बसवपुराणम्/अध्यायः ४०
| ← अध्यायः ३९ | बसवपुराणम् अध्यायः ४० [[लेखकः :|]] |
अध्यायः ४१ → |
प्. २११) अथ चत्वारिंशोऽध्यायः
अगस्त्यः ।।
एवं कृत्वा विषक्रीडां बसवेशोऽतिभक्तिमान् ।।
किं चकार स्वभक्तौघैस्तन्मे ब्रूहि षदाननन् ।। १ ।।
कुमारः ।।
भूयोऽपि तव वक्ष्येऽहं माहात्म्यं बसवेशितुः ।।
यस्य श्रवणमात्रेण मर्त्यो मुच्येत बंधनात् ।। २ ।।
कल्याणनगरे रम्ये भक्तसंघसमाकुले ।।
जगदेवो नाम मंत्री शिवभक्तार्चनोत्सुकः ।। ३ ।।
स कदाचिन्महाभागमासाद्य बसवेश्वरम् ।।
अनादररेण्स शाठ्येन यो ददात्योदनं तव ।। ४ ।।
स संतरति संसारं नात्र कार्या विचारणा ।।
अतोऽहं याचयिष्यामि भक्तं त्वां भक्तवत्सलम् ।। ५ ।।
भुक्त्वा त्वमद्य मद्गेहष्वनुगृण्हीष्व मां प्रभो ।।
इति संप्रार्थितस्तेन तथेत्यंगीचकार सः ।। ६ ।।
अशेषशिवभक्तानां यत्नं संतर्पणक्षमम् ।।
कारयित्वा च मध्यान्हे श्राद्धकर्मकसोऽभवत् ।। ७ ।।
आहूय ब्राह्मणान् भोक्तुमर्चयंस्तिलदर्भकैः ।।
अपसव्योपवीतः सन् तस्थु स्वभवनांतरे ।। ८ ।।
ततस्तु बसवेशोऽपि प्रेषयामास किंकरान् ।।
ते दृष्ट्वा तस्य तत्कर्म प्रेतयोग्यं जुगुप्सितम् ।। ९ ।।
शशंसुर्बसवेशाय यथा दृष्टं स्वलोचनैः ।।
प्. २१२) तच्छ्रुत्वा क्रोधताम्राक्षो बसवेशो महामतिः ।। १० ।।
बुद्धिं चक्रे तदा सोऽयं नागन्तुं तद्गृहान्तिकम् ।।
ज्ञात्वैतज्जगदेवोऽपि बसवेशं पुनर्ययौ ।। ११ ।।
आगच्छन्तं दूतमुखाच्छ्रुत्वा श्रीबसवेश्वरः ।।
न योग्यं प्रेक्षितुं सोऽयमिति निश्चित्य चेतसा ।। १२ ।।
बंधयित्वा यवनिकां दुरात्मानमुवाच तम् ।।
त्वं भक्तसंघमध्येऽद्य न योग्यः स्थातुमत्र हि ।। १३ ।।
शिवलिंगे स्थिते हस्ते सर्वाभीष्टफलप्रदे ।।
क्षुद्रदेवान् किमर्थं त्वम् संपूजयसि मे वद ।। १४ ।।
चिंतामणौ स्थिते भक्तिनाम्नि सर्वफलप्रदे ।।
वंध्यविंध्योपलग्राही किमर्थं जायते भवान् ।। १५ ।।
लिंगार्चकानां सर्वेषां पूजनं त्वं विहाय च ।।
कृतवानधमं क्षुद्रधरादेवार्चनं सदा ।। १६ ।।
पतिव्रतानां नारीणामन्यपुंसंगमो यथा ।।
लिंगार्चकानां सर्वेषां क्षुद्रदेवार्चनं तथा ।। १७ ।।
न युक्तमिति संप्राहुर्वेदागमविशारदाः ।।
लिंगाभिषेकसलिलसेकसंशुद्धमस्तकः ।। १८ ।।
द्विजाधमांघ्रिसलिलं किं धारयति मस्तके ।।
लिंगाभिषेकयोग्येन करद्वन्द्वेन सांप्रतं ।। १९ ।।
किमर्थमकरोतस्त्वं हि क्षुद्रपादाभिषेचनम् ।।
महतां शिवभक्तानां लिंगपूजारतात्मनाम् ।। २० ।।
प्. २१३) द्विजाधमपदद्वन्द्वं सकृद्वा नार्चितुं क्षमम् ।।
स्वपत्नीभिः स्वपुत्रैश्च तथैकोदरजन्मभिः ।। २१ ।।
लिंगधारणदीक्षाभिर्युक्तैरत्यन्तपावनैः ।।
सहवासं चरेद्विद्वान् लिंगधारणसंयुतः ।। २२ ।।
दीक्षापराङ्मुखानेतान् संत्यजेदविचारयन् ।।
विषप्लुतं यथैवानां स्वस्यानर्थकरं स्मृतम् ।। २३ ।।
बंधवोऽदीक्षतास्तद्वत्स्वस्य नारकदाः खलु ।।
इत्याहुरीश्वरप्रोक्ताः कामिकाद्यागमाः परे ।। २४ ।।
किमुक्तैर्युक्तिशून्यैश्च महतो लिंगधारिणः ।।
पूर्वशैवस्य संसर्गं विनिंदन्ति शिवागमाः ।। २५ ।।
अतस्त्वं भक्तिहीनानां शिवनिंदारतात्मनाम् ।।
अर्चनं किंनु कुरुषे दुर्जनानामिदं द्विजैः ।। २६ ।।
संपर्कं सहवासं वा स्पर्शनं सहभोजनम् ।।
संभाषणं वा मोहेन ये कुर्वन्ति महेश्वराः ।। २७ ।।
ते यांति नरकान् घोरान् महारौरवसंज्ञकान् ।।
यो दानं कुरुते मोहाद्भविने प्राकृतात्मने ।। २८ ।।
तद्दानं निष्फलं ज्ञेयं दाता भवति किल्बिषी ।।
विनिंद्य भविपक्वान्नं भक्ता भुंजंति ये भुवि ।। २९ ।।
ते यांति नरकान् घोरान् नात्र कार्या विचारणा ।।
अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ।। ३० ।।
प्. २१४) ।। एलेशकेतार्यकथा ।।
पुरैलेश्वरकेताख्यः शिवभक्तो महानभूत् ।।
भविसंदर्शनालापस्पर्शनादिपराङ्मुखः ।। ३१ ।।
गृहस्थतिर्यग्जातीनां पश्वादीनां महीयसां ।।
स्वयं चक्रे प्राणलिंगधारणं च यथाविधि ।। ३२ ।।
ततस्ते चिन्तयामासुर्भविनः प्रतिवादिनः ।।
न भाष्यत्ययमस्माभिर्न पश्यति न याचते ।। ३३ ।।
संगृहीतानि भविभिर्बीजान्यावपते न हि ।।
एवंविधं व्रतं सम्यगुवास स चरन् व्रती ।। ३४ ।।
संभूयास्माभिरधुना व्रतलोपो यथा भवेत् ।।
तथैव यत्नः कर्तव्यश्चेति ते तु द्विजाधमाः ।। ३५ ।।
व्रतभ्रंशकरोपायान् बहुधा चक्रिरे भृशम् ।।
एलेशकेतस्तान् सर्वान् गणयामास मा भृशम् ।। ३६ ।।
ततः पापरताः सर्वे बीजोलूकलसंचयम् ।।
अलातपाणयस्तूर्णं ददुहुः पापबुद्धयः ।। ३७ ।।
प्रातरेलेकेतोऽपि विकृतं च परैः कृतम् ।।
मंदस्मितमुखो भूत्वा दृष्ट्वाशीनिश्चलः स्वयम् ।। ३८ ।।
ततः स्वकर्षकान् भृत्यानाहूयात्यन्तधैर्यवान् ।।
तद्बीजभस्म चानीय ददावावपितुं ततः ।। ३९ ।।
उर्वरा फलिता चासीदुप्तबीजेव सत्वरम् ।।
पूर्वं पिल्लालब्रह्माऽपि शिवभक्ताग्रणीः परः ।। ४० ।।
अनवात्यैव भस्मापि चक्रे भूमिं
प्. २१५) फलोज्वलाम् ।।
अतो हि शिवभक्तानां माहात्म्यं केन वर्ण्यते ।। ४१ ।।
एवं संतुष्टुवुः सर्वे जनास्तद्देशवासिनः ।।
तथाऽप्यसह्यभावेन कलिता ग्रामवासिनः ।। ४२ ।।
आमंत्र्य तस्करैर्दृप्तैस्तदीयं गोकुलं परम् ।।
प्रेषयामासुरत्यन्तदूरं कीचकपालितम् ।। ४३ ।।
देशमाहारशिखरनिरुद्धार्ककरं परम् ।।
तत्प्राणलिंगनिचयः स्थितो भक्तगृहे तदा ।। ४४ ।।
क्षेत्रेषु पन्कसस्येषु समृद्धतृणभूमिषु ।।
स्थिता न खादयामासुर्न पपुः शीतलं जलम् ।। ४५ ।।
ततः सप्त दिनान्येव व्यतीयुर्गोकुलस्य च ।।
दृष्ट्वा तद्धेनुवृतान्तं चोराश्चिन्तां प्रपेदिरे ।। ४६ ।।
लोके हि पशवः सर्वे तृणनीरविवर्जिताः ।।
द्वित्रेष्वहस्सु मरणं प्रपद्यन्ते न संशयः ।। ४७ ।।
बहुष्वपि दिनेष्वेवं गच्छत्स्वपि गवां कुलम् ।।
नाऽयाति नाशं शौष्क्यं वा विचित्रं दृष्टमीदृशम् ।। ४८ ।।
इति संचिन्त्य ते चोरा गा निन्युर्भक्तमंदिरम् ।।
दृष्ट्वा तदेलेशकेतो भविस्पृष्टं तु गोकुलम् ।। ४९ ।।
नांगीचकार मतिमान् व्रतभ्रष्टमिदं त्विति ।।
ततस्तु गोकुलं सर्वं स्थितं गोष्ठान्तिके तथा ।। ५० ।।
न स्वीचक्रे जलं पेयं तृणं दत्तं परैर्जनैः ।।
एतद् दृष्ट्वा पौरजना विस्मयं
प्. २१६) प्रतिपेदिरे ।। ५१ ।।
स्वयोगदृष्ट्या धेनूनां व्रताभ्रंशं समीक्ष्य सः ।।
गृहीतवान् यथापूर्वं गोकुलं स्वांगणस्थितम् ।। ५२ ।।
एलेशकेतुमाहात्म्यं सर्वेषां विस्मयावहम् ।।
येन विज्ञानहीनाश्च पशवस्तृणखादिनः ।। ५३ ।।
मनुष्या इव शास्त्रज्ञाः पालयन्ति व्रतं स्वकम् ।।
शिवभक्तौघमाहात्म्यवर्णने कः क्षमो भवेत् ।। ५४ ।।
विशिष्य तस्य माहात्म्यं वर्णितुं चतुराननः ।।
फणीन्द्रोऽप्यसमर्थोऽभूदितरेषां तु का कथा ।। ५५ ।।
यदीयं गोकुलं सर्वं क्षुधया परिपीडितम् ।।
आनीयमानं भविभिर्न गृह्णाति तृण्सं वनम् ।। ५६ ।।
मातॄणां व्रतलोपोष्भूदिति संशयसंवृताः ।।
श्रुत्वाऽऽक्रोशं च मातॄणां नाक्रोशंति पुनः स्वयम् ।। ५७ ।।
नेच्छंति मातृस्तन्यं च गोवत्साश्च क्षुधार्दिताः ।।
इति प्रशंसिरे सर्वे जना विस्मयतत्पराः ।। ५८ ।।
।। नाचिदेवकथा ।।
सौरदान्वयसंभूतो नाचाख्यो भक्तसत्तमः ।।
कदाचित्तस्य भार्याऽभूद्गर्भलक्षणसंयुता ।। ५९ ।।
गर्भस्थस्य शिशोर्दीक्षां कृत्वा नाचो यथाविधि ।।
प्. २१७) जायांगे बंधयामास शिशोर्लिंगं महत्तरम् ।। ६० ।।
संप्राप्ते दशमे मासे प्रसूता तनयद्वयम् ।।
अग्रे जातस्य पुत्रस्य कृत्वा लिंगस्य धारणम् ।। ६१ ।।
ततो भर्तारमवदत्सूतिका वरवर्णिनी ।।
एक एव हि मद्गर्भे शिशुरस्तीति शंकया ।। ६२ ।।
मदंगे लिंगमेवैकं त्वया बद्धमनामयम् ।।
इदानीमपरः पुत्रो जातः किं करवाण्यहम् ।। ६३ ।।
इति प्रोक्तस्तया साध्व्या तामुवाच तपोधनः ।।
लिंगधारणहीनोऽयं द्वितीयस्तनयः प्रिये ।। ६४ ।।
तमाशु त्यज सुश्रोणि पापं दीक्षाविवर्जितम् ।।
एवं भर्त्रा समादिष्टा पुत्रं तत्याज सुंदरी ।। ६५ ।।
एवं वृद्धमुखोद्गीताः कथाः किं न श्रुतास्त्वया ।।
जगदेवाख्य मंत्रीश दृष्ट्वा शैवागमान् बहून् ।। ६६ ।।
वृद्धाचारं परीक्ष्यापि सर्वशिष्टादृतं परम् ।।
अत्यन्तनिंदितं कर्म किमर्थं कृतवानसि ।। ६७ ।।
शिवार्थपुष्पग्रहणपुष्पपाणिर्द्विजोत्तमः ।।
पुरा चिच्छेद चोडाम्बानासिकामतिसुंदराम् ।। ६८ ।।
दुष्कर्मावृतचित्तेषु मलत्रययुतेषु च ।।
न तिष्ठति महादेवः शिवभक्तेषु तिष्ठति ।। ६९ ।।
शैवाचारस्य माहात्म्यं किं जानंति हि पापिनः ।।
दृष्टिहीनस्तु पंथानं कर्णहीनस्तु
प्. २१८) गीतिकाम् ।। ७० ।।
पित्तरोगसमाक्रांतः क्षीरमाधुर्यमुत्तमम् ।।
गंभीर्यमुदधेर्भेको वानरो रत्नदीधितिम् ।। ७१ ।।
सारमेयो हविः पुण्यं गृध्रः पुष्परसं परम् ।।
कौशिको रवितेजश्च न जानाति यथा भुवि ।। ७२ ।।
तथैवाज्ञानजीवाश्च बहुकर्मभिरावृताः ।।
शिवभक्तिं न जानंति सर्ववेदान्तबोधिताम् ।। ७३ ।।
शिवभक्तिस्तु सर्वेषां भक्तानां तु निधिः स्मृता ।।
अंगणस्थः सुरतरुः कामधेनुर्गृहस्थिता ।। ७४ ।।
चिंतामणिः करगतो वांधितार्थफलप्रदः ।।
शिवभक्तिं समुत्सृज्य दुष्टमार्गेषु यश्चरेत् ।। ७५ ।।
स पिडितो यमभटैर्नरकेषु वसेच्चिरम् ।।
एवं संबोध्यमानोऽपि जाड्यंन त्यजते भवान् ।। ७६ ।।
बद्धोऽपि च शुनः पुच्छः किं वा त्यजति वक्रताम् ।।
गोघृतं तु परित्यज्य मूत्रं पिबति किं नरः ।। ७७ ।।
रुद्रपिंडोद्भवत्वेन पिता रुद्रो द्विजन्मनाम् ।।
शिवद्वेषी महापापी तातं वेश्यासुतो यथा ।। ७८ ।।
शैवव्रतानि संत्यज्य योऽन्यव्रतपरो भवेत् ।।
स तु भागीरथीं त्यक्त्वा कांक्षते मृगतृष्णिकाम् ।। ७९ ।।
भक्त एव शिवः साक्षाच्छिवो भक्तेति कथ्यते ।।
शिवं संत्यज्य मोहेन यऽन्यदैवं प्रपूजयेत् ।। ८० ।।
त्यक्त्वा स्वपुरुषं कान्ता गच्छेच्चेत्पुरुषान्तरम् ।।
सर्वैर्जनैश्च सा
प्. २१९) कान्ता पुंश्चलीति निषिध्यते ।। ८१ ।।
पीत्वा गोक्षीरममलं सर्पः क्रूरो भयंकरः ।।
हालाहलं तु वमते सर्वप्राणिभयानकम् ।। ८२ ।।
कृतालवालः कस्तूर्या चोशीरजलसंप्लुतः ।।
जहाति किं निंबतरुस्तिक्ततां लोकगर्हिताम् ।। ८३ ।।
अनावृष्टिभये घोरे द्वादशाब्दावधौ परे ।।
अनेकद्विजसंघानामन्नं दत्त्वा च गौतमः ।। ८४ ।।
होगत्यामतुलां लेभे नैतत्किं विदितं त्वया ।।
बलिर्नाम महाराजो द्विजार्चनपरायणः ।। ८५ ।।
पाताले बंधनं प्राप नैतत्किं विदितं त्वया ।।
निहत्य क्षत्रियान् सर्वानेकविंशतिवारतः ।। ८६ ।।
ददौ महीं ब्राह्मणानां चतुरर्णवमेखलाम् ।।
ततः किं फलमापेदे रामः किं न श्रुतं त्वया ।। ८७ ।।
जगदेवो महामंत्री श्रुत्वा बसवभाषितम् ।।
शोकगद्गदकंठः सन् बाष्पपूरितलोचनः ।। ८८ ।।
कृतांजलिपुटो भूत्वा भक्तान शैवान्ननाम सः ।।
क्रूरं दुष्टतमं लुब्धं कार्याकार्याविवेकिनम् ।। ८९ ।।
संशयाविष्टमनसं भक्ता मां रक्षताधुना ।।
कर्मणो म्तकृतस्यास्य प्रायश्चित्तं भवेन्मम ।। ९० ।।
अनुगृह्णन्तु मां सर्वे शिवभक्ताः सहस्रशः ।।
तेनैवमुक्तो बसवो भक्तैरनुमतस्तदा ।। ९१ ।।
जगदेवं महाभक्तं प्रत्युवाच
प्. २२०) सभांतरे ।।
बहुकाले व्यतीते तु शिवद्रोहो भविष्यति ।। ९२ ।।
तं शिवद्रोहिणं त्वं हि चावधीर्यदि सत्वरम् ।।
शिवस्तव प्रसन्नः स्यात्तव शुद्धिर्भविष्यति ।। ९३ ।।
इति श्रुत्वा शिवगणा बसवेंद्रस्य निर्णयम् ।।
संतुष्टहृदयाः सर्वे तुष्ट्वैनं मंत्रिसत्तमम् ।। ९४ ।।
भूमौ निपतितं हस्तैरुत्थाप्योद्धतमादरात् ।।
अतिप्रेम्णा च ममृजुर्गात्रलग्नं च भूरजः ।। ९५ ।।
सर्वैर्भक्तगणैः सार्धं बसवो भक्तवत्सलः ।।
जगदेवगृहं गत्वा सर्वसंप्त्समृद्धिमत् ।। ९६ ।।
परिषद्दक्षिणां पूर्वं भूतितांबूलमगृहीत् ।।
ततो भक्तजनैः साकं चक्रे लिंगार्चनं स्वयम् ।। ९७ ।।
ततः स्वभवनं प्राप्य बसवो भक्तसत्तमः ।।
न्यवसद्भक्तसंघैश्च संतुष्टात्मा यथासुखम् ।। ९८ ।।
ये पठंतीममध्यायं शृण्वन्ति श्रद्धयान्विताः ।।
इह भुक्त्वाऽखिलान् भोगान् व्रजन्त्यन्ते परं पदम् ।। ९९ ।।
इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्कंदागस्त्यसंवादे
चत्वारिंशोऽध्यायः ।।