं सृजतीन्दुरूपा या तद्विभर्ति
पुनरर्कतनुं स्वशक्त्या ।
वह्न्यात्मिका हरति तत्सकलं युगान्ते तां शारदां मनसि जातु न
विस्मरामि ।। १३ ।।
नारायणीति नरकार्णवतारिणीति गौरीति खेदशमनीति सरस्वतीति ।
ज्ञानप्रदेति नयनत्रयभूषितेति स्वामद्रिराजतनये बहुधा
भजन्ति ।। १४ ।।
ये स्तुवन्ति जगन्मातः श्लोकैर्द्वादशभिः क्रमात् ।
स्वामनुप्राप्य वाक्सिद्धिं प्राप्नुयुस्ते नराः श्रियम् ।। १५ ।।

इति भैरवीतन्त्रे भैरवीस्तवराजः समाप्तम् ।

अथ भैरवीकवचम् ।

श्रीदेव्युवाच :

भरव्याः सकला विद्याः श्रुताश्चाधिगता मया ।
साम्प्रतं श्रोतुमिच्छामि कवचं यत्पुरोदितम् ।। १ ।।
त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारकम् ।
त्वत्तः परतरो नाथ कः कृपां कर्तुमर्हति ।। २ ।।

ईश्वर उवाच :

शृणु पार्वति वक्ष्यामि सुन्दरि प्राणवल्लभे ।
त्रैलोक्य विजयं नाम शस्त्रास्त्र कवचं मन्त्रविग्रहम् ।। ३ ।।
पठित्वा धारयित्वेदं त्रैलोक्यविजयी भवेत् ।
जघान सकलान्दैत्यान् यद्धृत्वा मधुसूदनः ।। ४ ।।
ब्रह्मा सृष्टिं वितनुते यद्धृत्वाभीष्टदायकः ।
धनाधिपः कुबेरोऽपि वासवस्त्रिदशेश्वरः ।। ५ ।।
यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः ।
न देयं परशिष्येभ्योऽसाधकेभ्यः कदाचन ।। ६ ।।
पुत्रेभ्यः किमुतान्येभ्यो दत्त्वा मृत्युमवाप्नुयात् ।
भैरव्याः कवचस्यास्य ऋषिर्दक्षिणामूर्तिरेव च ।। ७ ।।
विराट् छन्दो जगद्धात्री देवता बालभैरवी ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ।। ८ ।।
अधरो बिन्दुमानाद्यः कामः शक्तीशशीयुतः
भृगुर्मनुस्वरयुतः सर्गो बीजत्रयात्मकः ।। ९ ।।
बालैषा मे शिरः पातु बिन्दुनादयुतापि सा ।
भालं पातु कुमारी च सर्गहीना कुमारिका ।। १० ।।
दृशौ पातु च वाग्बीजं कर्णयुग्मं सदावतु ।
कामबीजं सदा पातु घ्राणयुग्मं सदावतु ।। ११ ।।
सरस्वतीप्रदा बाला जिह्वां पातु शुचिप्रभा ।
हसैं कण्ठं हसकलरीं स्कन्धौ पातु हसौर्भुजौ ।। १२ ।।
पञ्चमी भैरवी पातु करौ हसरैं सदावतु ।
हृदयं हसकलरीं वक्षः पातु हसरोः स्तनौ ।। १३ ।।
पातु मां भैरवी देवी चैतन्यरूपिणी मम ।
हस्रैं पातु सदा पार्श्वयुग्मं हसकलरीं सदा ।। १४ ।।
कुक्षिं पातु हसौर्मध्यं भैरवी भुवि दुर्लभा ।
ऐं ईं ओं मे मध्यदेशं बीजविद्या सदावतु ।। १५ ।।
हसैं पृष्ठं सदा पातु नाभिं हसकलरीं तथा ।
पातु हसौः कटीदेशं षट्कुटा भैरवी मम ।। १६ ।।
हसरैं सक्थिनी पातु हसकलरीं सदावतु ।
गुह्यदेशं हसौः पातु जानुनी भैरवी मम ।। १७ ।।
सम्पत्प्रदा सदा पातु हसैं जंघे हसरीं पदम् ।
पातु हसौः सर्वदेहं भैरवी सर्वदावतु ।। १८ ।।
हसैं मामवतु प्राच्यां हसकलरीं पावकेऽवतु ।
हसौः मे दक्षिणे पातु भैरवी चक्रमास्थिता ।। १९ ।।
ह्रीं क्लीं ब्लूं मां सदा पातु नैर्-ऋत्यां चक्रभैरवी ।
हसैं हसकलह्रीं हसरौः पश्चिमे पातु भैरवी ।। २० ।।
क्रीं क्रीं क्रीं पातु वायव्यां हूं हूं पातु सदोत्तरे ।
ह्रीं ह्रीं पातु सदैशान्ये दक्षिणे कालिकेऽवतु ।। २१ ।।
ऊर्ध्वं प्रागुक्तबीजानि रक्षन्तु ममधःस्थले ।
दिग्विदिक्षु स्वाहा कालिका खड्गधारिणी ।। २२ ।।
ओं ह्रीं स्त्रीं फट् सा तारा सर्वत्र मां सदावतु ।
संग्रामे कानने दुर्गे तोये तरङ्गदुस्तरे ।। २३ ।।
खड्गकर्तृधरा सोग्रा सदा मां परिरक्षतु ।
इति ते कथितं देवि सारात्सारतरं महत् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।। २४ ।।
यः पठेत् प्रयतो भूत्वा पूजायाः फलमाप्नुयात् ।
स्पर्द्धामूद्धूय भवने लक्ष्मीर्वाणी वसेत् ततः ।। २५ ।।
यः शत्रुभीतो रणकातरो वा, भीतो वने वा सलिलालये वा ।
वादे सभायां प्रतिवादिनो वा राज्ञः प्रकोपाद्ग्रहसंकुलाद्वा

प्रचण्डवाताच्छमनाच्च भीतो गुरोः प्रकोपादपि कृच्छ्रसाध्यात् ।
अभ्यर्च्य देवीं प्रपठेत् त्रिसन्ध्यं स स्यान्महेशप्रतिमो जयी च ।।
२६ ।।
त्रैलोक्यविजयं नाम कवचं मन्मुखोदितम् ।
विलिख्य भूर्जे गुलिकां स्वर्णस्थां धारयेद्यदि ।। २७ ।।
कण्ठे वा दक्षिणे बाहौ त्रैलोक्यविजयी भवेत् ।
तद्गात्रं प्राप्य शस्त्राणि भवन्ति कुसुमानि च ।। २८ ।।
लक्ष्मीः सरस्वती तस्य निवसेद्भवने सुखे ।
एतत् कवचमज्ञात्वा यो जपेद्भैरवीं पराम् ।। २९ ।।
बालां वा प्रजपेद्विद्यां दरिद्रो मृत्युमाप्नुयात् ।। ३० ।।

इति श्रीरुद्रयामले देवीश्वरसम्वादे त्रैलोक्यविजयं नाम
भैरवीकवचं समाप्तम् ।

अथ श्रीविद्यास्तोत्रम् ।

कल्याणवृष्टिभिरिवामृतपूरिताभिर्लक्ष्मी स्वयं
वरणमङ्गलदीपिकाभिः सेवाभिरम्ब तव पादसरोजमूले, नाकारि
किं मनसि भक्तिमतां जानानाम् ।। १ ।।
एतावदेव जननि स्पृहणीयमास्ते, त्वद्वन्दनेषु सलिलस्थसरोजनेत्रे ।
सान्निध्यमुद्यदरुणाम्बुजसोदरस्य, त्वद्विग्रहस्य सुधया
परयाप्लुतस्य ।। २ ।।
ईषत्प्रभावकलुषाः कति नाम सन्ति, ब्रह्मादयः प्रतिदिनं
प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते, यः पादयोस्तव सकृत्प्रणतिं
करोति ।। ३ ।।
लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभवं
कटाक्षम् ।
कन्दर्पभावसुभगास्त्वयि भक्तिभाजः संमोहयन्ति
तरुणीर्भुवनत्रयेऽपि ।। ४ ।।
ह्रींकारमेव तव नाम गृणन्ति देवा, मातस्त्रिकोणनिलये त्रिपुरे
त्रिनेत्रे ।
त्वत्संस्मृतौ वमभटा भिभवं विहाय, दीव्यन्ति नन्दनवने सह
लोकपालैः ।। ५ ।।
हन्तु पुरामधिगलं परिपूर्णमानः, क्रूरः कथं न भविता
गरलस्य वेगः ।
नाश्वासनाय यदि मातरिदं तवार्द्धं, देहस्य
शश्वदमृताप्लुतशीतलस्य ।। ६ ।।
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते, देवि
त्वदङ्घ्रिसरसौरुहयोः प्रणामः ।
किञ्च स्फुरन्मुकुटमुज्वलमातपत्रं द्वे चामरे च महतीं
वसुधां ददाति ।। ७ ।।
कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्य-वारिधिभिरम्ब
भवत्कटाक्षैः ।
आलोकय त्रिपुरसुन्दरि मामनाथं, त्वयेव भक्तिभरितं त्वथि
वद्धदृष्टिम् ।। ८ ।।
हन्तेतरेष्वपि निधाय मनांसि चान्ये भक्तिं वहन्ति किल पामर
दैवतेषु ।
त्वामेव देवि मनसाहमनुस्मरामि, त्वामेव नौमि शरणं जननि
त्वमेव ।। ९ ।।
लक्षेषु सत्स्वपि तवाक्षिविलोकनानामलोकय त्रिपुरसुन्दरि मां
कथञ्चित् ।
नूनं मया च सदृशं करुणैकपात्रं, जातो जनिष्यति जनो न च
जायते वा ।। १० ।।
ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां, किं नाम दुर्लभमिह
त्रिपुरधिवासे ।
मालाकिरीटमदवारणमाननीयांस्तान्सेवते मधुमती स्वयमेव
लक्ष्मीः ।। ११ ।।
सम्पत्कराणि सकलेन्द्रियनन्दनानि , साम्राज्यदानकुशलानि
सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि, मामेव मातरनिशं कलयन्तु
नान्यम् ।। १२ ।।
कल्पोपसंहरणकल्पितताण्डवस्य, देवस्य खण्डपरशोः
परभैरवस्य ।
पाशांकुशैक्षवशरासनपुष्पबाणा, स साक्षिणी विजयते तव
मूर्तिरेका ।। १३ ।।
लग्नं सदा भवतु मातरिदं त्वदीय, तेजः परं
बहुलकुंकुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं रूपं त्रिकोणमुदितं
परमामृताक्तम् ।। १४ ।।
ह्रींकारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं, स्तोत्रं यः
प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षौणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी, वाणी
निर्मलसूक्तिभारभरिता जागर्ति दीर्घं यशः ।। १५ ।।
इति श्रीविद्यास्तोत्रं समाप्तम् ।।

अथ किङ्किणीस्तोत्रम् ।

किं किं दुःखं सकलजननि क्षीयते न स्मृतायां का का कीर्तिः
कुलकमलिनि प्राप्यते नार्चितायाम् ।
किं किं सौख्यं सुरवरनुते प्राप्यते न स्तुतायां, कं कं
योगं त्वयि न तनुते चित्तमालम्बितायाम् ।। १ ।।
स्मृता भव-भयं हंसि पूजितासि शुभङ्करि ।
स्तुता त्वं वाञ्छितं देवि ददासि करुणाकरे ।। २ ।।
परमानन्दबोधाब्धिरूपे तेजःस्वरूपिणि ।
देववृन्द-शिरोरत्न-निघृष्ट-चरणाम्बुजे ।
चिद्विश्रान्तिमहासत्तामात्रे मात्रे नमोऽस्तु ते ।। ३ ।।
सृष्टिस्थित्युपसंहार-हेतुभूते सनातनि ।
गुणत्रयात्मिकासि त्वं जगतः करणेच्छया ।। ४ ।।
अनुग्रहाय भूतानां गृहीतदिव्यविग्रहे ।
भक्तस्य मे नित्यपूजायुक्तस्य परमेश्वरि ।। ५ ।।
ऐहिकामुष्मिकीं सिद्धिं देहि त्रिदशवन्दिते ।
तापत्रयपरिम्लानभाजनं त्राहि मां शिवे ।। ६ ।।
नान्यं वदामि न शृणोमि न चिन्तयामि, नान्यं स्मरामि न
भजामि न चाश्रयामि ।
त्यक्त्वा त्वदीय चरणाम्बुजमादरेण, मां त्राहि देवि कृपयामयि
देहि सिद्धिम् ।। ७ ।।
अज्ञानाद्वा प्रमादाद्वा वैकल्यात् साधनस्य च ।
यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि ।। ८ ।।
द्रव्यहीनं क्रियाहीनं श्रद्धामन्त्रविवर्जितम् ।
तत्सर्वं कृपया देवि क्षमस्व त्वं दयान्दिहे ।। ९ ।।
यन्मया क्रियते कर्म तन्महत्स्वल्पमेव वा ।
तत्सर्वञ्च जगद्धात्रि क्षन्तव्यमयमञ्जलिः ।। १० ।।

इति किङ्किणीस्तोत्रं समाप्तम् ।।

अथ श्रीविद्याकवचम् ।

देव्युवाच :

देवदेव महादेव भक्तानां प्रीतिवर्द्धन ।
सूचितं यन्महादेव्याः कवचं कथयस्व मे ।। १ ।।

श्रीमहादेव उवाच :

शृणु देवि प्रवक्ष्यामि कवचं मन्त्रविग्रहम् ।
अप्रकाश्यं परं गुह्यं सकलाभीष्टसिद्धिदम् ।। २ ।।
कवचस्य ऋषिर्देवि दक्षिणामूर्तिरव्यः ।
छन्दः पंक्तिः समुद्दिष्टं देवी त्रिपुरसुन्दरी ।
धर्मार्थ काममोक्षाणां विनियोगश्च साधने ।। ३ ।।
वाग्भवं कामराजश्च शक्तिबीजं सुरेश्वरि ।
वाग्भवः पातु शीर्षे मां कामराजस्तथा हृदि ।। ४ ।।
शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ।
ऐं क्लीं सौर्वदने पातु बाला मां सर्वसिद्धये ।। ५ ।।
हसैं हसकलरीं हसौः पातु भैरवी कण्ठदेशतः ।
सुन्दरी नाभिदेशेऽव्याच्छीर्षे कामकला सदा ।। ६ ।।
भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ।
ललाटे सुभगा पातु भगा मां कण्ठदेशतः ।। ७ ।।
भगोदया तु हृदये उदरे भगसर्पिणी ।
भगमाला नाभिदेशे लिङ्गे पातु मनोभवा ।। ८ ।।
गुह्ये पातु महादेवी राजराजेश्वरी शिवा ।
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका ।। ९ ।।
नारायणी सर्वगात्रे सर्वकार्ये शुभङ्करी ।
ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा ।। १० ।।
पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ।
आग्नेययां पातु कौमारी महालक्ष्मीश्च नैर्-ऋते ।। ११ ।।
वायव्यां पातु चामुण्डा इन्द्राणी पातु ईशके ।
जले पातु महामाया पृथिव्यां सर्वमङ्गला ।
आकाशे पातु वरदा सर्वत्र भुवनेश्वरी ।। १२ ।।
इदन्तु कवचं देव्या देवानामपि दुर्लभम् ।
पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः ।। १३ ।।
नाधयो व्याधयस्तस्य न भयञ्च क्वचिद्भवेत् ।
न च मारीभयं तस्य पातकानां भयं तथा ।। १४ ।।
न दारिद्र्यवशं गच्छेत् तिष्ठेन्मृत्युवशे न च ।
गच्छेच्छिवपुरं देवि सत्यं सत्यं वदामि ते ।। १५ ।।
इदं कवचमज्ञात्वा श्रीविद्यां यो जपेत् प्रिये ।
स नाप्नोति फलं तस्य प्राप्नुयाच्छस्त्रघातनम् ।। १६ ।।

इति सिद्धयामले श्रीविद्याकवचं समाप्तम् ।

अथ महात्रिपुरसुन्दरीकवचम् ।

देव्युवाच :

भगवन् देवदेवेश लोकानुग्रहकारक ।
त्वत्प्रसादान्महादेव श्रुता मन्त्रान्त्वनेकधा ।। १ ।।
साधनं विविधं देव कीलकोद्धारणं तथा ।
शापादिदूषणोद्धारः श्रुतस्त्वत्तो मया प्रभो ।। २ ।।
राजराजेश्वरी देव्याः कवचं सूचितं मयि ।
श्रोतुमिच्छामि त्वत्तस्तत्कथयस्व मयि प्रभो ।। ३ ।।

ईश्वर उवाच :

लक्षवार सहस्राणि वारितासि पुनः पुनः ।
स्त्रीस्वभावात्पुनर्देवि पृच्छसि त्वं मयि प्रिये ।। ४ ।।
अत्यन्तगुह्यं कवचं सर्वकामफलप्रदम् ।
प्रीतये तव देवेशि कथयामि शृणुष्व तत् ।। ५ ।।
अस्य राजराजेश्वरी-श्रीमहात्रिपुरसुन्दरीषोडशीविद्याकवचस्य
महादेव-ऋषिः प्रस्तारपक्तिच्छन्दो राजराजेश्वरी-
महात्रिपुरसुन्दरी देवता पुरुषार्थसाधने विनियोगः ।। ६ ।।
पूर्वे मां भैरवी पातु बाला मां पातु दक्षिणे ।
मालिनी पश्चिमे पातु त्रासिनी तूत्तरेऽवतु ।। ७ ।।
ऊर्ध्वं पातु महादेवी महात्रिपुरसुन्दरी ।
अधस्तात्पातु देवेशी पातालतलवासिनी ।। ८ ।।
आधारे वाग्भवः पातु कामराजन्तथा हृदि ।
डामरः पातु मां नित्यं मस्तके सर्वकामदः ।। ९ ।।
ब्रह्मरन्ध्रे सर्वगात्रे छिद्रस्थाने च सर्वदा ।
महाविद्या भगवती पातु मां परमेश्वरी ।। १० ।।
ऐं क्लीं ललाटे मां पायात् ह्रीं ब्लूं सः पातु नेत्रयोः ।
नासायां कर्णयोश्चैव द्रां द्रैं द्रां द्रीं चिबुके तथा ।
सौः पातु च गले सह्रीं हृदये नाभिदेशके ।। ११ ।।
कलह्रीं क्लीं स्त्रीं गुह्यदेशे सह्रीञ्च पातुपादयोः ।
सहह्रीं मां सर्वतः पातु सक्लीं पातु च सन्धिषु ।। १२ ।।
जले स्थलेतथाकाशे दिक्षु राजगृहे तथा ।
हूं क्षे मां त्वरिता पातु सह्रीं सक्लीं मनोभवा ।। १३ ।।
हंसः पायान्महादेवी परं निष्कलदेवता ।
विजया मङ्गला दूती कल्याणी भगमालिनी ।
ज्वाला च मालिनी नित्या सर्वदा पातु मां शिवा ।। १४ ।।
इत्येवं कवचं देवि देवानामपि दुर्लभम् ।
तव प्रीत्या मया ख्यातं गोपनीयं प्रयत्नतः ।। १५ ।।
इदं रहस्यं परमं गुह्याद्गुह्यतरं प्रिये ।
धन्यं यशस्यमायुष्यं भोगमोक्षप्रदं शिवम् ।। १६ ।।
दुःस्वप्ननाशनं पुंसां नरनारीवशङ्करम् ।
आकर्षणकरं देवि स्तम्भोच्चाटकरं शिवे ।। १७ ।।
इदं कवचमज्ञात्वा राजराजेश्वरी शिवाम् ।
योऽर्चयेद्योगिनीवृन्दैः स भक्ष्यो नात्र संशयः ।। १८ ।।
न तस्य मन्त्रसिद्धिः स्यात् कदाचिदिपि शङ्करि ।
इहलोके च द्रारिद्र्यं रोगदुःखभयानि च ।
परत्र नरकं गत्वा पशुयोनिमवाप्नुयात् ।
तस्मादेतत् सदाभ्यस्येदधिकारी भवेत् ततः ।। १९ ।।
मद्वक्त्रनिर्गतमिदं कवचं सुपुण्यं, पूजाविधेश्च पुरतो
विधिना पठेद्यः ।
सौभाग्यभोगललितानि शुभानि भुक्त्वा, देव्याः पदं भजति
तत्पुनरन्तकाले ।। २० ।।

इति कुलानन्द संहितायां त्रिपुरसुन्दरीषोडशीविद्या कवचं
समाप्तम् ।

अथ प्राचण्डचण्डिका-स्तोत्रम् ।

नाभौ शुद्धसरोजरक्तविलसद्बन्धूकपुष्पारुणं,
भास्वद्भास्करमण्डलं तदुदरे तद्योनिचक्रं महत् ।
तन्मध्ये विपरीतमैथुनरतप्रद्युन्म तत्कामिनी पृष्ठस्थां
तरुणार्क कोटिविलसत्तेजः स्वरूपां शिवाम् ।। १ ।।
वामे छिन्नशिरोधरां तदितरे पाणौ महत्कर्तृकां
प्रत्यालीढपदां दिगन्तवसनामुन्मुक्तकेशव्रजाम् ।
छिन्नात्मीयशिरः समुल्लसदसृग्धारां पिबन्तीं परां,
बालादित्यसमप्रकाशविलसन्नेत्रत्रयोद्भासिनीम् ।। २ ।।
वामादन्यत्र नालं बहुबहुलगलद्रक्तधाराभिरुच्चैः ।
पायन्तीमस्थिभूषां करकमललसत्कर्तृकामुग्ररूपाम् ।
रक्तामारक्तकेशीमपगतवसनां वर्णिनीमात्मशक्तिं,
प्रत्यालीढोरुपादामरुणितनयनां योगिनीं योगनिद्राम् ।। ३ ।।
दिग्वस्त्रां मुक्तकेशीं प्रलयघनघटाघोररूपां
प्रचंडां
दंष्ट्रादुष्प्रेक्ष्यवक्त्रोदरविवरलसल्लोलजिह्वाग्रभासाम् ।
विद्युल्लोलाक्षियुग्मां हृदयतटलसद्भोगिभीमां सुमूर्त्तिं
सद्यश्छिन्नात्मकण्ठ-प्रगलितरुधिरैर्डाकिनीं वर्द्धयन्तीम् ।। ४ ।।
ब्रह्मेशानाच्युताद्यैः शिरसि
विनिहितामन्दपादारविन्दैरात्मज्ञैर्योगिमुख्यैः प्रतिदिनमनिशं
चिन्तिताचिन्त्यरूपां ।
संसारे सारभूतां त्रिभुवनजननीं छिन्नमस्तां
प्रशस्तामिष्टां तामिष्टदात्रीं कलिकलुषहरां चेतसा चिन्तयामि
।। ५ ।।
उत्पत्तिस्थितिसंहृतीर्घटयितुं धत्ते त्रिरूपां तनुं
त्रैगुण्यार्जगतो यदीयविकृतिर्ब्रह्माच्युतः शूलभृत् ।
तामाद्यां प्रकृतिं स्मरामि मनसा सर्वार्थसंसिद्धये,
यस्याः स्मेरपदारविन्दुयुगले लाभं भजन्तेऽमराः ।। ६ ।।
अलिपिशितपरस्त्री-योगपूजापरोऽहं,
बहुविधजनभावारम्भसम्भावितोऽहम् ।
पशुजनविरतोऽहं भैरवीसंस्थितोऽहं गुरुचरणपरोऽहं
भैरवोऽहं शिवोऽहम् ।। ७ ।।
इदं स्तोत्रं महापुण्यं ब्रह्मणा भाषितं पुरा ।
सर्वसिद्धिप्रदं साक्षान्महापातकनाशनम् ।। ८ ।।
यः पठेत् प्रातरुत्थाय देव्याः सन्निहितोऽपि वा ।
तस्य सिद्धिर्भवेद्देवि वाञ्छितार्थप्रदायिनी ।। ९ ।।
धनं धान्यं सुतं जायां हयं हस्तिनमेव च ।
वसुन्धरां महाविद्यामष्टौ सिद्धीर्भवेद्ध्रुवम् ।। १० ।।
वैयाघ्राजिनरञ्जितस्वजघने रम्ये प्रलम्बोदरे
खर्वेऽनिर्वचनीयपर्वसुभगे मुण्डावली मण्डिते ।
कर्त्रीं कुन्दरुचिं विचित्रललितां ज्ञानं दधाने पदे,
मातर्भक्तजनानुकम्पिनि महामायेऽस्तु तुभ्यं नमः ।। ११ ।।

इति प्रचण्डचण्डिकास्तोत्रं समाप्तम् ।

अथ प्रचण्डचण्डिकाकवचम् ।

देव्युवाच :

कथिताच्छिन्नमस्ताया या या विद्याः सुगोपिताः ।
त्वया नाथेन जीवेश श्रुताश्चाधिगता मया ।। १ ।।
इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ।
त्रैलोक्यविजयं नाम कवचं कथ्यतां प्रभो ।। २ ।।

भैरव उवाच :

शृणु वक्ष्यामि देवेशि सर्वदेवनमस्कृते ।
त्रैलोक्य विजयं नाम कवचं सर्वमोहनम् ।। ३ ।।
सर्वविद्यामयं साक्षात्सुरासुरजयप्रदम् ।
धारणात् पठनादीशस्त्रैलोक्यविजयी विभुः ।। ४ ।।
ब्रह्मा नारायणो रुद्रो धाराणात्पठनाद्यतः ।
कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि ।। ५ ।।
न देयं परशिष्येभ्योह्य भक्तेभ्योपि विशेषतः ।
देयं शिष्याय भक्ताय प्राणेभ्योप्यधिकाय च ।। ६ ।।
देव्याश्चच्छिन्नमस्तायाः कवचस्य च भैरवः ।
ऋषिर्विराट् छन्दस्तु देवता च्छिन्नमस्तका ।। ७ ।।
त्रैलोक्यविजये मुक्तौ विनियोगः प्रकीर्त्तितः ।
हूंकारो मे शिरः पातु छिन्नमस्ता बलप्रभा ।। ८ ।।
ह्रां ह्रूं ऐं त्र्यक्षरी पातु भालं वक्त्रं दिगम्बरी ।
श्रीं ह्रीं हूं ऐं दृशौ पातु मुण्डकत्रीधरापि सा ।। ९ ।।
सा विद्या प्रणवाद्यन्ता श्रुतियुग्मं सदाऽवतु ।
वज्रवैरोचनीये हुं फट् स्वाहा च ध्रुवादिका ।। १० ।।
घ्राणं पातु छिन्नमस्तामुण्डकर्तृविधारिणी ।
श्रीमायाकूर्चवाग्बीजैर्वज्रवैरोचनीये हूं ।। ११ ।।
हूं फट् स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी ।
स्वपार्श्वेवर्णी चासृग्धारां पाययन्ती मुदा ।। १२ ।।
वदनं सर्वदा पातु छिन्नमस्ता स्वशक्तिका ।
मुण्डकर्तृधरा रक्ता साधकाभीष्टदायिनी ।। १३ ।।
वर्निनी डाकिनीयुक्ता सापि मामभितोऽवतु ।
रमाद्या पातु जिह्वां च लज्जाद्या पातु कण्ठकम् ।। १४ ।।
कूर्चाद्या हृदयं पातु वागाद्या स्तनयुग्मकम् ।
रमया पुटिता विद्या पाश्वौं पातु सुरेश्वरी ।। १५ ।।
मायया पुटिता पातु नाभिदेशे दिगम्बरी ।
कूर्चेन पुटिता देवी पृष्ठदेशे सदावतु ।। १६ ।।
वाग्बीजपुटिता चैषा मध्यं पातु सशक्तिका ।
ईश्वरी कूर्चवाग्बीजैर्वज्रवैरोचनीये हूं ।। १७ ।।
हूं फट् स्वाहा महाविद्या कोटिसूर्यसमप्रभा ।
छिन्नमस्ता सदा पायादूरुयुग्मं सशक्तिका ।। १८ ।।
ह्रीं ह्रूं वर्णिनी जानुं श्रीं ह्रीं हूं च डाकिनी पदम् ।
सर्वविद्यास्थिता नित्या सर्वाङ्गं मे सदावतु ।। १९ ।।
प्राच्यां पायादेकलिङ्गा योगिनी पावकेऽवतु ।
डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम् ।। २० ।।
नै-ऋत्यां सततं पातु भैरवी पश्चिमेऽवतु ।
इन्द्राक्षी पातु वायव्येऽसितांगी चोत्तरे ।। २१ ।।
संहारिणी सदा पातु शिवकोणे सकर्तृका ।
इत्यष्ट शक्तयः पान्तु दिग्विदिक्षु सकर्तृकाः ।। २२ ।।
क्रीं क्रीं क्रीं पातु मां पूर्वे हूं हूं मां पातु पावके ।
ह्रीं ह्रीं मां दक्षिणे पातु दक्षिणे कालिकेऽवतु ।। २३ ।।
क्रीं क्रीं क्रीं चैव नैर्-ऋत्यां ह्रूं ह्रूं च मां
पश्चिमेऽवतु ।
हूं हूं पातु मरुत्कोणे स्वाहा पातु सदोत्तरे ।। २४ ।।
महाकाली खड्गहस्ता शिवकोणे सदावतु ।
तारो माया वधूः कूर्चं फट्कारोऽयं महामनुः ।। २५ ।।
खड्गकर्तृधरा तारा चोर्ध्वदेशं सदावतु ।
ह्रीं स्त्रीं हूं फट् च पाताले मां पातु चैकजटा सती ।
तारा तु सहिता खेऽव्थान्महानीलसरस्वती ।। २६ ।।
इति ते कथितं देव्याः कवचं मन्त्रविग्रहम् ।
यद्धृत्वा पठनाद्भीमः क्रोधाख्यो भैरवः स्मृतः ।। २७ ।।
सुरासुरमुनीन्द्राणां कर्ता हर्ता भवेत्स्वयम् ।
यस्याज्ञया मधुमती याति सा साधकान्तिकम् ।। २८ ।।
भूतिन्याद्याश्च डाकिन्यो यक्षिण्याद्याश्च खेचराः ।
आज्ञां गृह्णन्ति तास्तस्य कवचस्य प्रसादतः ।। २९ ।।
एतदेव परं ब्रह्मकवचं मन्मुखोदितम् ।
देवीमभ्यर्च्य गन्धाद्यैर्मूलेनैव पठेत् सकृत् ।। ३० ।।
सम्वत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
भूर्जे विलिखिञ्चैतत्गुटिकां काञ्चनस्थिताम् ।। ३१ ।।
धारयेद्दक्षिणे बाहौ कण्ठे वा यदि वाग्यतः ।
सर्वैश्वर्युतौ भूत्वा त्रैलोक्यं वशमानयेत् ।। ३२ ।।
तस्य गेहे वसेल्लक्ष्मीर्वाणी च वदनाम्बुजे ।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रे यान्ति सौम्यताम् ।। ३३ ।।
इदं कधचमज्ञात्वा यो भजेच्छिन्नमस्तकाम् ।
सोपि शस्त्रप्रहारेण मृत्युमाप्नोति सत्वरम् ।। ३४ ।।

इति भैरवतन्त्रे छिन्नमस्ताकवचं समाप्तम् ।

अथ श्यामास्तोत्रम् ।

कर्पूरं मध्यमात्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं
ते मातरेतत्त्रिपुरहरवधूः त्रिःकृतं ये जपन्ति ।
तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसंत्येव वाचः
स्वच्छन्दं ध्वान्तधाराधररुचिरुचिरे सर्वसिद्धिं गतानाम् ।। १ ।।
ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वचेता
मन्दचेता यदि जपति जनो वारमेकं कदाचित् ।
जित्वा वाचामधीशं धनदमपि चिरं
मोहयन्त्यन्नम्बुजाक्षीवृन्दं चन्द्रार्द्धचूडे प्रभवति स
महाघोररावावतंसे ।। २ ।।
ईशो वैश्वानरस्थः शशिधरविलसद्वामनेत्रेण युक्तो बीजं ते
द्वन्द्वमन्यद्विगलितचिकुरे कालिके ये जपन्ति ।
द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति
सृक्कद्वन्द्वास्रधाराद्वयधरवदने दक्षिणे कालिकेति ।। ३ ।।
ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः
सव्येऽभीतिं वरं च विजगदघहरे दक्षिणे कालिके च ।
जप्त्वैतन्नाम ये वा तव मनुविभवं धारयन्त्येतदम्ब
तेषामष्टौ करस्थाः प्रकटितवदने सिद्धयस्त्र्यम्बकस्य ।। ४ ।।
वर्गाद्यं वह्निसंस्थं विधुरतिवलितं तत्त्रयं कूर्चयुग्मं
लज्जाद्वन्द्वं च पश्चात् स्मितमुखि त्वदधष्टद्वयं योजयित्वा ।
मातर्ये ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं ते
लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति ।। ५ ।।
प्रत्येकं वा द्वयं वा त्रयमापि च परं बीजमत्यन्तगुह्यं
त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति ।
तेषां नेत्रारविन्दे विहरति कमलावक्त्र शुभ्रांशुबिम्बे वाग्देवी
दिव्यमुण्डस्रगतिशयलसत्कण्ठपीनस्तनाढ्ये ।। ६ ।।
गतासूनां बाहुप्रकरकृतकाञ्ची परिलसन्नितम्बां दिग्वस्त्रां
त्रिभुवनविधात्रीं त्रिनयनाम् ।
श्मशानस्थे तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वां
ध्यायञ्जननि जडचेता अपि कविः ।। ७ ।।
शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिकरैः परं
संकीर्णायां प्रकटितचितायां हरवधूम् ।
प्रविष्टां सन्तुष्टामुपरि सुरतेनातियुवतीं सदा त्वां ध्यायन्ति
क्वचिदपि न तेषां परिभवः ।। ८ ।।
वदामस्ते किं वा जननि वयमुच्चैर्ज्जडधियो न धाता नापीशो
हरिरपि न ते वेत्ति परम् ।
तथापि त्वद्भक्तिर्मुखरयति चास्माकमसिते तदेतत्क्षन्तव्यं न
खलु पशुरोषः समुचितः ।। ९ ।।
समन्तादापीनस्तन-जघनधृग्यौवनवतीरता-सक्तो नक्तं यदि
जपति भक्तस्तव मनुम् ।
विवासास्त्वां ध्यायन्गलित चिकुरस्तस्य वशगाः समस्ताः
सिद्धुघा भुवि चिरतरं जीवति कविः ।। १० ।।
समाः सुस्थीभूतां जपति विपरीतां यदि सदा विचिन्त्य त्वां
ध्यायन्नतिशयमहाकालसुरताम् ।
तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या
हरवधुसिद्धिनिवहाः ।। ११ ।।
प्रसूते संसारं जननि भगवति पालयति च समस्तं क्षित्यादि
प्रलयसमये संहरति च ।
अतस्त्वं धातापि त्रिभुवनपतिः श्रीपतिरहो महेशोऽपि प्रायः
सकलमपि किं स्तौमि भवतीम् ।। १२ ।।
अनेके सेवन्ते हरगृहिणी गीर्वाणनिवहा विमूढान्ते मातः किमपि
नहि जानन्ति परमम् ।
समाराध्यामाद्यां हरिहरविरञ्च्यादिविबुधैः प्रपन्नोऽस्मि
स्वैरं रतिरसमहानन्दनिरताम् ।। १३ ।।
धरित्री कीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी
गिरिशरमणी कालि सकलम् ।
स्तुतिः का ते मातस्तव करुणया मामगतिकं प्रसन्ना त्वं भूया
भवमनु न भूयान्मम मनुः ।। १४ ।।
श्मशानस्थः स्वस्थो गलितचिकुरो दिक्पटधरः सहस्रं
त्वर्काणां निजगलितवीर्येण कुसुमम् ।
जपनन्स्त्वत्प्रत्येकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स
भवति धरित्रीपरिवृढः ।। १५ ।।
गृहे सम्मार्ज्जन्या परिगलित वीर्यं हि कुसुमं समूलं
मध्याह्ने वितरति चितायां कुजदिने ।
समुच्चार्य प्रेम्णा मनुमपि सकृत्कालि सततं गजारूढो याति
क्षितिपरिवृढः सत्कविवरः ।। १६ ।।
स्वपुष्पैराकीऋणं कुसुमधनुषो मन्दिरमहो पुरो ध्यायं यदि
ध्यायं जपति भक्तस्तव मनुम् ।
स गन्धर्वश्रेणीपतिरिव कवित्वामृतनदीनदेनः पर्यन्ते
परमपदलीनः प्रभवति ।। १७ ।।
त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां
महाकालेनोच्चैर्मदनरसलावण्यनियताम् ।
समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यस्त्वा ध्यायेदपि
जननि स स्यात् स्मरहरः ।। १८ ।।
सलोमास्थि स्वैरं फललमपि मार्ज्जारमपि ते परं चौष्ट्रं
मैषं नरमहिषयोच्छागमपि वा ।
बलिं ते पूजायामपि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा
प्रतिपदमपूर्वा प्रभवति ।। १९ ।।
वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा
मातर्युष्मच्चरणयुगलध्याननिपुणः ।
परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं
सम्यक्स्मरहरसमानः क्षितितले ।। २० ।।
इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यं
पादाम्बुजयुगल पूजाविधियुतम् ।
निशार्द्धे वा पूजासमय अथवा यस्तु पठति प्रलापस्तस्यापि
प्रसरति कवित्वामृतरसः ।। २१ ।।
कुरङ्गाक्षीवृन्दस्तमनुसरति प्रेमतरलं वशस्तस्य क्षौणीपतिरपि
कुबेरप्रतिनिधिः ।
रिपुः कारागारं कलयति च तत्केलिकलया चिरं जीवनन्मुक्तः स
भवति सुभक्तः प्रतिजनुः ।। २२ ।।

इति महाकालविरचितं श्यामास्तोत्रं समाप्तम् ।

अथास्याः कवचम् ।

भैरव्युवाच :

कालीपूजा श्रुता नाथ भावाश्च विविधाः प्रभो ।
इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ।। १ ।।
त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि ।
त्वमेव शरणं नाथ पाहि मा दुःखसङ्कटात् ।। २ ।।

भैरव उवाच :

रहस्यं शृणु वक्ष्यामि भैरवी प्राणवल्लभे ।
श्रीजगन्मङ्गलं नाम कवचं मन्त्रविग्रहम् ।। ३ ।।
पठित्वा धारयित्वा च त्रैलोक्यं मोहयेत्क्षणात् ।
नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् ।। ४ ।।
योगेशं क्षोभमनयद्यद्धृत्वा च रघूत्तमः ।
वरदृप्तान् जघानैव रावणादिनिशाचरान् ।। ५ ।।
यस्य प्रसादादीशोऽपि त्रैलोक्यविजयी विभुः ।
धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः ।। ६ ।।
एवं हि सकला देवाः सर्वसिद्धीश्वराः प्रिये ।
श्रीजगन्मङ्गलस्यापि कवचस्य ऋषिः शिवः ।। ७ ।।
छन्दोऽनुष्टुप्देवता कालिका दक्षिणेरिता ।। ८ ।।
जगतां मोहने दुष्टविजये भुक्तिमुक्तिषु ।
योषिदाकर्षणे चैव विनियोगः प्रकीर्त्तितः ।। ९ ।।
ओं शिरो मे कालिका पातु क्रीङ्कारैकाक्षरी परा क्रीं क्रीं क्रीं मे
ललाटं च कालिका खड्गधारिणी ।। १० ।।
हूं हूं पातु नेत्रयुग्मं ह्रीं ह्रीं पातु श्रुती मम ।
दक्षिणे कालिका पातु घ्राणयुग्मं महेश्वरि ।। ११ ।।
क्रीं क्रीं क्रीं रसनां पातु ह्रूं ह्रूं पातु कपोलकम् ।
वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरूपिणी ।। १२ ।।
द्वाविंशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा ।
खड्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु ।। १३ ।।
क्रीं हूं क्रीं त्र्यक्षरी पातु चामुण्डा हृदयं मम ।
ऐं हूं ओं ऐं स्तनद्वन्द्वं ह्रीं फट् स्वाहा ककुत्स्थलम् ।। १४ ।।
अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका ।
क्रीं क्रीं हूं हूं ह्रीं ह्रीं करौ पातु षडक्षरी मम ।। १५ ।।
क्रीं नाभिं मध्यदेशं च दक्षिणे कालिकावऽतु ।
क्रीं स्वाहा पातु पृष्ठं च कालिका सा दशाक्षरी ।। १६ ।।
क्रीं मे गुह्यं सदा पातु कालिकायै नमस्ततः ।
सप्ताक्षरी महाविद्या सर्वतन्त्रेषु गोपिता ।। १७ ।।
ह्रीं ह्रीं दक्षिणे कालिका हूं हूं पातु कटिद्वयम् ।
काली दशाक्षरी विद्या स्वाहा ममोरुयुग्मकम् ।। १८ ।।
ओं ह्रीं क्रीं मे स्वाहा पातु कालिका जानुनि सदा ।
काली हृदयविद्येयं चतुर्वर्गफलप्रदा ।। १९ ।।
क्रीं ह्रीं ह्रीं पातु सा गुल्फं दक्षिणे कालिकावतु ।
क्रीं हूं ह्रीं स्वाहा पदं पातु चतुर्दशाक्षरी मम ।। २० ।।
खड्गमुण्डधरा काली वरदा भयहारिणी ।
विद्याभिः सकलाभिः सा सर्वाङ्गमभितोऽवतु ।। २१ ।।
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता तथोग्रोग्रप्रभा दीप्ताघनत्विषा ।। २२ ।।
नीला घना बालाका च मात्रा मुद्रामिता च माम् ।
एताः सर्वाः खड्गधरा मुण्डमाला विभूषणाः ।। २३ ।।
रक्षन्तु दिग्विदिक्षु मां ब्राह्मी नारायणी तथा ।
माहेश्वरी च चामुण्डा कौमारी चापराजिता ।। २४ ।।
वाराही नारसिंही च सर्वाश्चामितभूषणाः ।
रक्षन्तु स्वायुधैर्दिक्षु मां यथा तथा ।। २५ ।।
इति ते कथितं दिव्यं कवचं परमाद्भुतम् ।
श्रीजगन्मङ्गलं नाम महाविद्यौघविग्रहम् ।। २६ ।।
त्रैलोक्याकर्षकं ब्रह्मन् कवचं मन्मुखोदितम् ।
गुरुपूजां विधायाथ विधिवत् प्रपठेत् ततः ।। २७ ।।
कवचं त्रिः सकृद्वापि यावज्जीवं च वा पुनः ।
एतच्छतार्द्धमावर्त्य त्रैलोक्यविजयी भवेत् ।। २८ ।।
त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः ।
महाकविर्भवेन्मासात् सर्वसिद्धीश्वरो भवेत् ।। २९ ।।
पुष्पाञ्जलिं कालिकायै मूलेनैवार्पयेत् सकृत् ।
शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् ।। ३० ।।
भूर्जे विलिखितं चैतत्स्वर्णस्थं धारयेद्यदि ।
शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्यदि ।। ३१ ।।
त्रैलोक्यं मोहयेत्क्रोधात्त्रैलोक्यं चूर्णयेत्क्षणात् ।
पुत्रबान्धवान्श्रीमान्नानाविद्यानिधिभवेत् ।। ३२ ।।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात् ततः ।
नाशमायान्ति या नारी वन्ध्या च मृतपुत्रिणी ।। ३३ ।।
कण्ठे वा वामबाहौ वा कवचस्य धारणात् ।
बह्वपत्या जीववत्सा भवत्येव न संशयः ।। ३४ ।।
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ।
शिष्येभ्यो भक्तियुक्तेभ्यश्चान्यथा मृत्युमाप्नुयात् ।। ३५ ।।
स्पर्द्धामुद्धूय कमलावाग्देवीमन्दिरे मुखे ।
पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ।। ३६ ।।
इदं कवचमज्ञात्वा यो जपेत्कालिदक्षिणाम् ।
शितलक्षं प्रजप्त्वापि तस्य मन्त्रो न सिद्ध्ययि ।
सशस्त्रघातमाप्नोति सोचिरान्मृत्युमाप्नुयात् ।। ३७ ।।

इति भैरवतन्त्रे भैरवभैरवीसंवादे कालीकल्पे श्यामाकवचं
समाप्तम् ।

अथ तारास्तोत्रम् ।

मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे
प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे ।
फुल्लेन्दीवर लोचने त्रिनयने कर्त्रीकपालोत्पले खड्गञ्चादधती
त्वमेव शरणं त्वामीश्वरीमाश्रये ।। १ ।।
वाचामीश्वरि भक्तिकल्पलतिके सर्वार्थसिद्धीश्वरि
गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे ।
नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधे
सौभाग्यामृतवर्द्धनेन कृपया सिञ्च त्वमस्मादृशम् ।। २ ।।
खर्वेगर्वसमूहपूरिततनो सर्पादिवेषोज्वले
व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते ।
सद्यः कृत्तगलद्रजः
परिमिलन्मुण्डद्वयीमूर्द्धजग्रन्थिश्रेणिनृमुण्डदामललिते
भीमे भयन्नाशय ।। ३ ।।
मायानङ्गविकाररूपललनाविन्द्वर्धचन्द्राङ्कितं
हुंफट्कारमयी त्वमेव शरणं मन्त्रात्मिके मादृशः ।
मूर्तिस्ते जननि त्रिधामघटिता स्थूलाति सूक्ष्मा परा वेदनां न
हि गोचरा कथमपि प्राप्तां नु तामाश्रये ।। ४ ।।
त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां तस्याः
श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः ।
संसाराम्बुधिमज्जने पटुतनुर्देवेन्द्रमुख्यान्सुरान् मातस्ते
पदसेवने हि विमुहान् किं मन्दधीस्सेवते ।। ५ ।।
मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते देवा जयसङ्गरे
विजयिनो निःशङ्कमङ्के गताः ।
देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परे
तत्तुल्यान्नियतं यथा शशिरवी नाशं व्रजन्ति स्वयम् ।। ६ ।।
त्वन्नामस्मरणात्पलायनपराद्रष्टुं च शक्ता न ते
भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः ।
दैत्या दानवपुङ्गवाश्च खेचरा व्याघ्रादिका जन्तवो डाकिन्यः
कुपितान्तकाश्च मनुजान्मातः क्षणं भूतले ।। ७ ।।
लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धास्तथा वैरिणां
स्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम् ।
मातस्त्वत्पदसेवया खलु नृणां सिध्यन्ति ते ते गुणाः क्लान्तिः
कान्त मनोभवोत्र भवति क्षुद्रोऽपि वाचस्पतिः ।। ८ ।।
ताराष्टकमिदं पुण्यं भक्तिमान्यः पठेन्नरः ।
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः ।। ९ ।।
लभते कवितां विद्यां सर्वशास्त्रार्थविद्भवेत् ।
लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान्यथेप्सितान् ।
कीर्त्तिं कान्तिं च नेरुज्यं सर्वेषां प्रियतां व्रजेत् ।
विख्यातिञ्चापि लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् ।। १० ।।

इति नीलतन्त्रे ताराष्टकं समाप्तम् ।

अथ ताराकवचम् ।

ईश्वर उवाच :

कोटितन्त्रेषु गोप्या हि विद्यातिभयमोचिनी ।
दिव्यं हि कवचं तस्याः शृणुष्व सर्वकामदम् ।। १ ।।
ताराकवचस्याऽक्षोभ्य-ऋषिस्त्रिष्टुप्छन्दो भगवती तारा देवता
सर्वमन्त्रसिद्धिसमृद्धये जपे विनियोगः ।
प्रणवो मे शिरः पातु ब्रह्मरूपा महेश्वरी ।
ह्रींकार पातु ललाटे बीजरूपा महेश्वरी ।। २ ।।
स्त्रींकारः सदा वदने लज्जारूपा महेश्वरी ।
हूंकारः पातु हृदये भवानीशक्तिरूपधृक् ।। ३ ।।
फट्कारः पातु सर्वाङ्गे सर्वसिद्धि फलप्रदा ।
खर्वा मां पातु देवेशीगण्डयुग्मे भयापहा ।। ४ ।।
लम्बोदरी सदा स्कन्धयुग्मे पातु महेश्वरी ।
व्याघ्रचर्मावृता कट्यां पातु देवी शिवप्रिया ।। ५ ।।
पीनोन्नतस्तनी पातु पार्श्वयुग्मे महेश्वरी ।
रक्तवर्तुलनेत्रा च कटिदशे सदावतु ।। ६ ।।
ललज्जिह्वा सदा पातु नाभौ मां भुवनेश्वरी ।
करालास्या सदा पातु लिङ्गे देवी हरप्रिया ।। ७ ।।
पिङ्गोग्रैकजटा पातु जङ्घायां विघ्ननाशिनी ।
प्रेतखर्परधरा देवी जानुचक्रे महेश्वरी ।। ८ ।।
नीलवर्णा सदा पातु जानुनी सर्वदा मम ।
नागकुण्डलधरा देवी पातु पादयुगे ततः ।। ९ ।।
नागहारधरा देवी सर्वाङ्गं पातु सर्वदा ।
नागकङ्कधरा देवी पातु प्रान्तरदेशतः ।। १० ।।
चतुर्भुजा सदा पातु गमने शत्रुनाशिनी ।
खड्गहस्ता महादेवी श्रवणे पातु सर्वदा ।। ११ ।।
नीलाम्बरधरा देवी पातु मां विघ्ननाशिनी ।
कर्तृहस्ता सदा पातु विवादे शत्रुमध्यतः ।। १२ ।।
ब्रह्मरूपधरा देवी संग्रामे पातु सर्वदा ।
नागकङ्कणधरा देवी भोजने पातु सर्वदा ।। १३ ।।
शवकर्णा महादेवी शयने पातु सर्वदा ।
वीरासनधरा देवी निद्रायां पातु सर्वदा ।। १४ ।।
धनुर्बाणधरा देवी पातु मां विघ्नसंकुले ।
नागाञ्चितकटी पातु देवी मां सर्वकर्मसु ।। १५ ।।
छिन्नमुण्डधरा देवी कानने पातु सर्वदा ।
चितामध्यस्थिता देवी मारणे पातु सर्वदा ।। १६ ।।
द्वीपिचर्मधरा देवी पुत्रदारधनादिषु ।
अलङ्कारान्विता देवी पातु मां हरवल्लभा ।। १७ ।।
रक्षरक्ष नदीकुञ्जे हूं हूं फट् समन्विते ।
बीजरूपा महादेवी पर्वते पातु सर्वदा ।। १८ ।।
मणिधरा वज्रिणि देवी महाप्रतिसरे तथा ।
रक्षरक्ष हूं हूं ओं ह्रीं स्वाहा महेश्वरी ।। १९ ।।
पुष्पकेतुराजार्हेति कानने पातु मां सर्वदा ।
ओं ह्रीं वज्रपुष्पे हूं फट् प्रान्तरे सर्वकामदा ।। २० ।।
ओं पुष्पे पुष्पे महापुष्पे पातु पुत्रान्महेश्वरी ।
हूं स्वाहा शक्तिसंयुक्ता दारान् रक्षतु सर्वदा ।। २१ ।।
ओं आं हूं फट् स्वाहा महेशानी पातु द्यूते हरप्रिया ।
ओं ह्रीं सर्वविघ्नोत्सारिणी देवी विघ्नान्मां सदावतु ।। २२ ।।
ओं पवित्रवज्रभूमे हूं फट् स्वाहासमन्विता ।
पृथिव्यां पातु मां देवी सर्वविघ्नविनाशिनी ।। २३ ।।
ओं आः सुरेखे वज्ररेखे हूं फट् स्वाहासमन्विता ।
पाताले पातु मां देवी लाकिनीं नामसंज्ञिका ।। २४ ।।
ह्रींकारी पातु मां पूर्वे शक्तिरूपा महेश्वरी ।
स्त्रींकारो पातु देवेशी वधूरूपा महेश्वरी ।। २५ ।।
हूं स्वरूपा महादेवी पातु मां क्रोधरूपिणी ।
फट् स्वरूपा महामाया उत्तरे पातु सर्वदा ।। २६ ।।
पश्चिमे पातु मां देवी फट् स्वरूपा हरपिर्या ।
मध्ये मां पातु देवेशी हूं स्वरूपा नगात्मजा ।। २७ ।।
नीलवर्णा सदा पातु सर्वत्र वाग्भवा सदा ।
भवानी पातु भवने सर्वैश्वर्यप्रदायिनी ।। २८ ।।
विद्यादानरता देवी पातु वक्त्रे सरस्वतौ ।
शास्त्रे वादे च संग्रामे जले च विषमे गिरौ ।। २९ ।।
भीमरूपा सदा पातु श्मशाने भयनाविनी ।
भूतप्रेतालये घोरे दुर्गा मां भीषणावतु ।। ३० ।।
पातु नित्यं महेशानि सर्वत्र शिवदूतिका ।
कवचस्य च माहात्म्यं नाहं वर्षशतैरपि ।। ३१ ।।
शक्नोमि कथितुं देवि भवेत् तस्य फलं च यत् ।
पुत्रदारेषु बन्धूनां सर्वदेशे च सर्वदा ।। ३२ ।।
न विद्यते भयं यस्य नृपपूज्यो भवेच्च सः ।
शुचिर्भूत्वाऽशुचिर्वापि कवच सर्वकामदम् ।। ३३ ।।
प्रपठन् वा स्मरन्मर्त्यो दुःखशोकविवर्जितः ।
सर्वशास्त्रे महेशानि कविराट् भवति ध्रुवम् ।। ३४ ।।
सर्ववागीश्वरो मर्त्यो लोकवश्यो धनेश्वरः ।
रणे द्यूते विवादे च जयस्तत्र भवेद्ध्रुवम् ।। ३५ ।।
पुत्रपौत्रान्वितो मर्त्यो विलासी सर्वयोषिताम् ।
शत्रवो दासतां यान्ति सर्वेषां वल्लभः सदा ।। ३६ ।।
गर्वी खर्वी भवत्येव वादी स्खलति दर्शनात् ।
मृत्युश्च वश्यतां याति दासास्तस्यावनोभुजः ।। ३७ ।।
प्रसङ्गात्कथितं सर्वं कवचं सर्वकामदं ।
प्रपठन्वा स्मरन्मर्त्यः शापानुग्रहण क्षमः ।। ३८ ।।
आनन्दवृन्दसिन्धूनामधिपः कविराड्भवेत् ।
सर्ववागीश्वरी मर्त्यो लोक वश्यः सदा सुखी ।। ३९ ।।
गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् ।
तत्रापि कवचं देवि दुर्लभं भवनत्रये ।। ४० ।।
गुरुर्देवो हरः साक्षात्पत्नी तस्य हरप्रिया ।
अभेदेन भजेद्यस्तु तस्य सिद्धिरदूरतः ।। ४१ ।।
मन्त्राचारा महेशानि कथिताः पूर्ववत्प्रिये ।
नाभौ ज्योतिस्तथा वक्त्रं हृदयोपरि चिन्तयेत् ।। ४२ ।।
ऐश्वर्यं सुकवित्वं च महावागीश्वरोनृपः ।
नित्यं तस्य महेशानि महिलासङ्गञ्चरेत् ।। ४३ ।।
पञ्चाचाररतो मर्त्यः सिद्धो भवति नान्यथा ।
शक्तियुक्तो भवेन्मर्त्यः सिद्धो भवति नान्यथा ।। ४४ ।।
ब्रह्माविष्णुश्च रुद्रश्च ये देवासुरमानुषाः ।
तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते ।। ४५ ।।
स्वर्गे मर्त्ये च पाताले ये देवाः सिद्धिदायकाः ।
प्रशंसन्ति सदा देवि तं दृष्ट्वा साधकोत्तमम् ।। ४६ ।।
विघ्नात्मकाश्च ये देवाः स्वर्गे मर्त्ये रसातले ।
प्रशंसन्ति सदा सर्वे तं दृष्ट्वा साधकोत्तमम् ।। ४७ ।।
इति ते कथितं देवि मया सम्यक्प्रकीर्त्तितम् ।
भुक्तिमुक्तिकरं साक्षात्कल्पवृक्षस्वरूपकम् ।। ४८ ।।
आसाद्याद्यगुरुं प्रसाद्य य इदं कल्पद्रुमालम्बनं मोहेनापि
मदेन वापि रहितो जाड्येन वा युज्यते ।
सिद्धोऽसौ भुवि सर्वदुःखविपदां पारं प्रयात्यन्तको मित्रं
तस्य नृपाश्च देवि विपदो नश्यन्ति तस्याशु च ।। ४९ ।।
तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि वै भुवि ।
माल्यानि कुसुमान्येव भवन्ति सुखदानि च ।
तस्य गेहे स्थिरा लक्ष्मीर्वाणी वक्त्रे वसेद्ध्रुवम् ।। ५० ।।
इदं कवचमज्ञात्वा तारां यो भजते नरः ।
अल्पायुर्निर्धनो मूर्खो भवत्येव न संशयः ।। ५१ ।।
लिखित्वा धारयेद्यस्तु कण्ठे वा मस्तके भुजे ।
तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते ।। ५२ ।।
गोरोचनाकुंकुमेन रक्तचन्दनकेन वा ।
यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः ।। ५३ ।।
अष्टम्यां मङ्गलदिने चतुर्दश्यामथापि वा ।
सन्ध्यायां देवदेवेशि लिखेद्यन्त्रं समाहितः ।। ५४ ।।
मघायां श्रवणायां वा रेवत्यां वा विशेषतः ।
सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे ।। ५५ ।।
मीनराशौ गुरौ याते वृश्चिकस्थे शनैश्चरे ।
लिखित्वा धारयेद्यस्तु उत्तराभिमुखो भवन् ।। ५६ ।।
श्मशाने प्रान्तरे वापि शून्यगारे विशेषतः ।
निशायां यो लिखेद्यन्त्रं तस्य सिद्धिरचञ्चला ।। ५७ ।।
भूर्जे पत्रे लिखेन्मन्त्रं गुरुणा च महेश्वरि ।
ध्यानधारणयोगेन धारयेद्यस्तु भक्तितः ।। ५८ ।।
अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा ।। ५९ ।।

इति श्रीरुद्रयामले तन्त्रे उग्रताराकवचं समाप्तम् ।

अथ त्रैलोक्यमोहनं नाम ताराकवचम् ।

देव्युवाच :

तारापूजा श्रुता नाथ विद्याश्च सकलास्ततः ।
साम्प्रतं श्रोतुमिच्छामि कवचं मन्त्रविग्रहम् ।। १ ।।
त्रैलोक्यमोहनं नाम सर्वापद्विनिवारकम् ।
पुरैव सूचितं नाथ कृपया मे प्रकाशय ।। २ ।।

भैरव उवाच :

देवदानव-विद्याधृक्पूजिते प्राणवल्लभे ।
त्रैलोक्यमोहनं नाम श्रूयतां कवचं परम् ।। ३ ।।
सर्वविद्यामयं देवि सर्वमन्त्रमयं ध्रुवम् ।
सर्वरक्षाकरं देवि सर्वविद्याप्रदायकम् ।। ४ ।।
वेदव्यासोऽपि यद्धृत्वा सर्वज्ञः पठनाद्यतः ।
यद्धृत्वा पठनादीशस्त्रैलोक्यविजयी प्रभुः ।
धनाधिपः कुबेरोऽपि देवाधिपः शचीपतिः ।
पठनाद्धारणात् नित्यं यतः सर्वे दिगीश्वराः ।
सर्वसिद्धियुताः सन्तः सर्वैश्वर्यमवाप्नुयुः ।। ५ ।।
अस्य प्रसादादीशोऽहं भैरवाणां सुरेश्वरि ।
क्रोधाधिपो महाभीमो देवेषु कथितः प्रभुः ।। ६ ।।
न दद्यात् परशिष्येभ्यो दद्याच्छिष्येभ्य एव च ।
अभक्तेभ्योऽपि पुत्रेभ्यो दत्त्वा मृत्युमवाप्नुयात् ।। ७ ।।
त्रैलोक्यमोहनस्यास्य कवचस्य ऋषिः शिवः ।
छन्दो विराट् देवता च सोग्रतारा प्रकीर्त्तिता ।
चतुर्वर्गेषु विद्यायां विनियोगः प्रकीर्त्तितः ।। ८ ।।
ओं ह्रीं स्त्रीं मे शिरः पातु हूं फट् पातु ललाटकम् ।
सार्द्धपञ्चाक्षरी तारा पायान्नेत्रयुगं मम ।। ९ ।।
ओं ह्रीं स्त्रीं हूं श्रूती पायान्नमः पातु च नासिकाम् ।
तारा षडक्षरी पायाद्वदनं मुण्डभूषणा ।। १० ।।
ह्रीं स्त्रीं हूं फट् वदनं पातु जिह्वां पातु महेश्वरी ।
ह्रीं स्त्रीं हूं मे गलं पायात्सापि नीलसरस्वती ।। ११ ।।
स्त्रीं स्कन्धौ पातु नियतं तारैकाक्षररूपिणी ।
हूं घाटां मे सदा पातु बीजैकाक्षररूपिणी ।। १२ ।।
ऐं ह्रीं स्त्रीं हूञ्च फट् पायाद्वाक्तारा मे भूजद्वयम् ।
श्रीं ह्रीं स्त्रीं हूं च फट् पायात्श्रीतारा मे स्तनद्वयम् ।। १३ ।।
ह्रीं ह्रीं स्त्रीं हूञ्च फट् पायात्तारा च हृदयं मम ।
हूं ह्रीं स्त्रीं हूञ्च फट् बीजं तारा पृष्ठं सदावतु ।। १४ ।।
क्लीं ह्रीं स्त्रीं हूञ्च फट् पायात्पार्श्वौ कामस्वरूपिणी ।
ओं ह्रीं स्त्रीं हूं नमः पायात्महाषडक्षरी ।। १५ ।।
ऐं सौः ओं ऐं ह्रीं फट् स्वाहा कटिदेशं सदाऽवतु ।
अष्टाक्षरी महाविद्या साक्षाद्ब्रह्मस्वरूपिणी ।
खं हूं हौं ओं ऐं श्रीं ह्रीं सा गुह्यदेशं सदाऽवतु ।
सप्ताक्षरी चोग्रतारा मूलविद्यास्वरूपिणी ।। १६ ।।
ओं ह्रीं हां हूं नमस्तारायै सकलपदन्ततः ।
दुस्तरः तारयपदं तारय प्रणवद्वयम् ।
स्वाहेति च महाविद्या जानुनी सर्वदाऽवतु ।। १७ ।।
ऐं सौः ओं ऐं क्लीं फट् स्वाहा जङ्घे पातु परात्मिका ।
ओं ह्रीं स्त्रीं हूञ्च फट् तारा हंसाद्यन्ता नवाक्षरी ।
महोग्रतारा पादौ मे पातु मे नित्यं महेश्वरी ।। १८ ।।
ऐं ह्रीं श्रीं ह्सौः स्हौः वद वद वाग्वादिनी च ।
कामबीजत्रयं नीलसरस्वतीस्वरूपकम् । ऐं ऐं ऐं काहि काहि
कलरीं स्वाहेति सर्वदा ।
चतुस्त्रींशल्लिपिमयी पातु ताराखिलं वपुः ।। १९ ।।
इन्द्रो वामाक्षियुक्पृथ्वी सरस्वत्यनलप्रिया ।
कूर्चाद्यन्ता पातु चोर्ध्वं मूलविद्यादशाक्षरी ।। २० ।।
तारां माया वधूः कूर्चं काली कामकला ततः ।
उग्रतारे भगं कामः परा लक्ष्मीः शिवांकुशौ ।
सा महाषोडशी प्रोक्ता तारादेव्या मयाधुना ।
विधिवद्ग्रहणादस्या मृत्युं मृत्युपथं नयेत् ।। २१ ।।
एषा विद्या मया गुप्ता तन्त्रादियामलेषु ।
साम्प्रतं कथिता तुभ्यं कवचाङ्गतया प्रिये ।। २२ ।।
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ।
त्रैलोक्यमोहनं नाम कवचं मन्त्रविग्रहम् ।। २३ ।।
ब्रह्मविद्यामयं भद्रे केवलं ब्रह्मरूपिणम् ।
मन्त्रविद्यामयञ्चैत्कवचं मन्मुखोदितम् ।
गुरुमभ्यर्च विधिवत्कवचं प्रपठेद्यदि ।
त्रिः सकृद्वा यथा ज्ञानं भैरवस्तत्क्षणाद्भवेत् ।। २४ ।।
सर्वपापविनिर्मुक्तः कुलकोटीः समुद्धरेत् ।
गुरुः स्यात् सर्वविद्यास्वप्यधिकारी जपादिषु ।। २५ ।।
शतमष्टोत्तरञ्चास्य पुरश्चर्याविधिः स्मृताः ।
शतमष्टोत्तरं जप्त्वा भवेद् भूमिपुरन्दरः ।
त्रैलोक्यं विचरेद्वीरो गणनाथो यथा गुहः ।। २६ ।।
गद्यपद्यमयी वाणी भवेद्गङ्गाप्रवाहवत् ।
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत् ततः ।
पञ्चवर्षसहस्राणां पूजायाः फलमाप्नुयात् ।। २७ ।।
भूर्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद्यदि ।
पुरुषो दक्षिणे बाहौ योषिद्वाम भुजे तथा ।
बहुपुत्रवती नारी पुरुषो धनपुत्रवान् ।
सर्वसिद्धीश्वरो भूत्वा विचरेद्भैरवो यथा ।। २८ ।।
तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि भैरवि ।
माल्यानि कुसुमान्येव भवन्ति सुखदानि च ।
तस्य गेहे चिरं लक्ष्मीर्वाणी वसेद्ध्रुवम् ।। २९ ।।
इदं कवचमज्ञात्वा तारां यो भजतेऽधमः ।
अल्पायुनिर्धनो मूर्खो भवत्येव न संशयः ।। ३० ।।

इति भैरवीभैरवसंवादे ताराकल्पे त्रैलोक्यमोहनं नाम
ताराकवचं समाप्तम् ।

अथ बगलामुखीस्तोत्रम् ।

चलत्कनककुण्डलोल्लसितचारुगण्डस्थलीं
लसत्कनकचम्पमकद्युतिमदिन्दुबिम्बाननाम् ।
गदाहतविपक्षकां कलितलोलजिह्वञ्चलां स्मरामि बगलामुखीं
विमुखवाङ्मनस्स्तम्भिनीम् ।। १ ।।
पीयूषोदधिमध्यचारुविलसद्रक्तोत्पले मण्डले यः
सिंहासनमौलिपातितरिपुं प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां
बिभ्रतींमित्थं ध्यायति यान्ति तस्य सहसा सद्योथ सर्वापदः ।। २
।।
देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलीन् भक्त्या
वामकरे निधाय च मनुं मन्त्री मनोज्ञाक्षरम् ।
पीठध्यानपरोऽथ कुम्भकवशाद्बीजं स्मरेत्पार्थिवं
तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत्तत्क्षणात् ।। ३ ।।
वादी मूकति रंकति क्षितिपतिर्वैश्वानरः शीतति क्रोधी शाम्यति
दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।
गर्वी खर्वति सर्वविच्च जडति त्वन्मन्त्रिणा यन्त्रितः श्रीनित्ये
बगलामुखि प्रतिदिनं कल्यामि तुभ्यं नमः ।। ४ ।।
मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रं च ते यन्त्रं
वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
त्वन्नामग्रहणेन संसदि मुख स्तम्भो भवेद्वादिनाम् ।। ५ ।।
दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृद्भीशमनं चलन्मृगदृशां चेतःसमाकर्षणम् ।
सौभाग्यैकनिकेतनं ममदृशोः कारुण्यपूर्णेक्षणं
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ।। ६ ।।
मातर्भञ्जय मद्विपक्षवदनं जिह्वां चलाः कीलय ब्राह्मीं
मुद्रय दैत्यदेवधिषणामुग्रां गतिं स्तम्भय ।
शत्रूञ्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे
विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णे क्षणे ।। ७ ।।
मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये श्रीविद्ये समये
महेशि बगले कामेशि रामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे दासोऽहं
शरणागतः करुणया विश्वेश्वरि त्राहि माम् ।। ८ ।।
संरम्भे चौरसंघे प्रहरणसमये बन्धने व्याधिमध्ये
विद्यावादे वावादे प्रकुपितनृपतौ दिव्यकाले निशायाम् ।
वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा जने वा
गच्छंस्तिष्ठन् त्रिकालं यदि पठति शिवं प्राप्नुयादाशुधीरः ।।
९ ।।
नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादराद्धृत्वा
यन्त्रमिदं तथैव समरे बाहौ करे वा गले ।
राजानोऽप्यरयो मदान्धकरिणस्सर्पा मृगेन्द्रादिकास्ते वै यास्ति
विमोहिता रिपुगणा लक्ष्मीः स्थिरा सिद्धयः ।। १० ।।
त्वं विद्या परमा त्रिलोकजननी विघ्नौघसंछेदिनी
योषित्कर्षणकारिणी जनमनःसम्मोहसन्दायिनी ।
स्तम्भोत्सारणकारिणी पशुमनःसम्मोहसन्दायिनी
जिह्वाकोलनभैरवी विजयते ब्रह्मादिमन्त्रो यथा ।। ११ ।।
विद्या लक्ष्मीर्नित्यसौभाग्यमायुः पुत्रैः पौत्रैः
सर्वसाम्राज्यसिद्धिम् ।
मानो भोगो वश्यमारोग्यसौख्यं प्राप्तं
तत्तद्भूतलेऽस्मिन्नरेण ।। १२ ।।
यत्कृतं जपसन्नाहं गदितं परमेश्वरि ।
दुष्टानां निग्रहार्थाय तद्गृहाण नमोस्तु ते ।। १३ ।।
ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु दुर्लभम् ।
गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ।। १४ ।।
पीताम्बरां द्विभुजां च त्रिनेत्रां गात्रकोमलाम् ।
शिलामुद्गरहस्तां च स्मरेत्तां बगलामुखीम् ।
प्रातर्मध्याह्नकालेस्तव पठनमिदं कार्यसिद्धिप्रदं स्यात् ।। १५
।।

इति रुद्रयामले तन्त्रे श्रीबगलामुखीस्तोत्रं समाप्तम् ।

अथ मातङ्गीकवचम् ।

श्रीदेव्युवाच :

साधु साधु महादेव कथयस्व सुरेश्वर ।
मातङ्गीकवचं दिव्यं सर्वसिद्धिकरं नृणाम् ।। १ ।।

ईश्वर उवाच :

शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं शुभम् ।
गोपनीयं महादेवि मौनी जापं समाचरेत् ।। २ ।।
अस्य श्रीमातङ्गीकवचस्य दक्षिणामूर्तिर्-ऋषिर्विराट् छन्दो
मातङ्गी देवता चतुर्वर्गसिद्धये विनियोगः ।
ओं शिरो मातङ्गिनी पातु भुवनेशी तु चक्षुषी ।
तोडला कर्णयुगलं त्रिपुरा वदर्न मम ।। ३ ।।
पातु कण्ठे महामाया हृदि माहेश्वरि तथा ।
त्रिपुरा पार्श्वयोः पातु गुदे कामेश्वरी मम ।। ४ ।।
ऊरुद्वये तथा चण्डी जङ्घयोश्च रतिप्रिया ।
महामाया पादयुग्मे सर्वाङ्गेषु कुलेश्वरी ।। ५ ।।
अङ्गं प्रत्यङ्गकं चैव सदा रक्षतु वैष्णवी ।
ब्रह्मरन्ध्रे सदा रक्षेन्मातङ्गीनाम संस्थिता ।। ६ ।।
रक्षयेन्नित्यं ललाटे सा महापिशाचिनीति च ।
नेत्रयोः सुमुखी रक्षेद्देवी रक्षत्तु नासिकाम् ।। ७ ।।
महापिशाचिनी पश्चात्मुखे रक्षतु सर्वदा ।
लज्जा रक्षतु मां दन्ताञ्चोष्ठौ सम्मार्जनीकरा ।। ८ ।।
चिबुके कण्ठदेशे च ठकारत्रितयं पुनः ।
सविसर्गं महादेवि हृदयं पातु सर्वदा ।। ९ ।।
नाभिं रक्षतु मां लोला कालिकाऽवतु लोचने ।
उदरे पातु चामुण्डा लिङ्गे कात्यायनी तथा ।। १० ।।
उग्रतारा गुदे पातु पादौ रक्षतु चाम्बिका ।
भुजौ रक्षतु शर्वाणी हृदयं चण्डभूषणा ।। ११ ।।
जिह्वायां मातृका रक्षेत्पूर्वे रक्षतु पुष्टिका ।
विजया दक्षिणे पातु मेधा रक्षतु वारुणे ।। १२ ।।
नैर्-ऋत्यां श्रद्धया रक्षेद्वायव्यां पातु लक्ष्मणा ।
ऐशान्यां रक्षयेद्देवी मातङ्गी शुभकारिणी ।। १३ ।।
रक्षेत्सुरेशी चाग्नेये बगला पातु चोत्तरे ।
ऊर्ध्वं पातु महादेवि देवानां हितकारिणी ।। १४ ।।
पाताले पातु मां नित्यं वशिनी विश्वरूपिणी ।
प्रणवं च ततो माया कामबीजं च कूर्चकम् ।। १५ ।।
मातङ्गिनी ङेयुतास्त्रं वह्निजायावधिर्मनुः ।
सार्द्धैकादशवर्णा सा सर्वत्र पातु मां सदा ।। १६ ।।
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ।
त्रैलोक्यमङ्गलं नाम कवचं देवदुर्लभम् ।। १७ ।।
य इदं प्रपठेन्नित्यं जायते सम्पदालयम् ।
परमैश्वर्यमतुलं प्राप्नुयान्नात्र संशयः ।। १८ ।।
गुरुमभ्यर्च्य विधिवत्कवचं प्रपठेद्यदि ।
ऐश्वर्यं सुकवित्वं च वाक्सिद्धिं लभते ध्रुवम् ।। १९ ।।
नित्यं तस्य तु मातङ्गी महिला मङ्गलं चरेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः ।। २० ।।
ब्रह्मराक्षसवेताला ग्रहाद्या भूतजातयः ।
तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते ।। २१ ।।
कवचं धारयेद्यस्तु सर्वसिद्धिं लभेद्ध्रुवम् ।
राजानोऽपि च दासत्वं षट्कर्माणि च साधयेत् ।। २२ ।।
सिद्धो भवति सर्वत्र किमन्यैर्बहुभाषितैः ।
इदं कवचमज्ञात्वा मातङ्गी यो भजेन्नरः ।। २३ ।।
अल्पायुर्निर्द्धनो मूर्खो भवत्येव न संशयः ।
गुरौ भक्तिः सदा कार्या कवचे च दृढा मतिः ।। २४ ।।
तस्मै मातङ्गिनी देवी सर्वसिद्धिं प्रयच्छति ।। २५ ।।

इति नन्द्यावर्ते उत्तरखण्डे त्वरिफलदायिनी मातङ्गिनीकवचं
समाप्तम् ।

इति चतुर्थ प्ररिच्छेदः ।

इति महामहोपाध्याय-श्रीकृष्णानन्द-भट्टाचार्य विरचिते
तन्त्रसारे चतुर्थः परिच्छेदः ।