बृहत्संहिता/अध्यायः ४६

विकिस्रोतः तः
← अध्यायः ४५ बृहत्संहिता
अध्यायः ४६
वराहमिहिरः
अध्यायः ४७ →

४६ मयूरचित्रकाध्यायः ।।

 दिव्यऽन्तरिक्षऽश्रयं उक्तं आदौ मया फलं शस्तं अशोभनं च ।
 प्रायेण चारेषु समागमेषु युद्धेषु मार्गऽदिषु विस्तरेण ।। ४६.०१ ।।

भूयो वराहमिहिरस्य न युक्तं एतत्
कर्तुं समासकृदसविति तस्य दोषः ।
तज्ज्ञैर्न वाच्यं इदं उक्तफलानुगीति
यद्*बर्हि[क्.वर्हि]चित्रकं इति प्रथितं वराङ्गम् ।। ४६.०२ ।।

 स्वरूपं एव तस्य तत्प्रकीर्तितानुकीर्तनम् ।
 ब्रवीम्यहं न चेदिदं तथा +अपि मे +अत्र वाच्यता ।। ४६.०३ ।।

 उत्तरवीथिगता द्युतिमन्तः क्षेम*शुभिक्ष[ऊ.सुभिक्ष]शिवाय समस्ताः ।
 दक्षिणमार्गगता द्युतिहीनाः क्षुद्भयतस्करमृत्युकरास्ते ।। ४६.०४ ।।

 कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिरां प्रभविष्णौ ।
 निर्वैराः क्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोगाः ।। ४६.०५ ।।

 पीडयन्ति यदि कृत्तिकां मघां रोहिणीं श्रवं ऐन्द्रं एव वा ।
 प्रोज्झ्य सूर्यं अपरे ग्रहास्तदा पश्चिमा दिगनयेन पीड्यते ।। ४६.०६ ।।

प्राच्यां चेद्ध्वजवदवस्थिता दिनान्ते
प्राच्यानां भवति हि विग्रहो नृपाणाम् ।
मध्ये चेद्भवति हि मध्यदेश*पीठा[क्.ऊ.पीडा]
रूक्षैस्तैर्न तु *रुचिमन्[क्.रुचिरैर्] मयूखवद्भिः ।। ४६.०७ ।।

 दक्षिणां ककुभं *आश्रितस्[क्.आश्रितैस्] तु तैर्दक्षिणापथपयोमुचां क्षयः ।
 हीनरूक्षतनुभिश्च विग्रहः स्थूलदेहकिरणान्वितैः शुभम् ।। ४६.०८ ।।

 उत्तरमार्गे स्पष्टमयूखाः शान्तिकरास्ते तन्नृपतीनाम् ।
 ह्रस्वशरीरा भस्मसवर्णा दोषकराः स्युर्देशनृपाणाम् ।। ४६.०९ ।।

नक्षत्राणां तारकाः सग्रहाणाम्
धूमज्वालाविस्फुलिङ्गान्विताश्चेत् ।
आलोकं वा निर्निमित्तं न यान्ति
याति ध्वंसं सर्वलोकः सभूपः ।। ४६.१० ।।

दिवि भाति यदा तुहिनांशुयुगं
द्विजवृद्धिरतीव तदाशु शुभा ।
तदनन्तरवर्णरणो +अर्कयुगे
जगतः प्रलयस्त्रिचतुष्प्रभृति ।। ४६.११ ।।

मुनीनभिजितं ध्रुवं मघवतश्च भं संस्पृशन्
शिखी घनविनाशकृत्कुशलकर्महा शोकदः ।
भुजङ्गम्[क्.भुजङ्गभम्] अथ संस्पृशेद्भवति वृष्टिनाशो ध्रुवं
क्षयं व्रजति विद्रुतो जनपदश्च बालाकुलः ।। ४६.१२ ।।

 प्राग्द्वारेषु चरन्रविपुत्रो नक्षत्रेषु करोति च वक्रम् ।
 दुर्भिक्षं कुरुते *महदुग्रं[क्.भयं उग्रं] मित्राणां च विरोधं अवृष्टिम् ।। ४६.१३ ।।

 रोहिणीशकटं अर्कनन्दनो यदि भिनत्ति रुधिरो +अथ वा शिखी ।
 किं वदामि यदनिष्टसागरे जगदशेषं उपयाति संक्षयम् ।। ४६.१४ ।।

 उदयति सततं यदा शिखी चरति भचक्रं अशेषं एव वा ।
 अनुभवति पुराकृतं तदा फलं अशुभं सचराचरं जगत् ।। ४६.१५ ।।

धनुःस्थायी रूक्षो रुधिरसदृशः क्षुद्भयकरो
बलोद्योगं *चन्द्रः[क्.चेन्दुः] कथयति जयं ज्या +अस्य च यतः ।
गवां{अवाक्] शृङ्गो गोघ्नो निधनं अपि सस्यस्य कुरुते
ज्वलन्धूमायन्वा नृपतिमरणायैव भवति ।। ४६.१६ ।।

 स्निग्धः स्थूलः समशृङ्गो विशालस्तुङ्गश्चौदग्विचरन्नागवीथ्याम् ।
 दृष्टः सौम्यैरशुभैर्विप्रयुक्तो लोकानन्दं कुरुते +अतीव चन्द्रः ।। ४६.१७ ।।

 पित्र्यमैत्रपुरुहूतविशाखात्वाष्ट्रं एत्य च युनक्ति शशाङ्कः ।
 दक्षिणेन न *शुभः शुभकृत्[क्.शुभो हितकृत्] स्याद्यद्युदक्चरति मध्यगतो वा ।। ४६.१८ ।।

 परिघ इति मेघरेखा या तिर्यग्भास्करोदये +अस्ते वा ।
 परिधिस्तु प्रतिसूर्यो दण्डस्त्वृजुरिन्द्रचापनिभः ।। ४६.१९ ।।

 उदये +अस्ते वा भानोर्ये दीर्घा रश्मयस्त्वमोघास्ते ।
 सुरचापखण्डं ऋजु यद्रोहितं ऐरावतं दीर्घम् ।। ४६.२० ।।

 अर्धास्तमयात्सन्ध्या व्यक्तीभूता न तारका यावत् ।
 तेजःपरिहानि मुखाद्भानोरर्धौदयो यावत् ।। ४६.२१ ।।

 तस्मिन्सन्ध्याकाले चिह्नैरेतैः शुभाशुभं वाच्यम् ।
 सर्वैरेतैः स्निग्धैः सद्यो वर्षं भयं रूक्षैः ।। ४६.२२ ।।

अच्छिन्नः परिघो वियच्च विमलं श्यामा मयूखा रवेः
स्निग्धा दीधितयः *मितं[क्.ऊ.सितं] सुरधनुर्विद्युच्च पूर्वोत्तरा ।
स्निग्धो मेघतरुर्दिवाकरकरैरालिङ्गतो वा यदा
वृष्टिः स्याद्यदि वा +अर्कं अस्तसमये मेघो महान्छादयेत् ।। ४६.२३ ।।

 खण्डो वक्रः कृष्णो ह्रस्वः काकऽद्यैर्वा चिह्नैर्विद्धः ।
 यस्मिन्देशे रूक्षश्चार्कस्तत्राभावः प्रायो राज्ञः ।। ४६.२४ ।।

 वाहिनीं समुपयाति पृष्ठतो मांसभुक्खगगणो युयुत्सतः ।
 यस्य तस्य बलविद्रवो महानग्रैस्तु विजयो विहङ्गमैः ।। ४६.२५ ।।

 भानोरुदये यदि वास्तमये गन्धर्वपुरप्रतिमा ध्वजनी ।
 विम्बं निरुणद्धि तदा नृपतेः प्राप्तं समरं सभयं प्रवदेत् ।। ४६.२६ ।।

 शस्ता शान्तिद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च ।
 पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा ।। ४६.२७ ।।

यद्विस्तरेण कथितं मुनिभिस्तदस्मिन्
सर्वं मया निगदितं पुनरुक्तवर्जम् ।
श्रुत्वा +अपि कोकिलरुतं बलिभुग्विरौति
यत्तत्स्वभावकृतं अस्य पिकं न जेतुम् ।। ४६.२८ ।।