बृहत्संहिता/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ बृहत्संहिता
अध्यायः १८
वराहमिहिरः
अध्यायः १९ →

१८ शशिग्रहसमागमाध्यायः ।।

 भानां यथासम्भवं उत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः ।
 प्रदक्षिणं तत्*शुभदं नृपाणां[क्.शुभकृन्नराणां] याम्येन यातो न शिवः शशाङ्कः ।। १८.०१ ।।

 चन्द्रमा यदि कुजस्य यात्युदक्पार्वतीयबलशालिनां जयः ।
 क्षत्रियाः प्रमुदिताः सयायिनो भूरिधान्यमुदिता वसुन्धरा ।। १८.०२ ।।

 उत्तरतः स्वसुतस्य शशङ्कः पौरजयाय सुभिक्षकरश्च ।
 सस्यचयं कुरुते जनहार्दिं कोशचयं च नराधिपतीनाम् ।। १८.०३ ।।

 बृहस्पतेरुत्तरगे शशाङ्के पौरद्विजक्षत्रियपण्डितानाम् ।
 धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च ।। १८.०४ ।।

 भार्गवस्य यदि यात्युदक्शशी कोशयुक्तगजवाजिवृद्धिदः ।
 यायिनां च विजयो धनुष्मतां सस्यसम्पदपि चौत्तमा तदा ।। १८.०५ ।।

 रविजस्य शशी प्रदक्षिणं कुर्याच्चेत्पुरभूभृतां जयः ।
 शकबाह्लिकसिन्धुपह्लवा *मुदभाजो[क्.मुद्भाजो] यवनैः समन्विताः ।। १८.०६ ।।

 येषां उदग्गच्च्छति भग्रहाणां प्रालेयरश्मिर्निरुपद्रवश्च ।
 तद्द्रव्यपौरैतरभक्तिदेशान्पुष्णाति याम्येन निहन्ति तानि ।। १८.०७ ।।

शशिनि फलं *उदक्स्थे[क्.उदकस्थे] यद्ग्रहस्यौपदिष्टं
भवति तदपसव्ये सर्वं एव प्रतीपम् ।
इति शशिसमवायाः *कीर्तिता[क्.कीर्त्तिता] भग्रहाणां
न खलु भवति युद्धं साकं इन्दोर्ग्रहऋक्षैः ।। १८.०८ ।।