सामग्री पर जाएँ

बसवपुराणम्/अध्यायः ३९

विकिस्रोतः तः
← अध्यायः ३८ बसवपुराणम्
अध्यायः ३९
[[लेखकः :|]]
अध्यायः ४० →

प्. २०१) अथ एकोनचत्वारिंशोष्ध्यायः

अगस्त्यः ।।
एवं श्रुतं मया सर्वं भक्ताधिक्यं महत्तरम् ।।
पुनश्च श्रोतुमिच्छामि तदेव वद मे प्रभो ।। १ ।।
स्कंदः ।।
ततः कल्याणनगरे बसवेश्वरमंदिरे ।।
रुद्रतुल्या महात्मानो भक्ताश्चासन् महोहरे ।। २ ।।
माचश्च मादिराजश्च बाचिराजो महत्तरः ।।
श्रीमान् बडवरब्रह्मा किंनरब्रह्मपुंगवः ।। ३ ।।
केशिराजाभिधो भक्तः कन्नदब्रह्मसत्तमः ।।
कक्कः श्रीकल्लिदेवश्च श्रीमान्मौलिगमादराट् ।। ४ ।।
मुसुडीचमडस्तद्वच्छूलब्रह्मसंज्ञकः ।।
तथैव सूर्यचमड आंध्रब्रह्माभिधो महान् ।। ५ ।।
कलिकेतब्रह्मभक्तः शांतदेवो महामतिः ।।
तथा तेल्गेशमसणस्तथैवैकांतरामयः ।। ६ ।।
ऽ बोम्मः श्रीमान्भासवंतः ऽ केशाख्यो भक्तसत्तमः ।।
उत्तमांगदकेशी च होन्ननामा तथैव च ।। ७ ।।
गंडगत्तरिनाचाख्यः शृंगिबोम्मस्तथैव च ।।
कालाग्निरुद्रश्च गुरुश्चंडनामा महत्तरः ।। ८ ।।
श्रीमान् मुड्गिरिमल्लेशः संगमेशस्तथैव च ।।
कद्रुरेम्मो महाकालः पदुमर्सस्तपोधनः ।। ९ ।।
पुराणभट्टो वोप्रेंद्रस्तथा वरदरामकः ।।
योगिदेवश्चिक्कदेवो मुंडब्रह्मा तथैव च ।। १० ।।
तथैवोदयमर्सश्च होन्नो धवल एव च ।।
तथैव बोंतादेवी च सारिनायस्तपोधनः ।। ११ ।।

प्. २०१) श्रीमान सवरचिक्काख्यो भास्करो मुनिसत्तमः ।।
श्रीमद्बासनभीमश्च गोणिमल्लस्तथैव च ।। १२ ।।
शिवमुद्दकुले जातो देवनामाऽतिभक्तिमान् ।।
शिवरात्रिवरतासक्तः संगमेशो दृढव्रतः ।। १३ ।।
अतिमुक्ताख्यभक्तश्च नंदीशश्चारमस्तथा ।।
खंडिदेवो मिंडसोमो गोग्गः कोटीशचामकः ।। १४ ।।
हाटकेशकुलोद्भूतो ब्रह्मा चैव महाबलः ।।
श्रीमान् धूर्जटी केशी च दुम्मनब्रह्मसंज्ञिकः ।। १५ ।।
कपिलेशश्च विश्वेशोयमी संगस्तथैव च ।।
नोणमिशान्वये जातश्चिक्कभक्तो महाम्तिः ।। १६ ।।
गणदासान्वये जातो मादो भक्तिमतां वरः ।।
कटमल्लो नुल्कचंद अल्लोमधुवयस्तथा ।। १७ ।।
मुरुहाट्टकुले जातः केतनामातिभक्तिमान् ।।
हल्लो गोड्डलमल्लश्च शिवनागस्तथैव च ।। १८ ।।
तथा हिरियहल्लश्च लेंकब्रह्मातिनैष्ठिकः ।।
गिरिगीटकुले जाता सिंगांबाऽत्यन्तपावनी ।। १९ ।।
तथा गुडुबकालांबा हीलब्रह्माऽतिपावनः ।।
तथा निमिषकेशी च बालब्रह्मा दृढव्रतः ।। २० ।।
करवालब्रह्मनामा हिंडिब्रह्मा तथैव च ।।
प्रतिहारी बाचिराजः कपिलो ब्रह्मसंज्ञिकः ।। २१ ।।
अंकब्रह्मा मायिदेवो वीरकल्लस्तथैव च ।।
श्रीमान्विमलदेवश्च वीरभासस्तथैव च ।। २२ ।।
वीरनागो

प्. २०३) वीरदेवो वीरब्रह्माऽतिभक्तिमान् ।।
वीरलिंगो वीरमारश्चिब्रह्मा सुनिर्मलः ।। २३ ।।
चिक्करब्रह्मभक्त श्रीगीशाख्यस्तथैव च ।।
येलेशब्रह्मभक्तश्च शरणाख्यस्तपोधनः ।। २४ ।।
मेलसब्रह्मदेवश्च वेदवेदांगपारगः ।।
बंडिकारकुलोत्पन्नः कूल्लोऽत्यन्तविशुधधीः ।। २५ ।।
तथा वकरकेताख्यो भक्तो निर्मलमानसः ।।
निजलिंगश्चिक्कनामा तथा निर्लज्जशांतकः ।। २६ ।।
निजभावस्तथा योगी नित्यनेमदमैलराट् ।।
इलेयालब्रह्मनामा तथा संकदबंककः ।। २७ ।।
अनिमेषोऽमृतः श्रीमान् शिवभक्तिविशारदः ।।
एवमन्ये महात्मनो दृष्टप्रत्ययदर्शकाः ।। २८ ।।
प्रसादभोगिनः सर्वे लिंगांगैक्यकलाविदः ।।
शृण्वन्तो भक्तमाहात्म्यं भक्तालापैकतत्परा ।। २९ ।।
पाषंडाननुगृण्हंतश्चिन्मयया शिवदीक्षया ।।
वदन्तः शिवमाहात्म्यमन्योन्यं हृष्टचेतसः ।। ३० ।।
सर्वे सुखेन न्यवसन् कल्याणनगरे शुभे ।।
शिवद्विजाधमाः सर्वे प्राकृता लिंगवर्जिताः ।। ३१ ।।
बिज्जलांतिकमासाद्य चुक्रुशुः क्रोधमूर्छिताः ।।
राजंस्तव पुरे रम्ये महोत्पाता विजज्ञिरे ।। ३२ ।।
श्रीकंठगौरीनाथौ च लोकेशाख्यश्च देवलः ।।
त्रिलोकेशस्तथेशानो द्विजः शांतः शिवद्विजः ।। ३३ ।।
बोधिता बसवेशेन संजाता लिंगधारिणः ।।

प्. २०४) सर्वं शिवप्रसादान्नं स्वयं भुंजति केवलम् ।। ३४ ।।
अस्माकमीषदपि ते सर्वदा न ददत्यहो ।।
यथेयमागता वृत्तिरस्माकं बहुकालतः ।। ३५ ।।
सत्यमेव प्रवक्ष्यामः शृणु बिज्जलभूपते ।।
भूदेववंशजः श्रीमांश्चंडेशो भक्तसत्तमः ।। ३६ ।।
पशुसंरक्षणव्यग्रो जगामविपिनांतरम् ।।
 स सैकतं लिंगमेकं कृत्वा जनमनोहरम् ।। ३७ ।।
दुग्धैश्च सर्वधेनूनां स्नापयामास भक्तितः ।।
एतद्दृष्ट्वा पिता तस्य लिंगं पादेन चि.क्षिपे ।। ३८ ।।
चंडेशः सहसोत्थाय जघान पितरं ततः ।।
तदा तस्य प्रसन्नोऽभूद्देवदेवस्त्रिलोचनः ।। ३९ ।।
प्रसन्नं परमेशानं तुष्ट्वाव विविधैः स्तवैः ।।
ततश्चंडेश्वरः श्रीमान् ययाचे वरमुत्तमम् ।। ४० ।।
त्वदीयं पावनं शुद्धं प्रसादं परमेश्वर ।।
दातुं त्वमर्हसि मम मयि कारुण्यमस्ति चेत् ।। ४१ ।।
इति संप्रार्थितो देवस्तस्मै संप्रददौ वरम् ।।
अस्माकं च ददौ चंडः प्रसादं शंकरस्य सः ।। ४२ ।।
वीरमाहेश्वराः सर्वे बसवेशबलान्विताः ।।
अस्माभिर्विवदन्त्यद्य प्रसादं न ददुर्नृप ।। ४३ ।।
उद्धरास्मद्वृत्तिमेतां नो चेत् स्त्रीबालपूर्वकम् ।।
प्रविशामोऽनलं क्षिप्रं ज्वलितं च त्वदन्तिके ।। ४४ ।।
तेषां वचः समाकर्ण्य चंडजानां तदा नृपः ।।
आह्वयामास् बसवं बिज्जलः

प्. २०५) क्रोधमूर्छितः ।। ४५ ।।
समागतं तं बसवं राजा वचनमब्रवीत् ।।
प्रसादभोगिनः सर्वानुत्सृज्याधर्ममार्गतः ।। ४६ ।।
किमित्यद्य प्रसादान्नं यूयं भुंजथ मे वद ।।
एवमुक्तस्तु बसवो राजानं प्रत्यभाषत ।। ४७ ।।
चंडदत्तमिति प्रोक्तमेतैस्तत्सत्यमेव हि ।।
स्थावरेष्वेषु लिंगेषु तद्दत्तं शूलपाणिना ।। ४८ ।।
बाणलिंगे स्फाटिके च रत्ने स्वायंभुवे तथा ।।
चंडेशस्य न भागोऽस्तीत्येवमाहुर्मनीषिणः ।। ४९ ।।
माहेश्वरप्रसादान्नं ये भुंजंति नराधमाः ।।
ते यांति नरकान् घोरानित्याहुर्मुनिपुंगवाः ।। ५० ।।
चरलिंगप्रसादेऽस्मिन् सर्वपातकनाशने ।।
अत्यन्तपावने चैषां नाधिकारोऽस्ति तत्त्वतः ।। ५१ ।।
चरप्रसादे भक्तानां भोक्तुं योग्येऽतिपावने ।।
पापिनां नाधिकारोऽस्ति त्रिमलावृतदेहिनाम् ।। ५२ ।।
चरलिंगप्रसादान्नमेतेषां पापकर्मिणाम् ।।
दत्तं कदा वा केनापि पूर्वं विमृश भूपते ।। ५३ ।।
पुनः प्रोचुर्दुरात्मानो निरस्ता अपि मंत्रिणा ।।
वाराणस्यां गयायां च केदारे श्रीनगे तथा ।। ५४ ।।
सौराष्ट्रे दक्षवाट्यां च वैजनाथेऽतिपावने ।।
सेतौ च कुंभकोणे च गोकर्णे च चिदंबरे ।। ५५ ।।
शिवप्रसादभागं नो दास्यन्ति

प्. २०६) मुनिसत्तमाः ।।
न ददाति भवानेकः प्रसादं बसवेश्वर ।। ५६ ।।
युष्माभिस्तत्प्रसादो न दत्तश्चेदद्य तत्त्वतः ।।
त्यक्ष्यामोऽसूंस्तव पुरः शिशुबालपुरः सरम् ।। ५७ ।।
ततो देवलकान् प्राह प्रहसन् बसवेश्वरः ।।
वातेन जीर्णपर्णानि भ्रश्यन्ते न हि पर्वताः ।। ५८ ।।
भवद्वाक्यैर्वयं सर्वे नेष्यामो भयमुल्बणम् ।।
हरिब्रह्मादयः सर्वे किं गृण्हन्ति परात्परम् ।। ५९ ।।
भवादृशानां क्षुद्राणां का कथा दुर्बलात्मनाम् ।।
अतश्चरप्रसादान्नं युष्माकं न तु दीयते ।। ६० ।।
अस्ति चेद्भवतामिच्छा चरलिंगप्रसादके ।।
क्षणं तिष्ठत दास्यामश्चरलिंगप्रसादकम् ।। ६१ ।।
एवमुक्त्वा तु बसवः पुरस्तात्प्रतिवादिनाम् ।।
सार्पं विषं कालकूटं वत्सनाभं महोज्वलम् ।। ६२ ।।
विषवृक्षत्वचं चैव ब्रह्मपुत्रं हलाहलम् ।।
अतिक्रूरविषाण्येवमादीन्यत्यन्तवेगतः ।। ६३ ।।
आनयामास बसवः शिवभक्तैः समावृतः ।।
पेषयामास वेगेन स्वभृत्यैर्बलदर्पितैः ।। ६४ ।।
एतद्विषौघज्वालाभिरंशुमान्मंदतां गतः ।।
त्रैलोक्य. कंपयामास् चराचरसमाकुलम् ।। ६५ ।।
पक्षिणो विवृताः सर्वे क्रोशंतो दग्धपक्षकाः ।।
सर्वेऽपि मूर्छिताः संतः पेतुर्नक्षत्रपंक्तयः ।। ६६ ।।
ब्रह्माऽपि भयमापन्नो दिगीशाश्च चकंपिरे ।।
पुनरुत्पन्नमभवत्कालकूटं

प्. २०७) किमंबुधेः ।। ६७ ।।
शिवेन वा किमुद्वांतमिति देवो जनार्दनः ।।
परमां भीतिमगमदित्थं जाते विषानले ।। ६८ ।।
निरीक्ष्य बसवेशोऽपि स्वभृत्यौघैः समन्वितः ।।
एवंविधं विषं घोरं निक्षिप्य चषकांतरे ।। ६९ ।।
हरद्विजान्समाहूय बभाषे बसवेश्वरः ।।
युष्माकमेतद्दास्यामि स्वीकुरुध्वं द्विजाधमाः ।। ७० ।।
ततस्ते बसवेशानं प्रोचुर्बिज्जलसन्निधौ ।।
भक्ष्यभोज्यरसोपेतं प्रसादान्नं महोज्वलम् ।। ७१ ।।
त्वं गृहीत्वा भक्तसंघैर्विषमत्यन्तमुल्बणम् ।।
अस्माकं दास्यसे किंवा मारकं चातिभिषणम् ।। ७२ ।।
यथा कथंचिज्जिवामः कृत्वा पार्वणभोजनम् ।।
पपुर्विषं पुरा के वा शिवं हित्वा नराः सुराः ।। ७३ ।।
अतस्त्वं भक्तसंघैश्च विषं भक्षय सत्वरम् ।।
जीवितश्चेद्भवानद्य तूष्णीं यास्यामहे वरम् ।। ७४ ।।
ततस्तु बसवेशोऽपि शिवभक्तः समावृतः ।।
आज्ञप्तो बिज्जलेनापि तूर्यघोषपुरःसरम् ।। ७५ ।।
पौरैः समावृतः सर्वैर्विषपात्रधरः स्वयम् ।।
शिवालयं समासाद्य पुनः प्रोवाच बिज्जलम् ।। ७६ ।।
शिवश्चेत्सर्वलोकानां सृष्टिस्थित्यंतकारणम् ।।
भसिते चैव रुद्राक्षे माहात्म्यं वर्तते यदि ।। ७७ ।।
लिंगार्पितानि वस्तू

प्. २०८) नि संत्यक्त्वैव स्ववस्तुताम् ।।
गच्छंति नः प्रसादत्वम् परमानंदकारणम् ।। ७८ ।।
असंदिग्ध स्वयं स्याच्चेच्छिवभक्तिपरायणः ।।
शिवार्पितं विषं चैतत्सुधाभावं समश्नुते ।। ७९ ।।
एवमुक्त्वा तु बसवो गृहीत्वा दारुणं विषं ।।
न्यवेदयत्स्वभक्तानामाचार्याणां महात्मनाम् ।। ८० ।।
ततस्ते स्वीयलिंगानां विनिवेद्यातिभक्तितः ।।
विषं तद्भोजयामासुर्माचिदेवपुरोगमाः ।। ८१ ।।
गायन्तो नर्तयन्तश्च भाषयन्तः परस्परम् ।।
यावत्स्वोदरपूर्तिः स्यात्तावद्घोरं विषं पपुः ।। ८२ ।।
ततः स्वभृत्यवर्गस्य गजानां वाजिनां तथा ।।
स्वांतःपुरस्थितानां च दापयामास् तद्विषम् ।। ८३ ।।
ततः पीतविषाः सर्वे दिव्यदेहा बभूविरे ।।
एतदत्यद्भुतं कर्म ब्रह्मविष्ण्वादि देवताः ।। ८४ ।।
दृष्ट्वा विस्मयमापन्नाः पुष्पवृष्टिं ववर्षिरे ।।
देवदंदुभयो नेदुर्ननृतुश्चाप्सरो गणाः ।। ८५ ।।
विद्याधराः किन्नराश्च तुष्टुवुर्बसवेश्वरम् ।।
वसिष्ठवामदेवद्या मुनयो विस्मयं गताः ।। ८६ ।।
ततो बिज्जलराजोऽयमागत्य बसवांतिकम् ।।
ननाम दण्डवद्भूमौ सामोक्त्या बसवेश्वरम् ।। ८७ ।।
संसाराख्यमहावल्लीलवित्रात्यन्तपावन ।।
शैवसंस्तुत्य-

प्. २०९) मानोद्यच्चरित्रोद्भासितव्रत ।। ८८ ।।
अतिनिर्मलगात्रार्य सत्प्रसादैकभाजन ।।
अद्वैतोद्घतमत्तेभकुंभोद्भेदमृगाधिप ।। ८९ ।।
पांचरात्राख्यनीहार समुन्मूलनभास्कर ।।
अशेषशैवसमयप्रवर्तनविचक्षण ।। ९० ।।
श्रीमत्पंचाक्षरीमंत्ररहस्यज्ञानदीपक ।।
पाषंडभूधरपवे परतत्त्वविशारद ।। ९१ ।।
शिवाद्वैतमताभिज्ञ शैवागमविशोधक ।।
पुरा सिंधुसमुद्भूत. कालकूल्त्ं महोज्वलम् ।। ९२ ।।
ग्रसितु. चाक्षमः शंभुः स्वकंठेऽस्थापयत्प्रभुः ।।
त्वयाऽतिदारुणं घोरं कालकूटोपमं परम् ।। ९३ ।।
निपीतं भक्तसंघैश्च बसवेश महामत् ।।
अतस्तवाद्य माहात्म्यं वर्णितुं कः पुमान् प्रभुः ।। ९४ ।।
इति पौरजनाः सर्वे तुष्टुवुर्बसवेश्वरम् ।।
ततस्ते देवलाः सर्वेऽप्यागत्य बसवेश्वरम् ।। ९५ ।।
साष्टांगं प्रणिपत्याशु प्रोचुरंजलिसंयुताः ।।
बसवेश महाभाग भक्तामरमहीरुह ।। ९६ ।।
अस्माकं ज्ञानहीनानामभयं दारुमर्हसि ।।
दुर्जनानां च संसर्गाद्विरोधोऽपि महात्मभिः ।। ९७ ।।
अतिश्रेयस्करः प्रोक्तो व्यासाद्यैस्तत्वदर्शिभिः ।।
सर्वेषां

प्. २१०) गतिरस्माकं भवनेव कृपानिधिः ।। ९८ ।।
वृत्तम् ।।
एवं स्तुतो बसवमंत्रिवरो जनौघैर्दत्वाऽभयं स्तुतिमतां च
हरद्विजानाम् ।।
आशान्तरप्रसृतकीर्तियुतः स्वगेहान् सद्भक्तसंघकलितः प्रविवेश दिव्यान् ।।
९९ ।।
इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे
कुमारागस्त्यसंवादे नामैकोनचत्वारिंशोऽध्यायः ।।