सामग्री पर जाएँ

बसवपुराणम्/अध्यायः ४३

विकिस्रोतः तः
← अध्यायः ४१ बसवपुराणम्
अध्यायः ४२
[[लेखकः :|]]
अध्यायः ४३ →

प्. २३६) अथ त्रिचत्वारिंशोऽध्यायः

एतच्छ्रुत्वा महानंदसुधासंतृप्तमानसम् ।।
दृष्ट्वा कुंभोद्भवमुनिं पुनः प्राह षडाननः ।। १ ।।
पुरातनैर्मुनिवरैः शिष्यैः सूतादिभिः सह ।।
कृष्णद्वैपायनो योगी शिवसंदर्शनेच्छया ।। २ ।।
अनेकमणितेजोभिर्व्याप्ताजाण्डोर्ध्वकर्परम् ।।
छायासु कल्पवृक्षाणां निषण्णं गणसंकुलम् ।। ३ ।।
श्रीमत्पंचाक्षरीमंत्रजपासक्तमुनीश्वरम् ।।
हठयोगादिनिरतयोगिवृंदनिषेवितम् ।। ४ ।।
शुकैः शिवशिवेत्युच्चैर्वदद्भिरतिसुंदरम् ।।
युगपदृतुषट्केन सेव्यमानवनांतरम् ।। ५ ।।
ययौ कैलासनगरं नानाशुकपिकोज्ज्वलम् ।।
शातकुंभस्तंभसंघैरत्नभित्तिभिरावृते ।। ६ ।।
कैलासनगरे रम्ये दिव्यसिंहासने परे ।।
समासीनमुदारांगं मुखपंकजदीपितम् ।। ७ ।।
विशुद्धस्फटिकाकारं दशबाहुं त्रिलोचनम् ।।
नीलकंठं शिवं दृष्ट्वा नत्वा तुष्टाव भक्तितः ।। ८ ।।
शिवहस्ताब्जनिर्दिष्टे उपविष्टः स्थले परे ।।
शिवं प्राहातिगंभीरवाचा सन्न्दयन् सभाम् ।। ९ ।।
देवदेव महाभाग मयि ते करुणा

प्. २३७) यदि ।।
प्रश्नस्य मत्कृतस्यास्य देहि देव सदुत्तरम् ।। १० ।।
अस्मिन् कैलासशिखरे कल्पछायासु संस्थिताः ।।
पठंति प्रमथाः सर्वे प्रमोदाश्रुविलोचनाः ।। ११ ।।
बसवेश्वरमाहात्म्यसंयुतं चरितं परम् ।।
सर्वाण्यपि पुराणानि महान्त्यष्टादश प्रभो ।। १२ ।।
तथैवोपपुराणानि कथितानि मुनीश्वरैः ।।
छंदांसि कल्पसूत्राणि स्मृतयोऽष्टादशापि च ।। १३ ।।
त्वया समस्तविद्यानामीशानेन महात्मना ।।
कृता महामुनीनां च उपदिष्टा बभूविरे ।। १४ ।।
हित्वा तानि समस्तानि पुराणादीनि ते गणाः ।।
भक्तमाहात्म्यमात्रस्य पुराणं प्रतिपादकम् ।। १५ ।।
एवं पृष्टो महादेवः पाराशर्यतपस्विना ।।
असारबुद्धिरेतस्य संजाताशीत्तपस्विनः ।। १६ ।।
इति संचिन्त्य मनसा व्यासगर्वं निरासितुम् ।।
सस्मार विश्वकर्माणं सर्वशिल्पविशारदम् ।। १७ ।।
सहसा विश्वकर्माऽपि शिवसन्निधिमाययौ ।।
प्रणिपत्य च तं स्तुत्वा चाज्ञप्तव्यं किमस्ति भो ।। १८ ।।
इत्युक्त्वा प्राञ्जलिस्तथौ विनयानतमस्तकः ।।
तुलादण्डं कुरुष्वेति चादिदेश वृषध्वजः ।। १९ ।।
अकरोद्विश्वकर्माऽपि तुलादण्डं महत्तरम् ।।
कालचक्रे तुलादण्डं तत्पात्रद्वयमुत्तमम् ।। २० ।।
धर्मार्थावेव संगृह्य

प्. २३८) विश्वकर्माऽकरोत्ततः ।।
मध्यसूत्रं ततश्चक्रे ज्ञानमादाय सत्वरम् ।। २१ ।।
षष्तुलापात्रसुत्राणि कामक्रोधाचिषड्गुणान् ।।
कल्पसुत्रादिकर्माणि भारतं च महत्तरम् ।। २२ ।।
तुलापात्रे तथैकस्मिन् निक्षिप्य शिवसंमतम् ।।
बसवेशपुराणं तदन्यस्मिन् पात्रस्त्तमे ।। २३ ।।
निक्षिप्य तुल्यामास विश्वकर्मा शिवाग्रतः ।।
वैययासिकीनां सर्वासां कृतीनामुज्ज्वलात्मनाम् ।। २४ ।।
पुराणमेतत्सारेण सर्वोत्तममभून्महत् ।।
दृष्ट्वा विस्मयमापन्नो व्यासः शंभोश्च सन्निधौ ।।
सर्वेष्वपि पुराणेषु श्रेष्ठोऽयमिति चाब्रवीत् ।। २५ ।।
वृत्तम् ।।

व्यासस्ततः
शिवसभांतरमध्यदेशान्नानामुनिप्रमथदैवतसंघजुष्टात् ।।
व्रीडावनम्रवदनः परमेश्वरेणाज्ञप्तो ययौ सकलशिष्यगणैः समेतः
।। २६ ।।

ओम् इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवेश्वरपुराणे
स्वरूपग्रंथे परमरहस्ये स्कंदागस्त्यसंवादे त्रिचत्वारिंशोऽध्यायः
श्रीबसवेश्वरपुराणं संपूर्णं ।।