सामग्री पर जाएँ

बाष्कलमन्त्रोपनिषत्

विकिस्रोतः तः


॥ अथ बाष्कलमन्त्रोपनिषत् ॥

मेधातिथिं काण्वमिन्द्रो जहार द्या मेषभूयोपगतो विदानः । तमन्य इत्तमनं परिप्राट् पद एनं नियुयुजे परस्मिन् ॥ १ ॥

को ह स्मैष भवसि व्यवायो नावायो म इह शश्वदस्ति । सुशेवमिच्चङ्क्रमसि प्रपश्यन्नित्था न कश्चोरणमाचचक्षे ॥ २ ॥

नेमामस्पृक्षदिदुदस्यमानः को अद्धामूमभिचङ्क्रमीति । तदिच्छाधि यो असि सर्ववित्तमो न त्वाश्नवद्ब्रह्म रिषा मयस्वी ॥ ३ ॥

इन्द्रो नृचक्षा वृषभस्तुराषाट् प्रसासहिस्तपसा मा विचक्षे । स इद्देवो ऋतमन्वयन्तं प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४ ॥

कुहेव मावशमितो नयातै कुहेव ते चित्रतमप्रतिष्ठा । कुहाचिदेष स्वपिता पिता नो यो न वेद न हृतं हरन्तम् ॥ ५ ॥

प्रत्यङ्ङवाङ्प्राङितरौ च नेह नाहमेनाननुपतस्थिरद्धा । न मामिमे नूनमित्था पथो विदुर्ये मा न यन्ति मिथु चाकशानाः ॥ ६ ॥

परः स्मियानो अविवरस्य शूकं किं सीमिच्छरणं मन्यमानः । न ह त्वाहमप्रणीय स्वविष्ठामित्था जहामि शपमानमिन्नु ॥ ७ ॥

अहमस्मि जरितॄणामु दावा अहमाशिरमहमिदं दधग्वान् । अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः ॥ ८ ॥

मम प्रतिष्ठा भुव आण्डकोशा वि चैमि सं च हि नु यो विरश्पी । अहं न्वहिं पर्वते शिश्रियाणमुग्रो न्वहं तवसावस्युरद्धा ॥ ९ ॥

प्रवङ्क्षणा अभिदं पर्वतानां यत्सीमिन्द्रा अकरोदनीकैः। को अद्धा वेद क इह प्रवोचत् को अश्नवदभिमातिं विजघ्नुषः ॥ १० ॥

को मे अवो दाशुषो विष्वगूतीरित्था ददश्रे भुवनाधि विश्वा । रूपं रूपं जनुषा बोभवीमि मायाभिरेको अभिचाकशानः ॥ ११ ॥

विश्वं विचक्षे यमयन्नभीको नेशे मे कश्च महिमानमन्यः । अहं द्यावापृथिवी आततानो बिभर्मि धर्ममवसे जनानाम् ॥ १२ ॥

अहमु ह प्रवतिं यज्ञियामियां अहं वेद भुवनस्य नाभिम् । आपिः पिता सूरहमस्य विष्वङ्ङहं दिव्या आन्तरिक्ष्यास्तुका वहम् ॥ १३ ॥

अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् । अहं पचामि सरसः परस्य यदिदेतीव सरिरस्य मध्ये ॥ १४ ॥

अहमिन्नु परमो जातवेदा यमध्वर्युरभिलोकं पृणैधीत् । यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽमुतश्च ॥ १५ ॥

अहमु यन्नपतता रथेन द्विषडारेण प्रधिनैकचक्रः । अहमिन्नु दिद्युतानो दिवे दिवे तन्वं पुपुष्यानमृतं वहामि ॥ १६ ॥

अहं दिशः प्रदिश आदिशश्च विष्वक् पुनानः पर्येमि लोकम् । अहं विश्वा ओषधीर्गर्भ आधां याभिरिदं धिनुयुर्दाशुषः प्रजाः ॥ १७ ॥

अह चरामि भुवनस्य मध्ये पुनरुच्चावचं व्यश्नुवानः । यो मा वेद निहितं गुहा चित्स इदित्था बोभवीदाशयध्यै ॥ १८ ॥

अहं पञ्चधा दशधा चैकधा च सहस्रधा नैकधा चासमत्र । मया ततमितीदमश्नुते तदन्यथासद्यदि मे असद्विदुः ॥ १९ ॥

न मामश्नोति जरिता न कश्चन न मामश्नोति परि गोभिराभिः । न मेऽनाश्वानुत दाश्वानजग्रभीत्सर्व इन्मामुपयन्ति विश्वतः ॥ २० ॥

क्व शरारुः क्व सृमरः क्व नूरणः सर्वमिदं त्वत्त्वदितो वहामि । यन्मदिमे बिभ्यति तन्म एकं ते मे अक्षन्नहमु ताननुक्षम् ॥ २१ ॥

यत्तप्यथा बहुधा मे पुरा चित्तन्नु भुवेऽहमुरणो बोभुवे । ऋतस्य पन्थामसि हि प्रपन्नोऽयसे स मे सत्यमिदेकमेहि ॥ २२ ॥

अहं ज्योतिरहमृतं विनद्धिरहं जातं जनि जनिष्यमाणम् । अहं त्वमहमहं त्वमिन्नु त्वमहं चक्ष्व विचिकित्सीर्म ऋज्वा ॥ २३ ॥

विश्वशास्ता विधरणो विश्वरूपो रुद्रः प्रणीती तमनः प्रजापतिः । हंसो विशोको अजरः पुराण ऋतीयमानो अहमस्मि नाम ॥ २४ ॥

अहमस्मि जरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः । अहं विष्वङ्ङहमस्मि प्रसत्वानहमेकोऽस्मि यदिदं नु किं च ॥ २५ ॥

॥ इति बाष्कलमन्त्रोपनिषत् समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=बाष्कलमन्त्रोपनिषत्&oldid=418205" इत्यस्माद् प्रतिप्राप्तम्