बसवपुराणम्/अध्यायः ३८
| ← अध्यायः ३७ | बसवपुराणम् अध्यायः ३८ [[लेखकः :|]] |
अध्यायः ३९ → |
प्. १८९) अथ अष्टत्रिंशतितमोऽध्यायः
अगस्त्यः ।।
षडानन महाभाग भक्तमाहात्म्यमुत्तमम् ।।
पुनश्च श्रोतुमिच्छामि कृपया वद मे प्रभो ।। १ ।।
कुमारः ।।
एवं बिज्जलभूपाय निरूप्य बसवः पुनः ।।
शिवभक्तौघमाहात्म्यं वक्तुं समुपचक्रमे ।। २ ।।
वल्लकीनामनगरे शिवभक्तनिषेविते ।।
तत्रासीदुद्भटः कश्चिदाराध्यो भक्तसत्तमः ।। ३ ।।
वरभोजमहीपालं दीक्षयामास शास्त्रतः ।।
वेदशास्त्रपुराणौघैः सर्वान्निर्जित्य वादिनः ।। ४ ।।
पारम्यं स्थापयामास शिवस्य परमात्मनः ।।
चोम्मांबाख्यां तया तस्थौ यथासुखम् ।।
ततस्तु ब्राह्मणाः सर्वे राजनमिदमब्रुवन् ।। ६ ।।
उद्भटाराध्यनामाऽयं स्वगुरुः शास्त्रकोविदः ।।
अकुलीनैश्च भक्तौघैः सहवासपरोऽभवत् ।। ७ ।।
इति द्विजैर्बोध्यमानो राजाऽपि गुरुभक्तिमान् ।।
तद्वाक्यान्यगणययेव यथापूर्वमवर्तत ।। ८ ।।
ततश्च परमेशोऽपि सांबश्चंद्रार्धशेखरः ।।
उद्भटाराध्यसद्भक्तिं प्रकटीकर्तुमिच्छया ।। ९ ।।
उद्भटं मारयामास तपःशीलसमन्वितम् ।।
प्. १९०) ततस्तद्वांधवाः सर्वे ददहुस्तत्कलेवरम् ।। १० ।।
तस्य स्मशाननिकटे वटवृक्षो महानभूत् ।।
संख्यातीताश्च वेताला न्यवसन्वटभूरुहे ।। ११ ।।
तदंगधूमसंबंधात्संत्यज्य स्वपिशाचताम् ।।
दिव्यदेहधराः सन्तो ह्यगमञ्च्छांभवं पदम् ।। १२ ।।
तस्मिन् पिशाचसंघे तु कश्चिद्वेतालसत्तमः ।।
अत्यंतदूरमाहारं ययौ संपादितुं स्वयम् ।। १३ ।।
सोऽप्यागत्य पिशाचेशो न ददर्श स्वकाञ्जनान् ।।
अतिदुःखसमाक्रान्तो रुरोदोच्चैरनाथवत् ।। १४ ।।
श्रुत्वैतद्रोदनं भूपोऽप्याययौ विस्मितस्तदा ।।
ततस्तं प्राह भूपालः किमर्थं रुदते भवान् ।। १५ ।।
एवं ब्रुवन्तं राजानं पिशाचः पुनरब्रवीत् ।।
सहस्रद्वादशाब्दानामवधीकृत्य भूपते ।। १६ ।।
असंख्याताश्च वेताला न्यवसन्वटभूरुहे ।।
उद्भाटाराध्यमरणं प्रतीक्षन्तो महीतले ।। १७ ।।
आहारवांच्छया सोऽहं गतवान्विपिनान्तरम् ।।
तदंगधूमसंपर्काच्छिष्टाः सर्वे गताः परम् ।। १८ ।।
शिवस्य स्थानमतुलं कैलासाख्यं महोहरम् ।।
बहुकालकृतो यत्नो ममाद्य विफलीकृतः ।। १९ ।।
तरिष्यामि कथं वाऽहं दुःखसागरमुल्बणम् ।।
मययस्ति चेद्दया राजन् काष्ठान्यानीय पावकम् ।। २० ।।
प्. १९१) स्मशाने चोद्भटस्यास्य पुनः प्रज्वलितं कुरु ।।
तदंगधूमसंपर्काद्वटं निर्भिद्य सत्वरम् ।। २१ ।।
जनेष्वेते.उ पश्यत्सु यास्येऽहं शिवसन्निधिम् ।।
पिशाचेनैवमुक्तस्तु राजा सर्वं तथाऽकरोत् ।। २२ ।।
पिशाचो वटवृक्षेण जनैर्भूपपुरोगमैः ।।
दिव्यं विमानमारुह्य कैलासं सहसा ययौ ।। २३ ।।
एतदुद्भटमाहात्म्यं त्रिषु लोकेषु विश्रुतम् ।।
किं त्वया न श्रुतं पूर्वं बिज्जल क्षोणिबल्लभ ।। २४ ।।
त्रिलोचनस्य भक्तोऽभूत्कश्चिच्छैवार्चनोत्सुकः ।।
प्राकृतानां च सर्वेषा. भविनां च महारिपुः ।। २५ ।।
द्विजं पुराणवक्तारं समामंत्र्येदमब्रवीत् ।।
पुराणभट्ट दुर्बुद्धे शिवो ब्रह्मकपालधृत् ।। २६ ।।
सदा चरति भिक्षार्थमिति त्वं प्रतिभाषसे ।।
विष्वक्सेनशिरश्छिन्नं शिवेनैव महात्मना ।। २७ ।।
इति पौराणिकीं गाथां कदाऽपि न वदस्यहो ।।
विष्णुश्च वामनो भूत्वा पादत्रयमितां भुवम् ।। २८ ।।
याचयित्वा बलिं पद्भ्यां सप्तलोकानमानयत् ।।
पादमूर्ध्वं प्रसार्यैकं बिभिदेऽजांडखर्परम् ।। २९ ।।
एवं त्वं भाषसे नित्यं ततश्चंद्रार्धशेखरः ।।
शिरश्चिच्छेद तस्येति कथां वा न वदस्यहो ।। ३० ।।
वाराणस्यां च
प्. १९२) व्यासोऽपि न दैवं केशवात्परम् ।।
भुजमुद्यम्य सहसा इत्येवं भाषते भवान् ।। ३१ ।।
समागत्य तदा नंदी भुजस्तम्भं चकार सः ।।
ततस्तु लब्धविज्ञानो मुनीनां च सभांतरे ।। ३२ ।।
पुनः प्रोवाच शांतात्मा न दैवं शंकरात् परम् ।।
एवं प्रसिद्धामाद्यन्तकथां च न वदस्यहो ।। ३३ ।।
दक्षप्रजापतिः पूर्वं परित्यज्य सदाशिवम् ।।
क्रतोरधिपतिं विष्णुमकरोदिति भाषसे ।। ३४ ।।
वोष्णोश्च यज्ञमूर्तेश्च सर्वेषां च दिवौकसाम् ।।
छिन्नानि मस्तकानीति कथां वा न वदस्यहो ।। ३५ ।।
नृसिंहरूपमास्थाय हिरण्याक्षं महाऽसुरम् ।।
संजघानेति वदसि सर्वलोकैकभीषणम् ।। ३६ ।।
ततः सदाशिवः साक्षाच्छारभं रूपमास्थितः ।।
नृसिंहं संजघानेति कथां त्वं न वदस्यहो ।। ३७ ।।
चराचरात्मकं पूर्णं सर्वं विष्णुमयं जगत् ।।
एवं प्रलपसे नित्यं संहर्ता जगतः शिवः ।। ३८ ।।
देवासुरानुविद्धस्य कथां च न वदस्यहो ।।
जगतामपि सर्वेषां कर्ता नारायणः परः ।। ३९ ।।
एवं संभाषसे नित्यं निर्भीतस्त्वं सभान्तरे ।।
शिवो नारायणस्यास्य कर्तेति न वदस्यहो ।। ४० ।।
अतः पुराणभट्ट त्वं पक्षपाती न सत्यवाक् ।।
प्. १९३) इत्युक्त्वा श्रीकक्कभक्तः शिरच्छेद सत्वरम् ।। ४१ ।।
एतत्द्विजादयः सर्वे किं न जानंति भो नृप ।।
तथा केंबाविनगरे भोगाख्यो भक्तसत्तमः ।। ४२ ।।
अर्चयामास सद्भक्तानन्नज्यापूपपायसैः ।।
परीक्षितुं तस्य भक्तिं मृतगोवत्सभारभृत् ।। ४३ ।।
शैववेषधरः शंभुस्तद्भक्तान्तिकमाययौ ।।
प्रत्युत्थायाभिवाद्यैनं भोगभक्तोऽविशंकितः ।। ४४ ।।
तत्स्कंधस्थं मृतं वत्सं गृहीत्वा गृहमानयत् ।।
क्षणं विश्रम्य तद्भक्तो भोगं प्राहाविशंकितः ।। ४५ ।।
अहमेकं तु गोवत्संभक्षयाम्यन्वहं परम् ।।
मया प्रतिश्रुतं चैतद्व्रतं शैवामरद्रुमम् ।। ४६ ।।
पाचयस्वाद्य गोवत्सं भोक्ष्येऽहं त्वद्गृहांतरे ।।
तथेति भोगभक्तोऽपि नाना परिकरैः सह ।। ४७ ।।
गोवत्सपललं पक्वं कारयामास भक्तितः ।।
ततस्तु भोजने जाते ब्राह्मणाः पुरवासिनः ।। ४८ ।।
दृढदंडधराः सर्वे भोगभक्तजिघांसया ।।
क्रोशन्तस्ताडयेत्युच्चैर्भोगं घातय सत्वरम् ।। ४९ ।।
तद्गृहान् परिवार्याशु तस्थिरे क्रोधघूर्णिताः ।।
तदन्तरे महादेवस्तूर्णमेव तिरोदधे ।। ५० ।।
ततस्तु भोगभक्तोऽपि प्राहेदं ब्राह्मणाधमान् ।।
युष्माकं
प्. १९४) शिवभक्तानां गृहाः पुण्यतमा इमे ।। ५१ ।।
न प्रवेष्टुं सदा योग्यं यज्ञशालाः शुनामिव ।।
निंदन्ति शिवभक्तान् ये ते यान्ति नरकान् बहून् ।। ५२ ।।
ये निंदन्ति महादेवं शिवभक्तान् विशेषतः ।।
तेषां पंक्तौ न भुंजीत सहवासं च नाचरेत् ।। ५३ ।।
एवं वदन्ति श्रुतयः पुराणैश्चागमैः सह ।।
अतः संत्यज्य गच्छामो वयमेवाविशंकिताः ।। ५४ ।।
एवमुक्त्वा भोगभक्तो निर्ययौ नगरात्स्वयम् ।।
शिवालये तु तिष्ठंति यानि लिंगानि तत्पुरे ।। ५५ ।।
पूजार्थमितरैश्चैव यानि तेषां गृहांतरे ।।
तानि सर्वाणि लिंगानि तेन साकं विनिर्ययुः ।। ५६ ।।
एवं विविधलिंगैश्च भोगः सन् परिवारितः ।।
भक्तौघैर्गीयमानः सन् यदा भोगो विनिर्ययौ ।। ५७ ।।
तदा पुरौकसां लक्ष्मीर्भक्तैः सह विनिर्ययौ ।।
शून्यतामगमतुश्च चकंपे वसुधा ततः ।। ५८ ।।
तदानीं पतितान्यासन्नक्षत्राणि महीतले ।।
वृक्षाश्च भूमौ पतिता लताभिः परिवारिताः ।। ५९ ।।
पुरं तदंधकारेण महता परिवारितम् ।।
गृहस्थितं चान्नजातं बभूव कृमिसंकुलम् ।। ६० ।।
वापीकूपतटाकाद्या जलशून्या बभुविरे ।।
फलपुष्पविहीनाश्च गृहारामास्ततोऽभवन् ।। ६१ ।।
प्. १९५) तद्राजधानीमध्ये तु रुरुद्र्श्च शिवा भृशम् ।।
उल्काश्च पतितास्तत्र वन्हयः शमितास्तदा ।। ६२ ।।
संजज्ञिरे महोत्पाता ह्येवमाद्याः सहस्रशः ।।
एवं शून्यतमां दृष्ट्वा पुरीं तत्पुरवासिनः ।। ६३ ।।
भोगभक्तांतिकं गत्वा साष्टांगं प्रणिपत्य तम् ।।
सापराधांस्तथा चास्मांस्त्राहि त्राहीति चावदन् ।। ६४ ।।
ततस्तु भोगभक्तोऽपि प्रार्थ्यमानः पुरस्थितैः ।।
पुनः समाययौ तूर्णं दयारसपरिप्लुतः ।। ६५ ।।
ततस्तु शिवलिंगानि तद्भक्तेन समाययौः ।।
स्वल्पलिंगं तु विस्तीर्णे पीठे लिंगं महत्तरम् ।। ६६ ।।
स्वल्पपीठे श्तितिं प्राप्य व्युत्क्रमेणाभवत्तदा ।।
एतल्लिंगानि तत्साक्ष्यं सर्वेषां चक्रिरे भृशम् ।। ६७ ।।
उत्पातनिचयस्तूर्णं शांतिमाप पुरे ततः ।।
कर्तुं विश्वमकर्तुं वाऽप्यन्यथा कर्तुमेव वा ।। ६८ ।।
समर्थाः शिवभक्ता हि सत्यं बिज्जलभूपते ।।
कुलाकुलविचारोऽयं न कर्तव्यस्त्वया प्रभो ।। ६९ ।।
राजन् पुरा गुणोपेतां गुड्डाम्बां लोकपावनीम् ।।
शिवभक्तार्चनोत्कंठांनित्यलिंगार्चनोत्सुकाम् ।। ७० ।।
एनां कुष्ठरुजाक्रान्तां शीर्यमाणकलेवराम् ।।
आयान्तीं पुरमार्गेण ददृशुर्भाह्मणाधमाः ।। ७१ ।।
भयमुत्सृज्य सहसा किमर्थं
प्. १९६) ग्राममध्यतः ।।
कथमायाति भवतीत्यूर्चुर्ब्राह्मणसत्तमाः ।। ७२ ।।
शिवभक्ताऽपि तान् प्राह कोपप्रस्फुरिताधरा ।।
अहं सौराष्ट्रसोमेशं गत्वा संपूज्य यत्नतः ।। ७३ ।।
लभामहे पुनर्गात्रं सर्वावयवसुंदरम् ।।
ततो विनिर्ययौ तूर्णं सौराष्ट्रनगरं प्रति ।। ७४ ।।
मार्गे तस्याः पदद्वन्द्वृमासीच्चरितुमक्षमम् ।।
ततस्तु जानुयुग्मेन ययौ सा भक्तितत्परा ।। ७५ ।।
जानुयुग्मं तथैवासीद्गमनायाक्षमं परम् ।।
ततो लुठन्ती वनिता गन्तुं समुपचक्रमे ।। ७६ ।।
ततः शिवो दयाविष्टो दिव्यमूर्तिधरः परः ।।
आगत्य तां च दिव्यांगीं चक्रे सौराष्ट्रनायकः ।। ७७ ।।
अयि भक्तकुलोत्तुंगे वरं वरय सत्वरम् ।।
इत्युक्त्वा सा च वनिता पुनः प्रोवाच शंकरम् ।। ७८ ।।
विम्न्मयांग महाभाग देवदेव त्रिलोचन ।।
त्वत्पादकमलं दृष्ट्वा संप्राप्ताऽस्मि कृतार्थताम् ।। ७९ ।।
त्वमत्र तिष्ठ भोः स्वामिन्निदमेव वरो मम ।।
ततः प्रभृति सोमेशः कालिंदीपुरसंस्थितः ।। ८० ।।
तदारभ्य च गुड्डाम्बाकीर्तिलोकेषु विश्रुता ।।
ये ब्रह्मणाः पुरा चैनामपहासं तु चक्रिरे ।। ८१ ।।
तेषां गात्राणि सर्वाणि कुष्ठांगानि बभूविरे ।।
अतो हि शिवभक्तानां
प्. १९७) दौष्कुल्यं न विगण्यते ।। ८२ ।।
शिलामेकां समादाय संस्करोति यथाविधि ।।
संस्कारानंतरं साशील्लिंगं नासीच्छिला नृप ।। ८३ ।।
तथैव दुष्कुलो मर्त्यः शिवसंस्कारसंस्कृतः ।।
स्वकुलं च परित्यज्य भक्तो भवति निश्चयात् ।। ८४ ।।
तस्मादेनं च चंडाल इति बुध्यस्व मा वृथा ।।
कुलं हि शिवभक्तानां शीलं मा गणय प्रभो ।। ८५ ।।
अतोऽस्मादधिकं पापं नास्ति नास्ति महीपते ।।
कीटो हि भ्रमरासक्तो भ्रमरो भवति ध्रुवम् ।। ८६ ।।
चंडालः शिवभक्तश्चेच्छिव एव न संशयः ।।
यथा रसस्य संस्पर्शात्ताम्रं भवति कांचनम् ।। ८७ ।।
तथेशदीक्षया मर्त्यः शिवो भवति निश्चयात् ।।
यथैव कच्चरे वस्त्रे बद्धं रत्नं महत्तरम् ।। ८८ ।।
न दुष्टभावं भजते न तेजस्त्यजति स्वयम् ।।
तथैव शिवभक्तोऽपि चंडालभवने स्थितः ।। ८९ ।।
पावित्र्यं न जहात्येव यथिअवाग्निर्यथाशुगः ।।
यथा पंकोद्भवं पद्मं पंकवन्न हि निंद्यते ।। ९० ।।
यथा काष्ठोद्भवो वन्हिः काष्ठभावं जहाति हि ।।
तथैव शिवभक्तोऽपि स्वकुलं स्यज्ति स्वयम् ।। ९१ ।।
ब्राह्मणानां गुरुर्जातो व्यासो धीवरजातमजः ।।
वसिष्ठश्चोर्वशीपुत्रो जातो
प्. १९८) ब्राहमणपुंगवः ।। ९२ ।।
मातंगीगर्भसंभूतो मतंगोऽभून्महामुनिः ।।
मंडूक शुकमुख्यानां ये तिरश्चां समुद्भवाः ।। ९३ ।।
ते महामुनयो जाताः शिवभक्त्यैव बिज्जल ।।
एवच्छ्रुत्वा बिज्जलोऽपि क्रोधघूर्णितलोचनः ।। ९४ ।।
प्राह गंभीरया वाचा बसवं स्फुरिताधरः ।।
एवं प्रलपसे नित्यमसंबद्धं सभान्तरे ।। ९५ ।।
शिवभक्तांगसंभेदे क्षीरं किं स्रवते परम् ।।
छिन्नेष्वितरदेहेषु रक्तं किं स्रवते परम् ।। ९६ ।।
ततस्तु बिज्जलं प्राह बसवो भक्तसत्तमः ।।
शिवद्रोहपरैरेतैर्भस्मोद्धूलनवर्जितैः ।। ९७ ।।
त्यक्तपंचाक्षरीमंत्रैः शिवसंस्कारवर्जितैः ।।
गौतमादिमहाशापनिर्दग्धैः क्रूरकर्मभिः ।। ९८ ।।
विवादोऽभूत्सभामध्ये ममाद्य नृपपुंगव ।।
एतद्दोषनिवृत्त्यर्थ त्वदुक्तेनैव वर्त्मना ।। ९९ ।।
शिवनागस्य देहेऽस्मिन् दर्शयामि पयः परम् ।।
दर्शनीयं जलं विप्रैः सोमयाजिकलेवरात् ।। १०० ।।
नो चोदिमान् द्विजान् सर्वान् स्वपुरप्रान्तभूमिषु ।।
शूलेषु निक्षिपाद्य त्वं दयादाक्षिण्यवर्जितः ।। १०१ ।।
एवमुक्त्वा तु बसवः शिवनागकरं ततः ।।
प्रहसन्न्सिना
प्. १९९) तूर्णं चिच्छेदं शिवभक्तराट् ।। १०२ ।।
तत्करात्प्रसृतं क्षीरं नदीरूपं जगाम तत् ।।
यथा बसवभक्ताख्यकामधेनोःस्तनान्तरं ।। १०३ ।।
निर्भिद्य संसृतं क्षीरं चतुर्दिक्षु प्रकाशते ।।
तथैव शिवनागस्य करक्षीरं बभौतदा ।। १०४ ।।
पुरेशः करिकालस्य स्वर्णवृष्टिं ददौ यथा ।।
तथैव बसवेशस्य क्षीरवृष्टिं ददौ शिवः ।। १०५ ।।
इति संतुष्टुवुः सर्वे बिज्जलास्थानवासिनः ।।
मलत्रयविनिर्मुक्तशैवांगेषु स्थितं पयः ।। १०६ ।।
अस्मत्प्राकृदेहेषु रक्तमेवावतिष्ठते ।।
केचिदेवं तुष्टुवुस्ते सभायां ये विनिर्जिताः ।। १०७ ।।
ततो बिज्जलभूपालो भक्तौघपरिवारितम् ।।
शिवनागं ननामातिभक्त्या विनयतत्परः ।। १०८ ।।
ततस्तु ब्राह्मणाः सर्वे बसवेशमथाब्रुवन् ।।
अपराधसमाक्रांतान् सूक्ष्मदृष्टिविवर्जितान् ।। १०९ ।।
अनेककालविभ्राजन्मोहाकुलितचेतसः ।।
रक्ष रक्षेति सहसा प्रणेमुर्दऽडवद्भुवि ।। ११० ।।
बसवः प्रहसन्मंदमनुगृह्य द्विजांस्तदा ।।
शिवनागं गजारूढं कृत्वा स्वगृहमाययौ ।। १११ ।।
वृत्तम् ।।
एतच्चरित्रं शिवनागमस्य
प्. २००) शृण्वंति भक्त्या ध्रुवचेतसो ये ।।
भुक्त्वेह भोगान्सकलान्यथेच्छं ते यांति दिव्यं पदमीश्वरस्य ।। ११२ ।।
इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रंथे
कुमारागस्त्यसंवादे
शिवनागदेवकथावर्णनन्नामाष्टत्रिंशोऽध्यायः ।।