सामग्री पर जाएँ

बसवपुराणम्/अध्यायः ३७

विकिस्रोतः तः
← अध्यायः ३६ बसवपुराणम्
अध्यायः ३७
[[लेखकः :|]]
अध्यायः ३८ →

प्. १६९) अथ सप्तत्रिंशतितमोऽध्यायः

अगस्त्यः ।।
माहात्म्यं शिवभक्तानां त्वत्तो निगदितं मया ।।
समासेन श्रुतं भूयः कार्तिकेय वदस्व मे ।। १ ।।
स्कंदः ।।
स्ग्रेसरस्तु भक्तानां कीर्तिमानमितद्युतिः ।।
शिवनाग इति ख्यातो भक्तितत्त्वार्थकोविदः ।। २ ।।
बसवेशसमीपस्थः सदा संतुष्टमानसः ।।
प्रत्यहं बसवेशस्य पूजां गृह्णन्नुवास सः ।। ३ ।।
तदाऽसद्ब्राह्मणाः सर्वे नृपं गत्वा बभाषिरे ।।
बसवेश गृहे रम्ये शिवनाग इति श्रुतः ।। ४ ।।
चंडालो बसवेशेन पूजितः सन्नतिष्ठत ।।
प्रत्यहं बसवेशोऽपि तन्नमस्कारणोत्सुकः ।। ५ ।।
संसक्तः सर्व भक्तैश्च संभुंक्ते चाप्यशंक्तः ।।
अशेषान्वैदिकानस्मान् भोजनावसरे सदा ।। ६ ।।
नेक्षते बसवेशोऽपि पातित्यागमशंकया ।।
किमत्र बहुनोक्तेन कल्याणपुरमुज्ज्वलम् ।। ७ ।।
चंडालाकीर्णमभवत्पुल्कसैश्च समाकुलम् ।।
वर्णाः सर्वे समाकीर्णा नाशं धर्मास्समाप्नुयुः ।। ८ ।।
राजा राष्ट्रकृतं पापं सर्वमाप्नोत्यदंडनात् ।।
ज्ञात्वाऽप्यकथनात्पापं शिक्षकस्य महीपतेः ।। ९ ।।
पुरोहितोऽपि लभत इति शास्त्रव्यवस्थितिः ।।
अतस्ते कथयिष्यामो मत्पापविनिकृंतने ।। १० ।।

प्. १७०) राज्ञा चानुमतो धर्मः सर्वराज्ये प्रवर्तते ।।
शिक्षय त्वं हि बसवं मा वा शिक्षय भूपते ।। ११ ।।
अस्माभिः कथनीयं यत् तदुक्तं तव सन्निधौ ।।
एतत्पौरवचः श्रुत्वा राजा कंपितमानसः ।। १२ ।।
आव्हयामास बसवं स्वभृत्यैर्वेत्रपाणिभिः ।।
कृत्वा तु शिबिकारूढं शिवनागं महोज्वलम् ।। १३ ।।
स्वयं गृहीत्वा तद्धस्तमाययौ बसवेश्वरः ।।
तं दृष्ट्वा शिबिकारूढं राजानं प्रोचिरे द्विजाः ।। १४ ।।
त्वन्मंत्री बसवेशोऽयं चंडालेन सहागतः ।।
अकार्यकारणे भीतिं त्यक्त्वा बिज्जलभूपते ।। १५ ।।
एतच्छ्रुत्वा बिज्जलोऽपि सबाह्यां संसदं गतः ।।
स्ववस्त्रमासनं कृत्वा शिवनागं जितेंद्रियम् ।। १६ ।।
तद्विष्टरे सन्निवेश्य भक्तिभावविनम्रधीः ।।
बसवेशः समागत्य राजानमवदत्स्वयम् ।। १७ ।।
किमर्थमहमाहूतो मत्कार्यं वद मे प्रभो ।।
बिज्जलः क्रोधताम्राक्षो जगाद बसवेश्वरम् ।। १८ ।।
वेदशास्त्रपुराणेषु वर्णास्त्वष्टादश स्मृताः ।।
यथा तेषामसांकर्यंपालयंति तथा नृपाः।। १९ ।।
इदानीं वर्णसांकर्यं कल्याणकटके मम ।।
त्व्या कृतं पुरा कैश्चिदकृतं बसवेश्वर ।। २० ।।
या भक्तिः सर्ववर्णानामतिसांकर्यकारिणी ।।

प्. १७१) सा भक्तिर्जनिता लोके त्वया नान्यैर्मुनीश्वरैः ।। २१ ।।
सा भूः कथं वा फलिता भवेद्वृष्टिः कथं भवेत् ।।
यस्यां भूमौ प्रतिष्ठंति मनुष्याश्च भवादृशाः ।। २२ ।।
एवं पृष्टोऽथ बसवो भूपालमिदमब्रवीत् ।।
माचलेति पुरा काचिदभूच्चंडालवंशजा ।। २३ ।।
मनोज्ञरूपसंपन्ना नीलकुंचितमूर्धजा ।।
इंदीवरच्छदस्पर्धिनेत्रेद्वन्द्वविशोभिता ।। २४ ।।
अर्धेन्दुनिटिला रम्या पूर्णचंद्रन्भानना ।।
तिलपुष्पप्रतीकाशनासिकापरिशोभिता ।। २५ ।।
कुंदप्रसूनसंकाशद्विजपंक्तिविराजिता ।।
बिंबोष्ठा कंबुकंठी च चक्रवाककुचद्वया ।। २६ ।।
गंगावर्तसमानाभनाभिदेशोपशोभिता ।।
इंद्रनीलप्रतीकाशरोमपंक्तियुता परा ।। २७ ।।
सैकतश्रोणिसंयुक्ता रंभास्तंभोरुशोभिता ।।
शंभुत्सारससंशोभिपदद्वययुता बभौ ।। २८ ।।
कदाचिन्नृपवर्येण नलाख्येन विनोदिना ।।
रथकारकुलोत्पन्ना सा दृष्टा वरवर्णिनी ।। २९ ।।
तां दृष्ट्वा नृपतिः श्रीमान् स्मरबाणनिपीडितः ।।
ग्रामस्थितानशेषान् सोऽप्याहूय ब्रह्मणोत्तमान् ।। ३० ।।
सभामध्योपविष्टः सन् प्राहेदं वचनं परम् ।।

प्. १७२) यूयं कुरुत मद्वाक्यं यद्ब्रवीम्यहमादरात् ।। ३१ ।।
मद्ग्रामे वर्तते काचिच्चंडालकुलसंभवा ।।
योषिद्वरा राजमार्गे सा दृष्टा गच्छता मया ।। ३२ ।।
तस्यां मे मानसं लग्नमत्यन्तं द्विजपुंगवाः ।।
तस्माद्यूयं प्रकुर्वध्वं तामद्योत्तमवंशजाम् ।। ३३ ।।
इति राज्ञो वचः श्रुत्वा प्रत्यूचुस्ते नृपं द्विजाः ।।
राजंस्त्वदुक्तवचनमश्राव्यं हि महात्मभिः ।। ३४ ।।
अकार्यकरणे भूप महान् दोषो भविष्यति ।।
ब्रह्मणानां वचः श्रुत्वा राजा वचनमब्रवीत् ।। ३५ ।।
नांगीकृतं भवद्भिश्चेन्न जीविष्ये न संशयः ।।
कर्मणोऽस्य धनं यावत्तावद्दास्यामि सांप्रतम् ।। ३६ ।।
तच्छ्रुत्वा वचनं तस्य कृछ्रेनांगीकृता द्विजाः ।।
अंगीकृत्य ततः स्वर्णधेनुमकारयन् ।। ३७ ।।
तस्यां निवेश्य तां बालां क्षीरेणापूरयंस्तदा ।।
धेनुगर्भोद्भवा नारी पवित्रैव न संशयः ।। ३८ ।।
इति प्रोचुर्दुतात्मानः पूर्वजन्मगतं नृप ।।
तस्याः प्रणम्य ते सर्वे तदुच्छिष्टं पयः पपुः ।। ३९ ।।
किमेभिरुक्तिभिर्भूप सर्वे ते ब्राह्मणाधमाः ।।
संभूय तां स्वर्णधेनुं च्छित्वाऽवयभेदतः ।। ४० ।।
कृत्तिं सर्वां यायजूका नितंबं श्रुतिपाठकाः ।।
कशेरुकामुपाध्याया वालं पंडितसत्तमाः ।। ४१ ।।

प्. १७३) षडंगकास्तु पार्श्वो द्वौ वक्षः प्राभाकरास्तथा ।।
उदरं सूक्ष्मशल्यानि पार्श्वशल्यानि शाब्दिकाः ।। ४२ ।।
त्रिवेदिनो वपां चैव भागशेषाश्च सर्वशः ।।
विद्यार्थिनोऽभ्यागताश्च स्थूलसूक्ष्मखुराणि च ।। ४३ ।।
समग्र्हीरंस्तत्सर्वं कृत्वैवं नृपपुंगव ।।
ग्रामांत्यजानामेतेषां गोहन्तॄणां नृपोत्तम ।। ४४ ।।
न श्रोतव्यानि वक्यानि विरुद्धानि महात्मभिः ।।
आम्नायाः किं नु प्रथमा आद्याः किं विधिकल्पिताः ।। ४५ ।।
जातीनां कुत इत्युक्ते द्वे जाती विधिचोदिते ।।
शृणुष्व नृपशार्दूल प्रवर्तकनिवर्तके ।। ४६ ।।
भवकर्मप्रयुक्तस्तु प्रवर्तक इति स्मृतः ।।
शिवकर्मसुसंयोगी निवर्तक इतीरितः ।। ४७ ।।
श्रेष्ठे च संस्तुते सर्वैर्वेदार्थाचरिते स्थिते ।।
कुलानामितरेषां तु वाक्यानि किमु शंसितुम् ।। ४८ ।।
ब्राह्मणः कथिते जातिस्थिते चोभे प्रकर्तकः ।।
अष्टादशकुलानां तु कथनं किं प्रयोजनम् ।। ४९ ।।
अष्टादशानां वर्णानां श्रेष्ठं भक्तियुतं कुलम् ।।
दौर्भाग्यकरसंस्पृष्टकांचनं लोहवद्यथा ।। ५० ।।
शिवप्रतिनिधिर्भक्तस्तथा वै प्राकृतात्मनाम् ।।
प्. १७४) स्थितो मानुषरूपेण दृश्यते परमार्थतः ।। ५१ ।।
तस्माच्छंकरभक्तानां माहात्म्यमतिपावनम् ।।
अत्युत्तमं च भवतां वक्तुं श्रोतुं न शक्यते ।। ५२ ।।
मृगेंद्रेण शुनः साम्यं मानवः को वदेद्भुवि ।।
ग्रामक्रोडस्य करिणा कथं साम्यं वदेत्पुमान् ।। ५३ ।।
भागीरथ्या च कुल्यायाः कथं साम्यं वदेत्पुमान् ।।
खद्योतानां द्युमणिना कथं साम्यं वदेत्पुमान् ।। ५४ ।।
नक्षत्राणां च चंद्रेण कथं साम्यं वदेत्पुमान् ।।
सुमेरुगिरिणा शेन्याः कथं साम्यं वदेत्पुमान् ।। ५५ ।।
सुरद्रोः कंतकतरोः कथं साम्यं वदेत्पुमान् ।।
शिवनागाख्यभक्तेन बिज्जलप्रभुसत्तम ।। ५६ ।।
एते विप्राधमाः सर्वे कथं साम्यं प्रयांति हि ।।
इतिहासासांतरं वक्ष्ये शृणु राजन् महामते ।। ५७ ।।
शिवभक्तो महायोगी श्रीमांच्छ्रीपतिपंडितः ।।
शास्त्रवादातिकुशलो ब्राह्मणानां सभांतरे ।। ५८ ।।
शिवभक्तेन यो भूयात्सुकुलेनाकुलेन वा ।।
वेदाध्ययननिष्पाणातो वेदांतार्थविशारद ।। ५९ ।।
समान इति तस्याहं संच्छिनद्भयसिना शिरः ।।
अनंतपालभूपालसमक्षं भक्तितत्परः ।। ६० ।।
इति प्रतिज्ञां कृत्वाश्हु नीत्वांऽगारचयं परम् ।।

प्. १७५) पट्टवस्त्रांतरे न्यस्य बबंध सदृढं परम् ।। ६१ ।।
अतो हि शिवभक्तानां माहात्म्यं को नु वर्ण्यते ।।
शिवभक्तिविहीनं यो ब्राह्मणं वेदपारगम् ।। ६२ ।।
भक्तचत्वरसंस्थेन शुना साम्यं वदेद्भुवि ।।
स चंडाल इति ज्ञेयो नांत्यजोऽन्त्यज उच्यते ।। ६३ ।।
विनहालपुरे रम्ये कल्लिदेवोऽतिभक्तिमान् ।।
द्वितीयो हि महीरुद्रः प्रपंचगुणविश्रुतः ।। ६४ ।।
बभूव तत्पुरे सर्वो विषदंष्ट्रोऽतिभीषणः ।।
पौरान् सर्वान् परित्यज्य देशांतरसमागतान् ।। ६५ ।।
संदष्ट्वा मारयन्नास प्रत्यहं विधिचोदितः ।।
दृष्ट्वा हनिष्यत्यान्वेष्य रात्रौ सुप्ताञ्जनान् बहून् ।। ६६ ।।
स एकदा कल्लिदेवं दृष्ट्वा तं भक्तसत्तमम् ।।
दृष्ट्वा तदा कल्लिदेवं मृतः सर्पोऽतिभीषणः ।। ६७ ।।
तं दृष्ट्वा तत्पुरस्थाश्च जना विस्मयमापिरे ।।
ततः कृपान्वितः सोऽयं जीवयामास चोरगम् ।। ६८ ।।
ततः सन्नुतसच्छीलः स्वच्छंदो भक्तितत्परः ।।
तद्ग्रामे तस्थिवान् सोऽयं कल्लिवेदो महाशयः ।। ६९ ।।
तत्पुरे तु तदारभ्य विगतं सर्पजम् भयम् ।।
कल्लिदेवस्ततस्तत्र न्यवसच्छुद्धमानसः ।। ७० ।।
कस्मिंश्चिद्दिवसे तस्य दासी त्वत्यन्तपावना ।।
अर्घ्योदकं समानेतुं गृहीत्वा भांडमुत्तमम् ।। ७१ ।।

प्. १७६) शुभ्रवस्त्रधरा तूर्णं ययौ तत्पुरमार्गतः ।।
ततः स द्विजवर्यस्य करः स्पृष्टोऽभवत्तदा ।। ७२ ।।
आगच्छंतीं च तां दासीं स्पृष्ट्वान् द्विजपुंगवः ।।
सा च निर्भिद्य तद्भांडं निजघान महीतले ।। ७३ ।।
पुनश्च स्वगृहं गत्वा भस्म धृत्वाऽतिभक्तितः ।।
नवपात्रं समादाय जलमानेतुमुद्यता ।। ७४ ।।
ततश्च ब्राह्मणाः सर्वे राजवीथ्यां समागताः ।।
अस्पर्शा हि द्विजाः सर्वे सर्ववर्णांतरैः सदा ।। ७५ ।।
इयं चंडालकुलजा द्विजसंस्पर्शमात्रतः ।।
जलमानियमानं तदपवित्रमभूदिति ।। ७६ ।।
विनिर्भिद्य घटं वीथ्यां गृहीत्वाऽन्यघटं ततः ।।
वस्त्रेणाच्छाद्य तं कुंभमानयंती विशंकिता ।। ७७ ।।
एवं विचिन्त्य ते सर्वे क्रोधपूरितचेतसः ।।
आनायय कल्लिदेवं तं शांतचित्तमथोचिरे ।। ७८ ।।
ततः कौटिल्यकलितास्तमूचुर्द्विजपुंगवाः ।।
पूर्वं तु भवता सर्पो निहितो जीवितो महान् ।। ७९ ।।
ततः प्रभृति चास्माकमुत्कृष्ट इव लक्ष्यसे ।।
पुराणे धर्मशास्त्रे वा ब्राह्मणानां महात्मनाम् ।। ८० ।।
निषिद्धोऽन्त्यजसंस्पर्शः कल्लिदेव महामते ।।
न निषिद्धो ह्यन्त्यजानां ब्राह्मणस्पर्श उत्तमः ।। ८१ ।।

प्. १७७) आहिताग्निर्महाभागे वेदवेदांतपारगः ।।
स्पृष्टवानिति मामद्य कुंभं निर्भिद्य सत्वरम् ।। ८२ ।।
गृहीत्वाऽन्यघटं दासी जलमानेतुमाययौ ।।
इत्युक्तः कल्लिदेवोऽथ ब्राह्मणान् प्रत्यभाषत ।। ८३ ।।
भक्तांगणस्थाः श्वानोऽपि त्वादृशान् न स्पृशंति हि ।।
भवद्भिः कृतसंस्पर्शो मदालयनिवासिनाम् ।। ८४ ।।
दासानामुचितो नेति चोच्यते किं द्विजाधमाः ।।
तस्माद्विचार्यमाणेऽपि भवंतः किं द्विजातयः ।। ८५ ।।
यो ब्रह्म नित्यं चरति स एव ब्राह्मणः स्मृतः ।।
तस्माद्ब्राह्म्यं न युष्माकं शृणुध्वं ब्राह्मणाधमाः ।। ८६ ।।
किमेतैर्वचनैः शुन्यैर्ब्रह्मेति परमं किमु ।।
भवद्भिरभिधेयोऽस्य कथ्यते चेदलं ततः ।। ८७ ।।
परमात्मा परब्रह्म परमेश्वर एव् च ।।
एतैर्युक्तो नामधेयैर्हर एव न चापरः ।। ८८ ।।
परशब्दः समुत्कर्षपदं भवति निश्चयात् ।।
तदुत्कर्षपदं नास्ति परेषां त्रिदिवौकसाम् ।। ८९ ।।
हरिश्च परमेष्ठी च परमात्मा कथं भवेत् ।।
वेदेषु शास्त्रनिचये हरिमुख्यास्तु देवताः ।। ९० ।।
जीवात्मान इति ख्याताः परमात्मा शिवः स्वयम् ।।
सद्भक्ता एव जानंति तद्ब्रह्माव्ययमेव हि ।। ९१ ।।
हरिब्रह्ममुखाः सर्वे शिवभक्ताः शिवार्चकाः ।।

प्. १७८) सर्वस्मिन् देवतासंघे ब्राह्मणः शिव एव हि ।। ९२ ।।
त्वं देवेष्विति मंत्रोऽयमित्युवाचैककंठ्यतः ।।
शाखाऽपि तैत्तिरीयेयं शैवप्रकरणे परा ।। ९३ ।।
ईशानः सर्वविद्यानां भूतानामीश्वरः शिवः ।।
इति ब्रह्माधिपं प्राह ब्रह्मणोऽधिपतिं शिवम् ।। ९४ ।।
शुद्रत्वं जनने चैव प्रेतत्वं मरणे तथा ।।
उभयं केन मार्गेण गतं ब्रूउत द्विजाधमाः ।। ९५ ।।
रुद्रं विना क्रियाः कार्याः संति किं भुवनत्रये ।।
श्रुतीनामपि कः कर्ता विना रुद्रेण चास्ति हि ।। ९६ ।।
शिवसंबंधिनो ये तु त एव ब्राह्मणाः स्मृताः ।।
ततोऽस्मान्संपरित्यज्य शिवनिंदापरायणान् ।। ९७ ।।
भस्मरुद्राक्षरहितान् लिंगधारणबर्जितान् ।।
ब्राह्मण्यं कथमायाति ब्रूत मे ब्राह्मणाधमाः ।। ९८ ।।
किमत्र बहुनोक्तेन शिवभक्तांगणस्थितान् ।।
सारमेयान्निकृष्टा हि भवंतो ब्राह्मणाधमाः ।। ९९ ।।
सृष्टेयं विधिना जातिः शिवसंस्कारवन्हिना ।।
दह्यते शांभवी जातिरपरा याति नो द्विजाः ।। १०० ।।
अतो हि प्राकृता यूयं वयं शांभवसत्तमाः ।।
खद्योतसूर्ययोर्यावदन्तरं वर्त्तो भुवि ।। १०१ ।।

प्. १७९) अस्माकमपि युष्माकं वर्तते तादृगंतरम् ।।
इत्युक्ता ब्राह्मणाः सर्वे कल्लिदेवमथाब्रुवन् ।। १०२ ।।
युष्मद्गृहस्थश्वभ्योऽपि निकृष्टान्नोऽब्रवीद्भवान् ।।

  • अतः श्रुतीः सभामध्ये श्वभिश्चाध्यापयस्व भो ।। १०३ ।।

इत्युक्तः कल्लिदेवोऽपि श्वानमाहूय सत्वरम् ।।
कृपया तं समुद्वीक्ष्य भक्तस्मरणपूर्वकम् ।। १०४ ।।
वेदानध्यापयामास पश्यत्सु ब्राह्मणेष्वथ ।।
ततस्ते ब्राह्मणाः सर्वे चित्ते विगतकल्मषाः ।। १०५ ।।
संस्तुत्य विविधैः स्तोत्रैः कल्लिदेवः ववंदिरे ।।
____________________________________________________
* पाठान्तरे

अतः शुनाऽध्यापयस्व श्रुतिमस्मिन् सभांतरे ।। १०२ ।।
एवमुक्तस्तु तैः सर्वैः शुनकाह्वानतत्परः ।।
उच्छिष्टभोजिनं शंभोः प्रणवोदात्तयोगिनम् ।। १०३ ।।
दिव्यागमोत्कृष्टधरमपुनर्भववर्तिनम् ।।
धीरताश्चर्यभरितं महादुरितवर्जितम् ।। १०४ ।।
श्वानमाहूतवान् योगी कल्लिदेवो महामतिः ।।
तदाहूय समागत्य शुनकं प्रणनाम् तम् ।। १०५ ।।
आगतं श्वानमाश्वास्य

प्. १८०) सिद्धराममहाकालमुखशैवगृहांगणे ।। १०६ ।।
सारमेयाश्च तिष्ठंति भक्तोच्छिष्टोपभोगिनः ।।
स्वोच्छिष्टपूतैस्तैरेव बोधितोऽयं महात्मनः ।। १०७ ।।
अधुना सारमेयास्ते सर्वलक्षणसंयुतान् ।।
अध्यापयंति चतुरो वेदान् बिज्जलभूपते ।। १०८ ।।
अतः किं बहुनोक्तेन शिवभक्तांगणस्थितान् ।।
सारमेयान्निकृष्टा हि नृपैते ब्राह्मणाधमाः ।। १०९ ।।
पराऽभूच्छिवचित्ताख्यः शिवभक्ताग्रणीर्महान् ।।
चंडालो नैव चंडालः पुल्कसौ नैव पुल्कसः ।। ११० ।।
_________________________________________________
प्राह तं भक्तसत्तमः ।।
यत्र कुत्राऽपि वेदेषु कांडमुद्घाटयाधुना ।। १०६ ।।
इत्युक्तः शुनकश्चर्मावृतरुद्रोऽतिभक्तितः ।।
बद्धपद्मासनासीनः शिवं नीत्वा हृदम्बुजे ।। १०७ ।।
आकुचनेनादिशक्तिं संधायानुभवेन च ।।
नाडीनामनुसंधानं नासाग्रे दृष्टिसंस्थितम् ।। १०८ ।।
कृत्वाऽकलंकमधुरमृदुसत्कलया युजा ।।
तदा सुकरनादोक्तिविशुद्धेन स्वरेण च ।। १०९ ।।
त्र्यक्षरं तद्बिंदुनादप्रयुक्तांचितवर्णकम् ।।
कांडमुच्चारयामास चोंकारं

प्. १८१) शिवेति वाचं यो वक्ति सह तेन वसेद्भुवि ।।
वदेत्तेन सहात्यन्तं सह भुंजीत तेन वै ।। १११ ।।
इमा हि श्रुतयः सर्वा वदन्ति परमार्थतः ।।
अतो हि शिवभक्तेन येन केन महात्मना ।। ११२ ।।
अधीतवेदवेदांगाः कृत्वनुष्ठानतत्पराः ।।
शिवभक्तिविहीनाश्च कोटिशो नो समा द्बिजाः ।। ११३ ।।
इति संस्थापयामास समक्षं प्रतिवादिनाम् ।।
शास्त्रवादकथा चेयमास्तां श्रीशिवचित्तक ।। ११४ ।।
प्रत्यक्षं दर्शयस्वाद्य
____________________________________________________

विप्रसंसदि ।। ११० ।।
तदा ते ब्राह्मणाः सर्वे प्रणामं चक्रुरंजसा ।।
उदात्तं चानुदात्तं च स्वरितं प्रचयं तथा ।। १११ ।।
सांगमेवानुसंधाय पदक्रममनंतरम् ।।
संहितां च जटां चैव चतुर्वेदेषु तत्वतः ।। ११२ ।।
एकामेकामृचं तेषु पपाठ भषकस्तदा ।।
ततस्तूर्णं समुत्थाय कल्लिदेवो महायशाः ।। ११३ ।।
शृणुवत्सु सत्सु सर्वेषु प्रोवाचोच्चैरलं त्विति ।।
एवमध्यापयामास ब्राह्मणानां सभांतरे ।।
कल्लिदेवो महाभक्तः शुना वेदान् महत्तरः ।। ११४ ।।

प्. १८२) महती भक्तिरस्ति चेत् ।।
शिवचित्तस्त्वेवमुक्तः सभामध्ये द्विजोत्तमैः ।। ११५ ।।
चंडाल शिवभक्तस्य समानीत्वा च पादुकाम् ।।
तुलापात्रे विनिक्षिप्य तथाऽन्यस्मिन् द्विजान् बहून् ।। ११६ ।।
तुलयामास सहसा शिवभक्ताननुस्मरन् ।।
ततस्तु पादुकापात्रं गतमत्यन्तगौरवम् ।। ११७ ।।
ब्राह्मणाधारपात्रं तु दौर्बल्यादूर्ध्वमुत्थितम् ।।
तस्मादभक्ता भक्तानां समाः पादुकया नहि ।। ११८ ।।
गोब्बुरिग्रामनिवसद्बिब्बबाचमहात्मनः ।।
माहात्म्यं को नु वर्ण्येत तथाऽपि प्रोच्यते मया ।। ११९ ।।
प्रसादं शिवभक्तानां लिंगमूर्तेर्महौजसः ।।
उपभुंजंश्चचारास्मिन् भुवने मर्त्यसंवृते ।। १२० ।।
अग्रहारेषु ये भक्ता योजनत्रितयान्तरे ।।
वेदोक्तशैवमार्गस्थाः संति शैवव्रतोज्वलाः ।। १२१ ।।
तेषां रम्यान् गृहान् गत्वा प्रसादग्रहणोत्सुकः ।।
भक्तौघसत्पादरक्षाकल्पिताशेषभूषणः ।। १२२ ।।
भस्मोद्धूलितसर्वांगो धृतरुद्राक्षमालिकः ।।
वृषध्वजसमाकीर्णं किंकिणीजालसंवृतम् ।। १२३ ।।
रुद्राक्षमालिकायुक्तं स्वर्णचामरभूषितम् ।।
आनीयमानं वृषभैश्चतुर्भिर्धवलैः शुभैः ।। १२४ ।।

प्. १८३) गृहीत्वा शकटं रम्यं चक्रे भक्तनमस्क्रियाम् ।।
अतिसंतुष्टहृदयस्तत्प्रसादं महत्तरम् ।। १२५ ।।
याचयामास सद्भक्त्या बिब्बिआचो महामतिः ।।
प्रसादं भक्तराड्दत्तं निक्षिप्य शकटोदरे ।। १२६ ।।
शिवभक्तांस्तुवन्बाचः स्वपुरीमाययौ ततः ।।
कालत्रयेऽपि भुंजानः प्रसादं तस्थिवान् पुरे ।। १२७ ।।
एतद्दृष्ट्वा बिब्बिबाचव्यापारं द्विजपुंगवाः ।।
नानामुखसमुद्भूत भक्तोच्छिष्टस्य भोजनम् ।। १२८ ।।
ब्राह्मणानामयुक्तं हि ब्राह्मण्यस्य विनाशकृत् ।।
तेनेदं क्रियते कर्म ब्राह्मणेन दुरात्मना ।। १२९ ।।
इति संचिंतयामसु. संभूय द्विजसत्तमाः ।।
एतस्मिन्नंतरे कश्चिच्छिवभक्तोऽन्त्यजो महान् ।। १३० ।।
भक्तानां भोजनं चक्रे गोब्बुरिपुरवासिनाम् ।।
यथापूर्वं गृहीत्वाश्हु शकटं वृषभैर्युतम् ।। १३१ ।।
चंडालभवनं गत्वा प्रसादं सोऽप्यथानयत् ।।
गोब्बूरिपुरमार्गेण गायन् भक्तैः समाययौ ।। १३२ ।।
आयान्तं ब्राह्मणाः सर्वे बिब्बिबाचं पुरौकसः ।।
दृष्ट्वा विस्मयमापन्नाः प्रोचुः क्रोधसमन्विताः ।। १३३ ।।
बिब्बबाच वदस्वाद्य सर्वोच्छिष्टमपावनम् ।।
गृहीत्वा शकटेनैव पुरमार्गे चरस्यहो ।। १३४ ।।
द्विजन्मनामयुक्तं हि चंडालोच्छिष्टभोजनम् ।।
अतस्त्वमपि चंडालो

प्. १८४) निर्गच्छाशु पुरोअढुना ।। १३५ ।।
इति तैर्ब्राह्मणैरुक्तो बिब्बिबाचो जगाद तान् ।।
दुर्मार्गवर्तिनो यूयं शैवद्वेषरताः सदा ।। १३६ ।।
भक्तानामपि युष्माकं तारतम्यं हि वर्तते ।।
क्व यूयं शिवभक्ताः क्व किं नः कलहकारणम् ।। १३७ ।।
भक्तलिंगप्रसादान्नमुच्छिष्टमिति शंकया ।।
विरुद्धभाषणरता गच्छध्वं नरकान् प्रति ।। १३८ ।।
प्रभावं सत्प्रसादस्य न जानंति भवादृशाः ।।
सुधेय शिवभक्तानामन्येषां विषमुल्बणम् ।। १३९ ।।
असमर्थो मदग्रे तु संस्थातुं पापकर्मिणः ।।
तिष्ठेयुर्यदि निर्भीकाः शलभानिव पावकः ।। १४० ।।
दहिष्यामि महावेगात्सत्यं सत्यं मयोदितम् ।।
इत्युक्ता ब्राह्मणास्तेन क्रोधकुलितचेतसः ।। १४१ ।।
छेदितव्यो हि शकटस्ताडितव्यो वृषभध्वजः ।।
रज्जवश्छेदितव्याश्च ताडितव्यो द्विजाधमः ।। १४२ ।।
दिक्षु क्षिपत चोच्छिष्टमन्नं लोकविरर्हितम् ।।
एवं संभाषमाणास्तु परिवार्य च तस्थिरे ।। १४३ ।।
ततस्तु बिब्बिबाचोऽयं मंदं मंदं हसन् स्वयम् ।।
प्रसादाच्छादकं वस्त्रमपसारितवांस्तदा ।। १४४ ।।
ततो भक्तप्रसादोऽयं पावककृतिभीषणः ।।
शिवभालाक्षजो वन्हिः पुरत्रयमिवोज्वलः ।। १४५ ।।

प्. १८५) ददाह ब्राह्मणान् सर्वान् सुपुत्रान् सगृहान् क्षणात् ।।
तद्दृष्ट्वा बिब्बिबाचस्य माहात्म्यमतिभीषणम् ।। १४६ ।।
शिवभक्ता महात्मानो ननृतुर्विस्मितास्तदा ।।
भययुक्तास्ततः सर्वे हतशेषाः पुरौकसः ।। १४७ ।।
अब्रह्मण्यं ब्रुवन्तश्च बाचं तमिदमूचिरे ।।
अनर्थान् दुष्टहृदयान् क्रूरकर्मरतान् पशून् ।। १४८ ।।
शठान् विनष्टमनसो भ्रष्टान् मानलज्जापराङ्मुखान् ।।
सन्मार्गदूषकन्निंद्यान् सदसज्ज्ञानवर्जितान् ।। १४९ ।।
शिवभक्तप्रसादान्नमाहात्म्यज्ञानवर्जितान् ।।
रक्ष रक्षेति सहसा गलबद्धाम्बरास्ततः ।। १५० ।।
प्रणेमुर्विविधैः स्तोत्रैस्तुष्टुवुश्च सहस्रशः ।।
ततः कृपाविष्टमना आश्वास्यैतान् द्विजाधमान् ।। १५१ ।।
कृताञ्जलिपुटो भूत्वा तस्थौ तत्रातिभक्तिमान् ।।
कृशानुभावमुत्सृज्य प्रसादान्नं महत्तरम् ।। १५२ ।।
स्वस्वरूपं समास्थाय यथापूर्वमतोष्ठत ।
ततो हतान् ब्राह्मणांश्च जीवयामास तत्क्षणात् ।। १५३ ।।
दग्धा गृहा यथापूर्वमतिष्ठन् शोभनास्ततः ।
अतो बिज्जलभूपाल् कितीटार्चितपादुक ।। १५४ ।।
चंडालः शिवभक्तश्चेत्स एव ब्रह्मणोत्तमः ।।
शिवभक्तिविहीनश्चेद्ब्राह्मणो ह्यन्त्यजः स्मृतः ।। १५५ ।।
एवमेवैक कंठ्येन श्रुतयोऽपि वदन्ति हि ।।
एतानवेहि

प्. १८६) चंडालान् द्विजवेषधरान् प्रभो ।। १५६ ।।
आकर्ण्य चैतद्वचनं महापातकनाशनम् ।।
वेणुपात्रविनिर्मातुश्चन्नस्य भवने शिवः ।। १५७ ।।
पपावत्यन्तसंप्रीत्या कांजीरमतिपावनम् ।।
अतो भक्तांश्च चंडाला इति वक्तुं न शक्यते ।। १५८ ।।
भक्तनिंदापरान् मूर्खान् शीघ्रं निर्यासय द्विजान् ।।
पुरा मादरदूडाख्यः शिवभक्तः प्रतापवान् ।। १५९ ।।
माहात्म्यं तस्य वक्ष्यामि शृणु बिज्जलभूपते ।।
विदर्भविषये कश्चिद्ब्राह्मणो वेदपारगः ।। १६० ।।
स कुष्ठरोगनिर्भिन्नशीर्यमाणकलेवरः ।।
पशुसंरक्षणव्यग्रो ययौ विपिनमुल्बणम् ।। १६१ ।।
आगच्छन् पशुभिः साकं दण्डपाणिर्यदृच्छया ।।
मार्गं मादरदूडस्य मज्जनोदकसंप्लुतम् ।। १६२ ।।
पस्पर्श पदभ्यां तत्पंकमेलनाच्चरणद्वयम् ।।
विहीनं कुष्ठरोगेण जातं कमलसुंदरम् ।। १६३ ।।
प्रातः परेद्युस्तद्दृष्ट्वा विस्मयाकुलमानसः ।।
पुनर्गत्वा च तत्पंकदेशमत्यन्त भक्तिमान् ।। १६४ ।।
अलुठत्सर्वमर्त्येषु पश्यत्सु द्विजपुंगवः ।।
कुष्ठरोगस्तत्प्रभावात्क्षणेनैव शशाम सः ।। १६५ ।।
ततो दिव्यतनुर्दूडभक्तं

प्. १८७) सम्यङ्ननाम सः ।।
मनोहराख्यभक्तस्य पादोदकनिषेवणात् ।। १६६ ।।
कुष्ठरोगसमाक्रांतमादित्यस्य कलेवरम् ।।
प्रपेदे रूपमतुलमिति वृद्धमुखाच्छ्रुतम् ।। १६७ ।।
अद्य मादरदूडस्य दृष्टं माहात्म्यमुत्तमम् ।।
प्रशंसुर्मानवाः सर्वे दूडभक्तं महोज्वलम् ।। १६८ ।।
ये कुष्ठरोगदुःखार्तास्तिष्ठन्त्यत्र महीतले ।।
तन्मज्जनाम्बुपंकेन रोगहीनाश्च तेऽभवन् ।। १६९ ।।
एतत्त्वया न श्रुतं किं वद मे बिज्जल प्रभो ।।
पुरा बाणसभिमाख्यः शिवभक्तो जितेंद्रियः ।। १७० ।।
स्वपादरेणुभैषज्यात् सर्वेषां कुष्ठरोगिणाम् ।।
शरीराणि चकाराशु रोगहीनान्यनेकशः ।। १७१ ।।
श्वपचो नाम सद्भक्तः शिवभक्तार्चनोत्सुकः ।।
नानाशाकरसोपेतं पाकं कुर्वन्नुवास् सः ।। १७२ ।।
एतस्मिन्नंतरे कश्चित्सामवेदी द्विजोत्तमः ।।
हठयोगाभिनिरतो ययौ गगनमार्गतः ।। १७३ ।।
श्वपचोऽपि विदित्वैतद्गमनं सामवेदिनः ।।
तच्छायासंक्रमभयात् पिदधे पाकभांडकान् ।। १७४ ।।
पादत्राणैस्तु भक्तानां प्राचीनैर्नूतनैरपि ।।
गच्छन्वियत्पथेनायं चुकोप द्विजपुम्गवः ।। १७५ ।।
तत्कोपाद्भग्नयोगोऽयं देववासाद्वियत्पथात् ।।
निपपातावनेर्मूर्ध्नि गच्छन् पंगुरिव क्षणात् ।। १७६ ।।
तत उद्भूतसंस्कारः

प्. १८८) श्वपचं प्रणनाम सः ।।
तमाद्दीक्षां परां लब्ध्वा लिंगधारणसंयुताम् ।। १७७ ।।
तत्प्रसादं च भुक्त्वाश्हु पादोदकपुरःसरम् ।।
षट्त्रिशद्भिर्जनपदैः सह शैवपदं ययौ ।। १७८ ।।
अतः पुरातनांस्त्यक्त्वा नायं मार्गः कृतोऽधुना ।।
श्वपचः शिवभक्तश्चेत्स एव ब्राह्मणोत्तमः ।।
ब्राह्मणो भक्तिहीनश्चेन्निकृष्टः श्वपचादपि ।। १७९ ।।
ये पठन्त्येतदध्यायं भक्तमाहात्म्यवाचकम् ।।
ते यान्ति परमं स्थानं पुनरावृत्तिवर्जितम् ।। १८० ।।
इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे
स्कंदागस्त्यसंवादे सप्तत्रिंशोऽध्यायः ।।