सामग्री पर जाएँ

बृहत्-तन्त्रसारः/परिच्छेदः ०१

विकिस्रोतः तः
बृहत्-तन्त्रसारः
परिच्छेदः १
कृष्णानन्द आगमवागीश
परिच्छेदः ०२ →

।। श्रीगणेशाय नमः ।।

बृहत् तन्त्रसारः

प्रथमः परिच्छेदः

अथ मङ्गलाचरणं ग्रन्थसूचना च

नत्वा कृष्णपदद्वन्द्वं ब्रह्मादिसुरवन्दितम् ।
गुरुञ्च ज्ञानदातारं कृष्णानन्देन धीमता ।। १ ।।

तत्तद्ग्रन्थगताद्वाक्यान्नार्थं प्रतिपद्य च । सौकर्यार्थञ्च
संक्षेपात्तन्त्रसारः प्रतन्यते । उच्यते प्रथमं तन्त्र लक्षणं
गुरुशिष्ययोः ।। २ ।।

अथ गुरुलक्षणम् :

शान्तोदान्तः कुलीनश्च विनीतः शुद्धवेशवान् ।
शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् ।। ३ ।। आश्रमी
ध्याननिष्ठश्च तन्त्रमन्त्रविशारदः । निग्रहानुग्रहे शक्तो
गुरुरित्यभिधीयते ।। ४ ।।
आगमसंहितायाम् : उद्धर्त्तुञ्चैव संहर्त्तुं समर्थो
ब्राह्मणोत्तमः । तपस्वी सत्यवादी च गृहस्थो गुरुरुच्यते ।। ५ ।।

अथ गुरुमाहात्म्यम् :

ज्ञानार्णवेः गुरौ मानुषबुद्धिन्तु मन्त्रे
चाक्षरबुद्धिकम् । प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत्
।। ६ ।। जन्म हेतु हि पितरौ पूजनीयौ प्रयत्नतः । गुरुर्विशेषतः
पूज्यो धर्माधर्मप्रदर्शकः ।। ७ ।। गुरुः पिता गुरुर्माता
गुरुर्देवो गुरुर्गतिः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टेन कश्चन ।।
८ ।। गुरोर्हितं प्रकर्तव्यं वाङ्मनःकायकर्मभिः ।
अहिताचरणाद्देवि ! विष्ठायां जायते क्रिमिः ।। ९ ।। शरोरदः पिता
देवि ! ज्ञानदो गुरुरेव च ।

गुरोगुरुतरो नास्ति संसारे दुःखसागरे ।। १० ।। यस्य
वक्त्राद्विनिर्यातं पूर्णब्रह्ममयं वपुः । तारयेन्नात्र
सन्देहो नरकार्णवतो ध्रुवम् ।। ११ ।। मन्त्रत्यागाद्भवेन्
मृत्युर्गुरुत्यागाद्दरिद्रता । गुरुमन्त्रपरित्यागाद्रौरवं
नरकं व्रजेत् ।। १२ ।। गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताः ।
स याति नकरं घोरं सा पूजा विफला भवेत् ।। १३ ।।
श्रीक्रमे : उत्पादक ब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
तस्यान्मन्येत्सततं पितुरप्यधिकं गुरुम् ।। १४ ।। गुरुवद्
गुरुपुत्रेषु गुरुवत्तत्सुतादिषु । गुरुवत्पूजनं कार्य तथा
तोषणं वाक्यपालनम् ।। १५ ।। गुरुवद्भजनं कार्य सर्वदा
गुरुसन्ततौ ।। १६ ।।
निगमकल्पद्रुमे : अविद्यो वा सविद्यो वा गुरुरेव च दैवतम् ।
अमार्गस्थोऽपि मार्गस्थो गुरुरेव सदागतिः ।। १७ ।। आयान्तमग्रतो
गच्छेदगच्छन्तं तमनुव्रजेत् । आसने शयने वाऽपि न
तिष्ठेदग्रतो गुरोः ।। १८ ।। अनुज्ञां प्राप्य तिष्ठेत्तु नैवं
शापमवाप्नुयात् ।। १९ ।।
तथा क्रियासारे : गुरुर्माता पिता स्वामी बान्धवाः
सह्रदः शिवः । इत्याधाय मनोनित्यं भजेत् सर्वात्मना गुरुम् ।।
२० ।।

अथ निन्द्यगुरुलक्षणम् :

क्रियासार समुच्च्यये : श्वित्री चै गलत्कुष्ठो नेत्ररोगी च
वामनः । कुनखी श्यावदन्तश्च स्त्रीजितश्चाधिकाङ्गकः ।। २१ ।।
हीनाङ्गः कपटो रोगी बह्वाशी बहुजल्पकः । एतैर्दोषैर्विनिर्मुक्तो
(विहीनः पाठान्तर) यः स गुरुः शिष्यसम्मतः ।। २२ ।।
यामले : अभिशप्तमपुत्रञ्च कदर्यं कितवं तथा
क्रियाहीनं शठञ्चापि वामनं गुरुनिन्दकम् ।। २३ ।।
जलरक्तविक्रारञ्च वर्जयेन्मतिमान् सदा । सदा मत्सरसंयुक्तं
गुरुं तन्त्रेण वर्जयेत् ।। २४ ।।
वैशम्पायन संहिताम् : अपुत्रोमृतपुत्रश्च कुण्ठी च
वामनस्तथा । इत्याद्यपि बोध्यमिति ।। २५ ।।

अथ शिष्यलक्षणम् :

शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारणाक्षमः ।
समर्थश्च कुलीनश्च प्राज्ञः सच्चरितो यतिः । एवमादि
गुणैर्युक्तः शिष्यो भवति नान्यथा ।। २६ ।। अन्यच्चः पुण्यवान्
धार्मिकः शुद्धो गुरुभक्तो जितेन्द्रियः । शिष्य योग्यो भवेत् सो हि
दानध्यानपरायण् ।। २७ ।।

अथ निषिद्ध शिष्यलक्षणम् :

पापिने क्रूरचेष्टाय शठाय कृपणाय च ।
दीनायाचारशून्याय यन्त्रद्वेषपराय च ।। २८ ।।
निन्दकाय च मूर्खाय तीर्थद्वेषपराय च ।
गुरुभक्तिविहीनाय न देया मलिनाय च ।। २९ ।।
आगमसारे : अलसा मलिनाः क्लिन्ना दाम्भिकाः
कृपणास्ततथा । दरिद्रा रोगिणो रुष्टा रागिणो भोगलालसाः ।। ३० ।।
असूयमत्सरग्रस्ताः सदा पुरुषवादिनः ः ।
अन्यायोपार्जितधनाः परदाररताश्च ये ।। ३१ ।।
विदुषां वैरिणश्चैव त्याज्याः पण्डितमानिनः ।
भ्रष्टाचाराश्च ये कष्टवृत्तयः पिशुनाः खलाः ।। ३२ ।।
वहवाशिनः क्रूरचेष्टा दुरात्मनश्च निन्दिताः ।
इत्येवमादयोऽन्येपि परिष्ठाः पुरुषाधमाः । एवं भूताः
परित्याज्याः शिष्यत्वेनोपकल्पिताः ।। ३३ ।।

अथ गुरुताशिष्यताविधिः गुरुसन्निधौ
सर्त्तव्याकर्त्तव्यनिरुपणञ्च :
गुरुता शिष्यता वापि तयोर्वत्सरवासतः ।। ३४ ।।

तथा चोक्तं साररंग्रहे : सद्गुरुः स्वाश्रितं शिष्यं
वर्षमेकं परीक्षयेत् (प्रतीक्षयेत्) ।। ३५ ।। स्वप्ने तु न कालनियमः
। स्वप्ने तू नियमो न हीति नारदवचनात् ।। ३६ ।।
तत्रैव : राज्ञि चामात्म्यजो दोषः पत्नीपापं स्वभर्त्तरि ।
तथा शिष्यार्ज्जितं पापं गुरुः प्राप्नोति निश्चितम् ।। ३७ ।।
वर्षैकेण भवेद्योग्यो विप्रोगुणसमन्वितः । वर्षद्वयेन राजन्यो
वैश्यस्तु वत्सरैस्त्रिभिः । चतुर्भिर्वत्सरैः शूद्रः कथिता
शिष्ययोग्यता ।। ३८ ।।
ताराप्रदीपे : आगमोक्तविधानेन कलौ देवान् यजेत्सुधीः ।
न हि देवाः प्रसीदन्ति कलौ चान्य विधानतः ।। ३९ ।।
तथा : कृते श्रुत्युक्तमार्गः स्यात् त्रेतायां स्मृतिसम्भवः
। द्वापरे तु पुराणोक्तः कलावागमसम्मतः ।। ४० ।। अशुद्धाः
शूद्रकर्माणो ब्राह्मणाः कलिसम्भवाः ।
तेषामागममार्गेण सिद्धिर्न श्रौतवर्त्मना ।। ४१ ।।
मन्त्रर्णा देवता ज्ञेया देवता गुरुरूपिणी ।
तेषा भिदा न कर्त्तव्या यदीच्छेच्छुभमात्मनः ।। ४२ ।।
देव्यागमे शिववाक्यम् : गुरुशययासनं यानं
पादुकोपानत्पीठकम् । स्नानोदकं तथाच्छायां लङ्घनं
नैव कारयेत् ।। ४३ ।। गुरोरग्रे पृथक् पूजामौद्धत्यञ्च विवर्जयेत् ।
दीक्षाव्याख्यां प्रभुत्वञ्च गुरोरग्रे परित्यजेत् ।। ४४ ।।

रुद्रयामले : ऋणदानं तथादानं वस्तुनां
क्रयविक्रयम् ।
न कुर्याद्गुरुणा सार्द्धं शिष्यो भूत्वा कदाचन ।। ४५ ।।

अथ गुरुशब्दार्थ :

तन्त्रार्णवे : गकारः सिद्धिदः प्रोक्तो रेफः
पापस्यदाहकः । उकारः शम्भुरित्युक्तस्त्रितयात्माः गुरुः परः
।। ४६ ।। गकाराज्ज्ञानसम्पत्ति रेफः पापस्य दाहकः ।
उकाराच्छिवतादात्म्यं दद्यादिति गुरुः स्मृतः ।। ४७ ।।
गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः ।
अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ।। ४८ ।।

अथ आश्रमादिभेदेन गुरुनिर्णयः दूरत्वादूरत्वभेदेन
गुरुं प्रति कर्त्तव्यञ्च :

कुलचुडामणौ : उदासीनो ह्युदासीनां वनस्थो वनवासिनः ।
यतीनाञ्च यतिः प्रोक्तो गृहस्थानां गुरुर्गृही ।। ४९ ।। वैष्णवे
वैष्णवो ग्राह्यः शैवे शैवस्तथा पुनः । शक्तिके त्रितयं
विद्याद्दिक्षास्वामी न संशयः ।। ५० ।। गुरुरपि गृहस्थ एव
कुलार्णवे सर्वशात्रार्थवेत्ता च गृहस्थो गुरुरुच्यते ।। ५१ ।।
तथा च कल्पे : कलत्रपुत्रवान् विप्रो दयालुः सर्वसम्मतः ।
दैवे पित्रेऽरिमित्रे च गृहस्थो देशिको भवेत् ।। ५२ ।।
कुलचुडामणौ : पिता माता तथा भ्राता पितृव्यो
मातुलस्तथा । येनोपदिष्टस्तन्त्रेऽस्मिन् तं गुरुं समुपासयेत् ।। ५३
।। न च वालो न वृद्धश्च न खञ्जो न कृशस्तथा । इति हयशीर्षात् ।।
५४ ।।
तथा च नित्यानन्दे : गुरुं न मर्त्यं बुध्येत् यदि बुध्येत
तस्य तु । न कदाचिद्भवेत् सिद्धिर्न मन्त्रैर्दैवपूजनैः ।। ५५ ।।
तथा : एकाग्रमस्थितः शिष्यस्त्रिसन्धयं प्रणमेद्गुरुम् ।
क्रोशमात्र स्थितो भूत्वा गुरुं प्रतिदिनं नमेत् ।। ५६ ।।
अर्धयोजनतः शिष्यः प्रणमेत् पञ्चपर्वसु । एकयोजनमारभ्य
योजन - द्वादशावधि । दूर - देशस्थितः शिष्यो भक्त्या
तत्सन्निधिं गतः । तत्र योजनसंख्योक्तमासेन प्रणमेद् गुरुम् ।।
५७ ।। यदि दूरे च चार्वाङ्गि ! स्वगुरोर्नगरं भवेत् । वर्षे वर्षे च
कर्त्तव्यं गुरोश्चरणवन्दनम् ।। ५८ ।। एतच्च एकधा दक्षिणायने
एकधा उत्तरायणे कर्त्तव्यम् ।। ५९ ।।

अथ पित्रादितो दीक्षानिषेधः :
योगिनीतन्त्रे पितुर्मन्त्रं न गृह्णीयात् तथा मातामहस्य च ।
सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य वा ।। ६० ।।
गणेश - विमर्षिण्याम् : यतेर्दीक्षा पितुर्दीक्षा दीक्षा च
वनवासिनः । विविक्ताश्रमिणो दीक्षा न सा कल्याणदायिका ।। ६१ ।।
रुद्रयामले : न पत्नीं दीक्षयेद्भर्ता न पिता दीक्षयेत्
सुताम् । न पुत्रञ्च तथा भ्राता भ्रातरं न च दीक्षयेत् ।। ६२ ।।
सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् । शक्तित्वेन वरारोहे !
न च सा पुत्रिका भवेत् ।। इत्यादि - निषेधवचनादेभ्यो मन्त्रं न
गृह्णीयात् इत्यर्थः इदन्तु सिद्धेतरविषयम् । सिद्धमन्त्रे न
दूष्यतीति वचनात् ।। ६३ ।।
यतेरपि दीक्षोक्ता शक्तियामले : तीर्थाचारयुतो मन्त्री
ज्ञानवान् सुसमाहितः । नित्यानिष्ठो यतिः ख्यातो गुरुः
स्याद्भौतिकेऽपि च ।। ६४ ।।
तथा च सिद्धयामले: यदि भाग्यवशेनैव सिद्धिविद्यां
लभेत् प्रिये । तदैव तान्तु दीक्षेत त्यक्त्वा गुरुविचारणम् ।। ६५ ।।
तथा : प्रमादाच्च तथाऽज्ञानात् पितुर्दीक्षां समाचरेत् ।
प्रायश्चित्तं ततः कृत्वा मुनेर्दीक्षां (पुनर्दीक्षां)
समाचरेत् ।। पितुरित्युपलक्षण तथा मातामहादीनामपि ।
प्रायश्चत्तन्तु अयुतसावित्रीजपः सर्वत्र दर्शनात् ।। ६६ ।।
शङ्ख : दशसाहस्र्यजापेन सर्वकल्मषनाशिनी ।। ६७ ।।
तथा मत्स्यसूक्ते : निर्वीर्यञ्च पितुर्मन्त्रं शैवे शाक्ते न
दूष्यतीति वचनं कौलिकमन्त्रदीक्षापरम् ।।
अत्र हेतुः योगिनीतन्त्रे : शक्त्यादिविद्यामधिकृत्य
दीक्षानिषेधात् (तथा च विष्णुमन्त्रस्तु पित्रादिभ्यो गृहीतव्यः
इत्यर्थः) यद्वा शाक्ते तारादिविद्यायां मत्स्यसूक्ते
तामधिकृत्य तथाप्रतिपादनात् । तथा च निजकुलतिलकाय
ज्येष्ठपुत्राय दद्यादित्यादि ।। ६८ ।।
श्रीक्रमेऽपि : मनुर्विमृष्य दातव्यो ज्यष्ठपुत्राय धीमते ।
महात्रीर्थं उपरागे सति सर्वत्र न दोषः ।। ६९ ।।
तथा च विष्णुमन्त्रमधिकृत्य : साधु पृष्टं त्वया विप्र
वक्ष्यामि सकलन्तव । ब्रह्मणा कथितं पूर्वं वसिष्ठाय
महात्मने ।। ७० ।। वसिष्ठोऽपि स्वपुत्राय मत्पित्रे दत्तवान स्वयम् ।
प्रसन्नहृदयः स्वच्छः पिता मे करुणानिधिः ।। ७१ ।। कुरुक्षेत्रे
महातीर्थं सूर्यपर्वणि दत्तवान् । इत्यादि
वैशम्पायनसंहितायां शौनकं प्रति व्यसवचनाम् ।। ७२ ।।
योगिनीतन्त्रे : निर्वीर्यञ्च पितुर्मन्त्रं तथा मातामहस्य च
। स्वप्नलब्धं स्त्रियादत्तं संस्कारेणैव शुध्यति ।। ७३ ।।
यत्तु : साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया ।
सर्वमन्त्रार्थतत्त्वज्ञा सुशीला पूजते रता । गुरुयोग्या भवेत् सा
हि विधवा परिवर्जिता । स्त्रिया दीक्षा शुभा प्रोक्ता
मातुश्चाष्टगुणाः स्मृताः ।। इदस्तु गुरोरुपासितमन्त्रपरम् ।। ७४ ।।
तथा भैरवोतन्त्रे : स्वीयमन्त्रोपदेशे तु न
कुर्याद्गुरुचिन्तनम् ।। ७५ ।। मातुरित्युपासितेऽष्टगुणम् । अनुपासिते
शुभफलदमित्यर्थः । सिद्धमन्त्रविषयं वा इति केचित् । वस्तुतस्तु
योगिनीतन्त्रे स्त्रीपदं विधवापरं एकवाक्यताबलात् ।। ७६ ।।
विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया । नाधिकारो यतो
नार्ययाः सधवा भर्त्तुराज्ञया । नाधिकार इति
स्वातन्त्र्येणाधिकारस्य ।। ७७ ।। स्त्रीणां गर्भवतीनाञ्च
दीक्षायां नैव दूषणम् । न कुर्याद्दशमे मासि कृत्वा च
नारकी भवे ।। ७८ ।।
स्वप्नलब्धमन्त्रे यदि सद्गुरुं प्राप्नोति तदा तत एव
तन्मन्त्रं गृह्णीयात्, नचेत् जलपूर्णकलसे गुरोः
प्राणप्रतिष्ठां विधाय वटपत्रे कुंकुमेन लिखितं मन्त्रं
तत्कलसे प्रक्षिप्य उत्तोल्य मन्त्रं गृह्णीयादित्यर्थः ।। ७९ ।।
तथा हि : स्वप्नलब्धे च कलसे गुरोः प्राणान निवेशयेत् ।
वटपत्रे कुंकुमेन लिखित्वा ग्रहणे शुभम् । ततः
सिद्धिमवाप्नोति चान्यथा विफलं भवेत् । इदन्दु सद्गुरोराभावे
तस्मादेव मन्त्रं गृह्णीयात् । स्वप्ने तु नियमो न हीति
नारदवचनात् । तत्र सिद्धादिनियमो नास्ति ।। ८० ।।
तथा विद्याधराचार्यघृतं जावालवचनम् :
मध्यदेशकुरुक्षेत्र- नटकोङ्कङसम्भवाः ।
अन्तर्वेदिप्रतिष्ठाना आवन्त्याश्च गुरूत्तमाः ।। मध्यदेश
आर्यावर्तः ।। ८१ ।। गौडाः शाल्वाः सुराश्चैव मागधाः
केरलास्तथा । कोशलाश्च दशार्णाश्च गुरुवः सप्त मध्यमाः ।
कर्णाटनर्मदा - राष्ट्रकच्छतीरोद्भवास्तथा कालिन्दाश्च
कलम्बाश्च काम्बोजाश्चाधमा मताः ।। ८२ ।।

अथ दीक्षाविचारादि - निर्णयः

दीक्षां विना जपस्य दुष्टत्वात् प्रथमं सा निरूप्यते ।
दिव्यं ज्ञानं यतो दद्यात् कुर्यात्पापस्य संक्षयम् ।
तस्माद्दीक्षति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ।। ८३ ।।

अथ सर्वाश्रमेषु दीक्षाया आवश्यकत्वम् :

तथा च : दीक्षामूलं जपं सर्वं दीक्षामूलं परं तपः ।
दीक्षामाश्रित्य निवसेद्यत्र कुत्राश्रमे वसन् ।। ८४ ।। अदीक्षिता ये
कुर्वन्ति जपपूजादिकाः क्रियाः । न भवति प्रिये ! तेषां
शिलायामुप्तवीजवत् ।। ८५ ।। देवि ! दीक्षाविहीनस्य न सिद्धिर्न च
सद्गतिः । तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् ।। ८६ ।।
अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत् । अदीक्षितस्य मरणे
पिशाचत्वं न मुञ्चति । तस्माद्दीक्षां प्रयत्नेन सदा
कुर्वीत्तान्त्रिकात् ।। ८७ ।।
तथा च नवरत्नेश्वरे : सर्वासामपि दीक्षाणां मुक्तिः
फलमखण्डितम् । अविरोधाद्भवन्त्येव प्रासङ्गिक्यस्तुभुक्तयः
।। ८८ ।। उपपातकलक्षाणि महापातककोटयः क्षणाद्दहति देवेशि
! दीक्षा हि विधिना कृता ।। ८९ ।। कल्पे दृष्ट्वा तु मन्त्रं वै यो
गृह्णाति नराधमः । मन्वन्तरसहस्रेषु निष्कृतिनैव जायते ।। ९० ।।
नादीक्षितस्य कार्या स्यात् तपोभिनियमव्रतैः । न
तीर्थगमनेनाऽपि न च शरीरयन्त्रणैः ।। ९१ ।।
मत्स्यसूक्ते : अदीक्षितानां मर्त्तयानां दोषं शृणु
वरानने ! । अन्नं विष्ठासमं तस्य जलं मूत्रसमं स्मृतम् ।।
९२ ।। तत्कृतं तस्य वा श्राद्धं सर्वं याति ह्यधोगगिम् ।। ९३ ।।
ततः : सद्गुरोराहिता दीक्षा सर्वकर्माणि सोधयेत् ।
अथ शूद्रस्य निषिद्धमन्त्रा :

तन्त्रान्तरे : प्रणवाद्यं न दातव्यं मन्त्रं शूद्राय
सर्वथा । आत्ममन्त्रं गुरोर्मन्त्रं मन्त्रञ्चाजपसंज्ञकम् ।।
९४ ।। स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्द्विजः । शूद्रो
निरयमाप्नोति ब्राह्मणो यात्यधोगतिम् ।। ९५ ।।
श्रुतिरपि : सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रो यदि
जानीयात् स मृतोऽधोगच्छति ।। ९६ ।।
विशेषमाह वाराहीये : गोपालस्य मनुर्देयो महेशस्य च
पादजे । तत्पत्न्याश्चापि सूर्यस्य गणेशस्य मनुस्तथा । एषा
दीक्षाधिकारी स्यादन्यथा पापभाग्भवेत् ।। ९७ ।।

अथ मन्त्राणां सिद्धादिविचार :

तत्राप्यनुकूलं मन्त्रं दीक्षयेत् । मननात्त्रायते
यस्मात्तस्मान्मन्त्रः प्रकीर्तितः ।। ९८ ।।

तथा च : स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनून् ।।
९९ ।।
सिद्धसारस्वते : नृसिंहार्कवराणाणां
प्रासादप्रणवस्य च । सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव
शोधयेत् ।। १०० ।।
वाराहीतन्त्रे : ताराचक्रं राशिचक्रं नामचक्रंतथैव
। तत चेत् सगुणो मन्त्रो नान्यचक्रं विचिन्तयेत् । इति तु प्रधानतया
वोद्धव्यम् ।। १ ।।
तथा च : धनिमन्त्रं न गृह्णीयादकुलञ्च तथैव च ।
इत्यादौ तथा दर्शनात्तत्तच्चक्रविचारस्यावस्श्यकत्वात् प्रथमं
तन्निरूप्यते । स्वप्नलब्धे स्त्रिया दत्ते मामामन्त्रे च त्र्यक्षरे ।
काली - तारामणौ मन्त्री तथा छिन्नमनावपि । वैदिकेषु च
सर्वेषु सिद्धादीन्नैव शोधयेत् ।। २ ।।
मालामन्त्रस्तु वाराहीये : विंशत्यर्णाधिका मन्त्रा
मालामन्त्राः प्रकीर्तिताः ।। ३ ।। नपुंसकस्य मन्त्रस्य
सिद्धादिन्नैव शोधयेत् । हंसस्याष्टाक्षरस्यापि तथा
पञ्चाक्षरस्य च । एक - द्वि - त्र्यादिबिजस्य सिद्धादीन्नैव शोधयेत्

तथा : एकाक्षरस्य मन्त्रस्य मालामन्त्रस्य पार्वति ।
वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ।। ४ ।। पुं-मन्त्रा
हुंफडन्ताः स्युद्विष्ठान्तास्तृस्त्रियो मताः । नपुंसका
नमोऽन्ताः स्युरित्युक्ता मनवस्त्रिधा । एतत्शून्या महाविद्या
महाशब्देन नीयते ।। ५ ।।
मालिनीविजये : अथ वक्ष्याम्यहं या या महाविद्या
महीतले । दोषजालैरसंस्पृष्ठास्ताः सर्वा हि फलैः सह । काली
नीला महादूर्गा त्वरिता छिन्नमस्तका । वाग्वादिनी
चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः । कामाख्यावासिनी बाला
मातङ्गी शैलवासिनी । इत्याद्याः सकला देव्याः कलौ
पूर्णफलप्रदाः ।। ६ ।। सिद्धमन्त्रतया नात्र
युगसेवापरिश्रमः । तथा चैता महाविद्याः कलिदोषान्न
वाधिताः ।। ७ ।।
तथा च मुण्डमालातन्त्रे : काली तारा महाविद्या षोडशी
भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा ।
वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एता दश
महाविद्याः सिद्धविद्याः प्रकीर्तिताः । नात्र सिद्धाद्यपेक्षास्ति
नक्षत्रादिविचारणा । कालादिशोधनं नास्ति
नारिमित्रादिदूषणम् । सिद्धिविद्यातया नात्र युगसेवापरिश्रमः
। नास्ति किञ्चिन्महादेवि ! दुःखसाध्यं कदाचन ।
इत्यादिवचनादेषु विचारो नास्ति । वस्तुतस्तु इदं प्रशंसापरम् ।
सर्वत्र विचारस्यावश्यकत्वं दुरदृष्टवशात्
कदाचिद्वैरिमन्त्रस्य स्वप्नादौ प्राप्त्या तद्दोषस्य दृष्टत्वादिति
साम्प्रदायिकाः ।। ८ ।।
अथ कुलाकुलचक्र : (देखिये चित्र १)
कुलाकुलस्य भेदं हि वक्ष्यामि मन्त्रिणामिह । तथा निबन्धे -
वायवग्नि - भू - जलाकाशाः पञ्चाशल्लिपयः क्रमात् ।
पञ्चह्रस्वाः पञ्च दीर्घा विन्द्वन्ताः सन्धिसम्भवाः ।
कादयः पञ्चशः यक्षलसहान्ताः प्रकीर्तिताः । तथा च - अ आ ए
क च ट त प य षा मारुताः । इ ई ऐ ख छ ठ थ फ र क्षा
आग्नेयाः । उ ऊ आ ग ज ड द ब ल लाः पार्थिवाः । ऋ ॠ औ घ झ ट
ध भ व सा वारुणाः ऌ ॡ अं ङ ञ ण न म श हा
नाभसाः । साधकस्याक्षरं पूर्व मन्त्रस्यापि तदक्षरम् ।
यदेयक भूतदैवत्यं जानीयात् स्वकुलं हितम् । भौमस्य
वारुण मित्रं आग्नेयस्यापि मारुतम् । मारुतं पार्थिवानाञ्च
आग्नेयञ्चाम्बह्सां रिपुः ।। ९ ।।
पार्थिवानाञ्चेति चकारात् आग्नेयं पार्थिवानां रिपुः ।
नाभसं सर्वमित्रं स्याद्विरुद्धं नैव शीलयेत् । तथा च
रुद्रयामले : पार्थिवे वारुणं मित्रं तैजसं शत्रुरीरितम् ।
ऐन्द्रवारुणयोः शत्रुर्मारुतः परिकीर्तितः । मित्रं तैजसं
शत्रिरीरितम् । ऐन्द्रवारुणयोः शत्रुर्मारुतः परिकीर्तितः । इति
राघवभट्टघृतवचनात् जलमारुतयोः शरुता । मित्रे सिद्धिः
समाख्याता उदासीने न किञ्चन । मृत्युर्व्याधिरमित्रे च स्वकुले
सिद्धि रुत्तमा ।। ९क ।।

अथ राशिचक्रम् : (दिखिये चित्र २)
यथा आगमकल्पद्रुमे : रेखाद्वयं पूर्वपरेण
कुर्यात्तन्मध्यतो याम्यकुवेरभेदात् । एकैकमीशाननिशाकरे तु
हुताशवायव्योर्विलिखेत्ततोर्ऽर्णान् । वेदाग्नि - वह्नियुगल -
श्रवणाक्षिसंख्यान् पञ्चेषुवाणशरपञ्चचतुष्टयार्णान् ।
मेषादितः प्रविलिखेत् सकलास्तु वर्णान् कन्यागतान् प्रविलिखेदथ
पादिवर्णान् ।। १० ।। शारदायाम वालं गौरं खुरं शोनं
शमीशोभेति राशिषू क्रमेण भेदिता वर्णाः कन्यायां
शादयः स्मृताः । तेन अ आ इ ई मेषः । उ ऊ ऋ वृषः । ॠ ऌ ॡ
मिथुनम् । ए ऐ कर्कटः । ओ औ सिंहः । अं अः श ष स ह ल क्षः
कन्या । कवर्तस्तुला । चवर्गो वृश्चिकः टवर्गो धनुः । तवर्गो
मकरः । पवर्गः कुम्भः । यवर्गो मीनः ।
स्वराशीनामनूक्लं मन्त्रं भजेत् । तथा च
स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनूतिनि नारदवचनात् ।
राशीनां शुद्धता ज्ञेया त्यजेच्छक्रं मृतिं व्ययम् ।
स्वराशेर्मन्त्रराश्यन्तं गणनीयं विचक्षणैः । यदा
तुस्वराशेरज्ञानं तदा साधनामाद्यक्षरसम्बन्धिनं
राशिं गृहीत्वा गणयेत् ।।
नारायणीये : अज्ञाते राशिनक्षत्रे नामाद्यक्षरदर्शनात्
साध्यस्याक्षरराश्यन्तं गणयेत् साधकाक्षरादिति
रामार्चनचन्द्रिकाधृतत्वाच्च ।। ११ ।।
तन्त्रराजे : तेन मन्त्राद्यवर्णेन नाम्नश्चाद्यक्षरेण च ।
गणयेद्यदि षष्ठं वाष्यष्टमं द्वादशन्तु वा ।
रिपुर्मन्त्राद्यवर्ण स्यात्तेन तस्याहितं भवेत् ।। १२ ।।
रामार्चनचन्द्रिकायाम् : एकपञ्च - नवबान्धवाः स्मृता
द्वौ च षष्ठदशमाश्च सेवकाः । वह्निरुद्रमुनयस्तु पोषका
द्वादशास्टचतुरस्तु घातकाः । चतुरस्तु घातका इति
विष्णुविषयम् । रामार्चनाचन्द्रिकाघृतत्वाच्च ।। १३ ।। शक्तयादौ
षष्ठं वर्जनीयम् । षष्ठाष्टमद्वादशानि वर्जनीयानि
यत्नतः इति वचनात् । तन्त्रराजघृतत्वाच्च ।। १४ ।।
तन्त्रान्तरे : द्वादशराशीनामियं संज्ञा
नामानुरूपं फलम् । लग्नं धनं
भातृबन्धुपुत्रशत्रुकलत्रकम् । मरणं धर्मकर्मायव्यया
द्वादशराशयः । नामानुरूपमेतेषा शुभाशुभफलं
लभेत् । वैष्णवे तु बन्धुस्थाने शत्रुः शत्रुस्थाने बन्दुरिति
पाठः ।। १५ ।। लग्ने सिद्धिस्तथा नित्यं घने धनसमृद्धिःदम् ।
भ्रातरि भ्रातृवृद्धिः स्याद्वान्धवे वान्धवप्रियः । पुत्रे
पुत्रविवृद्धिः स्याच्छत्रौ शत्रुविवर्द्धनम् । कलत्रे मध्यमा
प्रोक्ता मरणे मरणं भवेत् । धर्मधर्मविवृद्धिः स्यात् ।
सिद्धिदः कर्मसंस्थितः । आये च धनसम्पत्तिर्व्यये च
सञ्चितव्ययः ।। १६ ।।

अथ नक्षत्रचक्रम् : (देखिये चित्र ३)

अ आ अश्विनी देवः । इ भरणी मानुषः । ई उ ऊ कृत्तिका राक्षसः । ऋ
ॠ ऌ ॡ रोहिणी मानुषः । ए मृगशिरो देवः । ऐ आर्द्रा मानुषः । ओ
औ पुनर्वसुर्देवः । क पुष्या देवः । ख ग अश्लेषा राक्षसः । घ
ङ मघा राक्षसः च पूर्वफल्गुनो मानुषः । छ ज
उत्तरफल्गुनी मानुषः । झ ञ हस्ता देवः । ट ठ चित्रा
राक्षसः । ड स्वाती देवः । ढ ण विशाखा राक्षसः । त थ द
अनुराधा देवः । ध ज्येष्ठा राक्षसः । न प फ मूला
राक्षसः । ब पूर्वाषाढामानुषः । भ उत्तराषाढा
मानुषः । म श्रवणा देवः । य र घनिष्ठा रक्षसः । ल
शतभिषा राक्षसः । व श पूर्वभाद्रपदा मानुषः । ष स ह
उत्तरभाद्रपदा मानुषः । अं अः ल क्ष रेवतो देवः ।
वृहच्छ्रीक्रमे : उत्तराद्दक्षिणाग्रां तु रेखां
कुर्याच्चतुष्टयीम् । दशरेखाः पश्चिमग्राः कर्त्तव्या वीरवन्दिते
। अश्विन्यादिक्रमेणैव विलिखेत्तारकाः पुनः ।। १७ ।। अकारादि -
क्षकारास्तान् द्विचन्द्रवह्निवेदकान । भूमीन्दु नेत्रचन्द्राक्ष्णि
अश्लेषान्तं खगौ प्रिये । द्विभूनेत्र -
नेत्रयुग्मांश्चेन्दुनेत्राग्नि चन्द्रकान् ।
मघादिज्येष्ठापर्यन्तं द्वितीयं नवतारकम् ।
वह्निभूमीन्दुचन्द्रांश्च युग्मेन्दुनेत्र - वह्निकान् । वेदेन
भेदितान् वर्णान् रेवत्यंशगतान् क्रमात् ।। १८ ।।
तथा च निबन्धे : पूर्वोत्तर - त्रयञ्चैव भरण्यार्द्राथ
रोहिणी । इमानि मानुषान्याहुर्नक्षत्राणि मनीषिणः ।। १९ ।।
ज्येष्ठा शतभिषा - मूला धनिष्ठाश्लेषकृत्तिकाः । चित्रा -
मघा - विशाखाः स्युस्तारा राक्षसदेवताः ।। २० ।। अश्विनी रेवती
पुष्या स्वातो हस्ता पुनर्वसुः । अनुराधा मृगशिरा श्रवणा
देवतारकाः ।। २१ ।।
तथा : स्वजातौ परमा प्रीतिर्मध्यमा भिन्नजातिषु ।
रक्षोमानुषयोर्नाशो वैरं दानवदेवयोः ।। २२ ।। जन्म -
सम्पद्विपत्क्षेम - प्रत्यरिः साधको वधः । मित्रं
परममित्रञ्च जन्मादीनि पुनः पुनः ।। २३ ।। जन्म तृतीय पञ्चम
सप्तमानि नक्षत्राणि वर्जनीयानि ।। २४ ।।
तथा च राघवभट्ट : रसाष्टनवभद्राणि
युगयुग्मगतानि च । इतराणि न भद्राणि तत्त्यज्यानि मनीषिणा
इत्यादि । तत्र स्वनक्षत्रादेव नक्षत्रं गणनीयम् ।
स्वनक्षत्राज्ञाने स्वनामाद्यक्षरसम्बन्धिनक्षत्रादेव
नक्षत्रं गणनीयम् ।।
पिङ्गलातन्त्रे : प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतो
भवेत् । प्रनष्टं जन्मभं यस्य तस्य नामर्क्षतो भवेत् । इति
वचनात् । तथा च प्रादक्षिण्येन गणयेत् साधकाद्यक्षरात्
सुधीः । इति वचनात् ।
प्रकारान्तरं निबन्धे : प्रापालाभात् पटुप्राह्यं
रुद्रस्याद्रिरूरुः करम् । लोकलोपपटुप्रायः खलो घो भेषु
भेदिताः ।। २५ ।।
पक्षैकत्र्यद्धिरूपावनिभुजशशियुग्मेन्दुपक्षाः ।
युग्मैकद्वियुग्मनेत्रेन्दु - पक्षाग्निचन्द्रकान् ।
त्रयशशिभूरेकपक्षेन्दुनेत्राग्निवेदाः । वर्णाः करमात्
स्वराश्यन्त्यौ रेवत्यंशगतावुभौ । जप्तुर्नक्षत्रादथ
परिगणयेत् जन्म - सम्पत्क्रमेण सुधोरिति वचनात् ।। २६ ।।

अथ अकथह वक्रम् : (देखिये चित्र ४)
चतुरस्रे लिखेद्वर्णान् चतुःकोष्ठसमन्विते । चतुःकोष्ठे
चतुश्चतुकोष्ठे षोडश कोष्ठ इति यावत् ।। २७ ।।
विश्वसारे : चतुरस्रं लिखेत् कोष्ठं चतुःकोष्ठसमन्वितम्
। पुनश्चतुष्कं तत्रापि लिखेद्धीमान् क्रमेण तु । ततः
षोडशकोष्ठेषु अकारादिवर्णान् प्रादक्षिण्येन लिखेत् ।
तत्र क्रम : इन्द्वाग्नि - रुद्र - नव - नेत्र - युगार्क - दिक्षु -
ऋत्वष्ट - षोडश - चतुर्दशभौतिकेषु । पाताल - पञ्चदश -
वह्निहिमांशुकोष्ठे वर्णाल्लिखेल्लिपिभवान् क्रमशस्तु धीमान् ।।
नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् ।
चतुर्भिकोष्ठेरेकैकमिति कोष्ठेवतुष्टयम् । पुनः कोष्ठग -
कोष्ठेषु सव्यतो नाम्न आदितः । सिद्धः साध्यः सुसिद्धोऽरिः
क्रमाज्ज्ञेया विचक्षणैः । सव्यतो दक्षिणतः ।
कल्पद्रुमे : पूर्वापरायतं कृत्वा पञ्चसूत्रं । तथैव
दक्षिणोदीच्यक्रमेण पञ्चसूत्रकम् । यथा सोडशकोष्ठानि
सम्पद्यन्ते तथा लिखेत् ।। २९ ।।
विश्वसारे : अकारादि - हकारान्तं मूलाकोष्ठादितः
सुधीः । दक्षिणावर्तयोगेन कोष्ठे वर्णान् लिखेत् सुधीः । येनैव
लिखनं कुर्यात्तेनैव गणनं स्मृतम् ।। ३० ।। सिद्धः साध्यः
सुसिद्धोऽरिः क्रमाज्ज्ञेयो विचक्षणैः । सिद्धः ल्सिद्ध्यति कालेन
साध्यस्तु जपहोमतः । सुसिद्धो ग्रहणादेव रिपुर्मूलं निकृन्तति
।। ३१ ।।
तन्त्रान्तरे : सिद्धार्णा बान्धवाः प्रोक्ताः साध्यास्तु
सेवकाः स्मृताः । सुसिद्धाः पोषका ज्ञेयाः शत्रवो घातकाः
स्मृताः ।। ३२ ।। जपेन बन्धुः सिद्धः स्यात् सेवकोऽधिकसेवया ।
पुष्णाति पोषकोऽभीष्टं घातको ना शयेद् - ध्रुवम् ।। ३३ ।।
सिद्धिसिद्धो यथोक्तेन द्विगुणात् सिद्धसाध्यकः । सिद्ध -
सुसिद्धोऽर्द्धजपात् सिद्धारिर्हन्ति बान्धवान् ।। ३४ ।। साध्य - सिद्धो
द्विगुणकः साध्य - साध्यो निरर्थकः । तं सुसिद्धो द्विगुणजपात्
साध्यारिर्हन्ति गोत्रजान् ।। ३५ ।। सुसिद्धसिद्धोऽर्द्धजपात् तत्साध्यो
द्विगुणाधिकात् । तत्सिद्धो ग्रहादेव सुसिद्धारिः स्वगोत्रहा ।। ३६ ।।
अरिसिद्धः सुतान् हन्यात् अरिसाध्यस्तु कन्यकाः । तत्सुसिद्धस्तु
पत्नीघ्नस्तदरिर्हन्ति साधकम् ।। ३७ ।।

अथ वैरिमन्त्रपरित्यागप्रमाणमाह तन्त्रे :

गवा क्षीरे द्रोणमिते जपेन्मन्त्रशताष्टकम् । पीत्वा
क्षीरं जले तद्वत् समुच्चार्य त्यजेत्तथा । अनेनैव विधानेन
वैरिमन्त्राद्विमुच्यते ।। ३८ ।। अरिमन्त्र विदित्वा तु न पुनः प्रजेपेच्च
तत् । सन्त्यज्य तत् देवतायास्तस्या अन्यं भजेन्मनुम् ।। ३९ ।।
द्रोणपरिमाण यथा तन्त्रान्तरे : पलद्वयन्तु प्रसृतिः
कुडवं तच्चतुष्टयम् । चतुर्भिः कुडवैः प्रस्थः
प्रस्थाश्चत्वार आढकम् । चतुर्भिराढकैर्द्रोणः कथितो
मानवेदिभिः ।। ४० ।।
प्रकारान्तरमाह रुद्रयामले : वटपत्रे लिखित्वारि -
मन्त्रं स्रोतसि निक्षिपेत् । एवं मन्त्रविमुक्तिः स्यादित्याह
भगवान शिवः ।। ४१ ।।

अथ अकडम - चक्रम् : (देखिये चित्र ५)

रेखाद्वयं पूर्वपरेण कुर्यात्तन्मध्यतो
याम्यकुबेरभेदात् । महेशरक्षोधिपतिक्रमेण तिर्यक् तथा
वायुहुताशनेन ।। ४२ ।। अकारादिक्षकारान्तान् क्लीवहीनान
लिखेत्ततः । ऋ ॠ वर्णद्वयं ऌ ॡ तद्धि क्लीवं प्रचक्षते ।। ४३ ।।
एकैकक्रमतो लेख्यान् मेषादिषु वृषान्तकान् । गणयेत् क्रमशो
भद्रे । नामादि वर्ण पूर्वकान् । मेषादितोऽपि मीनान्तं गणयेत्
क्रमशः सुधीः ।। ४४ ।। जप्तुः स्वनामतो मन्त्री
यावन्मन्त्रादिमाक्षरम् ।।
रत्नावल्याम् : द्वादशाख्ये राशिचक्रे
कूटषण्डविवर्जितान् । आदिहन्ताद् लिखेद्वर्णान्
पुरतोयावदीश्वरम् । सिद्ध - साध्य - सुसिधारीन् पुनः
सिद्धादयः पुनः । नवैकपञ्चमे सिद्धः साध्यः
षड्दशयुग्मके । सुसिद्धस्त्रिसप्तके रुद्रे वेदाष्टद्वादशे रिपुः
एतत्ते कथितं देवि । अकडमादिकमुत्तमम् । इदं तु
गोपालविषयकमेव । गोपालेऽकऽकडमः स्मृत इति वचनात् ।। ४५ ।।
शिवविषयेऽपि : वैष्णवं राशिसंशुद्धं
शैवञ्चाकडमं स्मृतम् । इति यामलीयात् ।। ४६ ।।
तथा च वाराहोतन्त्रे : ताराशुद्धिर्वैष्णवानां
कोष्ठशुद्धिः शिवस्य च । राशिशुद्धिस्त्रैपुरे च
गोपालेऽकडमः स्मृतः ।। ४७ ।।

अथ ऋणि - धनि चक्रम् : (देखिये चित्र ६)

तद्यथा : कोष्ठान्येकादशान्येव वेदेन पूरितानि च ।
अकारादिहकारान्तान् लिखेत् कोष्ठेषु तत्त्ववित् ।। ४८ ।। प्रथमं
पञ्चकोष्ठेषु ह्रस्वदीर्घकमेण तु । द्वयं द्वयं लिखेत्तत्र
विचारे खलु साधकः । शेषेष्वेकैकशो वर्णान् क्रमशस्तु लिखेत्
सुधीः ।। ४९ ।। तथा द्वौ द्वौ स्वरौ पञ्चसु कोष्ठकेषु शेषान्
स्वरान षट्सु षडेकमेकम् । कादीन हशेषान् विलिखेत्ततोर्णान्
एकैकमेकादश - कोष्ठकेषु । षट्काल - काल - वियदग्नि -
समुद्र - वेद - खाकाश - शून्य - दहनाः खलु
साध्यवर्णाः । युग्म - द्वि - पञ्च वियदन्वर -षुक् शशाङ्क -
व्योमाद्धि - वेदशशिनः खलु साधकार्णाः । नामाज्झला
दकठवाद् - गजभुक्तशेषं ज्ञात्वोभयोरधिकशेषमृणं
धनं स्यात् ।। ५० ।।
अस्यार्थ : साध्यवर्णान् स्वर - व्यञ्जन - भेदेन
पृथक्कृतानि षट्कालाद्यंकैर्गुणितानि कृत्वा तथा
साधकनामाक्षराणि स्वरव्यञ्जनरूपेण पृठक् कृतान्
युग्माद्यैरङ्कर्गुणितान् कृत्वा अष्टसंख्याभिर्हृत्वा उभयोः
साध्यसाधकयोर्यदधिकं तदृणं यन्न्यूनं तद्धनम् ।
एवं ज्ञात्वा मन्त्रं दद्यात् । मन्त्रश्चेदृणी भवति तदा
मन्त्रः श्भदो भवति धनी चेन्न ।। ५१ ।।
तथा च तन्त्रान्तरे : मन्त्रो यद्यधिकांकः स्यात्तदाः
मन्त्रं जपेत् सुधीः । समेऽपि च जपेन्मन्त्रं न जपेत्तु ऋणाधिके ।
शून्ये मृत्युं विजानीयास्तस्माच्छून्यं परित्यजेत् । ऋणाधिके
धने ।। ५२ ।।
तथा : इन्द्रर्क्ष नेत्र रवि - पञ्चदशर्त्तु
वेदवह्न्यायूधाष्टनवाभिर्गुणितांश्च साध्यान् । दिग्भू -
गिरि - श्रुति - गजाग्नि - मुनीषु - वेदषड्वह्निभिस्तु गुणितानथ
साधकार्णान् । षट्कालेत्यादिकन्तु विष्णुविषयं
रामार्चनचन्द्रिकाधृतत्वादिति केचित् । वस्तुतस्तु पूर्वस्यैव
विवरणमिदम् ।। ५३ ।।
तथा च इन्द्रर्क्षनेत्र ईत्याद्यभिधाय
नामार्णकोष्ठांकमथाभिहन्यादेकादि - रुद्राकगतं
क्रमेण इति ।। ५४ ।।
व्यक्तं रुद्रयामले : साध्यांकान् साधाकांकांश्च
पूरयेद्ग्रहसंख्यया । गुणिते हृतेऽष्टाभिर्यच्छेषं जायते
स्फुटम् । तदङ्कं कथयाम्यत्र एकादशगृहं स्थितम् ।
ईत्युक्त्वा षट्काल - काल इत्युक्तम् ।। ५५ ।।
तन्त्रार्णवे : मन्त्रस्त्वृणी शुभफलोऽप्यशुभो धनी च
तुल्यं यदा समफलः कथितो मूनीन्द्रैः ।। ५६ ।।
अन्यत्र : शून्ये मृत्युमवाप्नोति धने च विफल भवेत् । ऋणे
तु प्राप्तिमात्रेण सर्वसद्धिस्तु जायते ।। ५७ ।।
प्रकारान्तरम् : नामाद्यक्षरमारभ्य
यावन्मन्त्रादिमाक्षरम् । त्रिधा कृत्वा स्वरैर्भिन्नं
तदन्यद्विपरीतकम् । अस्यार्थः साधकानामाद्यक्षरतो
गणनया यावन्मन्त्राद्यक्षरं तत्संख्यं त्रिधा कृत्वा
सप्तभिहृत्वा अधिकं ऋणं शेषं धनं स्यात् । अन्यदिति
मन्त्राद्यक्षरमारभ्य यावत् साधकनामाद्यक्षरं भवेत्
तावत्संख्यां सप्तगुणं कृत्वा त्रिभिर्हरेत् ।। ५८ ।।
अन्यच्च पिङ्गलामते : साध्यनामद्विगुणितं साधकेन
समन्वितम् । अष्टाभिश्च हरेच्छेषं तदन्यद्विपरीतकम् ।
अस्यार्थः : साध्यनाम स्वरव्यञ्जनभेदेन द्विगुणीकृत्य
साधकनामाक्षरेण स्वरव्यञ्जनभेदेन संयोज्य
अष्टार्भिर्हृत्वा ऋणं धनं ज्ञेयम् । अन्यदिति
साधकनामाक्षरं स्वरव्यञ्जनभेदेन द्विगुणीकृत्य
साध्याक्षरेण स्वरव्यञ्जन भेदेन संयोज्य अष्टार्भिर्हृत्वा
अधिकं ऋणं शेषं धनं ज्ञेयं ।। ५९ ।।
नामग्रहणप्रकारमाह सनत्कुमारोये : पितृमातृकृतं
नाम त्यक्त्वाशर्मादि - देवकान् । श्रीवर्णञ्च ततो हित्वा चक्रेषु
योजयेत् क्रमात् ।। ६० ।।

नामग्रहणप्रकारमाह पिङ्गलायाम् : प्रसिद्धः
यद्भवेन्नाम कंवास्य जन्मनाम च । यतीनां पुष्पपातेन
गुर्णा यत् कृतं भवेत् ।। ६१ ।।

तन्त्रान्तरे : लोकप्रसिद्धमथवा मात्रा पित्रा तथा कृतम् ।।
६२ ।।
रुद्रयामले : सुप्तो जागर्त्ति येनासौ दूरस्थः प्रतिभाषते ।
वदत्यन्यमनस्कोऽपि तन्नाम ग्राह्यमेव च ।। ६३ ।।
देवताभेदेन चक्रविचारस्यावश्यकता वाराहीतन्त्रे यामलादौ
च :
ताराशुद्धिर्वैष्णवानां कोष्ठशुद्धिः शिवस्य च ।
राशिशुद्धिस्त्रैपुरे च गोपालेऽकडमः स्मृतः ।। ६४ ।। अकडमो
रामचन्द्रे गणेशे हरचक्रकम् । कोष्ठचक्रं वराहस्य
महालक्ष्म्याः कुलाकुलम् ।। ६५ ।। नामादिचक्रं सर्वेषां
भूतचक्रं तथैव च । त्रैपुरं तारके चक्रे शुद्धं मन्त्रं
जपेद्बुधः ।। ६६ ।।
तथा : वैष्णवं राशिसंशुद्धं शैवञ्चाकडमं
स्मृतम् । कालिकायाश्च तारायास्ताराचक्रं शुभावहम् ।। ६७ ।।
चण्डिकायास्तारकोष्ठे गोपालेऽकडमं स्मृतम् हरचक्रे
सर्वमन्त्रं धनाधिक्ये न चाश्रयेत् ।। ६८ ।। ऋणाधिक्ये शुभं
विद्याद्घनाधिक्ये च नो विधिः । दोषान् संशोध्य
गृह्णीयान्मध्यदेशोद्भवस्य च ।। ६९ ।। ऋणी मन्त्रः शुभफलो
धनी मन्त्रोऽशुभप्रदः । तुल्यं यदा शुभफलं कथितो
मुनिसत्तमैः ।। ७० ।।
अन्यत्रापि शून्ये मृत्युमवाप्नोति धने च विफलं भवेत् ।
ऋणे च प्राप्तिमात्रेण सर्वासिद्धिस्तु जायते ।। ७१ ।।

अथ दीक्षाप्रकरणम् :

गुरुदीक्षापूर्वदिने स्वशिष्यमभिमन्त्रयेत् ।
दर्भशययां परिष्कृत्य शिष्यं तत्र निवेशयेत् ।। ७२ ।।
स्वापमन्त्रेण मन्त्रज्ञः शिशोः शिखां प्रबन्धयेत् ।
तन्मन्त्रं स्वापसमये पठेद्वारत्रयं शिशुः ।। ७३ ।। श्री गुरोः
पादुकां ध्यात्वा उपवासी जितेन्द्रियः । तारो हिलिद्वयं
शूलपाणये द्विठ ईरितम् ।। ७४ ।। वारत्रयं पठित्वा तु उपवासी
जितेन्द्रियः । श्री गुरोः पादुकां ध्यात्वा शयीत कुशशायने ।। ७५
।।
मन्त्रान्तरम् : स्वपमानस्य मन्त्रोऽयं शम्भुना
परिकीर्तितः । नमो जय त्रिनेत्राय पिङ्गलाय महात्मने । रामाय
विश्वरूपाय स्वप्नाधिपतये नमः । स्वप्ने कथय मे तथ्यं
सर्वकार्येष्वशेषतः । क्रियासिद्धिं विधास्यामि
त्वत्प्रसादान्महेश्वर । इति मन्त्रेण सच्छिष्यो देवं प्रार्थ्य
स्वपेच्च वा । स्वप्ने शुभाशुभं दृष्टं पृच्छेत्प्रातः शिशुं
गुरुः । कन्यां छत्रं रथं दीपं प्रासादं कमलं नदीम् ।
कुञ्जरं वृषभं माल्यं समुद्रं फणिनं द्रुमम् ।
पर्वतं तुरगं मेध्यमाममांसं सुरासवम् । एवमादीनि
सर्वाणि दृष्ट्वा सिद्धिमवाप्नुयात् । इति मन्त्रसिद्धिज्ञापनार्थं
शिष्याभिमन्त्रणम् ।। ७६ ।।

अथ दीक्षायां कालनिर्णय :

गौतमीये : मन्त्रारम्भस्तुचैत्रे स्यात् समस्तपुरुषार्थदः ।
वैशाखे रत्नलाभः स्यात् ज्यैष्ठे तु मरणं भवेत् । आषाडे
बन्धुनाशः स्यात् पूर्णायुः श्रावणे भवेत् । प्राणनाशो
(प्रजानाशो) भवेद्भाद्रे आश्विने रत्नसञ्चयः ।। ७७ ।। कार्तिके
मन्त्रसिद्धिः स्यात् मार्गशीर्षे तथा भवेत् । पौषे तु शत्रु - पीडा
स्यात् माघे मेधाविवर्द्धनम् ।। ७८ ।। फाल्गुने सर्वकामाः
स्युर्मलमासं विवर्जयेत् ।। ७९ ।। चैत्रे तु गोपालविषयं गौतमीये
उक्तत्वात् ।। ८० ।। मधुमासे भवेद्दीक्षा दुःखाय मरणाय च । इति
योगिनीतन्त्रात् नान्यत्र ।। ८१ ।।
तथा : ज्यैष्ठे मृत्युप्रदा विद्या आषाढे सुखसम्पदः ।
इति योगिनीहृदयादाषाढे श्रीविद्यायां न दोषः । तत्र मासः
सौर एव । सौरे मासि शुभा दीक्षा न चान्द्रे न च तारके इति
गौतमीयात् ।
वैशम्पायन - संहितायान् : मन्त्रस्यारम्भणं मेषे
धन्धान्यप्रदं भवेत् । वृषे मरणमाप्नोति
मिथुसेऽपत्यनाशनम् । कर्कटे मन्त्रसिद्धिः स्यात् सिंहे
मेधविनाशनम् । कन्या लक्ष्मीप्रदा नित्यं तुलायां
सर्वसिद्धयः वृश्चिके स्वर्णलाभः स्यात् धनुर्मानविनाशकम् ।
मकरः पुण्यदः प्रोक्तः कुम्भोः धनसमृद्धिदः । मीनो
दुःखप्रदो नित्यमेवं मासविधिक्रमः ।। ८२ ।।

अथ दीक्षायां वारनिर्णयः

रविवारे भवेत् वित्तं सोमे शान्तिर्भवेत् किल । आयुरङ्गारको
हन्ति तत्र दीक्षां विवर्जयेत् ।। ८३ ।। बुधे सौन्दर्यमाप्नोति ज्ञानं
स्यात्तु बृहस्पती । शुक्रे सौभाग्यमाप्नोति यशोहानिः शनैश्चरे ।।
८४ ।।

अथ दीक्षायां तिथिनिर्णय :

आगमकल्पद्रुमे : प्रतिपदि कृता दीक्षा ज्ञाननाशक्री मता ।
द्वितीयायां भवेज्ज्ञानं तृतीयायां शुचिर्भवेत् ।। ८५ ।।
चतुर्थ्यां वित्तनाशः स्यात् पञ्चम्यां बुद्धिवर्द्धनम् ।
षष्ठ्यां ज्ञानक्षयः सौख्यं लभते सप्तमीदिने ।। ८६ ।।
अष्टम्यां बुद्धिनाशं स्यान्नवम्यां वपुषः क्षयः ।। ८७ ।।
दशम्यां राजसौभाग्येकादश्यां शुचिर्भवेत् ।। ८८ ।।
द्वादश्यां सर्वशुद्धिः स्यात् त्रयोदश्या दरिद्रता ।। ८९ ।।
तिर्यग्योनिश्चतुर्दश्यां हानिर्मासावसानके । पक्षान्ते
धर्मवृद्धिः स्यादस्वाध्यायं विवर्जयेत् ।। ९० ।।
अस्वाध्यायमाह :
सन्ध्यागर्जितनिर्घोषभूकम्पोल्लकानिपातनम् ।। ९१ ।।
एतानन्यांश्च दिवसान् श्रुत्युक्तान् परिवर्जयेत् ।। ९२ ।। द्वितीया
पञ्चमी चैव षष्ठी चैव विशेषतः ।। ९३ ।। द्वादश्यामपि
कर्त्तव्यं त्रयोदश्यामथापि वा ।। ९४ ।। इति यत्
षष्ठीत्रयोदशीविधानं तद्विष्णुविषयं
रामार्चनचन्द्रिकाघृततत्वात् ।। ९५ ।। पञ्चमी सप्तमी षष्ठी
द्वितीया पूर्णिमा तथा ।। ९६ ।। त्रयोदशी च दशमी प्रशस्ता
सर्वकमदा । इति सनत्कुमारवचनात् षष्ठीविधानमपि ।
शिवविषये दशमीसप्तम्योर्निषेधमाह : शुक्लपक्षस्य
दशमी सप्तमी च विशेषतः । निन्द्या सदैव षष्ठी स्यादिति
शैवागमान्तरे ।। ९७ ।।

अथ दीक्षायां नक्षत्र निर्णय :

अश्विन्यां सुखमाप्नोति भरण्यां मरणं ध्रुवम् ।
कृत्तिकायां भवेद्दुःखी रोहिण्यां वाक्पतिर्भवेत् ।। ९८ ।।
मृगशीर्षे सुखावाप्तिरार्द्रायां बन्धुनाशनम् । पुनर्वसौ
धनाढ्यः स्यात् पुष्ये शत्रुविनाशनम् ।। ९९ ।। अश्लेषायां
भवेन्मृत्युर्मघायां दुःखमोचनम् । सौन्दर्यं
पूर्वफल्गुन्यां प्रानोति च न संशयः ।। १०० ।।
ज्ञानीञ्चोत्तरफल्गुन्यां हस्तायाञ्च धनी भवेत् । चित्रायां
ज्ञानसिद्धिः स्यात् स्वात्यां शत्रुविनाशनम् ।। १ ।। विशाखायां
सुखं चानुराधायां बन्धुवर्द्धनम् । ज्येष्ठायां
सुत्रहानिः स्यान्मूलायां कीर्तिवर्द्धनम् ।। २ ।।
पूर्वाषाढोत्तराषाढे भवेतां कीर्त्तिदायिके । श्रवणायां
भवेदुःखी धनिष्ठायां दरिद्रता ।। ३ ।। बुद्धिः
शतभिषायां स्यात् पूर्वभाद्रे सुखी भवेत् ।
सौख्यञ्चोत्तरभाद्रे च रेवत्यां कीर्तिवर्द्धनम् ।। ४ ।।

आर्द्राकृत्तिकयोर्निषेधस्तु शिववह्नीतरविषये
तथा च : आर्द्रायां कृत्तिकायाञ्च मन्त्रारम्भः
प्रशस्यते । यदीशस्य कृशानोर्वा मन्त्रारम्भो यथाक्रमम् ।। ५ ।।

तन्त्रान्तरे : अश्विनी - भरणी - स्वाती - विशाखाहस्तभेषु च ।
ज्येष्ठोत्तरात्रयेष्वेवं

तसा० २

कुर्यान्मन्त्राभिषेचनम् । इति ज्येष्ठाभरण्योर्यद्विधानं
तत्रामविषयमगस्त्यसंहितोक्तत्वात् ।। ६ ।।

अथ योगनिर्णय :

विश्वासारे : शुभः सिद्धस्तथायुष्मान् ध्रुवयोगस्ततः
परम् । प्रीतिसौभाग्ययोगश्च बुद्धियोगस्ततः परम् । हर्षणश्च
तथा योगः सर्वत्रन्त्रे शुभावहाः ।। ७ ।।
रत्नाबल्याम् : योगाः स्युः प्रीतिरायुष्मान् सौभाग्यः
शोभनो धृतिः । वृद्धिर्ध्रुवः सुकर्मा च साध्यः शुक्रश्च
हर्षणः । वरीयांश्च शिवः सिद्धो ब्रह्म ऐन्द्रश्च षोडश ।। ८ ।।

अथ करणनिर्णय :

वव - बालव - कौलव - तैतिला वणिजस्तदनन्तरम् । करणानि
शुभान्येव सर्वतन्त्रेषु भाषितम् ।। ९ ।।

अथ लग्ननिर्णय :

वृषे सिंहे च कन्यायां धनुर्मीनख्यलग्नके ।
चन्द्रतारानुकूले च कुर्याद्दीक्षाप्रवर्त्तनम् ।। १० ।।

तथा : स्थिरलग्नं विष्णुमन्त्रे शिवमन्त्रे चरः शुभम् ।
द्विस्वभावतं लग्नं शक्तिमन्त्रे प्रशस्यते ।। ११ ।।
अगस्त्यसंहितायाम् : त्रिषडायगताः पापाः शुभाः
केन्द्रत्रिकोणगाः । दीक्षायास्तु शुभाः सर्वे वक्रस्थाः
सर्वनाशकाः ।। १२ ।।

अथ पक्षनिर्णय :

शुक्लपक्षे शुभा दीक्षा कृष्णेऽप्यापञ्चमद्दिनात् ।। १३ ।।
अगस्त्यसंहितायाम् : शुक्लपक्षे तु कृष्णे वा दीक्षा सर्वत्र
शोभना ।। १४ ।।
कालोत्तरे तु : भूतिकामैः सिते सदा मुक्तिकामैः
कृष्णपक्षे इति शेषः । निषिद्धामासेषु तत्तद्विशेषो
मुनिभिरुदितः ।
रत्नावल्याम् : षष्ठी भाद्रपदे मासि ईषे कृष्णाचतुर्दशी
। कार्तिके नवमी शुक्ला मार्गे शुक्ला तृतीयका । पौषे तु नवमी
शुक्ला माघे शुक्ला चतुर्थिका । फाल्गुने नवमी शुकला चैत्रे
कामचतुर्द्दशी । त्रयोदशीति केचित् ।। १५ ।। वैशाखे चाक्षया चैव
ज्यैष्ठे दशहरा तिथिः । आषाढे पञ्चमी शुक्ला श्रावणे
कृष्णपञ्चमी ।। १६ ।। एतानि देवपर्वाणि तीर्थकोटिफलं लभेत् ।
अत्र दीक्षा प्रकर्त्तव्या न मासञ्च न परीक्षयेत् ।। १७ ।। न वारं
न च नक्षत्रं न तिथ्यादिकदूषनम् । न योगकरणञ्चैव
शङ्करेण च भाषितम् ।। १८ ।।
अन्यच्च मतम् : चैत्रे त्रयोदशी शुक्ला वैशाखैकादशी सिता
। ज्येष्ठे चतुर्दशी कृष्णा आषाढे नागपञ्चमी ।। १९ ।।
श्रावणैकादशी भद्रे रोहिणीसहिताष्टमी । आश्विने च
माहापुन्या महाष्टम्यप्यभीष्टदा ।। २० ।। कार्तिके नवमी
शुक्ला मार्गशीर्षे तथा सिता । षष्ठी चतुर्दशी पौषे
माघेऽप्येकादशी सिता । फाल्गुने च सिता षष्ठी चेति
कालविनिर्णयः ।। २१ ।।
योगिनीतन्त्रे : अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
रविसंक्रान्तिदिवसे युगाद्यायां सुरेश्वरि ।। २२ ।। मन्वन्तरासु
सर्वासु महापूजादिनेषु च । चतुर्थी पञ्चमी चैव
चतुर्दश्यष्टमी तथा ।। तिथयः शुभदाः प्रोक्ता
दीक्षाग्रहणकर्मणि । इद्यादिवचनाच्चतुर्दश्यष्टमीति
शक्तिविषयम् ।। २३ ।। चतुर्थीति गणेशविषयं तत्तत्कल्पोक्तत्वात् ।। २४ ।।
निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहण शुभा ।
सूर्यग्रहणकालस्य समानो नास्ति भूतले । विशेषतो महादेवि
दीक्षाग्रहणकर्मणि । तत्र यद्यत्कृतं सर्वमनन्तफलदं
भवेत् । रविसंक्रमणे चैव सूर्यस्य ग्रहणे तथा । तत्र
लग्नादिकंकिञ्चिन्न विपर्य कथञ्चन । रविसंक्रमणे चैव
नान्यदन्वेषितं भवेत् । न वारतिथिमासादिशोधनं
सूर्यपर्वणि । एवं चन्द्रग्रहणेऽपि ।। २५ ।।
तथा च रुद्रयामले : न कुर्यात् शाक्तिकीं दीक्षामुपरागे
विभावसौ । न कुर्ययाद्वैष्णवीं तान्तु यदि चन्द्रमसो ग्रहः ।
एतच्च गोपाल - श्रीविद्येतर - विषयम् ।। २६ ।। अन्येषु पर्वयोगेषु
ग्रहणे चन्द्रसूर्ययो । इति गौतमीयात् ।। २७ ।। प्रशस्ता सकला दीक्षा
स्व स्व वारे तदा भवेत् । सूर्यग्रहणकाले तु नान्यदन्वेषितं
भवेत् । इति योगिनीहृदयाच्च ।। २८ ।।
तारादौ तु विशेषो यथा : दीक्षाकालां प्रवक्ष्यामि
नीलतंत्रानुसारतः । कृष्णपक्षस्य चाष्टम्यां शुभे लग्ने
शुभे क्षणे ।। २९ ।। पूर्वभाद्रपदायुगे मित्रतारादिसंयुते ।
अथवाप्यनुराधायां रेवत्यां वा प्रशस्यते ।। ३० ।।
जानीयाच्छोभनं कालं मन्त्रस्य ग्रहणं प्रति । ईषे चैव
विशेषेण कार्तिके च विशेषतः ।। ३१ ।।
सूर्यग्रहणे विशेषमाह रत्नावलीधृतयामले : श्रीपरा -
कालि बीजानि लोपादौर्गश्च यो मनुः । सूर्यस्य ग्रहणे लब्धो
नृणां मुक्तिफलप्रदः ।। ३२ ।। अमावस्या सोमवारे भौमवारे
चतुर्दशी । सप्तमी रविवारे च सूर्यपर्वशर्तः समाः ।। ३३ ।।
कुलार्णवे : सप्तमो रविवारे च सोमे दर्शस्तथैव च ।
चतुर्थी कुजवारे च अष्टमी च वृहस्पतौ । देवपर्वसमा ज्ञेया
तासु दीक्षां समाचरेत् ।। ३४ ।।
यामले : पुष्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये । प्रयागे
श्रीगिरौ काश्यां कालाकां न शोधयेत् ।। ३५ ।।
विष्णुयामले : देवीबोधं समारभ्य यावत् स्यान्नवमी
तिथिः । कृता तासु बुधैर्दीक्षा सर्वाभीष्टफलप्रदा ।। ३६ ।।
शुक्लपक्षे विशेषेण तत्रापि तिथिरष्टमी । तत्रापि शारदी दुर्गा
यत्र देवो गृहे गृहे । तत्र दीक्षा प्रकर्त्तव्या मासर्क्षादीन् न
शोधयेत् ।। ३७ ।।
तथा : बोधने चैव दुर्गायाः कालाकालं न शोधयेत् ।
अशोकाख्याष्टमी यत्र रामाख्या नवमी तथा । लग्ने
वाप्यथवाऽलग्ने यत्र तत्र तिथावपि । गुरोराज्ञानुरूपेण
दीक्षा कार्या विशेषतः ।। ३८ ।। चतुर्थ्यङ्गारवारे च दिवसे
त्रिदिनस्पृशि । तत्र लग्नादिकं किञ्चिन्न विचार्य कथञ्चन ।। ३९ ।।
समयातन्त्रे : युगाद्यानां जन्मदिने विवाहदिवसे तथा ।
विषुवायनयोर्द्वन्द्वे नैव किञ्चिद्विचारयेत् ।। ४० ।।
तथा : शिष्यानाहूय गुरुणा कृपया यदि दीयते । तदा
लग्नादिकं किञ्चिन्न विचार्य कदाचन् ।। ४१ ।। सर्वे वारा ग्रहाः
सर्वे नक्षत्राणि च राशयः । यास्मिन्नहनि मन्त्रज्ञो गुरुः सर्वे
शुभावहाः ।। ४२ ।।

योगिनीतन्त्रे : ग्रहणे च महातीर्थे नास्ति कालस्य निर्णयः ।।
४३ ।।
अथ वक्ष्यामि दीक्षायाः स्थानं तन्त्रानुसारतः ।
गोशालायां गोरुर्गेहे देवागारे च कानने । पुण्यक्षेत्रे
तथोद्याने नदीतीरे च मन्त्रवित् । धात्री बिल्वसमीपे च पर्वताग्रे
गुहासु च । गङ्गायास्तु तटे वापि कोटिकोटिगुणं भवेत् ।। ४४ ।।
निषिद्धस्थानमाह : गयायां भास्करक्षेत्रे विरजे
चन्द्रपर्वते । चटुले च मतङ्गे च तथा कन्याश्रमेषु च । न
गृह्णीयात्ततो दीक्षा तीर्थष्वेतेषु पार्वति ।। ४५ ।।
वाराहीतन्त्रे : शुक्रोऽस्तो यदि वा वृद्धी गुर्वादित्यो
भवेद्यदि । मेषवृश्चिक - सिंहेषु तदा दोषो न विद्यते ।
महाविद्यासु सर्वासु कालादि - विचारो नास्ति तदुक्तं
मुण्डमालातन्त्रे : कालादिशोधनं नास्ति न चामित्रादिदूषणम्
।। ४६ ।।

अथ मालानिर्णय :

सनत्कुमारसंहितायां : तर्जनी मध्यमानामा
कनिष्ठा चेति ताः क्रमात् । तिस्रोंऽगुल्यस्त्रिपर्वाणो मध्यमा
चैकपर्विका । पर्वद्वयं मध्यमायां मेरुत्वेनोपकल्पयेत् ।। ४७
।।
तत्र क्रममाह सत्कुमारसंहितायाम् : अनामा -
मध्यमारभ्य कनिष्ठादित एव च । तर्जनीमूलपर्यन्तं
दशपर्वसु संजपेत् ।। ४८ ।।
तथा : अनामामूलमारभ्य कनिष्ठादित एव च ।
तर्जनीमध्यपर्यन्तमष्टपर्वसु संजपेत् । एतद्वचनन्तु
अष्टोत्तरशतविषयम् विष्णुविषयञ्च ।। ४९ ।।
शक्तिविषये पुनः : अनामिकात्रयं पर्व कनिष्ठा च
त्रिपर्विका । मध्यमायाश्च त्रितयं तर्जनीमूलपर्वणि ।
तर्जन्यऽग्रे तथा मध्ये यो जपेत् स तु पापकृत् । इति श्रीक्रम वचनात्
।। ५० ।।
तथा हंसपारमेश्वरे : पर्वरयमनामायाः परिवर्तेन
वै क्रमात् । पर्वत्रयं मध्यमायास्तर्जन्येकं समाहरेत् ।
पर्वद्वयञ्च तर्जन्या मेरुं तद्विद्वि पार्वति । शक्तिमाला
समाख्याता सर्वतन्त्रप्रदीपिका ।। ५१ ।।
तथा : अनामामूलमारभ्य प्रादक्षिण्यक्रमेण च ।
मध्यमामूल पर्यन्तमष्टपर्वसु संजपेत् ।
इदमप्यष्टोत्तरशतादिविषयम् ।। ५२ ।।
श्री विद्याविषये पुनः : अनामामध्यमायाश्च
मूलाग्रञ्च द्वयं द्वयम् । कनिष्ठायाश्च तर्जन्यास्त्रयं
पर्व सुरेश्वरि । अनामाया मध्यमायाश्च मेरुः स्याद्द्वितयं
शुभम् । प्रादक्षिणक्रमाद्देवि । जपेत्त्रिपुरसुन्दरीम् । इति
यामलवचनात् ।। ५३ ।। कनिष्ठ;अमूलमारभ्य
प्रादक्षिण्यक्रमेण च । तर्जनीमूलपर्यन्तमष्टपर्वसु संजपेत्
। इदमप्यष्टोत्तरशतविषयम् ।। ५४ ।।
मुण्डमालातन्रे : अनामिकाद्वयं पर्व
कनिष्ठादिक्रमेण तु । तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता ।।
५५ ।। अंगुलिर्न वियुञ्जीत किञ्चिदाकुञ्चिते तले । अंगुलीनां
वियोगाच्च छिद्रे च स्रवते जपः ।। ५६ ।।
अन्यत्रापि : अंगुल्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने ।
पर्वसन्धिषु यज्जप्तं तत्सर्वं निष्फलं भवेत् ।। ५७ ।।
गणनाविधिमुल्लंघ्य यो जपेत्तज्जपं यतः । गृह्णन्ति
राक्षसास्तेन गणयेत् सर्वथा बुधः ।। ५८ ।।
विश्वसारे : जपसंख्या तु कर्त्तव्या नासंख्यातं जपेत्
सुधीः । असंख्याकारकस्यास्य सर्वं भवति निष्फलम् ।। ५९ ।।
तन्त्रे : हृदये हस्तमारोप्य निर्ययक कृत्वा करांगुलीः ।
आच्छाद्य वाससा हस्तौ दक्षिणेन जपेत् सदा ।। ६० ।।

अथ जपसंख्याधारणे निषिद्धानिषिद्धानि ।
नाक्षतैर्हस्तपर्वैर्वा न धान्यैर्न च पुष्पकैः । न
चन्दनैर्मृत्तिकया जप संख्या न कारयेत् । लाक्षा - कुसीद -
सिन्दूरं गोमयञ्च करीषकम् । विलोड्य गुलिकां कृत्वा
जपसंख्यान्तु कारयेत् । कुषीदं रक्तचन्दनं करीषं
शुष्कगोमयभस्म । इदन्तु पुरश्चरणविषये ज्ञेयम् । जपने
यादृशी माला संख्यानेऽपि च तादृशी ।। ६१ ।।

अथ वर्णमाला :

सनत्कुमारीये : क्रमोत्क्रमगतैर्माला मातृकार्णैः
क्षमेरुकैः । सविन्दिकैः साष्टवर्गैरन्तर्यजनकर्मणि आदि कु चु
टु तु पु यु शवोष्टौ प्रकीर्तिताः ।। ६२ ।।
तत्रायमर्थः : अकारादिवर्णान् प्रत्येकं सविन्दु कृत्वा
अनुलोम विलोमक्रमेण शतं संजप्य अकारादीनां वर्णानां
कवर्गादीनाञ्चान्त्यवर्ण सानुस्वारं कृत्वा पूर्वमुच्चार्य
पश्चात् मन्त्रजपः कर्त्तव्यः । अनेन
प्रकारेणाष्टोत्तरशतसंख्यजपो भवति । अन्तर्यजन
इत्युपलक्षणम् ।। ६३ ।।
तथा च : सबिन्दु वर्णमुच्चार्य पश्चान्मन्त्रं
जपेद्बुधः । अकारादि क्षकारान्तं बिन्दुयुक्तं विभाव्य च ।
वर्णामाला समाख्याता अनुलोम विलोमिका । इति नारदवचनात् ।। ६४
।।
प्रकारान्तरं विशुद्धेश्वरे : अनुलोमविलोमेन
वर्गाष्टकविभेदतः । मन्त्रेणान्तरितान् वर्णान् वर्णेनान्तरितान्
मनून् । कुर्याद्वर्णमयीं मालां सर्वतन्त्रप्रकाशिनीम् ।
चरमार्णं मेरुरूपं लङ्घनं नैव कारयेत् ।। ६५ ।।
तथा मालिनीविजये सूत्रनियम :
अन्तर्विद्रूमभासमानभुजगीं सुप्तोत्थर्णोज्ज्वलाम् । आरोह -
प्रतिरोहतःशतमयीं वर्गाष्टकाष्टोत्तरम् ।। ६६ ।।

अथ वैशम्पायनसंहिताया :

प्रलयानलतः पूर्वं रुद्ररूपेण मूर्तिना । उद्धृतं
पृथीवीबीजमतोऽन्ते तं नियोजयेत् । प्रलयोद्धरितं बीजं
लकारमनलात् पुनः । द्विलकारविधावत्र पुनरन्ते नियोजयेत् एतेन
लकारद्वयं ज्ञेयमिति ।। ६७ ।।

अथ मालायां मणिनिर्णयः

पद्मबीजादिभिर्माला बहिर्योगे शृणुस्व ताः । रुद्राक्ष -
शङ्ख - पद्माक्षजावपुत्रक - मौक्तिकैः ।
स्फाटिकैर्मणिरत्नैश्च सौवर्णैर्विद्रुमैस्तथा । राजतैः
कुशमूलैश्च गृहस्थस्याक्षमालिका ।। ६८ ।।

अथ मालाफलम् :

अंगुल्यागणनादेकं पर्वणाष्टगुणं भवेत् ।
पुत्रजीवैर्दशगुणं शतं शङ्खैः सहस्रकम् ।।
प्रवालैर्मणिरत्नैश्च दशसाहस्रिकं स्मृतम् । तदेव स्फाटिकैः
प्रोक्तं मौक्तिकैर्लक्षमुच्यते । पद्माक्षैर्दशलक्षं स्यात्
सौवर्णैः कोटिरुच्यते । कुशग्रन्थ्या कोटिशतं रुद्राक्षेः
स्यादनन्तकम् । सर्वैर्विरचिता माला नृणां मुक्तिफलप्रदा ।। ६९
।।
कालिकापुराणे : रुद्राक्षैर्यदि जप्यते इन्द्राक्षैः
स्फाटिकैस्तथा । नान्यमध्ये प्रयोक्तव्यंपुत्रजीवादिकञ्च यत् ।
यद्यन्यत्तु प्रयुञ्जीत मालायां जपकर्मणि । तस्य कामञ्च
मोक्षञ्च न ददाति प्रियंकरी ।। ७० ।।
मुण्डमालायाम् : श्मशानधुस्तूरैर्माला ज्ञेया
धूमावतीविधौ । नरांगुल्यस्थिभिर्माला प्रथिता सर्वकामदा
। नाड्यो संग्रथनं कार्यं रक्तेन वाससा तथा । सदा गोप्या
प्रयत्नेन जनन्या जारवत् प्रिये ।। ७१ ।।
कामनाभेदे तु : पद्माक्षैर्विहिता माला शत्रुणां
नाशिनी मता । कुशग्रन्थिमयी माला सर्वपापप्रणाशिनी ।
पुत्रजीवफलैः कॢप्ता कुरुते पुत्रसम्पदम् । निर्मिता
रौप्यमणिर्भिर्जपमालेप्सितप्रदा । प्रवालैर्विहिताः माला
प्रयच्छेद्विपुलं धनम् ।। ७२ ।।
भैरवाविद्यां तु वाराहीतन्त्रे : सुवर्णमर्णिभिर्मालां
स्फाटिकीं शङ्खनिर्मिताम् । प्रवालैरेव वा कुर्यात् पुत्रजीवं
विवर्जयेत् । पद्माक्षञ्चैव रुद्राक्षं भद्राक्षञ्च विशेषतः ।।
७३ ।। त्रिपुरामन्त्रजपादौ तु रक्तचन्दनबीजादिभिरतिप्रशस्ता ।

तथा च तन्त्रे : रक्तचन्दनमाला तु भोगमोक्षप्रदा भवेत्
।। ७४ ।।
तथा : वैष्णवे तुलसीमाला गजदन्तैर्गणेश्वरे । त्रिपुराया
जपे शस्ता रुद्राक्षं रक्तचन्दनैः ।। ७५ ।।
मुण्डमालायाम् : महाशङ्खमयी माला नीलसारस्वते
विधौ ।। ७६ ।।

महाशङ्खस्तु तन्त्रे : मृललाटास्थिखण्डेन रचिता
जपमालिका । महाशङ्खमयी माला ताराविद्याजपे प्रिये ।
कर्णनेत्रान्तरस्थास्थि महाशङ्खः प्रकीर्तितः ।। ७७ ।।
मणिनियमस्तु मुन्डमालायाम् : अन्योन्यसमरूपाणि
नातिस्थूलकृशानि च । कीटादिभिरदुष्टानि न जीर्णानि नवानि वै ।।
७८ ।।

अथ गौतमीये : पञ्चाशल्लिपिर्माला विहिता सर्व कर्मसु ।
अकारादिक्षकारान्ता अक्षमाला प्रकीर्तिता । क्षवर्णं
मेरुमुखं तत्र कल्पयेन्मुनिसत्तम । अनया सर्वमन्त्राणां
जपः सर्वसमृद्धिदः ।
चामुण्डातन्त्रे : नित्यं जपं करे कुर्यान्न तु
काम्यमबोधनात् । जपमपि करे कुर्यान्मालाभावे तु सुन्दरि ।
कामनाभेदे तु गौतमीये : विशेषेणाक्षसूत्रस्य
विधानमिह लक्ष्यते । पञ्चविंशतिभिर्मोक्षं
त्रिंशद्भर्धनसिद्धये । सर्वार्थाः सप्तविंशत्या
पञ्चदश्याभिचारिके । पञ्चाशद्भिः काम्यसिद्धिः स्यात्तथा
चतुरोत्तरैः । अष्टोत्तरशतैः सर्वसिद्धिरुक्ता मनीषिभः ।। ७९ ।।

अथ आसनभेदाः

हंसमाहेश्वरे : कबम्लं कोमलं कौशं दारवं
कर्मसाधनम् । शुक्लं वा यदि वा कृष्णं विशेषात्
रक्तकम्बलमिति । एतेषामासनं शुद्धं चर्मासनं सुरेश्वरि !
।। ८० ।। लोम्नि चैव यदासीनस्तदा सर्वं विनश्यति ।
लोमस्पर्शनमात्रेण सिद्धिहानिः प्रजायते ।। ८१ ।। काम्यार्थ
कम्बलञ्चैव श्रेष्ठञ्च रक्तकम्बलम् । कृष्णाजिने
ज्ञानसिद्धिर्मोक्षः श्रीर्व्याघ्रचर्मणि ।। ८२ ।। कुशासने
मन्त्रसिद्धिर्नात्र कार्या विचारणा । धरण्यां
दुःखसम्भूतिर्दौर्भाग्यं दारुजासने ।। ८३ ।। वंशासने
दरिद्रः स्यात् पाषाणे व्याधिपीडनम् । तृणासने यशोहानिः
पल्लवे चित्तविभ्रमः । जपध्यानतपोहानिं वस्त्रानं करोति हि ।।
८४ ।। अत एव वस्त्रासनं केवलमेव विरुद्धं वस्त्रासनं
रोगहरमित्यादिवचनेनविशिष्टस्य फलजनकत्वात् ।
चेलाजिनकुशोत्तरमिति भगवद्वचनाच्च ।। ८५ ।।
तथा च गौतमीये : तथा मृद्वासने मन्त्री
पटाजिनकुशोत्तर इति ।। ८६ ।।
योगिनीहृदये : नादीक्षितो विशेज्जातु कृष्णसाराजिने गृही ।
विशेद्यतिर्वनस्थश्च ब्रह्मचारी च भिक्षुकः ।। ८७ ।।
आगमनकल्पद्रुमे : मेषव्याघ्रगजोष्ट्र ऋक्षोरगत्वचस्तु
षट्कर्मसु प्रत्येकं विहितासनानि ।। ८८ ।।

अथ मालासंस्कार :

यामले : अप्रतिष्ठितमालाभिर्मन्त्रं जपति यो नरः । सर्व
तन्निष्फलं विद्यात् क्रुद्धा भवति देवता ।। ८९ ।।
सनत्कुमारे : कार्पाससम्भवं सूत्रं
धर्मकामार्थमोक्षदम् । तच्च विपेन्द्रकन्याभिर्निर्मितञ्च
सुशोभम् ।। ९० ।। श्वेतं रक्तं तथा कृष्णं पट्टसूत्रमाथापि
वा । शान्तिवश्याभिचारेषु मोक्षैश्वर्यजयेषु च । शुक्लं रक्तं
तथा पीतं कृष्णं वर्णेषु च क्रमात् । सर्वेषामेव वर्णानां
रक्तं सर्वेप्सितप्रदम् ।। ९१ ।। त्रिगुणं त्रिगुणीकृत्य ग्रथयेत्
शिल्पशास्त्रतः । मणिरत्नप्रमाणस्य सूत्रं क्रुयाद्विचक्षः ।। ९२
।। एकैकं मातृकावर्णं सतारं प्रजपेत् सुधीः । मालामादाय
सूत्रेण ग्रथयेन्मध्यमध्यतः ।। ९३ ।। ब्रह्मग्रन्थिं
विधायेत्थं मेरुञ्च ग्रन्थिसंयुतम् । ग्रथयित्वा पुरो मालां
ततः संस्कारमारभेत् ।। ९४ ।। कस्यचिन्मते मूलविद्यया ग्रथयेत् ।
तथा च एकवीराकल्पे : मातृकावर्णतो ग्रन्थिं विद्यया
वाथ कारयेत् । सुवर्णादिगुणैर्वापि ग्रथयेत् साधकोत्तमः ।
ब्रह्मग्रन्थि ततो दद्यान्नागपाशमथापि वा । कवचेनाथ
वध्नीयान्मालां ध्यानपरायणः सर्वशेषं ततो मेरुं
सूत्रद्वयसमन्वितम् । ग्रथयेत्तारयोगेन बध्नीयात्
साधकोत्तमः । एवं निष्पाद्य देवेशि प्रतिष्ठाञ्च समाचरेत् ।।
९५ ।।

गौतमीये : मुखे मुखन्तु संयोज्य पुच्छे पुच्छं नियोजयेत्
। गोपुच्छसदृशी माला यद्वा सर्पाकृतिः शुभा ।। ९६ ।।

मुखपुच्छनियमस्तु छन्दःसारेः रुद्राक्षस्योन्नतं
प्रोक्तं मुखं पुच्छन्तु निम्नगम् । कमलाक्षस्य
सूक्ष्मांशं सविन्दुद्वितयं मुखं । सविन्दुकस्य
स्थूलांशं पुच्छं श्लक्षमिति स्मृतम् । एवं ज्ञात्वा मुखं
पुच्छं रुद्राक्षाम्भोरुहाक्षयोः त्वं सजातीयमेकाक्षं
मेरुत्वेनाग्रतो न्यसेत् ।। ९७ ।। एकैकं मणिमादाय ब्रह्मग्रन्थिं
प्रकल्पयेत् । एकैकं मातृकावर्णं ग्रथनादौ तु संजपेत् ।। ९८ ।।
ग्रन्थिनियमस्तत्रैव : त्रिरावृत्तिग्रन्थिकेन तथार्द्धेन
विधीयते । सार्द्धद्वयावर्त्तनेन ग्रन्थिं कुर्यात् यथा दृढम् ।
इत्येताभ्यामिच्छा विकल्पः ।। ९९ ।।
कालिकापुराणेः : ब्रह्मग्रन्थियुतं कुर्यात् प्रतिबीजं
यथास्थितम् । अथवा ग्रन्थिरहितं दृढरज्जुसमन्वितम् । एवं
निर्माय मालां वै शोधयेन्मुनिसत्तम ।। १०० ।।
अश्वत्थपत्रनवकैः पद्माकारन्तु कल्पयेत् । तन्मध्ये
स्थापयेन्मालां मातृकामूलमुच्चरन् । क्षालयेत् पञ्चगव्येन
सद्योजातेन सज्जलैः ।। १ ।।
सद्योजातमन्त्रस्तु : ओं सद्योजातं प्रपद्यामि सद्योजाताय
वै नमः । भवे भवेनादिभवे भजस्व मां भवेद्भवाय वै
नमः । चन्दनागुरु - गन्धाद्यैर्वामदेवेन घर्षयेत् ।
वामदेवमन्त्रसु : ओं वामदेवाय नमो ज्येष्ठाय नमो
रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय
नमो बल प्रमथनाय नमः सर्वभूतदमनाय नमो
मनोन्मथनाय । धूपयेत्तामघोरेण ।
अघोरमन्त्रसु : ओं अघोरेभ्योऽथ घिरेभ्यो
घोरघोरतरेभ्यः सर्वतः सर्वसर्वेभ्यो नमस्तेऽस्तु
रुद्ररूपेभ्यः । लेपयेत्तत्पुरुषेण तु ।
तत्पुरुषमन्त्रस्तु : ओं तत्पुरुषाय विद्महे महादेवाय
धीमहि तत्रो रुद्रः प्रचोदयात् । मन्त्रयेत् पञ्चमेनैवं
प्रत्येकन्तु शतं शतम् । मेरुञ्च मन्त्रयेचैव मूलेन च शतं
शतम् ।
मुण्डमालायम् : पञ्चमेनैव मन्त्रेण प्रत्येकन्तु शतं
शतम् । मेरुञ्च पञ्चमेनैव तथा मन्त्रेण मन्त्रये । प्रत्येकन्तु
सकृत् सकृदिति वा । तत्रैव : प्रत्येकं मन्त्रयेन्मन्त्री पञ्चमेन
सकृत् सकृदिति ।
तथा च गौतमीये समुदायमालामधिकृत्य : पञ्चमेनैव
सूक्तेन शतान्यूनेन मन्त्रयेदिति दर्शनान्मालायां वा
शतजपः कार्यः ।
पञ्चमन्त्रस्तु : ओं ईशानः सर्वविद्यानामीश्वरः
सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः ब्रह्मा शिवो
मेऽस्तु सदाशिवोम् । प्रत्येकन्तु सकृत् सकृदिति वा ।
तथा च तत्रैव : प्रत्येकं मन्त्रयेन्मन्त्री पञ्चमेन सकृत् ।
तत्रा बाह्य यजेद्देवं यथाविभवविस्तरैः ।। ३ ।। मालायाः
प्राणप्रतिष्ठानन्तरं देवतां पूजयेत् ।
तथा च सनत्कुमारतन्त्रे : संस्कृत्यैवं बुधो मालां
तत्प्राणाणांस्तत्र योजयेत् मूलमन्त्रेण तां मालां पूजयेद्
द्विजसत्तमः ।। ४ ।।
वाराहीतन्त्रे : माले माले महामाले सर्वतत्त्वस्वरूपिणि
चतुर्वर्गसत्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव । मायाबीजादिकं
कृत्वा रक्तपुष्पैः समर्चयेत् । इति शक्तिविषयम् ।। ५ ।।
विष्णु - विषये तु यामले : वाग्भवञ्च तथा
लक्ष्मीमक्षादिमालिकां ततः । ङेऽन्तां हृदयवर्णान्तां
मन्त्रेणानेन पूजयेत् । मन्त्रयेन्मूलमन्त्रेण
क्रमेणोत्क्रमयोगतः : तथैव मातृकावर्णैर्मन्त्रयेत्तन्तु
मन्त्रवित् ।। ६ ।।
योगिनीहृदये : होमकर्म ततः कुर्याद्देवताभावसिद्धये ।
अष्टोत्तरशतं हुत्वा सम्पाताज्यं विनिक्षिपेत् ।। ७ ।।
होमकर्मण्यशक्तश्चेद्द्विगुणं जपमाचरेत् । नान्यमन्त्रं
जपेन्मन्त्री कम्पयेन्न विधूनयेत् ।। ८ ।। कम्पनात् सिद्धिहानिः
स्यादधूननं बहुदुःखदम् । शब्दे जाते भवेद्रोगः
करभ्रष्टा विनाशकृत् ।। ९ ।। छिन्ने सूत्रे
भवेन्मृत्युस्तस्माद्यत्नपरो भवेत् ।। १० ।।
जपान्ते कर्णदेशे वा उच्चदेशेऽथवा न्यसेत् ।
ओं त्वं माले सर्वदेवानां सर्वसिद्धिप्रदा मता ।
तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तु ते इत्युक्ता परिपूज्यार्थ
गोपयेद्यत्नतो गृही ।। ११ ।।
कामनाभेदे अंऽऽगुलीनियममाह गौतमीये :
तर्जन्यंगुष्ठयोगेन शत्रूचाटनकर्मणि ।
अंगुष्ठमध्यमायोगात् सर्वसिद्धिः सुनिश्चिता ।। १२ ।।
अंगुष्ठानामिका योगादुच्चाटोच्छादने मते ।
ज्येष्ठाकनिष्ठायोगेन शत्रुणां नाशनं मतम् ।। १३ ।।
वैशम्पायेन संहितायाम् : अंगुष्ठमध्यमाभ्याञ्च
चालयेन्मध्यमध्यतः । तर्जन्या न स्पृशेदेनां मुक्तिदो
गणनक्रमः ।। १४ ।। जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वा शतं
जपेत् । प्रमादात् पतिता हस्तात् शतमष्टोत्तरं जपेत् ।
जपेन्निषिद्धसंस्पर्शं क्षालयित्वायथोदितम् ।। १५ ।।
छिन्नेऽपि अष्टोत्तरशतजपः कार्यः ।
तदुक्तं कुब्जिकातन्त्रे : छिन्ने सूत्रे पुनः सूत्रं ग्रथयित्वा
शतं जपेदिति । करभ्रष्ट - छिन्नयोस्तुल्यफलकत्वात् ।। १६ ।।
प्रकारान्तरमागमकल्पद्रुमे : भूतशुद्ध्यादिकां
पूजां समाप्य तत्र पूजयेत् । गणेश - सूर्य - विष्णवीशान
दुर्गाश्चावाह्य मन्त्रवित् ।। १७ ।। पञ्चगव्ये ततः क्षिप्त्वा
हेसौर्मत्रेण मन्त्रवित् । तस्मादुत्तोल्यं तां मालां स्वर्णपात्रे
निधाय च ।। १८ ।। पयो - दधि - घृत - क्षौद्र -
शर्कराद्यैरनुक्रमात् । तोयधूपान्तरैः कृत्वा
पञ्चामृतविधिं बुधः ।। १९ ।। क्रमादत्रैव संस्थाप्य
स्नापयेत् शीतलैर्जलैः । ततश्चन्दनगन्धेन कस्तूरी -
कुंकुमादिभिः । तामालिप्य हेसोर्मन्त्रमष्टोत्तरशतं जपेत् ।। २०
।। तस्यां नवग्रहांश्चैव दिक्पालांश्च प्रपूजयेत् । ततः
सम्पूज्य च गुरुं गृह्णीयान्मालिकां शुभाम् ।। २१ ।।

अथ पुरश्चणम् :

योगिनीहृदये : गुरोराज्ञां समादाय शुद्धान्तःकरणो
नरः । ततः पुरस्क्रियां कुर्यान्मन्त्रसिद्धिकाम्यया ।। २२ ।।
तस्य नित्यतामाह : जीवहीनो यथा देही सर्वकर्मसु न
क्षमः पुरश्चरणहीनोऽपि तथा मन्त्र प्रकीर्तितः । तस्मादादौ
स्वयं कुर्याद्गुरुं वा कारयेद्बुधः ।। २३ ।। गुरोरभावे विप्रं
वा सर्वप्राणिहिते रतम् । स्निग्धं शास्त्रविदं मित्रं
नानागुणसमन्वितम् । स्त्रियं वा सगुणोपेतां सुपुत्रां
विनियोजयेत् ।। २४ ।।

अथ पुरश्चरणे स्थाननिर्णयः

योगिनीहृदये : आदौ पुरस्क्रियां कर्त्तुं स्थाननिर्णय
उच्यते ।। २५ ।। पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् ।
तीर्थप्रदेशाः सिन्धुनां सङ्गमः पावनं वनम् ।। २६ ।।
उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः । तुलसी - काननं
गोष्ठं वृषशून्यं शिवालयम् ।। २७ ।। अश्वत्थामलकीमूलं
गोशाला जलमध्यतः । देवतायतनं कूलं समुद्रस्य
निजालयम् । साधने च प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् ।। २८ ।।
सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च । विप्राणाञ्च
गवाञ्चैव सनीधौ शस्यते जपः ।। २९ ।। अथवा निवसेत्तत्र यत्र
चित्तं प्रसीदति ।। ३० ।।
तथा : गृहे शतगुणं विद्याद्गोष्ठे लक्षगुणं भवेत् ।
कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ ।। ३१ ।।
ब्रह्मयामले : जपमेकगुणं गेहे गोष्ठे दशगुणं
स्मृतम् । वनान्तरे शतगुणं तडागे च सहस्रकम् ।। ३२ ।। नदीतीरे
लक्षगुणं नगाग्रे कोटिसम्मितम् । शिवालये कोटिशतमनन्तं
गुरुसन्निधौ ।। ३३ ।।
तथा : गृहे गोष्ठवनाराम - नदी - नग - शिवालये ।
गुरोर्वा सन्निधौ यत्र स जपः परमो मतः ।। ३४ ।। म्लेच्छ - दुष्ट
- मृगवाल - शङ्कविवर्जिते । एकान्तपावने निन्दारहिते
भक्तिसंयुते ।। ३५ ।। सुदेशे धार्मिके देशे सुभिक्षे निरुपद्रवे ।
रम्ये भक्तजनस्थाने निवसेत्तपसः प्रिये ।। ३६ ।। गुरूणां
सन्निधाने च चित्तैकाग्रस्थले तथा ।
एषामन्यतमस्थानमाश्रित्य जपमाचरेत् ।। ३७ ।। यत्र ग्रामे
जपेन्मन्त्री तत्र कूर्मं विचिन्तयेत् ।। ३८ ।।
गौतमीये : पर्वते सुन्धुतीरे वा पुण्यारण्ये नदीतटे । यदि
कुर्यात् पुरश्चर्या तत्र कूर्मं न चिन्तयेत् ।। ३९ ।। ग्रामे वा यदि
वास्तौ गृहे तञ्च विचिन्तयेत् ।। ४० ।।

अथ पुरश्चरणे भक्ष्यादिनियम :

गौतमीये : पुरश्चरणकृन्मन्त्री भक्ष्याभक्ष्यं
विचारयेत् । अन्यथा भोजनाद्दोषात् सिद्धिहानिः प्रजायते ।। ४१ ।।
शस्तान्नञ्च समश्नीयान्मन्त्रसिद्धिसमीहया । तस्मान्नित्यं
प्रयत्नेन शस्तान्नाशी भवेन्नरः ।। ४२ ।।
अगस्त्यसंहितायाम् : दधिक्षीरंघृतंगव्यम् ऐक्षवं
गुडवर्जितम् । तिलाश्चैव सिता मुद्गाः कन्दः केमुकवर्जितः ।। ४३ ।।
नारिकेलफलञ्चैव कदली लवली तथा आम्रमालकञ्चैव
पनसञ्च हरीतकी । व्रतान्तरे प्रशस्तञ्च हविष्यं मन्यते
बुधैः । व्रतारम्भ इति वा पाठः ।। ४४ ।। हैमन्तिकं सिता स्विन्नं
धान्यं मुद्गास्तिला यवाः । कलायकंकुनीवारा वास्तुकं
हिलमोचिका । षष्टिकाकालशाकञ्च मूलकं केमुकेतरत् । लवणे
सैन्धवसामुद्रे गव्ये च दधिसर्पिणी । पयोनुद्धृतसारञ्च
पनसाम्रहरीतकी । पिप्पली जीरकञ्चैव नागरङ्गञ्च तिन्तिडी ।
कदली लवली धात्री फलान्यगुडमैक्षवम् अतैलपक्वं मुनये
हविष्यान्नं प्रचक्षते ।। ४५ ।। भुञ्जानो वा हविष्यान्नं
शाकं यावकमेव वा । पया मूलं फलं वापि यत्र
यत्रोपलभ्यते ।। ४६ ।। रम्भाफलं तिन्तिडीकं
कमलानागरङ्गकम् । फलान्येतानि भोज्यानि एभ्योऽन्यानि
विवर्जयेत् ।। ४७ ।।
यत्तु योगिनीतन्त्रे : चिञ्चाञ्च नालिकाशाकं कलायं
लकुचं तथा । कदम्बं नारिकेलञ्च व्रते कुष्माण्डकं त्यजेत् ।
तत्तु व्रतान्तरे बोध्यम् ।

अथ पुरश्चरणे वर्ज्यानि :

विवर्जयेन्मधु क्षारलवणं तैलमेव च । ताम्बूलं
कांस्यपात्रञ्च दिव्यभोजनमेव च ।। ४९ ।। तथा : क्षारञ्च
लवणं मांसं गृञ्जनं कांस्यभोजनम् ।
माषाढकीमसूरांश्च कोद्रवांश्चणकानपि । अन्नं
पर्युषितञ्चैव निस्नेहं कीटदूषितम् ।। ५० ।।
रामार्चनचन्द्रिकायाम् : मैथुनं तत्कथालापं
तद्गोष्ठीं परिवर्जयेत् । ऋतुकालं विना मन्त्रीस्वस्त्रियं
नाभिसंस्पृशेत् ।। ५१ ।। लवणञ्चैव यत्क्षारं तथा क्षौद्रं
रसान्तरम् । कौटिल्यं क्षौरमभ्यङ्गमनिवेदितभोजनम् ।। ५२ ।।
असंकल्पितकृत्यञ्च वर्जयेन्मर्दनादिकम् । स्नायाच्च
पञ्चगव्येन केवलामलकेन वा ।। ५३ ।। मन्त्रं
जप्त्वान्नपानीयैः स्नानाचमनभोजनम् । कुर्याद्यथोक्तविधिना
त्रिसन्ध्यां देवतार्चनम् ।। ५४ ।। त्रिसन्ध्यमेकसन्ध्यं वा न
मन्त्रं केवलं जपेत् । शक्त्या त्रिषवणं स्नानमशक्तौ द्वे
सकृच्च वा ।। ५५ ।। अस्नातस्य फलं नास्ति न चातर्पयतः पितॄन् ।
अपवित्रकरो नग्नः शिरसि प्रवृत्तोऽपि वा । प्रलपन्
प्रजपेद्यावत्तावन्निष्फलमुच्यते ।। ५६ ।।
नारदीये : मृदु सोष्णं सुपक्वञ्च कुर्याद्वै लघु
भोजनम् । नेन्द्रियाणां यथा वृद्धिस्तथा भुञ्जीत साधकः ।।
५७ ।।
कुलार्णवे : यस्यान्नपानपुष्टाङ्गः कुरुते
धर्मसञ्चयम् । अन्नदातुः फलस्यार्द्ध कर्त्तुश्चार्द्धं न
संशयः । तस्मात् सर्व प्रयत्नेन परान्नं वर्जयेत् सुधीः ।। ५८ ।।
पुरश्चरणकाले तु सर्वकर्मसु शङ्करि । जिह्वा दग्धा परान्नेन
करौ दग्धौ प्रतिग्रहात् ।। ५९ ।। मनो दग्धं परस्त्रीभिः कथं
सिद्धिर्वरानने । परान्नं भिक्षालब्धेतरविषयम् । भिक्षायां
स्वात्वोत्पादनात् ।। ६० ।।
तथा च : वैदिकाचारयुक्तानां शुचीनां श्रीमतां
सताम् । सत्कुलस्थानजातनां भिक्षाशी चाग्रजन्मनाम् ।। ६१ ।।
वामकेश्वरतन्त्रे : विहाय वह्निं न हि वस्तु
किञ्चिद्ग्राह्यं परेभ्यः सति सम्भवे च । असम्भवे
तीर्थवहिर्विशुद्धात् पर्वातिरिक्ते पतिगृह्य जपात् :
तत्रासमर्थोऽनुदिनं विशुद्धाद्याचेत यावद्दिनमात्रभक्ष्यम्
। गृह्णाति रागादधिकं न सिद्धिः प्रजायते । कल्पशतैरमुष्य ।।
६२ ।।
सकृदुच्चरिते शब्दे प्रणवं समुदीरयेत् । प्रोक्तं पारसवे
शब्दे प्राणायामं सकृच्चरेत् ।। ६३ ।। बहुप्रलापी चाचम्य
न्यास्याङ्गानि ततो जपेत् । क्षुतेऽप्येवं तथाऽस्पृश्यस्थानानां
स्पर्शनेऽपि च । एवमादींश्च नियमान् पुरश्चरणकृच्चरेत् ।। ६४ ।।
विण्मुत्रोत्सर्गशङ्कादियुक्तः कर्मं करोति यः जपार्चनादिकं
सर्वमपवित्रं भवेत् प्रिये ।। ६५ ।।
मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः । यो जपेत्तं
दहत्याशु देवता गुप्तिसंस्थिता ।। ६६ ।। आलस्यं जृम्भणं
निद्रां क्षुतं निष्ठीवनं भयम् । नीचाङ्गस्पर्शनं कोपं
जपकाले विवर्जयेत् ।। ६७ ।। एवमुक्तविधानेन विलम्बं त्वरितं विना
। उक्तसंख्यां जपं कुर्यात् पुरश्चरणसिद्धये ।। ६८ ।।
देवतागुरुमन्त्रणामैक्यं सम्भावयन् धिया । जपेदेकमनाः
प्रातःकालान्मध्यन्दिनावधि ।। ६९ ।। यत्संख्यया समारब्धं
तत्कर्त्तव्यमहर्निशम् । यदि न्यूनाधिकं कुर्याद्व्रतभ्रष्टो
भवेन्नरः ।। ७० ।।
गौतमीये : न वीक्षेत् पतितं व्रात्यं पिशुनं देवनिन्दकम्
। तथाऽनाश्रमिनं विप्रं तथा विश्वविनिन्दकम् ।। ७१ ।।
मुण्डमालायाम् : यत्संख्यया समारब्धं तज्जप्तव्यं
दिने दिने । न्यूनाधिकं न कर्त्तव्यमासमाप्तं सदा जपेत् ।
प्रजपेदुक्तसंख्यायाश्चतुर्गुणजपः कलौ ।। ७२ ।।
अन्यत्रापि : कृते जपस्तु कल्पोक्तस्त्रेतायां द्विगुणो जपः ।
द्वापरे त्रिगुणं प्रोक्तश्चतुर्गुणजपः कलौ ।। ७३ ।।
कुलार्णवेऽपि : न्यूनातिरिक्तकर्माणि न फलन्ति कदाचन ।
यथाविधि कृतान्येव तत्कर्माणि फलन्ति हि ।। ७४ ।। भूशयया
ब्रह्मचारित्वं मौनञ्चाचार्यसेविता । नित्यां त्रिषवणं
स्नानं क्षुद्रकर्मविवर्जनम् । नित्यपूजा नित्यदानं
देवतास्तुतिकीर्तनम् । नैमित्तिकार्चनञ्चैव विश्वासो गुरुदेवयोः ।
जपनिष्ठा द्वादशैते धर्माः स्युर्मन्त्रसिद्धिदाः ।। ७५ ।।
स्त्रीशूद्रपतितव्रात्यनास्तिक्येच्छिष्टभाषणम् ।
असत्यभाषणञ्चैव जृम्भणं परिवर्जयेत् । सत्येनापि न भाषेत
जपहोमार्चनादिषु । अन्यथानुष्ठितं सर्वं भवत्येव
निरर्थकम् ।। ७६ ।। पुरश्चरणकाले तु यदि स्यान्मृतसूतकम् ।
तथापि कृतसङ्कल्पोव्रतं नैव परित्यजेत् ।। ७७ ।।
योगिनीहृदये : शायित कुशशययायां शुचिवस्त्रधरः
सदा । प्रत्यहं क्षालयेत् शययामेकाकी निर्भयः स्वपेत् ।। ७८ ।।
असत्यभाषणं वाच्य कौटिल्यं परिवर्जयेत् ।
वर्जयेद्गीतवाद्यादिश्रवणं नृत्यदर्शनम् ।। ७९ ।। अभ्यङ्गं
गन्धलेपञ्च पुष्पधारणमेव च ।
त्यजेदुष्णोदकस्नानमन्यदेवप्रपूजनम् ।। ८० ।। तत्रैव नैकवासा
जपेन्मन्त्रं बहुवस्त्राकुलोऽपि वा ।। ८१ ।।
वैशम्पायनसंहितायाम् : विपर्यासं न कुर्याच्च
कदाचिदपि मोहतः । उपर्यधो बहिर्वस्त्रे पुरश्चरणकृन्नरः
विनियोगविधाने न भवेदनियमः क्वचित् ।। ८२ ।।
पतितानामान्त्यजानां दर्शने भाषणे श्रुते ।
क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ।। ८३ ।। तथाचम्य च
तत्प्राप्तौ प्राणायामं षडङ्गकम् । कृत्वा सम्यग्जपेच्छेषं
यद्वा सूर्यादिदर्शनम् आदिसदावह्निं ब्राह्मणञ्च ।। ८४ ।।
तत्रान्तरे : मनःसंहरणं शौचं मौनं
मन्त्रार्थचिन्तनम् । अव्यग्रत्वमनिर्वेदो जपसम्पत्तिहेतवः ।
उष्णिषी कञ्चुकी नग्नो मुक्तकेशो गणावृतः ।
अपवित्रकरोऽशुद्धः प्रलपन्न जपेत् क्वचित् ।। ८५ ।। अनासनः शयानो
वा गच्छन् भुञ्जान एव वा । अप्रावृतकरौ कृत्वा शिरसि
प्रावृत्तोऽपि वा । चिन्ताव्याकुलचित्तो वा क्षुब्धो भ्रान्तः
क्षुधान्वितः रथ्यायामशिवस्थाने न जपेत्तिमिरावृते ।
उपानदगूढपादो वा यानशययागतस्तथा । प्रसार्य न जपेत्
पादावुत्कटासन एव वा । न यज्ञकाष्ठे पाषाणे न भूमौ
नासने स्थितः । मार्जारं कुक्कुटं क्रोञ्चं श्वानं शूद्रं
कपिं खरम् । दृष्ट्वाचाम्यजपेच्छेषं स्पृष्ट्वास्नानं
विधीयते । सर्वत्र जपे अयं नियमः । मानसेतु नियमो नास्त्येव ।।
८६ ।।
तथा च : अशुचिर्वापि शुचिर्वापि गच्छंस्तिष्ठन् स्वपन्नपि ।
मन्त्रैकशरणो विद्वान् मनसैव सदाभ्यसेत् । न दोषो मानसे
जाप्ये सर्वदेशेऽपि सर्वदा ।। ८७ ।। श्यामादिविद्याजपे तु
तत्प्रकरणे विशेषो द्रष्टव्यः ।। ८८ ।।

अथ जपफलम् :

शिवधर्मे : जपनिष्ठो द्विजश्रेष्ठोऽखिलयज्ञफलं लभेत्
। सर्वेषामेव यज्ञानां जायतेऽसौ महाफलः ।। ८९ ।। जपेन
देवता नित्यं स्तूयमाना प्रसीदति । प्रसन्ना विपुलान् कामान्
दद्यान्मुक्तिञ्च शाश्वतीम् ।। ९० ।। यक्षरक्षः पिशाचाश्च
ग्रहाः सर्पाश्च भीषणाः । जल्पिनं नोपसर्पन्ति भयभीताः
समन्ततः ।। ९१ ।।
पद्मनारदोययोः : यावन्तः कर्मयज्ञाः स्युः
प्रतिष्ठादितपांसि च । सर्वे ते जपयज्ञस्य कलां नार्हन्ति
षोडशीम् ।। ९२ ।। माहात्म्यं वाचिकस्यैतज्जपयज्ञस्य कीर्तितम् ।
तस्माच्छतगुणोपांशुः सहस्रो मानसः स्मृतः ।। ९३ ।। मानसः
सिद्धकामानां पुष्टिकामैरुपांशुकः । वाचिको मारणे चैव
प्रशस्तो जप ईरितः ।। ९४ ।।
गौतमीये : शक्त्या त्रिषवर्ण स्नानमशक्तो द्विः सकृच्च वा
। त्रिसन्ध्यं प्रजपेन्मन्त्रं पूजनञ्च समं भवेत् ।
सन्ध्यात्रये पूजाङ्गत्वात्जपमष्टोत्तरशतमित्यर्थः ।। ९५ ।।
एकदा वा भवेत्पूजा जपेत्तत्पूजनं विना । जपान्ते वा
भवेत्पूजा पूजान्ते वा जपेन्मनुम् ।। ९६ ।। प्रातःकाले समारभ्य
जपेन्मध्यन्दिनावधि । (मध्यन्दिनावधीति न नियमपरं
किन्त्वधिककाल व्यवच्छेदपरम् । अन्यथा तत्समयजपनियमे
कदाचित्जिह्वाया जाड्याजाड्येन प्रतिनियतजपसंख्याया
अपूर्णत्वे अधिकत्वे वा नियमभङ्गः स्यात्) ।। ९७ ।। मनः
संहृत्य विषयान्मन्त्रार्थगतमानसः । न द्रुतं न विलम्बञ्च
जपेन्मौक्तिकहारवत् ।। ९८ ।।

अथ जपनिरूपणम् :

जपः स्यादक्षरावृत्तिर्मानसोपांशुवाचिकैः । धिया
यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् । उच्चरेदर्थमुद्दिश्य
मानसः स जपः स्मृतः ।। ९९ ।। जिह्वोष्ठौ
चालयेत्किञ्चिद्देवतागतमानसः । किञ्चित्श्रवणयोग्यः
स्यादुपांशुः स जपः स्मृतः ।। १०० ।।
विशुद्धेश्वरतन्त्रे : निजकर्णागोचरोऽयं स जपो मानसः
स्मृतः । उपांशुर्निजकर्णस्य गोचरः परिकीर्तितः ।। १ ।।
मन्त्रमुच्चारयेद्वाचा स जपो वाचिकः स्मृतः ।
उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशभिर्गुणैः ।। २ ।।
जिह्वाजपः शतगुणः सहस्रो मानसः स्मृतः ।। ३ ।।
तन्त्रान्तरे : उच्चैर्जपोऽधमः प्रोक्त उपांशुर्मध्यमः
स्मृतः । उत्तमो मानसो देवि ! त्रिविधः कथितो जपः । जिह्वाजपः
सविज्ञेयः केवलं जिह्वया बुधैः । अतिह्रस्वो व्याधिहेतुरतिदीर्घो
वसुक्षयः । अक्षराक्षर संयुक्तं जपेन्मौक्तिकहारवत् ।। ५ ।।
मनसा यत्स्मरेत्स्तोत्रं वचसा वा मनुं स्मरेत् । उभयं
निष्फलं याति भिन्नभाण्डोदकं यथा ।। ६ ।।
गौतमीये : पशुभावे स्थिता मन्त्राः प्रोक्ता वर्णास्तु
केवलाः । सौषुम्नध्वन्युच्चरिता प्रभुत्वं प्राप्नुवन्ति ते ।। ७ ।।
मन्त्राक्षराणि चित्शक्तौ प्रोतानि परिभावयेत् । तमेव
परमव्योम्नि परमानन्दवृंहिते । दर्शयत्यात्मसद्भावं
पूजाहोमादिभिर्विना ।। ८ ।।
गौतमीये दशाक्षरपटले : मूलमन्त्रं प्राणबुद्ध्या
सुषुम्नामूलदेशके । मन्त्रार्थं तस्य चैतन्यं जीवं
ध्यात्वा पुनः पुनः ।। ९ ।।
कुलार्णवेऽपि : मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र
मारुतः । न सिध्यति वरारोहे कल्पकोटिशतैरपि ।। १० ।।
जातसूतकमादौ स्यादन्ते च मृतसूतकम् । सूतकद्वयसंयुक्तो
यो मन्त्रः स न सिध्यति ।। ११ ।। गुरोस्तद्रहितं कृत्वा मन्त्रं
यावज्जपेद्धिया । सूतकद्वयनिर्मुक्तः स मन्त्रः सर्वसिद्धिदः ।।
१२ ।।
तत्रैव : तस्माद्देवि ! प्रयत्नेन ध्रुवेण पुटितं मनुम् ।
अष्टोत्तरशतं वापि सप्तवारं जपादितः । जपान्ते च ततो
जप्याच्चतुर्वर्गफलाप्तये । ब्रह्मबीजं मनोर्दत्त्वा चाद्यन्ते
परमेश्वरि । सप्तवारं जपेन्मन्त्रं सूतकद्वयमुक्तये ।। १३ ।।
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः । शतकोटि
जपेनापि तस्य सिद्धिर्न जायते ।। १४ ।। लुप्तबीजाश्च ये मन्त्रा न
सास्यन्ति फलं प्रिये । मन्त्राश्चैतन्यसहिताः सर्वसिद्धिकराः
स्मृताः ।। १५ ।। चैतव्य रहिता मन्त्राः प्रोक्ता वर्णास्तु केवलाः ।
फलं नैव प्रयच्छन्ति लक्षकोटि शतंरपि ।। १६ ।। मन्त्रोच्चारे कृते
यादृक् स्वरूपं प्रथमं भवेत् । शते सहस्रे लक्षे वा कोटिजापे
न तत्पलम् ।। १७ ।। हृदये ग्रन्थिभेदः स्यात्सर्वावयववर्द्धनम् ।
आनन्दाश्रुणि पुलको देहावेशः कुलेश्वरि । गद्गदोक्तश्च सहसा
जायते नात्र संशयः ।। १८ ।। सकृदुच्चरितेष्प्येवं मन्त्रे
चैतव्यसंयुते । दृश्यन्ते प्रत्यया यत्र पारस्पर्यं तदुच्यते ।। १९
।। मासमात्रं जपेन्मन्त्रं भूतलिप्यादि संयुतम् ।
क्रमोत्क्रमात्सहस्रस्तु तस्य सिद्धो भवेन्मनुः ।। २० ।।
तत्र भूतलिपिः : पञ्चह्रस्वाः सन्धिवर्णा
व्योमेराग्निजलन्धराः । अन्त्यमाद्यं द्वितीयञ्च चतुर्थं
मध्यमं क्रमात् ।। २१ ।। पञ्चवर्गाक्षराणि

तसा० ३

स्युर्धास्तश्वेतेन्दुभिः सह । एषा भूतलिपिः
द्विचत्वारिंशदक्षरैः । एवं जपं पुरा कृत्वा तेजोरूपं
समर्पयेत् । देवस्य दक्षिणे हस्ते कुशपुष्पार्घ्यवारिभिः ।। २२ ।।
सफलं तद्विभाव्यैवं प्राणायामं समाचरेत् ।। २३ ।।
जपस्यादौ जपान्ते च त्रितयं त्रितयञ्चरेत् ।। २४ ।। शक्तिविषये देव्या
वामहस्ते ।
तथा च : एवं जपं पुरा कृत्वा गन्धाक्षतकृशोदकैः ।
जपं समर्पयेद्देव्या वामहस्ते विचक्षणः ।। २५ ।। जपान्ते
प्रत्यहं देवि होमयेत्तद्दशांशतः । तर्पणञ्चाभिषेकञ्च
तत्तद्दशांशतो मुने । प्रत्यहं भोजयेद्विप्रान्
न्यूनाधिक्यप्रशान्तये । अथवा सर्वसम्पूर्णे
होमादिकमथाचरेत् ।। २६ ।।
मुण्डमालायाम् : यस्य यावान् जपः प्रोक्तस्तद्दशांश
जपः क्रमात् । तत्तद्द्रव्यैर्जपस्यान्ते होमं कुर्याद्दिने दिने ।
अथवा लक्षसंख्यायां पूर्णायां होममाचरेत् ।। २७ ।।

तथा होमाद्यशक्तौ च सनत्कुमारतन्त्रे : यद्यदङ्गं
भवेद्भङ्गं तत्संख्याद्विगुणो जपः । होमाभावे जपः
कार्यो होमसंख्याचतुर्गुणः ।। २८ ।। विप्राणां क्षत्रियाणाञ्च
रससंख्यागुणः स्मृतः । वैश्यानां वसुसंख्याकमेषां
स्त्रीणामयं विधिः ।। २९ ।। यं वर्णमाश्रितः शूद्रः स च तस्य
विधिञ्चरेत् । अनाश्रितस्य शूद्रस्य दिक्संख्याकः समीरितः ।। ३० ।।
शूद्रस्य विप्रभभक्तस्य तत्पत्न्याः सदृशो जपः ।। ३१ ।।
योगिनीहृदये : होमकर्मण्यशक्तानां विप्राणां द्विगुणो
जपः । इत रेषान्तु वर्णानां सर्वेषां त्रिगुणादिः समीरितः ।
त्रिगुण इति त्रिगुणादिर्होमसंख्यात्रिगुणजपः क्षत्रियेण कार्यः ।
वैश्येन चतुर्गुणः शूद्रेण पञ्चगुणः ।। ३२ ।।
तदुक्तं कुलप्रकाशे : यद्यदङ्गं विहीनं
स्यात्तत्संख्याद्विगुणो जपः । कुर्वीत त्रिचतुःपञ्च
यथासंख्यं द्विजातयः । एतेन स्त्रीशूद्राणां
होमाधिकारः ।। ३३ ।। तथा च शूद्राणां त्र्यस्रमीरितमिति
कुण्डप्रकरणे शारदयाम स्त्रीणां होमाधिकारश्च ।
तत्रैव : लाजैस्त्रिमधुरोपेतैर्होमं कन्या प्रचच्छति । अनेन
विधिना कन्या वरमाप्नोति वाञ्छितम् । अत एव स्त्रीणां
होमाधिकारः स च ब्राह्मणद्वारा ।। ३४ ।।
तथा च तन्त्रान्तरे :
ओंकारोच्चारणाद्धोमात्शालग्रामशिलार्चनात् ।
ब्राह्मणीगमनाञ्चैव शूद्रश्चाण्डालतां व्रजेत् । इति
साक्षान्निषेधात् ।।
तथा : स्त्रीणामपि सर्वत्रवैदिककर्मसु
शूद्रतुल्यत्वप्रतिपादनात् ।

स्त्रीशूद्रकरसंस्पर्शो वज्रपातो ममोपरि इति भगवद्वचनात् ।। ३५
।।
नृसिंहतापनोयेऽपि : सावित्रीं प्रणवं यजुर्लक्ष्मीं
स्त्रीशूद्रयोर्नेच्छन्ति स मृतोऽधोगच्छति नेच्छन्तीति पर्यन्तं
पराशरभाष्येऽपि गोविन्दभट्ट धृतम् ।
स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्विजः । शूद्रो
निरयमाप्नोति ब्राह्मणो यात्यधोगतिम् । यजुर्वेदः । लक्ष्मीः
श्रीबीजमित्यर्थः ।। ३६ ।।
तथा नारायणकल्पेऽपि : अष्टाक्षरो महामन्त्रः
सप्तार्णः शूद्रयोषितोः । प्रणवादिश्च यो मन्त्रो न स्त्रीशूद्रे
प्रशस्यते । इति सर्वत्र स्त्रीणां शूद्रवद्व्यवहारः । शूद्रस्यापि
स्वकर्त्तृकहोम इति केचित् ।। ३७ ।।
तथा च वाराहीतन्त्रे : यदि कामी भवत्यत्र शूद्रोऽपि
होममर्मणि । वह्निजायां परित्यज्य हृदयान्तेन होमयेत् ।। ३८ ।।
सर्वेषां द्विगुणजपः ।।
तथा च वसिष्ठे : यद्यदङ्गं विहीयेत तत्संयाद्विगुणो
जपः । कर्त्तव्यश्चाङ्गसिद्धार्थं तदशक्तेन भक्तितः ।। ३८ ।। न
चेदङ्गं व्हीयेत तद्विशिष्टमवाप्नुयात् । विप्रभोजनमात्रेण
व्यङ्गं साङ्गं भवेद्ध्रुवम् । यद्यद्भुङ्क्ते द्विजः
साक्षात्ततद्भुङ्क्तेहरिः स्वयम् ।। ४० ।।
तथागस्त्यसंहितायाम् : यदि होमेऽप्यशक्तः
स्यात्पूजायां तर्पणेऽपि वा तावत्संख्याजपेनैव
ब्राह्मणाराधनेन च । भवेदङ्गद्वयेनैव पुरश्चरणमार्य
वै ।। ४१ ।।
वीरातन्त्रे : नियमः पुरुषे ज्ञेया न योषित्सु कथञ्चचन ।
न्यासो योषितामत्र न ध्यानं न च पूजनम् ।
केवलंजपमात्रेण मन्त्राः सिध्यन्ति योषिताम् । आचार्यमते
विप्रभोजनेऽप्यनुकल्पः ।। ४२ ।।
तथा च मुण्डमालायाम् : यदि
पूजाद्यशक्तश्चेद्द्रव्यभावेन सुन्दरि । केवलं जपमात्रेण
पुरश्चर्या विधीयते । अत्र ब्राह्मणभोजनमावश्यकमेव ।
सर्थथा भोजयेद्द्विजान्कृतसङ्कल्पसिद्धये ।
विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद्ध्रुवम् ।। ४३ ।।
कुलार्णवे : दीक्षाहीनान्पशून्यस्तु भोजयेद्वा स्वमन्दिरे ।
स याति परमेशानि नरकानेकविंशतिम् ।। ४४ ।। एवं यः कुरुते देवि
! पुरश्चरणकं प्रिये । सर्वपापविनिर्मुक्तो देवीसायुज्यमाप्नुयात्
।। ४५ ।।
तथा : तद्दशांशेन विप्रांश्च कौलिकानथ भोजयेत् ।
क्षीरखण्डाद्य भोज्यैश्च बहुमानपुरःसरम् ।। ४६ ।।
ततश्च : गुरुवे दक्षिणान्दद्याद्भोजनाच्छादनादिभिः ।
गुरुसन्तोषमात्रेण मन्त्रसिद्धिर्भवेद्ध्रुवम् । गुरोरभावे
तत्पुत्राय तत्पत्न्यै वा निवेदयेत् । तयोरभावे देवेशि
ब्राह्मणेभ्यो निवेदयेत् ।। ४७ ।। सम्यक् सिद्धैकमन्त्रस्य
पञ्चाङ्गोपासनेन च । सर्वे मन्त्राश्च सिद्यन्ति तत्प्रसादात्
कुलेश्वरि ।। ४८ ।। गुरुमूलमिदं सर्वमित्याहुस्तन्त्रवेदिनः ।
एकग्रामे स्थितो नित्यं गत्वा वन्देत वै गुरुम् । गुरुरेव परं
ब्रह्म तस्मादौ तमर्चयेत् । तदन्ते महतीं पूजां
कुर्यासाधकसत्तमः । सुवासिनीं कुमारीञ्च भुषणैरपि
भूषयेत् । मिष्ठान्नं बहुशं कार्यं भुञ्जीत बन्धुभिः
सह । एवं सिद्धमनुर्मन्त्री साधयेत्सकलेप्सितान् ।। ४९ ।।

मतान्तरे पुरश्चरणविधिः

तन्त्रे : अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वोमुपोसितः । नद्यां
समुद्रगामिन्यां नाभिमात्रोदके स्थितः ।
स्पर्शाद्विमुक्तिपर्यन्तं जपेन्मन्त्रमनन्यधीः ।। ५० ।।
यदि नक्रादिदूषिता नदी भवति तदा यत्कर्त्तव्यं तदाह
रुद्रयामले : अपि शुद्धोदके स्नात्वा शुचौ देशे समाहितः ।
ग्रासाद्विमुक्तिपर्यन्तं जपेन्मन्त्रमनन्यधीः । इति कृत्वा न
सन्देहो जपस्य फलभाग्भवेत् ।। ५१ ।।
नद्यभावे : यद्वा पुण्योदके स्नात्वा शुचिः
पूर्वमुपोषितः । ग्रहणा दिविमोक्षान्तं जपेन्मन्त्रं
समाहितः ।। ५२ ।।
उपवासासमर्थे तु तत्रैव : अथवान्यप्रकारेण
पौरश्चारणिकोविधिः । चन्द्रसूर्योपरागे च स्नात्वा
प्रयतमानसः । स्पर्शनादि विमोक्षान्तं जपेन्मन्त्रं
समाहितः । जपाद्दशांशतो होमं तथा होमात्तुतर्पणम् ।
तर्पणस्य दशंशेन चाभिषेकं समाचरेत् ।
अभिषेकदशांशेन कुर्याद्ब्राह्मणभोजनम् । एवं कृत्वा तु
मन्त्रस्य जायते सिद्धिरुत्तमा ।। ५३ ।।

गोपाल मन्त्र तर्पणे तु होमसंख्यत्वम् ।

यथा : इह गोपालमन्त्राणां तर्पणं होमसंख्यया
इत्यादि ।। ५४ ।। दृष्टा स्नात्वा ससङ्कल्पो विमोक्षान्तं जपं चरेत् ।
तावद्यज्ञादिकं कुर्याद् ग्रहणान्ते शुचिः पुमान् । एवं
जपान्मन्त्रसिद्धिर्भवत्येव न संशयः । ग्रहणे
जपस्यावश्यकत्वम् ।। ५५ ।। श्राद्धादेरनुरोधेन यदि जपं
त्यजेन्नरः । स भवेद्देवताद्रोही पितॄन सप्त नयत्यधः । इति
सनत्कुमारवचनात् । वस्तुतस्तु आरद्धपुरश्चरणविषयमिदम् ।
तथा हि : आरद्धेपुरश्चरणे यदि च ग्रहणं भवेत्तदा
श्राद्धाद्यनुरोधेन जपं नैव त्यजेत् । इत्येकवाक्यत्वात् :
(सर्वस्वेनापि कर्त्तव्य श्राद्धं वै राहुदर्शने : अकुर्वाणन्तु
तच्छ्राद्धं पङ्के गौरिव सीदति । इति
प्रतिकूलवाक्यपराहतत्वाच्च इत्यधिकपाठः आगमतत्त्वविलासे ।)
एवं रात्रावपि पुरश्चरणविशेषे बोद्धव्यम् । इति
सर्वसमञ्जसम् ।। ५६ ।।
योगिनीहृदये : कल्पोक्तविधिना मन्त्रो कुर्याद्धोमादिकं
ततः । अथवा तद्दशांशेन होमादींश्च समाचरेत् ।। ५७ ।।
तथा : अनन्तरं दशांशेन क्रमाद्धीमादिकञ्चरेत् ।
तदन्ते महतीं पूजां कुर्याद्ब्राह्मणतोषणम् । ततो मन्त्रस्य
सिद्ध्यर्थः गुरुं सम्पूज्य तोषयेत् । एवञ्च मन्त्रसिद्धिः
स्याद्देवता च प्रसीदति ।। ५८ ।।
क्रियासारे : दीक्षाहीनान्पशून्यस्तु भोजयेद्वा स्वमन्दिरे ।
स याति परमेशानि नरकानेकविंशतिम् ।। ५९ ।।
यद्यपि पुरश्चरणपदं पञ्चाङ्गपरं तथा च :
जपहोमौ तर्पणञ्चाभिषेकौ विप्रभोजनम् । पञ्चाङ्गोपासनं
लोके पुरश्चरणमुच्यते । तथापि ग्रहणादौ पुरश्चरणपदं
गौणं जपमात्रपरम् । सूर्योदयात्समारभ्य
यावत्सूर्योदयावधि तावज्जप्तो महेशानि पुरश्चरणमिष्यते ।
इत्यादौ तथा दर्शनात् ।। ६० ।। तत्रहोमादेरभावात्तर्हि कथं
ग्रहणपुरश्चरणे होमदिरिति चेद्वचनादेव जायते । न च
पुरश्चरणस्य पञ्चाङ्गत्वात्सर्वत्र तदेव स्यादिति वाच्यं
ग्रहणे तद्विधानमनर्थकं स्यात् । किन्तु ग्रहणे
होमादिनियमान्नान्यत्र होमादिः । गृहणपुरश्चरणे
होमादिविधानन्तु
प्रकृतीभूतपञ्चाङ्गपुरश्चरणतुल्यत्वबोधनाय । अत एव
ग्रहणे पाञ्चङ्गस्वरूपपुरश्चरणे कृते
मुख्यप्रयोगेऽप्यधिकार इति प्रकष्टिकृतम् । तदकरणे पुनः
केवलजपमात्रपुरश्चरणे कृते नाधिकार इति सर्वसम्मतम् ।। ६१ ।।
पुरश्चरणकालस्तु वाराहीतन्त्रे : चन्द्रतारानुकूले च
शुक्लपक्षे शुभेऽहनि । आरभेत पुरश्चर्यां हरौ सुप्ते न
चाचरेत् ।। ६२ ।।
प्रतिप्रसवस्तु रुद्रयामले कार्तिकाश्विन - वैशाखे -
माघेऽय मार्गशीर्षके । फाल्गुने श्रावणे दीक्षा पुरश्चर्या
प्रशस्यते । ग्रहणे च महात्रीर्थे न कालमवधारयेत् ।। ६३ ।।
ग्रसान्ते ग्रस्तोदये दीक्षापुरश्चरणयोर्निषेधमाह
तन्त्रान्तरे : ग्रसास्ते ह्युदिते नैव कुर्याद्दीक्षाजपं प्रिये । कृते
नाशो भवेदाशु ह्यायुः श्रीसुतसम्पदाम् ।। ६४ ।। तत्र
तावद्भूमेः परिग्रहं कृत्वा पुरश्चणप्राक् तृतीयदिवसे
क्षौरादिकं विधाय वेदिकायाश्चतुर्दिक्षु क्रोशं क्रोशद्वयं
वा क्षेत्रं चतुरस्रं आहारादिर्विहारार्थं परिकल्प्य तत्र
कूर्मचक्रानुरूपं मण्डपं विधाय एकभक्तं कुर्यात् ।
ततः परदिने स्नानादिकं विधाय शुद्धः सन्
वेदिकायाश्चतुर्दिक्षु अश्वत्थोडुम्बरप्लक्षाणामन्यतमस्य
वितस्तिमात्रान्दशकीलान् ओं सुदर्शनाय अस्त्राय फट् इति
मन्त्रेणाष्टोत्तरशताभिमन्त्रि तान्वेदिकाया दशदिक्षु ओं ये चात्र
विघ्नकर्तारो भुवि दिव्यन्तरिक्षगाः । विघनभूताश्च ये चान्ये
मम मन्त्रस्य सिद्धिषु । ममैतत्कीलितं क्षेत्रं परित्यज्य
विदूरतः । अपसर्पन्तु ते सर्वे निर्विघ्नं सिद्धिरस्तु मे । इत्यनेन
निखन्य तेषु ओं सुदर्शनाय अस्त्राय फट् इति अस्त्रं सम्पूज्य तेषु
पूर्वादिक्रमेण इन्द्रदिलोकपालान्पूजयेत् ।
यथा : भूर्भुवः स्वः इन्द्रलोकपाल इहागच्छ इत्यावाह्य ।
पञ्चोपचारैः पूजयेत् । एवंक्रमेण अन्यानपि पूजयेत् ।। ६५ ।।
तथा च मुण्डमालायाम् : पुण्यक्षेत्रादिकं गत्वा
कुर्याद्भूमिपरिग्रहम् । तथा ह्यमुकमन्त्रस्य
पुरश्चरणसिद्ध्ये । मयेयं गृह्यते भूमिर्मन्त्रोऽयं
सिध्यतामिति ।
तथा च : ग्रामे क्रोशमितं स्थानं नद्यादौ स्वेच्छया
मतम् । नगरादावपि क्रोशं क्रोशयुग्ममथापि । (क्षेत्रं वा
यावदिष्टन्तु विहारार्थ प्रकल्पयेत्) । आहारादि विहारार्थं
तावतीं भूमिमाक्रमेत् । क्षीरिवृक्षोद्भवान्कीलान्
अस्त्रमन्त्राभिमन्त्रितान् । निखनेद्दशदिग्भागे तेष्वस्त्रञ्च
प्रपूजयेत् । लोकपालान्पुनस्तेषुं गन्धाद्यैः पूजयेत्सुधीरिति ।।
६६ ।। ततो मध्यस्थाने क्षेत्रपालं वास्त्वीशञ्च सम्पूज्य
सर्वविघ्नविनाशार्थं गणपतिं पूजयेत् ।
यथा : ओं अद्येत्यादि अमुकगोत्रीऽमुकदेवशर्मा
मत्कर्त्तव्यामुकदेवतामुकमन्त्रपुरश्चरणकर्मणि
सर्वविघ्नविनाशार्थं गणेशपूजामहं करिष्ये । इति संकल्प्य
वेदिकामध्ये पञ्चोपचारैर्गणेशं पूजयेत् ।। ६७ ।।
तदुक्तम् : क्षेत्रपालादिकं तत्र पूजयेद्विधिवत्ततः ।
क्षेत्रेशं वास्तुनामानं विघ्नराजं समर्चयेत् । दिक्पालेभ्यो
बलिं दद्यात्ततः । क्षेत्रं समाविशेत् । ततो मासभक्तादिना
पूजितदेवताभ्यो बलिं दद्यात् ।
ततः : ओं ये रौद्रा रोद्रकर्माणो रौद्रस्थाननिवासिनः ।
मातरोऽप्युग्ररूपाश्च गणाधिपतयश्च ये । विघ्नभूताश्च ये
चान्ये दिग्विदिक्षु समाश्रिताः । सर्वे ते प्रीतमनसः
प्रतिगृह्वन्तिमंबलिम् । इत्यनेन दशदिक्षु भूतेभ्यो बलिं दद्यात्
ततो गायत्रीं जपेत् ।
तथा च : प्रातः स्नात्वा तु गायत्र्याः सहस्रं प्रयतो जपेत् ।
ज्ञाताज्ञातस्य पापस्य क्षयार्थं प्रथमं ततः इति
विद्याधराचार्यः :
विप्रान्सन्तर्पंयेदर्थतोषणाच्छादनासनैः ।
बहुभिर्वस्त्रभूषाभिः सम्पूज्य गुरुमात्मनः । आरभेत
जपं पश्चात्तदनुज्ञापुरःसरमिति ।
गायत्री पुनस्तत्तद्देवतायाः यथा गोविन्दवृन्दावने :
जपात्पूर्वं जपेत्कृष्णगायत्रीं सर्वपापहाम् ।
अयुतैकप्रमाणेन एनसो न्यूनहेतवे : इति
कृष्णागायत्रीस्वरसादन्यत्रापि तथा अत एव स्त्रीशूद्रे
साधारणमिति माधवाचार्यः । यत्तु प्रातः स्नात्वा तु सावित्र्या
अयुतं प्रयतो जपेदिति तत्पुनरत्यन्तपापशङ्कया । ओं अद्येत्यादि
अमुकगोत्रः श्री अमुकदेवशर्मा ज्ञाताज्ञातपापक्षयकामः
अष्टोत्तरसहस्रसावित्रीजपमहं करिष्ये । इति सङ्कल्प्य जपेत् अयुतं
वा कुर्यात् । तत उपवासथविष्यं कुर्यात् । परदिने उषसि
स्नानादिकं कृत्वा स्वस्तिवाचनपूर्वकं सङ्कल्पं कुर्यात् ।। ६८ ।।
ओं अद्येत्यादि अमुकगोत्रः श्री-अमुक्तदेवशर्मा अमुकदेवताया
अमुकमन्त्रसिद्धिप्रतिबन्धकाशेषदुरतक्षयपूर्वक -
तन्मन्त्रसिद्धिकामोऽद्यारभ्य यावता कालेन सेत्स्यति
तावत्कालं अमुकमन्त्रस्य इयत् - संख्यक जप -
तद्दशांशहोम - तद्दशांशहोम - तद्दशांशतर्पण -
तद्दशांशाभिषेक - तद्दशांश - ब्रह्मणभोजन -
रूपपुरश्चरणमहं करिष्ये । इति सङ्कल्प्य
भूतशुद्धिप्राणायामादिकं कृत्वा स्वस्वमुद्रां
बध्वास्वस्वपद्धत्युक्त क्रमेण देवतां सम्पूज्य दीपे
प्रज्वलिताकारां देवतां हृदये कृत्वा प्रातःकालमारभ्य
मध्यन्दिनं यावत्जपं कुर्यात् । ततो होमस्ततस्तर्पणम् ।। ६९ ।।
कुलार्णवे : तर्पणन्तु ततः
कुर्यात्तीर्थोदकैश्चन्द्रमिश्रितैः । जले देवं समावाह्य
पाद्याद्यैरुदकात्मकैः । सम्पूज्य विधिवद्भक्त्या
परिवारसमन्वितम् । एकैकमञ्जलिं तोयं परिवारान्प्रतर्पयेत् ।
ततो होमदशांशेन तर्पयेत्परदेवताम् । सम्पूर्णायान्तु
संख्यायां पुनरेकैकमञ्जलिम् तर्पणवाक्यन्तु
स्नानप्रकरणे वक्तव्यम् ।। ७० ।।

अथाभिषेकवाक्यम् :
नमोऽन्तं मूलमुच्चार्य अमुकदेवतामहमभिषिञ्चामि
इति कलसमुद्रया स्वमूर्ध्नि अभिषेचयेत् ।
तथा च गौतमीये : नमोऽन्तं मूलमुच्चार्यं तदन्ते
देवताभिधाम् । द्वितीयान्तामहं पश्चादभिषिञ्चाम्यनेन तु ।
अभिषिञ्चत्स्वमूर्द्धानं तोयैः कुम्भाख्यमुद्रया ।। ७१ ।।
शक्ति विषये नीलतन्त्रे : मूलान्ते नाम चोच्चार्य सिञ्चामीति
नमः पादमिति ।
ततो ब्राह्मणान् भोजयित्वा दक्षिणां कुर्यात् : ओं अद्येत्यादि
कृतै तदमुकदेवताया अमुकमन्त्र पुरश्चरणकर्मणः ।
साङ्गतार्थं दक्षिणामिदं काञ्चनं वह्निदैवतं
अमुकगोत्राय गुरवे तुभ्यमहं सम्प्रददे
ततोऽच्छिद्रावधारणं कुर्यात् ।। ७२ ।।

अथ ग्रहणपुरश्चरणसङ्कल्पः :
तद्यथा : ओं अद्येत्यादि राहुग्रस्ते दिवाकरे निशाकरे वा
अमुकगोत्रः श्री अमुकदेवशर्मा अमुकदेवताया
अमुकमन्त्रसिद्धिकामो ग्रासाद्विमुक्ति पर्यन्तं
अमुकदेवतामुकमन्त्रजपरूप - पुरश्चर्णमहं करिष्ये । इति
सङ्कल्प्य जपेत् । ततस्तद्दिने तत्परदिने वा स्नानं विधाय ओं
अद्येत्यादि अमुकमन्त्रस्य कृतैतदमुकग्रहण - कालीन-
अमुकदेवतामुकमंत्रेयत्संख्यक - जपतद्दशांशहोम -
तद्दशांश - तर्पण - तद्दशांशाभिषेक - तद्दशांश -
ब्राह्मणभोजनकर्माण्यहं करिष्ये । इति सङ्कल्प्य होमादिकं
कर्म कृत्वा पूर्ववद्दक्षिणादिकं कुर्यादिति
पुरश्चरणप्रयोगः ।। ७३ ।।

अथ कूर्मचक्रम् : (देखिये चित्र ७)
दीपस्थानं समाश्रित्य कृतं कर्मं फलप्रदम् । पुरुषो
दीप्यते यत्र दीपस्थानं तदुच्यते ।। ७४ ।। चतुरस्रां भुवं
भित्त्वा कोष्ठानां नवकं लिखेत् । पूर्वकोष्ठादि
विलिखेत्सप्तवर्गाननुक्रमात् । लक्ष्मीशे मध्यकोष्ठे स्वरान्
युग्मक्रमाल्लिखेद्दिक्षु पूर्वादितो यत्र क्षेत्राद्यक्षरसंस्थितिः ।
मुखन्तत्तस्य जानीयाथस्तावुभयतः स्थितौ यत्र
क्षेत्राद्यक्षरसंस्थितिः । मुखन्ततस्य जानीयाथस्तावुभयतः
स्थितौ । कोष्ठे कुक्षौ उभे पादौ द्वे शिष्टं पुच्छमीरितम् ।
क्रमेणानेन विभजेन्मध्यस्थमपि भागतः ।। ७५ ।। मुखस्थो
लभते सिद्धिम् करस्थः स्वल्पजीवनः । उदासीनः कुक्षिसंस्यः
पादस्यो दुःखमाप्नुयात् ।। ७६ ।। पुच्छस्थः पीड्यते मन्त्री
बन्धनोच्चाटनादिभिः । कूर्मचक्रमिदं प्रोक्तं मन्त्रिणां
सिद्धिदायकम् ।। ७७ ।।
पिङ्गलायाम : कूर्मचक्रमविज्ञाय यः
कुर्याज्जपयज्ञकम् । तस्य यज्ञफलं नास्ति सर्वानर्थाय कल्पते
।। ७८ ।।

अथ मन्त्राणां दशसंकाराः

गौतमीये : जननं जीवनं प्रश्चात्ताडनं बोधनं
तथा । अथाभिषेको विमलीकरणाप्यायने पुनः । तर्पणे दीपनं
गुप्तिर्दशैता मन्त्रसंस्क्रियाः ।। ७९ ।। स्वर्णादिपात्रे संलिख्य
मातृकायन्त्रमुत्तमम् । काश्मीरचन्दनेऽपि भस्मना वाथ
सुव्रते । काश्मीरं शक्ति - संस्कारे चन्दनं वैष्णवे मनौ ।
शैवे भस्म समाख्यातं मातृकायन्त्रलेखने ।। ८० ।।

अथ मातृकायन्त्रम् (देखिये चित्र ८, ९)

व्योमेन्द्वौरसनार्णकर्णिकमचां द्वन्द्वै :
स्फुरत्केशरम्, वर्गोल्लासि वसुच्छदं वसुमतीगेहेन संवेष्टितम्
। आशास्वस्त्रिषु लान्तलाङ्गलियुजा क्षौणिपूरेणावृतं, यन्त्रं
वर्णतनोः परं निगदितं सौभाग्यसम्पत्करम् ।। यन्त्रस्य दिक्षु
वं विदिक्षु ठं लिखेत् ।। ८१ ।।
तथा च गौतमीये : कादिमान्तान्पङ्कवर्गान्दिक्षु
पूर्वादितो न्यसेत् । यादिवान्ताः शादिहान्ताः लक्ष्ममीशे
प्रविन्यसेत् । चतुरस्रं चतुर्द्वारं दिक्षु वं ठं विदिक्षु च । इति
मातृकायन्त्रम् ।। ८२ ।।

अथ मन्त्राणां दशसंकारा :

मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् ।
पंक्तिक्रमेण विधिना मुनिभिस्तत्रनिश्चितम् ।
प्राणवान्तरितान्कृत्वा मन्त्रवर्णाञ्जपेत्सुधीः । प्रत्येकं
शतवारं तु जीवनं तदुदाहृतम् । दशसंख्यो वा जपः ।। ८३ ।।
विश्वसारे : पृथक्शतं वा दशधा
मन्त्रवर्णाञ्जपेत्सुधीरिति । मन्त्रवर्णान्समालिख्य
ताडयेच्चन्दनाम्भसा । प्रत्येकं वायुबीजेन पूर्ववत्ताडनं
मतम् । ताडनं शतधा वा ।। ८४ ।।
तथा च तन्त्रान्तरे : ताडनं
ताडयेद्वर्णानखिलांश्चन्दनाम्भसा । शतं वा दशधा
वापि बोधयेत्तुमनुं ततः ।। ८५ ।।
विश्वसारे : दशधा शृणु देवेशि ताडनं परिकीर्तितम् ।
विलिख्य मन्त्रवर्णास्तु प्रसूनैः करवीरजैः ।
तन्मन्त्रवर्णसंख्याकैर्हन्याद्रेफेण बोधनम् ।। ८६ ।।
तन्त्रान्तरे : विलिख्याक्षरसंख्याकैः पुष्पै
रक्तहयारिभिः । मन्त्रवर्णान्वह्निनैकमभिमन्त्र्य सकृत्सकृत् ।
तत्तन्मन्त्रोक्त - विधिना अभिषेकः प्रकीर्तितः । अश्वत्थपल्लवैः
सिञ्चेन्मन्त्री मन्त्रार्णसंख्यया ।। ८७ ।। सञ्चिन्त्य मनसा
मन्त्रं सुषुम्नामूलमध्यतः । ज्योतिर्मन्त्रेण
विधिवद्दहेन्मलत्रयं यतिः ।। ८८ ।। तारं
व्योमाग्निमनुयुग्दण्डी ज्योतिर्मनुर्मतः । तारं प्रणवः । व्योमो
हकारः । अग्निरेफः । मनुरोकारः । दण्डी अनुस्वारः । तेन ओं ह्रौ/
।। ८९ ।। स्वर्णेन कुशतोयेन पुष्पतोयेन वा तथा । तेन मन्त्रेण
विधिवदाप्यायनविधिः स्मृतः ।। ९० ।। मन्त्रेण वारिणा मन्त्रे
तर्पणं तर्पणं मतम् ।। ९१ ।।
मधुना शक्तिमन्त्रे तु वैष्णवे चेन्दुमज्जलैः । शैवे
घृतेन दुग्धेन तर्पणं सम्यगीरितम् । अभिषेकऽपि तथा ।। ९२ ।।
तारमाया - रमायोगे मनोर्दीपनमुच्यते । जप्यमानस्य
मन्त्रस्य गोपनं त्वप्रकाशनम् ।। ९३ ।। संस्काराः दश
सम्प्रोक्ताः सर्वतन्त्रेषु गोपिताः । यान कृत्वा साम्प्रदायेन
मन्त्री वाञ्छितमाप्नुयात् । मलत्रयमिति आनव्यं मायिकं
कार्मणञ्चेति ।।
प्रपञ्चसारे : मायिकंनाम योषोल्वं पौरुषं
कार्मणं मलम् । आनव्यं तद्द्वयं प्रोक्तं निषिद्धं
तन्मलत्रयम् ।। ९५ ।। तारमायारमायोगे इति
तारमायारमाबीजपुटितं मन्त्रमष्टोत्तरशतं जपेदित्यर्थः ।
तथा च विश्वसारे : तारमायारमाबीजपुटितेन जपेन्मनुम् ।
शतमष्टोरञ्चैव दीपयेत्साधकोत्तमः ।। ९६ ।।

अथ कलावतीदीक्षाप्रयोगः

शिष्यः पूर्वमुपोषितः कृतनित्यक्रियः
स्वस्तिवाचनपूर्वकं सङ्कल्पं कुर्यात् ।।
तद्यथा : ओं अद्येत्यादि अमुकगोत्रः श्री-अमुकदेवशर्मा
धर्मार्थकाममोक्षप्राप्तिकामः अमुकदेवताया
अमुकाक्षरमन्त्रदीक्षामहं करिष्ये इति सङ्कल्प्य गुरुं
वृणुयात् । ओं साधु भवनास्ताम् ओं साध्वहमासे इति प्रतिवचनम् ।
ओं अर्चयिष्यामो भवन्तम्, ओं अर्चय इति प्रतिवचनम् । ततो
गन्धपुष्पवस्त्रालङ्कारादिभिर्गुरुमभ्यर्च्य दक्षिणं जानु
धृत्वा पठेत् । ओं अद्येत्यादि अमुक गोत्रः श्री अमुकदेवशर्मा
अमुकदेवताया मत्कर्त्तृकामुकमन्त्रदीक्षाकर्मणि अमुकगोत्रं
श्री अमुकदेवशर्माणमेभिः गन्धादिभिरभ्यर्च्य गुरुत्वेन
भवन्तमहं वृणे, ओं वृतोऽस्मीत्युत्तरम् । ओं यथाविहितं
गुरुकर्म कुरु, यथा ज्ञानतः करवाणीति प्रतिवचनम् । ततो
गुरुराचम्य द्वारदेशे सामान्यार्घ्यं कुर्यात् ।
तद्यथा : स्ववामे त्रिकोणवृत्त भूबिम्बं विलिख्य, ओं
आधारशक्तये नमः इति सम्पूज्य, फडिति मन्त्रेण अर्घ्यपात्रं
प्रक्षाल्य, साधारं शङ्खं तत्र निधाय, नमः इति मन्त्रेण
जलेनापूर्य, अंकुशमुद्रया ओं गङ्गे चेत्यादिना
सूर्यमण्डलात्तीर्थमावाह्य प्रणवेन गन्धादीन्निक्षिप्य,
धेनुमुद्रां प्रदर्श्य, ओमित्यष्टधा दशधा वा जपेत् ।। ९७ ।।
तथा च : त्रिकोणभूवृत्तविम्बमण्डलं रचयेत्ततः ।
आधारशक्ति सम्पूज्य तत्राधारं विनिक्षिपेत् । अस्त्रेण पात्रं
संशोध्य हृन्मन्त्रेण प्रपूरयेत् । निक्षिपेत्तीर्थमावाह्य
गन्धादीन्प्रणवेन तु । दर्शयेद्धेनुमुद्रां वै
सामान्यार्घ्यमिदं स्मृतम् । इति गौतमीयवचनात् अष्टधा
प्रणवजपः । विशेषार्घ्यो तथादर्शनात् । श्यामादौ तु
दशधा तदर्घ्य तथादर्शनात् । पात्रं तोयैः प्रपूर्याथ
प्रणवं दशधाजपेत् । इति भैरवीयात् ।। ९८ ।। ततः फडिति तज्जपेन
द्वारमभ्युक्ष्य द्वारपूजां कुर्यात् ।
तद्यथा : ऊर्द्धोडुस्वरे ओं विघ्नाय नमः, ओं अहालक्ष्म्यै
नमः, ओं सरस्वत्यै नमः । दक्षिणाशखयां ओं विघ्नाय नमः
। वामशाखायां ओं क्षेत्रपलाय नमः । तयोः पार्श्वे ओं
गङ्गायै नमः । ओं यमुनायै नमः । देहल्यां ओं अस्त्राय नमः
। इति पुष्पवारिभिः पूजयेत् ।
निबन्धे : द्वारमस्त्राम्बुभिः प्रोक्ष्य द्वारपूजां
समाचरेत् । ऊर्द्धोडुम्बरके विघ्नं महालक्ष्मीं सरस्वतीम् ।
ततो दक्षिणशाखायां विघ्नं क्षेत्रेशमन्यतः । तयोः
पार्श्वद्वये गङ्गायमुने पुष्पवारिभिः । देहल्यामर्चयेदस्त्रं
प्रति द्वारमिति क्रमात् । अशक्तश्चेद्द्वारदेवताभ्यो नमः
इत्येतावन्मात्रम् ।। ९९ ।।
त्रिपुरादिपूजादिषु स्वतन्त्रतन्त्रे : गणेशं क्षेत्रपालञ्च
योग्निनी वटुकं तथा । गङ्गाञ्च यमुनाञ्चैव लक्ष्मीं
वाणीं ततो जपेत् । इति विशेषः ।। १०० ।।
वैष्णवे तु : नन्दः सुनन्दश्चण्डश्च प्रचण्डो बल एव च ।
प्रबलो भद्रनामा च सुभदो विघ्नवैष्णवाः । प्रणवादि
नमोऽन्तेन नाम्ना मन्त्रेण पूजयेत् ।। १ ।। ततो
दक्षिणपादप्रक्षेपपुरःसरं वामशाखां स्पृशं
दक्षिणाङ्गं सङ्कोचयन्मण्डपान्तः प्रविश्य नै-ऋत्यां ओं
वास्तुपुरुषाय नमः ओं ब्रह्मणे नमः इति पूजयेत् । ततो
देयमन्त्रेण दिव्यदृष्ट्यावलोकनाद्दिव्यान्विघ्नानुत्सार्य अस्त्राय
फट् इति मन्त्रेण जलेनान्तरीक्षगान्विघ्नानुत्सार्य
वामपार्ष्णिघातत्रयेण भौमान्विघ्नानुत्सार्य
फडितिसप्तजप्तान्विकारा नादाय : ओं अपसर्पन्तु ते भूता ये
भूता भूवि संस्थिताः ये भूता विघ्नकर्त्तारस्ते नश्यन्तु
शिवाज्ञया । इति तान्विकिरेत् ।। २ ।।
लाजचन्दनसिद्धार्थभस्मदूर्वाकुशाक्षताः विकिरा इति
सन्दिष्टाः सर्वाविघ्नौघनाशकाः ।। ३ ।।
तथा : अनन्तरं देशिकेन्द्रो विद्यदृष्ट्यावलोकनैः ।
दिव्यानुत्सारयेद्विघ्नात् अस्त्राद्भिश्चान्तरीक्षगान् ।
पार्ष्णिघातैस्त्रिभिभौमान् । इति विघ्नान्निवारयेत् ।। ४ ।।
ततोऽक्षतान्समादाय दक्षे नाराचमुद्रया ।
प्रक्षिपेदस्त्रमन्त्रेण गृहान्तर्विघ्नशान्तये । अपसर्पन्तु ते इति
मन्त्रेण चादरात् । इति शारदीयात् ।। ५ ।।
सम्मोहनतन्त्रे : विकिरान्विकरेत्तत्र सप्तजप्तान्शरानुना इति ।
ततो ह्रीं आधारशक्तिकमलासनाय नमः इत्यासनं संपूज्य
धृत्वा पठेत् । आसनमन्त्रस्य मेरुपृष्ठ-ऋषिः सुतलं छन्दः
कूर्मो देवता आसनपरिग्रहे विनियोगः । ओं पृथ्वि त्वया धृता लोका
देवि त्वं विष्णुना धृता । त्वञ्च धारय मां नित्यं पवित्रं
कुरु चासनम् । इति पठित्वा स्वस्तिकाद्याः सनेनोपविशेत्, उपविश्य
विघ्नानुत्सारयेत् ।। ६ ।।
तन्त्रान्तरे : आदौ विघ्नान्समुत्सायं
पश्चादासनकल्पनम् । अथवा चासने स्थित्वा
विघ्नानुत्सारयेत्सुधीः ।। ७ ।। ततः पञ्चगव्येन मूलेन
मण्डपं शोधयेत् ।
तत्प्रमाणन्तु गौतमीये : पञ्चगव्येन तद्गेहं
मण्डपञ्च विशोधयेत् ।। ८ ।।
पञ्चगव्यप्रमाणन्तु तत्रैव : पलमात्रं दुग्धभागं
गोमूत्रं तावदिष्यते । घृतञ्च पलमात्रं स्याद्गोमयं
तोलकद्वयम् । दधि प्रसृतिमात्रं स्यात्पञ्च गव्यमिदं स्मृतम् ।।
९ ।।
अथवा : पञ्चगव्यानां समानो भाग इष्यते ।
मूलमन्त्रेण सम्मन्त्र्य तेनैव परिशोधयेत् । तेन सर्वविशुद्धिः
स्यात्सर्वपापनिकृन्तनम् ।। १० ।। ततो दक्षिणभागे पूजाद्रव्याणि
वामभागे सुवास्तिताम्बुपूर्ण कुम्भं हस्तक्षालनार्थं
पात्रान्तरं पृष्ठदेशे स्थापयेत्, सर्वदिक्षु घृतप्रदीपांस्तु
स्थापित्वा पुटाञ्जलिर्भूत्वा वामे ओं गुरुभ्यो नमः ओं
परमगुरुभ्योनमः ओं परापरगुरुभ्यो नमः दक्षिणे ओं
गणेशाय नमः मध्ये ओं अमुकदेवतायै नमः ।
तथा च : कृताञ्जलिपुटो भूत्वा वामे गुरुत्रयं यजेत् ।
गुरुञ्च परमादिञ्च परापरगुरुं तथा । दक्षिणे च
गणेशञ्च मूर्ध्निं देवं विभावयेत् ।। ११ ।। ततः फडिति
मन्त्रेण गन्धपुष्पाभ्यां करौ संशोध्य
ऊर्ध्वोर्धतालत्रयं दत्त्वा छोटिकाभिर्दशदिग्बन्धनं कुर्यात्
। ततो रमिति जलधारया वह्निप्राकारं विचिन्त्रयेत् ।। १२ ।। ततो
भूतशुद्धि । ततो मातृकान्यासः । ततः प्राणायामः । ततः
पीष्ठन्यासः । ततो ऋष्यादिन्यासः । ततो मन्त्रन्यासः । ततो
मुद्राप्रदर्शनम् । ततो ध्यानम् । ततो मानसपूजा ।
ततोऽर्घ्यस्थापनम् ।। १३ ।।
तद्यथा : अर्घ्यस्य त्रीणि पात्राणि पाद्यस्यऽपि त्रयं भवेत्
। तथैवाचमनीयादिपात्राणि च विभागशः । तथा
करणदौर्बल्यादेकमेव प्रशस्यते । षडाचमनपात्राणि इति
आगमान्तरे पाष्ठः ।। १४ ।।
पुरश्चरणचन्द्रिकायाम् : एकस्मिन्नथवा पात्रे पाद्यादीनि
प्रकल्पयेत् । इत्यत्यन्ताशंविषयम् । किन्तु
सामान्यार्घ्यविशेषार्घ्यद्वयस्यावश्यकत्वम् ।। १५ ।।
तथा च नवरत्नेश्वरे : एकपात्रं न कर्त्तव्यं यदि
साक्षान्महेश्वरः । मन्त्राः पराङ्मुखा यान्ति आपदस्तु पदे
पदे । इहलोके दरिद्रः स्यान्मृते च पशुतां व्रजेत् ।। १६ ।।
तथा राघवभट्टधृतचचनम् : सर्वत्रैव प्रशस्तोऽजः
शिवसूर्यार्चनं विना । अजः शङ्खः ।। १७ ।।
अर्घ्यपात्रस्य मानमाह लैङ्गे : षट्त्रिशदंगुलं
पात्रमुत्तमं परिकीर्तितम् । मध्यमन्तु त्रिभागोनं कनीयो
द्वादशांगुलम् ।। १८ ।। स्ववामे त्रिकोणमण्डलं कृत्वा, तदुपरि
त्रिपदिकामारोप्य, फडिति शङ्खं प्रक्षाल्य तदुपरि संस्थाप्य
। नमः इति मन्त्रेण गन्धपुष्पाक्षतदूर्वादि तत्र निक्षिप्य
विमलजलेन । विलोममातृकया मूलेन च पूजयेत् ।
यथा : क्षं लं हं सं षं शं वं लं रं यं
मं भं बं फं पं नं धं दं थं तं णं ढं
डं ठं टं ञं झं जं छं चं ङं घं गं खं
कं अः अं औं ओं ऐं एं ॡं ऌं ॠं ऋं ऊं उं ईं इं
आं अं इत्यनेन ।। १९ ।। मं वह्निमण्डलाय दशकात्मने नमः
इति त्रिपदिकायां, अं सूर्यमण्डलाय द्वादशकलात्मने नमः
इति शङ्खे, उं सोममण्डलाय षोडशकलात्मने नमः इति जले
सम्पूज्य, ओं गङ्गे च यमुने चैव गोदावरि सरस्वति । मर्मदे
सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु । इत्यनेनांकुशमुद्रया
सूर्यमण्डलात्तीर्थाण्यावाह्य अमुकि इहावह इह तिष्ठ इति
स्वहृदयाद्देवतां तत्रावाह्य, हुं इति तर्जनीभ्यामवगुण्ठ्य,
वषडिति गालिनीमुद्रां प्रदर्श्य, वौषडिति तज्जलं वीक्ष्य,
पुनरङ्गमन्त्रैः सकलीकृत्य, गन्धपुष्पाभ्यां नमः इति तत्र
देवतां सम्पूज्य, तदुपरि मत्स्यमुद्रया आच्छाद्य,
मूलमन्त्रमष्टधा जपेत् ।। १९ क ।।
तथा च गौतमीये : गन्धपुष्पैः समभ्यर्च्य
कृष्णाख्यं तत्र योजयेत् । अष्टकृत्वो जपेन्मन्त्रं शिखया
गालिनीं न्यसेत् । अत्र कृष्णपदं तत्तद्देवतापरम् ।। २० ।। ततो वमिति
मन्त्रेण धेनुमुद्रां प्रदर्श्यास्त्रेण संरक्ष्य
तस्मात्किञ्चिज्जलं प्रोक्षणीपात्रे निक्षिप्य तेनोदकेनात्मानं
पूजोपकरणञ्च मूलेन त्रिरभ्युक्ष्य पीठन्यासक्रमेण शरीरे
धर्मादीन्पूजयेत् ।। २१ ।।
तद्यथा : दक्षिणस्कन्धे ओं धर्माय नमः । वामे ओं
ज्ञानाय नमः, वामोरी ओं वैराग्याय नमः, दक्षिणोरौ ओं
ऐश्वर्याय नमः, मुखे ओं अधर्माय, वामापार्श्वे ओं
अज्ञानाय, नाभौ ओं अवैरग्याय, दक्षिणपार्श्वे ओं अनैश्वर्याय,
सर्वत्र प्राणवादिनमोऽन्तेन पूजयेत् ।। २२ ।।
तथा च शारदायाम् : अंसोरुयुग्मयोर्विद्वान
प्रादक्षिण्येन देशिकः । धर्म ज्ञानञ्च
वैराग्यमैश्वर्याञ्चाप्यनुक्रमात् । मुख - पार्श्व -
नाभिपार्श्वेष्वधर्मादीन्प्रकल्पयेत् ।। २३ ।। हृदये ओं अनन्ताय, ओं
पद्माय, ओं अर्कमण्डलाय द्वादशकलात्मने, ओं सोममण्डलाय
षोडशकलात्मने, मं वह्निमण्डलाय दशकलात्मने नमः ।
एवं सं सत्त्वाय, रं रजसे, तं तमसे, आं आत्मने, अं
अन्तरात्मने, पं परमात्मने, ह्रीं ज्ञानात्मने, प्रणवादि -
नमोऽन्तेन पूजयेत् ।। २४ ।।
शरादायाम् : न्यासक्रमेण देहेषु धर्मादीन्पूजयेदथ ।
पुष्पाद्यैः पीठमन्वन्तं तस्मिंश्च परदेवताम् ।। २५ ।। ततो
हृत्पद्मस्य पूर्वादिकेशरेषु पीष्थशक्तिं सम्पूज्य मध्ये
पीठमनु यजेत् । तत्र हृदये मूलदेवतां नैवेद्यं विना
गन्धाद्यैः पूजयेत् ।। २६ ।।
तथा च निबन्धे : विना नैवेद्यं गन्धाद्यैरुपचारैः
समर्चयेत् । तत उत्तमाङ्गं -
हृदयमूलाधारपादसर्वाङ्गेषुमूलेन पञ्चपुष्पाञ्जलिं
दत्वा यथाशक्ति मन्त्रं जप्त्वा ओं
गुह्यातिगुह्यगोप्त्रीत्वमित्यादिना जपं समर्पयेत् ।। २७ ।।
तथा च निबन्धे : पञ्चकृत्तस्ततः
कुर्यात्पुष्पाञ्जलिमनन्यधीः ।
उत्तमाङ्गहृदाधारपादसर्वाङ्गकं न्यसेत् ।
सर्वमेतत्प्रोक्षणीपात्रस्थवारिणा विदध्यात् ।। २८ ।। ततः
प्रोक्षण्यास्तोयं विसृज्य पूर्ववदापूर्य वहिःपूज्जामारभेत् ।
तत्रः वक्ष्यमाणशारदोक्तसर्वतोभद्रमण्डलाद्यन्यतमं
विद्याय तत्र पूजयेत् । ओं मण्डलाय नमः इति मण्डलं
सम्पूज्य, शालिभिः तत्र पूजयेत् । ओं मण्डलाय नमः इति
मण्डलं सम्पूज्य, शालिभिः कर्णिकामापूर्य, तदुपरि
तण्डुलान्विकीर्य, तेषु दर्भानास्तीर्य, विष्टरं
चाक्षतसंयुक्तं तदुपरि न्यसेत् : ततो मण्डले एताः पूजयेत् ।
तद्यथा : पीठमध्ये ओं आधारशक्तये नमः, ओं कूर्माय
नमः इत्यादि पीठमन्वन्तं तत्तत्पटलोक्त - पीठपूजां कुर्यात्
। ततो मण्डले प्रादक्षिण्येन एताः पूजयेत् : ओं य धूमार्विषे
नमः इत्यादिवक्ष्यमाणवह्नेर्दशकला विन्यस्य पूजयेत् । ततो
हेमादिरचितं कुम्भं फडिति प्रक्षाल्य,
चन्दनागुरुकर्पूरैर्धूपयित्वा त्रिगुणतन्तुना संवेष्ट्य, ओं
कुम्भाय नमः इति गन्धपुष्पाभ्यां सम्पूज्य,
विष्टराक्षतनवरत्नानि च प्रक्षिप्य,
प्रणवमुच्चरन्कुम्भपीठयोरैक्यं विभाव्य, पीठे स्थाप्येत् ।।
२९ ।।
गौतमीये कुम्हविधानन्तु : हैमं रौप्यं तथा ताम्रं
मार्तिकं वा स्वशक्तितः । वित्तशाठ्यं न कुर्वीत कृते
निष्फलमाप्नुयात् ।। ३० ।। षट्त्रिंशदंगुलं
कुम्भविस्तारोन्नतिशालिनम् । षोडशं द्वादशं वापि ततो
न्यूनं न कारयेत् ।। ३१ ।। ततः कुम्भे प्रादक्षिण्येन सूर्यास्य ओं
कं भं तपिन्यै नमः इति द्वादशकला विन्यस्य पूजयेत् । ततः
क्षीरिद्रुमकषायेण पलाशत्वग्भवेन वा तीर्थोदकैर्वा
गन्धपुष्पसुवासित जलेर्वा आत्माभेदेन मातृकां प्रतिलोमतो
देयमन्त्रञ्च जपन्पूजयेत्कुम्भं देवताधिया ।
ततश्चन्द्रस्यामृतादिषोडशकला जले प्रादक्षिण्येन विन्यस्य, ओं
अं अमृतायै नमः इत्यादिना सम्पूज्य, शङ्खान्तरं
क्षीरिद्रुमकषायादिद्रव्यैरापूर्य गन्धाष्टकं विलोड्य
तस्मिञ्जले सकलाः कला आवाह्य पूजयेत् ।। ३२ ।।
शरादायाम् : गन्धाष्टकं तु त्रिविधं
शक्तिविष्णुशिवात्मकम् । चन्दनागुरुकर्पूरचोरकुंकुमरोचनाः
। जटामांसी कपियुता शक्तेर्गन्धाष्टकं विदुः ।। ३३ ।।
चन्दनागुरुह्रीवेरकुष्ठकुंकुमसेव्यकाः । जटामांसी सुरमिति
विष्णोर्गन्धाष्टकं स्मृतम् ।। ३४ ।।
चन्दनागुरुकर्पूरतमालजलकुंकुमम् । कुशीदं
कुष्ठसंयुक्तं शैवं गन्धाष्टकं स्मृतम् ।। ३५ ।।
अस्यार्थः : चन्दनागुरु कर्पूर कृष्णशठी कुंकुम
रोचना जटामांसी गाठियाला शक्तेर्गन्धाष्टकम् ।
चन्दनागुरु बाला कुड कुंकुम श्वेतवीरण मूल जटामांसी
देवदरु इति विष्णोः । चन्दनागुरु कर्पूर तमाल बाला कुंकुम
रक्तचन्दन कुड इति शिवस्य ।। ३६ ।। तत्रादौ वह्नेर्दशकलाः
पूजयेत् । यथा : वह्नेर्धूआर्चिरादिदशकला इहागच्छत
इहागच्छत इह तिष्ठत तिष्ठत इह सन्निहिता भवत इत्यावाहयेत् ।
ततो मूलमन्त्रं प्रतिलोमतो जपन्मन्त्रस्य देवतां मनसा
ध्यायन् आसां प्राणप्रतिष्ठां कुर्यात् ।
तद्यथा : आं ह्रीं क्रौं हं सः
धूमार्चिरादिवह्निदशकलानां प्राणाः इह प्राणाः एवं
आमित्यादि धूमार्चिरादिवह्निदशकलानां जीव इह स्थितः एवं
आमित्यादि धूर्चिरादिवह्निदशकलानां सर्वेन्द्रियाणि एवं
आमित्यादि धूमार्चिरादिवह्निदशकलानां वाङ्मनश्चक्षुः
श्रोत्र - घ्राण - प्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा
इति प्राणान्प्रतिष्ठाप्य गन्धादिभिः पूजयेत् । ओं
धूमार्चिरादिभ्य एष गन्धो नमः । इत्यादिना पञ्चोपचारैः
पूजयेत् । ततः प्रत्येकेन पूजयेत् ।। ३७ ।।
तद्यथा : यं धूमार्चिषे नमः । रं उष्मायै नमः ।
लं ज्वलिन्यै नमः । वं ज्वालिन्यै नमः । शं विस्फुलिङ्गिन्यै
नमः । यं सुश्रियै नमः । सं सुरूपायै नमः । हं कपिलायै
नमः । लं हव्यवाहनायै नमः । क्षं कव्यवाहनायै नमः
। शक्तश्चेत्प्रत्येकमावाह्य पाद्यादिभिः पूजयेत् । ततः सूर्यास्य
तपिन्यादि द्वादशकलाः पूर्ववत्प्राणप्रतिष्ठावाहनादिकं
कृत्वा पूजयित्वा च प्रत्येकन्तु पूजयेत् ।
द्वादशकला यथा : तपिनी धूम्रा मरीचिर्ज्वलिनो रुचिः ।
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा । एताः कलास्तु
सूर्यास्य सूर्यमण्डलसंस्थिताः ।
तद्यथा : कं भं तपिन्यै नमः । खं बं तापिन्यै
नमः । गं फं धूम्रायै नमः । घं पं मरीच्यै नमः ।
ङं नं ज्वलिन्यै नमः । चं धं रुच्यै नमः । छं दं
सुषुम्नायै नमः । जं खं भोगदायै नमः । झं तं
विश्वायै नमः । ञं णं बोधिन्यै नमः । टं ढं
धारिण्यै नमः । ठं डं क्षमायै नमः । इति पूजयेत् ।
शक्तश्चेत्प्रत्येकमावाह्य प्रत्येकं पाद्यादिभिः पूजयेत् ।
तथा निबन्धे : कभाद्या वसुदाः सौराः ठडान्ता
द्वादशेरिताः ।। ३७ क ।। ततश्चन्द्रस्यामृतादिषोडशकलाः
प्राणप्रतिष्ठादिकं कृत्वा पूर्ववत्पूजयेत् ।
तद्यथा : अं अमृतायै नमः । आं मानदायै नमः, इं
पूषायै नमः । ईं तुष्ट्यै नमः । उं पुष्ट्यै नमः । ऊं
रत्यै नमः । ऋं धृत्यै नमः । ॠं शशिन्यै नमः । ऌं
चन्द्रिकायै नमः । ॡं कान्त्यै नमः । एं ज्योत्स्नायै नमः ।
ऐं श्रिये नमः । ओं प्रीत्यै नमः । औं अङ्गदायै नमः । अं
पूर्णायै नमः । अः सृष्ट्यादि - पञ्चाशत्कलाः पूजयेत् ।
यथा : सृष्ट्यादिकवर्गचवर्गदशकलाः
पूर्ववत्प्राणप्रतिष्ठादिकं कृत्वा प्रत्येकं पूजयेत् ।
प्रत्येकपूजनन्तु : कं सृष्ट्यै नमः, खं ऋद्ध्यै नमः,
गं स्मृत्यै नमः, घं मेधायै नमः । ङं कान्त्यै नमः,
चं लक्ष्म्यै नमः, छं धृत्यै नमः, जं स्थिरायै नमः,
झं स्थित्यै नमः, ञं सिद्ध्यै नमः ।
शक्तश्चेत्प्रत्येकमावाह्य पाद्यादिभिः पूजयेत् । तत्र ओं हंसः
सुचिसद्वसुरन्तरीक्षसद्धोता
वेदिषदतिर्थिर्दुरोनसन्नृषद्वरसदृतसद्वयोम सदजा गोजा ऋतजा
अद्रिजा ऋतं वृहदिति जप्त्वा आवाह्य शङ्खे पूजयेत् । ततो
जवादिटतप - वर्गर्दशकलाः पूर्ववत्प्राणप्रतिष्ठादिकं
कृत्वा पूजयेत् ।। ३८ ।।
यथा : टं जवायै नमः, ठं पालिन्यै नमः, डं
शान्त्यै नमः, ढं ऐश्वर्यै नमः, णं रत्यै नमः, तै
कामिकायै नमः, थं वरदायै नमः, दं ह्लादिन्यै नमः,
धं प्रीत्यै नमः, नं दीर्घायै नमः, सर्वत्र
शक्तश्चेत्प्रत्येकमावाह्य पूजयेत् । ततः ओं प्रतद्विष्णुस्तवते
वीर्येण मृगो न भीमः कुचरो गिरिष्ठा यस्योरुषु त्रिषु
विक्रमणेषधिक्षियन्ती भुवनानि विश्वा इति जप्त्वा आवाह्य
पूजयेत् । ततस्तीक्ष्णादिपयवर्गदशकलाः
पूर्ववत्प्राणप्रतिष्ठादिकं कृत्वा पूजयेत् । यथा - पं
तीक्ष्णायै नमः, फं रौद्रायै नमः, बं भयायै नमः,
भं निद्रायै नमः, मं त्रन्त्र्यै नमः, यं क्षुधायै नमः,
रं क्रोधिन्ये नमः, लं क्रियायै नमः, वं उत्कारिण्यै नमः,
शं मृत्यवे नमः । सर्वत्र शक्तश्चेत्प्रत्येकमावाह्य
पाद्यदिभिः पूजयेत् । ततो ओं त्र्यम्बकं यजामहे सुगन्धिं
पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षोयमामृतात्
इति जप्त्वा वाह्य पाद्यादिभिः पूजयेत् । ततः
पीतदिषवर्गपञ्चकलाः पूर्ववत्प्राणप्रतिष्ठादिकं
कृत्वावाह्य पाद्यादिभिः पूजयेत् । यथा : यं पीतायै नमः,
सं श्वेतायै नमः, हं अरुणायै नमः, लं असितायै नमः,
क्षं अनन्तायै नमः । शक्तश्चेत्प्रत्येकमावाह्य पूजयेत् । ततः
ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव
चक्षुराततम् इति जप्त्वा विष्णुं स्मरेत् । ततो विवृत्त्यादि षोडशकला
पूर्ववत्प्राणप्रतिष्ठादिकं कृत्वा आवाह्य पाद्यादिभिः
पूजयेत् ।
यथा : अं निवृत्त्यै नमः, आं प्रतिष्ठायै, ईं विद्यायै,
ईं शान्त्यै, उं गन्धिकायै, ऊं दीपिकायै, ऋं रेचिकायै, ॠं
मोचिकायै, ऌं परायै, ऌं सूक्ष्मायै, एं सूक्ष्मामृतायै,
ऐं ज्ञानामृतायै, ओं आप्यायिन्यै, औं व्यापिन्यै, अं
व्योमरूपायै, अः अनन्तायै नमः । शक्तश्चेत्प्रत्येकमावाह्य
पाद्यादिभिः पूजयेत् । ओं तद्विप्रासो विपण्यवो जागृवांसः
समिन्धते विष्णोर्यत्परमं पदं विष्णुर्योनिं प्रकल्पयतु
त्वष्टा रूपाणि पिंषतु । असिञ्चतु प्रजापतिर्धाता गर्भं
दधातु ते । ओं गर्भं देहि सिनीवालि गर्भं देहि सरस्वति । गर्भन्ते
आश्विनौ देवावाधत्तां पुष्करस्रजाविति जप्त्वावाह्य पूजयेत् ।
ततः कलात्मकं तत्शङ्खस्थं क्वाथं कुम्भे निक्षिपेत् ।। ३८ क
।। ततोऽश्वत्थपनसचूत्पल्लवैरिन्द्रवल्लीवेष्टितैः
कल्पवृक्षबुद्ध्या कुंभवक्त्रं पिधाय, तस्मिन्कुम्भवक्त्रे
सफलाक्षतं चषकं कल्पवृक्षफलबुद्ध्या स्थापयेत् । ततः
कुम्भं निर्मलेन क्षौमयुग्मेन संवेष्ट्य, मूलेन कुम्भे
मूर्तिं सङ्कल्प्य, यथोक्तरूपेण देवतां ध्यात्व,
तत्रावाहनं कृत्वा पूजयेत् ।। ३९ ।।

तसा० ४

अथा : मूलमन्त्रमुच्चरन् अमुक इहागच्छ इहागच्छ इह
तिष्ठ इह तिष्ठ इह सन्निधेहि इह सन्निधेहि इह सन्निरुध्यस्व
इत्यावाहनादिकं कृत्वा, हुं इत्यवगुण्ठ्य, देवताङ्गे
षडङ्गन्यासं कृत्वा, वमिति धेनुमुद्रया अमृतीकृत्य,
परमीकरणमुद्रया परमीकुर्यात् । ततः प्राणप्रतिष्ठां
कृत्वा षोडशोपचारैः पूजयेत् ।। ३९ क ।।

यथा : मूलमुच्चार्य इदमासनं अमुकदेवतायै नमः,
अमुकदेव स्वागतन्ते इति स्वागतम् । ततो मूलमुच्चार्य एतत्पाद्यं
अमुकदेवतायै नमः इति पादाम्बुजे दद्यात् ।
एतत्श्यामादूर्वाब्जविष्णुक्रान्ताभिरीतम् । अर्घ्यं
अमुकदेवतायै स्वाहा इति
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपदूर्वात्मकमर्घ्यं
शिरसि दद्यात् । वैष्णवे तु अर्घ्यादिक्रमेणैव देयमिति वदन्ति । ततो
मूलमुच्चार्य इदमाचमनीयं अमुकदेवतायै स्वधा इति
जातीलवङ्गकक्कोलात्मकमाचमनीयं वदने दद्यात् ।
स्वधामन्त्रेण वदने दद्यादाचमनीयकं इत्यत्रसुधापाठं
कुर्वन्तः सुधाशब्दस्यामृतवाचकत्वादमृतवाचकशब्दाद्य
जलवाचकत्वादिदमाचमनीयं वमिति वदन्ति ।। ४० ।।
तथा च : मधुपर्कं ततो दद्याज्जलमन्त्रेण देशिकः इति
वचनात् । न च मधुपर्कमात्रविषयमिदं । स्वधानुना ततः
कुर्यान्मधुपर्कं मुखाम्बुजे । तेनैव मनुना
कुर्यादद्भिराचमनीयकम् ।। इति वचनात् ।
तथा : वारुणेन च मन्त्रेण दद्यादाचमनीयकम्
इत्यादिवचनविरोधात् । एतद्वचनं शूद्रविषयकमिति केचित् ।
वस्तुतस्तु इच्छाविकल्पः । मैथिलास्तु स्वधा इति पाठं कुर्वन्ति न
सुधेति वकारस्य त्यागाबोधकत्वात् । किञ्च
त्यागार्थकस्वाहाशब्देनार्घ्यदानविधानात्,
तत्समभिव्याहृताचमनीयदाने त्यागार्थबोधकत्वेन
स्वधामन्त्रो युज्यते न तु सुधेत्याहुः ।। ४१ ।।
तथा : स्वधेत्याचमनीयञ्च त्रिवारं मुखपङ्कजे ।
स्वधेति मधुपर्कञ्च पुनराचमनीयकमिति
सोमशम्भुधृतवचनात् । एके पुनर्जलमन्त्रेण देशिकः ।
वारुणेन च बीजेन इत्यत्र सहार्थे तृतीयां वदन्तः
इदमाचमनीयं अमुकदेवतायै वं स्वधेति मन्यन्ते । ततो
मधुपर्कः स्वधा इति मधुपर्कं दद्यात् ।। ४२ ।। आज्यं
दधिमधून्मिश्रं मधुपर्कं विदुर्बुधाः । एवं
पुनराचमनीयं स्वधेति । ततः स्नानीयं निवेदयामि, ततो
वस्त्रयज्ञोपवीतानि दद्यात् । ततः आभरणं नमः, एष गन्धे
नमः, स च गन्धश्चन्दनकर्पूरकालागुरुभिरीतः ।। ४३ ।। ततो
मन्त्रपुटितमातृकावर्णेन तत्तन्न्यासस्थानानि पूजयित्वा एतानि
पुष्पाणि वौषट् इति । सर्वत्र दाने मूलमन्त्रोच्चारणम् ।। ४४ ।।

ततः आवरणपूजा ।। ४५ ।।

ततो गुग्गुल्वगुरूशीरशर्करामधुचन्दनधृतात्मकं
धूपं दद्यात् ।।
तया च शारदायाम् :
गुग्गुल्वगुरूशीरशर्करामधुचन्दनैः
धूपयेदाज्यसम्मिश्रैर्नीचैर्देवस्य देशिकः ।। ४६ ।।
विशेषस्तु तत्रैव : सिताज्य - मधुसम्मिश्रं
गुग्गुल्वगुरुचन्दनम् । षडङ्गं धूपयेतत्तु सर्वदेवप्रियं
सदा । रोगरोगहररोगदकेशाः सुरतरुजतुलघुपत्र विशेषाः ।
वक्रविवर्जितवारिजमुद्रा धूपवर्तिरिह सुन्दरि भद्रा ।।
अस्यार्थः : कुड - हरीतकी - गुड - जटामांसी - देवदारु
- जतु - अगुरु - तेजपत्र सरल - नखी मुथाः ।। ४७ ।।
तथा : गुग्गुलं सरलं दारु पत्रं मलयसम्भवम् ।
ह्रीवेरमगुरुं कुष्ठं गुडं सज्जरसं घनम् । हरीतकीं
नखीं लाक्षां जटामांसीञ्च शैलजम् । षोडशाङ्गं
विदुर्धूपं दैवे पैत्रे च कर्मणि । मधु मुस्तं घृतं गन्धो
गुग्गुल्वगुरु शैलजम् । सरलं शिह्लसिद्धार्थं दशाङ्गो धूप
उच्यते ।। ४८ ।।

ततः कर्पूरगर्भिण्या वर्तिकया दीपं दद्यात् ।।

तथा च : वर्त्त्या कर्पूरगर्भिण्या सर्पिषा तिलजेन वा ।
आरोप्य दर्शयेद्दीपानुच्चैः सौरभशालिनः । इति शारदाधृतम् ।।
४९ ।।
विशेषस्तु : तत्र तत्र जलं दद्यादुपचारान्तरान्तरे ।
मधुपर्के च वस्त्रे च दयादाचमनीयकम् । ततो नैवेद्यानि दद्यात्
।। ५० ।।
गन्धादिदाने विशेषस्तु तन्त्रान्तरे :
मध्यमानामिकांगुष्ठैरंगुल्यग्रेण पार्वति । दद्याच्च
विमलं गन्धं मूलमन्त्रेण साधकः ।। ५१ ।।
अंगुष्ठतर्जनीभ्यान्तु चक्रे पुष्पं निवेदयेत् । यथा गन्धं
तथा देवि धूपं दद्याद्विचक्षणः ।। ५२ ।।
मध्यमानामिकाभ्यान्तु मध्यपर्वणि देशिकः ।
अंगुष्ठाग्रेण देवेशि धृत्वा धूपं निवेदयेत् ।। ५३ ।। उत्तोलनं
त्रिधा कृत्वा गायत्र्या मूलयोगतः । तत्त्वाख्यमुद्रया देवि
नैवेद्यन्तु निवेदयेत् ।। ५४ ।। मूलेना चमनं दद्यात्ताम्बूलं
तत्त्वमुद्रया । धूपभाजनमन्त्रेण प्रोक्ष्याभ्यर्च्य
हृदामुना ।। ५५ ।। अस्त्रेण पूजितां घण्टां वादयन्गुग्गुलुं
दहेत् । ततः समर्पयेद्धूपं घण्टावाद्यजयस्वनैः ।। ५६ ।।
तथा : जयध्वनि तथा मन्त्रमातः स्वाहेत्युदीर्यते ।
अभ्यर्च्य वादयेद्घण्टां सुधूपैर्धूपयेत्ततः ।। ५७ ।।
तन्त्रे : न भूमौ वितरेद्धूपं नासने न घटे तथा ।। ५८ ।।
तथा च गौतमीये : उत्तार्य दृष्टिपर्यन्तं घण्टां
वामदिशि स्थिताम् । वादयन्वामहस्तेन दक्षहस्तेन चार्पयेत् ।।
एवं दीपदानेऽपि घण्टावादनम् ।। ५९ ।।
यामले : निवेदयेत्पुरोभागे गन्धं पुष्पञ्च भूषणम् ।
दीपं दक्षिणतो दद्यात्पुरतो वा न वामतः ।। ६० ।। वामतस्तु
तथा धूपमग्रे वा न तु दक्षिणे । नैवेद्यं दक्षिणे वामे
पुरतो वा न पृष्ठतः ।। ६१ ।। वामदक्षिणभागस्तु देवताया एव
न तु साधकस्य । धूपदीपौ सुभोज्यञ्च देवताग्रे निवेदयेत् इति
दर्शनात् ।। ६२ ।।
घृतयुक्तं दक्षिणे तैलयुक्तं वामे । एवं सिता
वर्तिश्चेद्दक्षिणे रक्ता चेद्वामे । सम्मुखे तु न नियमः ।
पक्वञ्च देवतावामे आमान्नञ्चैव दक्षिणे ।। ६४ ।।
तथा च पुरश्चरणचन्द्रिकायाम् : दक्षिणन्तु परित्यज्य
वामे चैव निधापयेत् । अभोज्यं तद्भवेद्दन्नं पानीयञ्च
सुरोपमम् । इति साम्प्रदायिकाः ।। ६५ ।।
तथा च यामले : दीपं घृतयुतं दक्षे तैलयुक्तञ्च
वामतः । दक्षिणे च सितावर्तिं वामतो रक्तवर्तिकम् ।
पक्वापक्वविधानेन नैवेद्येष्विति तत्स्थितिः । पुरतो नियमो नास्ति
दीपनैवेद्ययोः क्वचित् ।। ६६ ।। ततो वन्दनं । ततोऽष्टोत्तरसहस्रं
शतं वा संजप्य गुह्यातीत्यादिना जपं समर्पयेत् ।। ६७ ।। अथ
मन्त्रस्य दशसंस्कारान्पूर्वोक्तेन प्रकारेण कृत्वा गुरुः
शिष्यमानीय वौषडितिमन्त्रेण शिष्यनेत्रं वस्त्रेणाच्छाद्य
शिष्याञ्जलिं पुष्पैः पूरयित्वा गुरुः स्वयमेव मन्त्रमुच्चरन्
कलसे पुष्पाञ्जलिं देवताप्रीत्यै क्षेपयेत् । ततो नेत्रबन्धनं
दूरीकृत्य दर्भास्तरे शिष्यं उपवेश्य स्वकृत्पूजाक्रमाद्-
भुतशुद्ध्यादिकं विद्याय तत्तन्मन्त्रोक्तन्यासान् शिष्यदेहे
कुर्यात् । कुम्भस्थां देवतां पुनः पञ्चोपचारैः सम्पूज्य
अलंकृतं शिष्यमन्यस्मिन्नुपवेशयेत् । ततो
मङ्गलाचारपूर्वकं कुम्भं समुद्धृत्य,
तन्मुखस्थान्सुरद्रुमरूपान्पल्लवांशिष्यस्य शिरसि निधाय,
मातृकां मनसा जपं मूलेन
साधितैस्तोयैर्वसिष्ठसंहितोक्ताभिषेकमन्त्रैस्तमभिषिञ्चेत् ।। ६८
।। ततः शिष्यः अवशिष्टजलेनाचम्य, वाससी परिधाय, गुरोः
सन्निधावुपविशेत् । ततस्तामेव गुरुरात्मनो देवतां
शिष्यसंक्रान्तां तयोरैक्यं सम्भावयन, गन्धादिभिः
पूजयेत् । ततः ओं सहस्रारे हु/ फडिति मन्त्रेण शिष्यशिखां
बध्वा संरक्ष्य शिष्यशरीरे कलान्यासं कुर्यात् ।
तद्यथा : कुशत्रयेण पादतलाज्जानुपर्यन्तम् ओं निवृत्त्यैं
नमः । जानुनोर्नाभिपर्यन्तम् ओं प्रतिष्ठायै नमः ।
नाभेराकण्ठम् ओं विद्यायै नमः । कण्ठादाललाटम् ओं
शान्त्यै नमः । ललाटाद्ब्रह्मरन्ध्रान्तम् ओं शान्त्यतीतायै
नमः । पुनर्ब्रह्मरन्ध्रादाललाटम् ओं शान्त्यतीयै नमः ।
ललाटादाकण्ठम् ओं शान्त्यै नमः । कण्ठानाभिपर्यन्तम् ओं
विद्यायै नमः । नाभेर्जानुपर्यन्तम् । ओं प्रतिष्ठायै नमः ।
जानुनोः पादपर्यन्तम् ओं निवृत्त्यै नमः ।। ६९ ।। ततः शिष्यस्य
शिरसि हस्तं दत्त्वा, देयमन्त्रमष्टोत्तरशतं जप्त्वा,
अमुकमन्त्रं तेऽहं ददामिति शिष्यहस्ते जलं दद्यात् ततो
ददस्वेति शिष्यो ब्रुयात् ।
तथा च वासिष्ठे : ततस्तत्शिरसि स्वहस्तं दत्त्वा शतं जपेत्
। अष्टोत्तरं ततो मन्त्रं दद्यादुदकपूर्वकम् ।
आवयोस्तुल्यफलदो भवत्वेवमुदीरयेत् ।। ७० ।। ततः
ऋष्.यादिसंयुक्तं मन्त्रं गुरुर्दक्षिणकर्णे त्रिः श्रावयित्वा
वामकर्णे सकृत्श्रावयेत् ।
तथा च गौतमीये : न्यासजलं तय देहे गुरुः संन्यस्य
यत्नतः । दक्षर्णे वदेन्मन्त्रं त्रिवारं पूर्णमानसः ।
दक्षकर्णे इति द्विजातिविषयम् ।। ७१ ।।
तथा च तन्रे : दक्षकर्णे त्रिशो विद्यां एकोच्चारेण चोच्चरेत् ।
एष विधिद्विजातीनां स्त्रीशूद्राणाञ्च वामतः ।। ७२ ।।
रुद्रयामले : गुरुस्तु प्राङ्मुखो भूत्वा शिष्यां
प्रत्यङ्मुखस्थितम् । त्रिवारं दक्षिणे कर्णेवामे चैव तथा
सकृत्फविपरीतं ततो ज्ञेय स्त्रीशूद्राणाञ्च वामतः ।। ७३ ।। ततो
गुरुचरणे पतित एव तिष्ठेत् । त्वत्प्रसादादहं देव कृतकृत्योऽस्मि
सर्वतः । मायामृत्युमहापाशाद्विमुक्तोऽस्मि शिवोऽस्मि च । इति
वदेत् ।। ७४ ।।
ततो गुरः : उत्तिष्ठ वत्स ! मुक्तोऽसि सम्यगाचारवान् भव ।
कीर्तिश्रीकान्तिपुत्रायुर्बलारोग्यं सदाऽस्तु ते । इति उत्थापयेत् ।। ७५ ।।
विश्वसारे : दक्षकर्णे वदेन्मन्त्रं ऋष्यादिकसमन्वितम् ।
तथा तस्मिन्क्षणे देवि जपेन्मन्त्रं शताष्टकम् ।। ७६ ।।
शारदायाम् : गुरोलब्धां परां विद्यामष्टकृत्वो
जपेत्सुधीः । गुरुमन्त्रदेवतानामैक्यंसम्भावयन् धिया ।
एतद्वचनं तत्तद्भावनापरजपविषयं भावनाशून्ये तु
सहस्रम् ।। ७७ ।। गुरुः स्वशक्तिरक्षार्थं सहस्रं शतं वा जपेत् ।
तन्त्रान्तरे : शतं जपेत्तदग्रे तु निकटे त्रिदिनं वसेत् ।
नोचेत्सञ्चारिणीशक्तिर्गुरुमेति न संशयः ।। ७८ ।।
विश्वसारे : अष्टाधिकसहस्रं शतं वाऽपि विधानतः ।
स्वशक्तिरक्षणार्थाय गुरुर्मन्त्रं तदा जपेत् ।। ७९ ।।
यामले : दत्वा मन्त्रं जपेद्देवि शतमोष्टोत्तरं ततः ।। ८०
।। ततः शिष्यः कुशतिलजलान्यादाय ओं अद्य कुतैतत् अमुकदेवताया
अमुक्तमन्त्रग्रहणप्रतिष्ठार्थं । दक्षिणामिदं सुवर्णं
काञ्चनं वा वह्निदैवतं अमुक्तगोत्रायामुक्तदेवशर्मणे
गुरवे तुभ्यमहं सम्प्रददे ।। ८१ ।। शरीरमर्थं प्राणांश्च
सर्वं तस्मै निवेदयेत् । ततः प्रभृति कुर्वीत गुरोः
प्रियमनन्यधीः । यद्यदिष्टतमं लोके मुखे तन्निवेदयेत् ।। ८२ ।।
स्वतन्त्रतन्त्रे दक्षिणानियमो यथा : गुरवे दक्षिणां
दद्यात्प्रत्यक्षाय शिवात्मने । सर्वस्वं वा तदर्धं वा
तदर्धं वा तदाज्ञया । नोचेत्सञ्चारिणी शक्तिः कथमस्य
भविष्यति ।। ८३ ।।
कुलामृते : वित्तशाष्ठ्यं परित्यज्य सर्वकर्मणि साधयेत् ।
वित्तशाढ्यं निहन्त्याशु पुत्रानायुर्यशोधनम् ।। ८४ ।।
गुरुदेवं पञ्चयित्वा यः कुर्याद्धनसञ्चयम् । तेन तद्भुज्यते
नैव ह्रीयते राजतस्करैः ।। ८५ ।। आसनं गुरवे
दद्याद्रक्तकम्बलमेव च । हाराद्याभरणं दद्याद्गाञ्च
दद्यात्पयस्विनीम् ।। ८६ ।। भुमिं वृत्तिकरीं
दद्यात्पुत्रपौत्रानुगामिनीम् ।। ८७ ।।
तथा : गुरवे दक्षिणांदद्यात्स्वर्णं वस्त्रसमन्वितम् ।
गुरुसन्तोषमात्रेण दुष्टमन्त्रोऽपि सिध्यति ।। ८८ ।। अन्यथा नैव
सिद्धः स्यादभिचाराय कल्पते । दीक्षाग्रहणसामग्रीं
गुरवेऽथ निवेदयेत् । अन्यांश्च ब्राह्मणांस्तत्र यत्नतः
परितोषयेत् । ततो मिष्ठान्नपानादिना ब्राह्मणान्परितोष्य स्वयं
भुञ्जीत ।। ८९ ।।
तथा च निबन्धे : ब्राह्मणान्भोजयेत्पश्चात्विधिवद्दिक्षितो
नरः । विप्रेभ्यो दक्षिणां दद्यात्स्वयं भुञ्जीत वाग्यतः ।। ९०
।।
दीक्षादिवसे गुरुशिष्योरुपवासे दिषमाह योगिनीतन्त्रे :
मन्त्रं दत्त्वा गुरुश्चैवमुपवासं यदाचरेत् । महान्धकारे
नरके कृमिर्भवति नान्यथा ।। ९१ ।। दीक्षां कृत्वा यदा मन्त्री
चोपवासं समाचरेत् । तस्य देवः सदा रुष्टः शापं दत्त्वा
व्रजेत्पुरम् ।। ९२ ।। यद्यत्र होमः क्रियते तदा तद्विधानं
वक्ष्यामः । इति कलावतीदीक्षाप्रयोगः ।। ९३ ।।

अथ पञ्चायतनी दीक्षा :

यामले : भवानीन्तु यदा मध्ये ऐशान्यामच्युतं यजेत् ।
आग्नेयां पार्वतीनाथं नै-ऋत्यां गणनायकम् । वायव्यां
तपनञ्चैव पूजाक्रम उदाहृतः ।। ९४ ।।
यदा तु मध्ये गोविन्दमैशान्यां शङ्करं यजेत् ।
आग्नेयां गणनाथञ्च नै-ऋत्यां तपनन्तथा ।। ९५ ।।
वायव्यामम्बिकाञ्चैव भोगमोक्षैकभूमिकाम् । शङ्करञ्च
यदा मध्ये ऐशान्यामच्युतं यजेत् ।। ९६ ।। आग्नेयां
तपनञ्चैव नै-ऋत्यां गणनायकम् । वायव्यां पार्वतीञ्चैव
स्वर्गमोक्षप्रदायिनीम् ।। ९७ ।। आदित्याञ्च यदा मध्ये ऐशान्यां
सङ्करं यजेत् । आग्नेयां गणनाथञ्च आदित्याञ्च यदा
मध्ये ऐशान्यां शङ्करं यजेत् । आग्न्येयां गणनाथञ्च
नै-ऋत्यां केशवं तथा ।। ९८ ।। वायव्यमम्बिकां देवीं
स्वर्गसाधनभूमिकाम् । गणनाथं यदा मध्ये ऐशान्यां
केशवं यजेत् ।। ९९ ।। आग्नेयामीश्वरञ्चैव नै-,र्त्यां
तपनन्तथा । वायव्यां पार्वतीञ्चैव पूजयेन्मोक्षसाधिनीम् ।
स्वस्थानवर्जिता देवा दुःखशोकभयप्रदाः ।। १०० ।।
तथा च गणेशविमर्षिण्याम् : शम्भौ मध्यगते
हरीनहरभूदेव्यो हरौ शङ्करे भास्येनागसुता रवौ
हरगणेशाजम्बिकाः स्थापिताः । देव्यां विष्णुहरैकदन्तरवयो
लम्बोदरेऽजेश्वरे नार्याः शङ्करभागतोऽतिसुहदा व्यास्तास्तु ते
हानिदाः ।। १ ।।
रामार्चनचन्द्रिकायां गौतमीये च : यदा तु मध्ये
गोविन्दमाग्नेयां गणनायकम् । नै-ऋत्यां हसमभ्यर्च्य
वायव्यामर्चयेच्छिवाम् ।। २ ।। ऐशान्यां शङ्करञ्चैव
भोगमोक्षफलाप्तये । इति यदङ्गदेवतायाः पूजने आग्नेयादौ
गणेशादिपूजनमुक्तं तद्रामगोपालविषयमिति केचित् । वस्तुतो
वैकल्पिकमिति साम्प्रदायिकाः ।। ३ ।।
एतेषांपूजनन्तु गौतमीये : गन्धादिभिरथाभ्यर्च्य
षडङ्गार्चनमेव च । विंशकृत्वो जपेन्मन्त्रं नमस्कृत्य
समापयेत् ।। ४ ।। अङ्गदेवतापूजाकालस्तु
पीष्थदेवतापूजानन्तरम् ।।
तथा च सनत्कुमारतन्त्रे :
पीष्ठस्यार्चनमङ्गदेवयजनं प्राणप्रतिष्ठा ततः,
आह्वानं निजमुद्रिकविरचनं ध्यानं प्रभोः पूजनम् ।। ५ ।।
यत्तुः देवे पुष्पाञ्जलिं दत्वा अङ्गदेवान्समर्चयेत् । तत्तु
प्रतिष्ठितप्रति मादियन्त्रादिविषयम् ।। ६ ।।
यन्त्रातिरिक्ताधारे पूजने तु कुलावल्याम् : एकपीठे
पृथक्पूजां विना यन्त्रं करोति यः । अङ्गाङ्गित्वं परित्यज्य
देवताशापमाप्नुयात् ।। ७ ।।
एवञ्च : आवाह्य देवतामन्याचर्चयंस्त्वन्यदेवताम् ।
उभाभ्यां लभते शापं मन्त्री भवति दुर्मतिः । इति तु
अङ्गातिरिक्तपरम् । सर्वेषामङ्गमन्त्राणां सिद्धादिविचारो
नास्ति ।।
तथा च : सिद्धादिशोधनं नैषामङ्गत्वे सति राजवत् ।। ८ ।।
श्यामादौ तु पञ्चायतनाभावः ।।
तथा च रुद्रयामले : स्यामामायां
भैरवीताराच्छिन्नमस्तातु भैरवि । मंजुघोषं तथा रौद्रे
पञ्चाङ्ग नेष्यते बुधैः ।। ९ ।। उपविद्यासु सर्वासु षट्कर्मादिषु
साधने । नात्र दीक्षाद्यपेक्षास्तु नात्राङ्गाङ्गि - प्रपूजनम् ।।
१० ।।
तत्त्वसारे : उपविद्यासु सर्वासु तथा प्रयोगसाधने ।
दीक्षां विनैव कर्त्तव्य उपदेशः सदैव हि ।। ११ ।।

अथ संक्षेपदीक्षा :
मुहूर्ते सर्वतोभद्रे नव कुम्भं निधाय च । सोदकं
गन्धपुष्पाभ्यामर्चितं वस्त्रसंयुतम् ।
सर्वौषधिनवरत्नपञ्चपल्लवसंयुतम् । ततो देवार्चनं कृत्वा
हुनेदष्टोत्तरं शतम् । पञ्चपल्लवमिति
पनसाम्राश्वत्थवटवकुलानि ।। १२ ।।
तथा च वासिष्टे : पनसाम्रं तथाश्वत्थं वटं
वकुलमेव च । पञ्चपल्लवमित्युक्तं मुनिभिस्तन्त्रवेदिभिः ।। १३ ।।
नवरत्नानि : मुक्तामाणिक्यवदूर्यगोमेदान्वज्रविद्रुमौ ।
पद्मरागं मरकतं नीलञ्चेति यथाक्रमात् ।। १४ ।।
निबन्धे : शिष्यं स्वलंकृतं वेद्यामुपाग्निमुपवेशयेत् ।
मन्त्रितः प्रोक्षणीतोयैः शान्तिकुम्भजलैस्तथा ।। १५ ।।
मूलमन्त्रेणाष्टशतैर्मन्त्रितैरभिषेचयेत् । अष्टशतैः
अष्टोत्तरशतः ।। १६ ।।
अथ सम्पादयेन्मन्त्रं हस्तं शिरसि धारयन् ।
नमोऽस्त्वित्यक्षतान् दद्यात्ततः शिष्योऽर्चयेद्गुरुम् ।। १७ ।। यद्वा
दीक्षान्तरं शङ्खमभ्यर्च्य साक्षतं
तदम्बुनाभिषिच्याष्टवारं मूलेन शिरसि करं निधायाष्टौ
वारान् कर्णे जपेत् ।
तथा च तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्य साक्षतम् ।
तदम्बुनाभिषिच्याष्टवारं मूलेन केवलम् । निधायाष्टौ
जपेत्कर्णे उपदेशे त्वयं विधिः । इति संक्षेपदीक्षा ।। १८ ।।
उपदेशान्तरमाह विश्वसारे : चन्द्रसूर्यग्रहे तीर्थे
सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ।।
१९ ।।
विश्वसारे : महादीक्षा तथा दीक्षा उपदेशस्ततः परम् ।
युगे युगे च कर्त्तव्य उपदेशः कलौ युगे ।। २० ।।

अथ सर्वतोभद्रमण्डलम् : (देखिये चित्र १०)

शारदायाम् : चतुरस्रे चतुष्कोष्ठे कर्णसूत्रसमन्विते ।
चतुर्ष्वपि च कोष्ठेषु कोणसूत्रचतुष्टयम् । मध्ये मध्ये तथा
मत्स्या भवेयु पातयेत्तथा पूर्वापरायते द्वे द्वे मन्त्री
याम्योत्तरायते पातयेत्तेषु मत्स्येषु समं सूत्रचतुष्टयम् ।
पूर्ववत्कोणकोष्ठेषु कर्णसूत्राणि पातएत् । तदुद्भुतेषु
मत्स्येषु दद्यात्सूत्रचतुष्टयम् । ततः कोष्ठेषु मत्स्याः स्युस्तेषु
सूत्राणि पातयेत् । यावच्छतद्वयं मन्त्री
षट्पञ्चाशत्पदान्यपि । तावत्तेनैव विधिना तत्र सूत्राणि पातयेत्
।। २१ ।। षट्त्रिंशता पदैर्मध्ये लिखेत्पद्मं सलक्षणम् ।
बहिःपक्त्या भवेत्पीठं पंक्तियुग्मेन वीथिकाम् ।
द्वारभोभोपशोभास्रां शिष्टाभ्यां परिकल्पयेत् ।
शास्त्रोक्तविधिना मन्त्री ततः पद्मं समालिखेत् । पद्मक्षेत्रस्य
संत्यज्य द्वादशांशं बहिः सुधीः । तन्मध्यं
विभजेद्वृत्तैस्त्रिभिः समविभागतः । आद्यं
स्यात्कर्णिकास्थानं केशराणां द्वितोयकम् । तृतीयं
पद्मपत्राणां कुक्तांशेन दलाग्रकम् । वाह्यवृत्तान्तरा लस्य
मानेन विधिना सुधीः । निधाय केशराग्रेषु
परितोऽर्द्धनिशाकरान् । लिखित्वा सन्धिसंस्थानि तत्र सूत्राणि
पातयेत् । दलाग्राणाञ्च यन्मानं तन्मानं वृत्तमालिखेत् ।। २१
क ।। तदंतराले तन्मध्यसूत्रस्योभयतः सुधीः ।
आलिखेद्वाह्यहस्तेन दलाग्राणि समन्ततः । दलमूलेषु युगशः
केशराणि प्रकल्पयेत् । एतत्साधारणं प्रोक्तं पङ्कजं
तन्त्रवेदिभिः । पदानि त्रीणि पदार्थं पीठेकोणेषु मार्जयेत् ।
अवशिष्टैः पदैर्विद्वान पीठगात्राणि परिकल्पयेत् । पदानि
वीथिसंस्थानि मार्जयेत्पक्त्यभेदतः । दिक्षु द्वाराणि
रचयेद्विचतुष्कोष्ठकैस्ततः । पदैस्त्रिभिरथैकेन शोभाः
स्युर्द्वारपार्श्वयोः । उपशोभाः स्युरेकेन त्रिभिः
कोष्ठैरनन्तरम् । अवशिष्टैः पदैः षड्भिः कोणानां
स्याच्चतुष्टय । रञ्जयेत्पञ्चभिर्वर्णिर्मण्डलं तन्मनोहरम् ।।
२१ ख ।। पीतं हरिद्राचूर्णं स्यात्सितं तण्डुलसम्भवम् ।
कुसुम्भचूर्णमरुणं कृष्णं दग्ध पुलाकजम् ।
बिल्वादिपत्रजं श्याममित्युक्तं वर्णपञ्चकम् ।। २२ ।।
अंगुलोत्सेधविस्ताराः सोमारेखाः सिताः शुभाः । कर्णिकां
पीतवर्णेन केशराण्यरुणेन च । शुक्लवर्णानि पत्राणि तत्सन्धिः
श्यामलेन च । रजसा रञ्जयेन्मन्त्री यद्वा पीतैव कर्णिका ।
केशराः पीतवर्णाक्ताः अरुणानि दलानि च । सन्धयः
कृष्णवर्णाः स्युः पीतेनाप्यसितेन वा । रञ्जयेत्पीठगर्भाणि
पादाः स्युररुणप्रभाः । गात्राणि तस्य शुक्लानि वीथीषु च
चतसृषु । आलिखेत्कल्पलातकां दल - पुष्प - समन्विताः ।
वर्णैर्नानाविधैश्चित्राः सर्वदृष्टिमनोहराः । द्वाराणि
श्वेतवर्णानि शोभा रक्ताः समीरिताः । उपसोभाः पीतवर्णाः
कोणान्यसितभांसि च । तिस्रो रेखा वहिः कार्या सितरक्तासिताः
क्रमात् । मण्डलं सर्वतोभद्रमेत्साधारणं मतम् ।। २३ ।।

अथ स्वल्पसर्वतोभरमण्डलम् : (देखिये चित्र ११)

चतुरस्रां भुवं भित्वा दिग्भ्यो द्वादशधी सुधीः ।
पातयेत्तत्र सूत्राणि कोष्ठानां दृश्यते शतम् ।
चतुश्चत्वारिंशदाढ्यं पश्चात्षट्त्रिंशताम्बुजम् । कोष्ठैः
प्रकल्पयेत्पीठं पंक्त्या नैवात्र वीथिका ।। २४ ।। द्वारशोभे
यथापूर्वमुपशोभा न दृश्यते । अवशिष्टैः पदैः
कुर्यात्षड्भिः कोणानि तन्त्रवित् । विदध्यात्पूर्ववच्छेषं एवं
वा मण्डलं स्मृतम् ।। २४ क ।।

अथ नवनाभमण्डलम् : (देखिये चित्र १२)

चतुरस्रे चतुःषष्टिपदान्यारचयेत्सुधीः । पादैश्चतुर्भिः
पद्मं स्यान्मध्ये तत्परितः पुनः । वीथीश्चतस्रः कुर्वीत
मण्डलान्तावसानिकाः । दिग्गतेषु चतुष्केषु पङ्काजानि
(पञ्चाजानि) समालिखेत् । विदिग्गतचतुष्कानि भित्त्वा षोडशधा
सुधीः । मार्जयेत्स्वस्तिकाकारं श्वेतपीतारुणासितैः । राजोभिः
पूरयेत्तानि स्वस्तिकानि शिवादितः । प्राक्प्रोक्तेनैव मार्गेण
शेषमन्यत्समापयेत् । नवनाभमिदं प्रोक्तं मण्डलं
सर्वसिद्धिदम् ।। २५ ।।

अथ पञ्चाब्जमण्डलम् : (देखिये चित्र १३)

पञ्चाब्जमण्दलं प्रोक्तमेतत्स्वस्तिकवर्जितम् । दीक्षायां
देवपूजार्थं मण्डलानां चतुष्टयम् । सर्वतन्त्रानुसारेण
प्रोक्तं सर्वसमृद्धिदम् ।। २६ ।।

अथ त्रिलौहोमुदा :

अथ मन्त्रिणां हितार्थाय त्रिलौहीमुद्रा निरूप्यते ।
सोमसूर्याग्निरूपाः स्युर्वर्णा लौहत्रयं तथा । रौप्यमिन्दुः
स्मृतो हेम सूर्यस्ताम्रो हुताशनः ।। २७ ।। लौहभागाः
समुद्दिष्टाः स्वराद्यक्षरसंख्यया । तैर्लोहैः
कारयेन्मुद्रामसङ्कलितसङ्गताम् ।। २८ ।। एषु स्वराः स्मृताः
सौम्याः स्पर्शाः सौराः शुभोदयाः । आग्नेया व्यापकाः सर्वे
सोमसूर्याग्निदेवताः ।। २९ ।। स्वराः षोडश विख्याताः स्पर्शास्ते
पञ्चविंशतिः । व्यापका दश ते कामधनधर्मप्रदायिनः ।।
३० ।। साष्टं सहस्रं संजप्य स्पृष्ट्वा तां जुहुयात्ततः ।
तस्यां सम्पातयेन्मन्त्री सर्पिषा पूर्वसंख्यया ।। ३१ ।। निक्षिप्य
कुम्भे तां मुद्रामभिषेकोक्तवर्त्मना आवाह्य
पूजयेद्देवीमुपचरैर्विधानतः ।। ३२ ।। अभिषिच्य विनीताय
दद्यातां मुद्रिकां गुरुं गुरुः । इयं मुद्रा
क्षुद्ररोगविषज्वरविनाशिनी ।। ३३ ।। व्यालचौरमृगादिभ्यो रक्षां
कुर्याद्विशेषतः । युद्धे विजयमाप्नोति धारयेन्मनुजेश्वरः ।। ३४
।। मन्त्रसिद्धिकरीं पुंसां चतुर्वर्गफलप्रदाम् ।
धारयेन्मनुजो नित्यं देवतुल्यो भवेद्भुवि ।। ३५ ।। अभिषिच्येति
पूर्वोक्तदीक्षा पद्धत्युक्तक्रमेण घटं संस्थाप्य
तत्तत्कल्पोक्तदेवतामावाह्य यथोक्तदीक्षा पद्धत्युक्तक्रमेण
घटं संस्थाप्य तत्तत्कल्पोक्तदेवतामावाह्य यथोपचारतः
सम्पूज्य साध्यमभिषिच्य तस्मै दद्यादित्यर्थः । ततो गुरवे
दक्षिणां दत्वा महान्तमुत्सवं कुर्यात् ।। ३६ ।।

इति महामहोपाध्यायश्रीकृष्णानन्दागमवागीशविरचिते
तन्त्रसारे प्रथमः परिच्छेदः ।। १ ।।