बसवपुराणम्/अध्यायः ३६
| ← अध्यायः ३५ | बसवपुराणम् अध्यायः ३६ [[लेखकः :|]] |
अध्यायः ३७ → |
प्. १६१) अथ षट्त्रिंशतितमोऽध्यायः
।। मंचनपंडिताराध्य कथा ।।
आत्रेयगोत्रसंभूतः शैवागमविशारदः ।।
वाराणदीपुरीं गत्वा श्रीमद्विश्वेशसंनिधौ ।। ३ ।।
अत्यन्तनियमोपेतस्तपस्तेपे सुदारुणम् ।।
प्रत्यहं स्वांगुलीश्छित्त्वा पूजयामास शंकरम् ।। ४ ।।
ततो वै स्वांगुलीः सर्वा यथापूर्वं जगाम सः ।।
ततः संतुष्टुवुः सर्वे काशीपुरनिवासिनः ।। ५ ।।
अशेषवेदशास्त्रैश्च शंकरः प्रतिपाद्यते ।।
एवं विलिख्य सौवर्णे पत्रे मंचनपंडितः ।। ६ ।।
निबध्य पत्रं वंशाग्रे स्थापयामास वीथिषु ।।
ततोऽन्यदर्शनाः सर्वे गत्वा वाराणसीं प्रति ।। ७ ।।
गदाधरालयप्रांते स्थित्वा मंचनपंडितम् ।।
स्वजनैराह्वयामासुर्वृद्धेः शास्त्रविशारदैः ।। ८ ।।
उपविष्टः सभामध्ये विद्वत्संघविराजिते ।।
प्. १६२) स्थापयंच्छिवपारम्यं वेदान्तवचनैः परैः ।। ९ ।।
निराकरोत्परोक्तानि दूषणानि सहस्रशः ।।
ततस्ते निर्जिताः सर्वे तमूचुः प्रतिवादिनः ।। १० ।।
शास्त्रवादकथा चेयमास्तां मंचनपंडित ।।
शिवश्चेद्देवतोत्कृष्टः प्रत्यक्षं दर्शयाधुना ।। ११ ।।
स तथेति प्रतिज्ञाय विष्णोरालयमाययौ ।।
परमेश्वरभक्तोऽहं शिवभक्तो भवानपि ।। १२ ।।
आवामद्यैव संभूय गच्छावः शिवसन्निधिम् ।।
विश्वेशचरणाम्भोजयुगलं परिपूजितुम् ।। १३ ।।
गदाधरमुवाचेत्थं श्रीमान्मंचनपंडितः ।।
गधाधरोऽपि तद्वाक्यं श्रुत्वा नायायणः प्रभुः ।। १४ ।।
वैष्णवाद्यैर्दृढं बद्धं विनिर्भिद्याररं ततः ।।
निर्ययौ पादचरी सन् मंदस्मितमुखांबुजः ।। १५ ।।
अग्रयायिषु भक्तेषु शिवस्यामिततेजसः ।।
अतिशोकसमाविष्टवैष्णवैः परिवारितः ।। १६ ।।
विश्वेश्वरालयं प्राप्य पुरस्तस्थो नमञ्छिवम् ।।
तुष्टाव विविधैस्तोत्रैर्देवदेवं त्रिलोचनम् ।। १७ ।।
समक्षमेव सर्वेषां काशीपुरनिवासिनाम् ।।
गदाधरः समानीतस्त्वया विश्वेशसंनिधिम् ।। १८ ।।
त्वत्प्रभावं समाख्यातुं न शक्तो हि चतुर्मुखः ।।
इति तं तुष्टुवुः सर्वे मंचनाराध्यपंडितम् ।। १९ ।।
प्. १६३) सदाशिवस्य भक्तोऽहमितिविष्णुर्वदन्निव ।।
विश्वेशस्य पुरोभागे स्थितवान्मधुसूदनः ।। २० ।।
अतो हि शिवभक्तानां माहात्म्यमतिपावनम् ।।
वर्णितुं कः समर्थः स्याल्लोके बिज्जलभूपते ।। २१ ।।
तथा शंकरदासोऽपि द्वितीयवृषभध्वजः ।।
वैष्णवप्रतिमाः सर्वास्तत्कटाक्षनिरीक्षणात् ।। २२ ।।
विशीर्णा जज्ञिरे लोके शतशोऽथ सहस्रशः ।।
ततोऽन्यदर्शनाः सर्वे गोविंदप्रतिमां शुभाम् ।। २३ ।।
वीक्ष्यैव मल्लभूपस्य संन्निधौ भयकंपिताः ।।
तां संन्निवेशयामासुरुद्धता वैष्णवादयः ।। २४ ।।
ततः शंकरदासेन जन्मल्लस्य सन्निधौ ।।
गोविंदप्रतिमा दृष्टा विशीर्णऽभूत् सहस्रधाअ ।। २५ ।।
अतो हि शिवभक्तानां प्रभावं विस्मयावहम् ।।
किं त्वं वेद महाभाग बिज्जलप्रभुसत्तम ।। २६ ।।
अद्यापि बाचमाहात्म्यं किं न जानासि भूपते ।।
तेन सौराष्ट्रसोमेशस्त्वानीतः स्वगृहांतरम् ।। २७ ।।
इत्युक्त्वा बसवेशोऽपि बाचभक्ताय धीमते ।।
एतद्वृत्तांतमखिलं प्राहिणोद्भक्तपुंगवः ।। २८ ।।
अहूतो बसवेशेन बाचः शीघ्रं समाययौ ।।
आगतं बिज्जलो दृष्ट्वा बाचं क्रोधादुवाच तम् ।। २९ ।।
प्. १६४) सर्वलोकाधिपस्यास्य गोविंदस्य महोत्सवम् ।।
वयं समागताः सर्वे भवान्नायाति किं वद ।। ३० ।।
इत्युक्तो बाचभक्तोऽसौ बिज्जलं प्राह संसदि ।।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।। ३१ ।।
यतश्च संप्रसूयन्ते सहभूतैः सहेंद्रियैः ।।
स्वयमुत्पत्तिमत्वेन न तारयितुमक्षमाः ।। ३२ ।।
यथा विभिन्ना नौरेका भिन्नां नावं महोदधेः ।।
पारं नेतुं क्षमा नासीच्छिला वऽपि शिलांतरम् ।। ३३ ।।
तथोत्पन्नाञ्जनान् सर्वान् न संतारयितुं क्षमाः ।।
ब्रम्हविष्ण्वादयो देवा जनिताः शूलपाणिना ।। ३४ ।।
एतेषां कारणं देवः कस्मादपि न जायते ।।
कारणानां च यो धाता ध्याता परमकारणम् ।। ३५ ।।
स सर्वैश्वर्यसंपन्नो नम्ना सर्वेश्वरः स्वयम् ।।
सर्वैमुमुक्षुभिर्धेयः शिव एव शिवंकरः ।। ३६ ।।
तस्मात् सर्वान् परित्यज्य ध्येयः सांबः शिवः परः ।।
प्राहाथर्वशिखावाक्यं मुनिभिर्मोक्षकांक्षिभिः ।। ३७ ।।
एवं विचार्य मनसा गोविंदप्रतिमोत्सवम् ।।
स्रष्टुं समागतो नाहं बिज्जलप्रभुसत्तम ।। ३८ ।।
इत्युक्तवन्तं बावं तं पुनः प्रोवाच भूपतिः ।।
सर्वेऽपिकर्मणा जाताः कर्मणैव स्थितिं गताः ।। ३९ ।।
कर्मणैव लयं यांति तस्मात्कर्मैव कारणम् ।।
प्. १६५) इत्युक्त्वा नृपतिं प्राह बाचो भक्तिमतां वरः ।। ४० ।।
यथैव प्रेरकं हित्वा शरो लक्ष्यं न याति हि ।।
कर्मा पि प्रेरकं हित्वा तथा किं नु करोति वै ।। ४१ ।।
एष एवं साधु कर्मकारयत्यंबिकापतिः ।।
यमेश्यः सर्वलोकेश्यश्चोर्ध्वंचैवोनिनिष्यते ।। ४२ ।।
एष ह्येतत्साधु कर्म कारयत्यंबिकापतिः ।।
यमेभ्यः सर्वलोकेभ्यो ह्यधोलोकं निनीयते ।। ४३ ।।
तस्मात्परशिवः साक्षात् कर्मणां प्रेरकः स्मृतः ।।
संत्यज्य किं करोत्येतत्प्रेरकं परमेश्वरम् ।। ४४ ।।
तस्माच्च कर्मवादोऽयं न युक्तः प्रभुसत्तम ।।
शिवाराधनबुध्यैव यत्कृतं कर्म तत्कृतम् ।। ४५ ।।
शिवं हित्वैव दक्षेण कृतं कर्म च वैदिकम् ।।
शिवश्छेदाय तदभूद्दक्षस्यामिततेजसः ।। ४६ ।।
शिवाराधनविघ्नानां विच्छेदाय महात्मनां ।।
काटकूटेन चरिता स्वपितुर्हननक्रिया ।। ४७ ।।
संपादयामास पुरा पुण्यलोकमनुत्तमम् ।।
जन्ममृत्युविहीनेन महेशेन महात्मना ।। ४८ ।।
मृत्वा जनित्वा संसारे भ्राम्यन्ते ह्यच्युतादयः ।।
तेषां वदेत् कथं साम्यं श्रुतिमार्गैककोविदः ।। ४९ ।।
पिपीलिकाद्या ब्रह्मान्ताः प्राणिनः पशवः स्मृताः ।।
प्. १६६) तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ।। ५० ।।
अतः कथं भवेत्साम्यं पशूनां तत्पतेरपि ।।
भृग्वादिशापदग्धानां विष्ण्वादीनां दिवौकसाम् ।। ५१ ।।
शिवेन मुनिवंद्येन कथं साम्यं वदेत्पुमान् ।।
अशेषदेवतासंघदाहकं विषमुल्बणम् ।। ५२ ।।
यः पपौ चातिवेगेन प्रार्थितः सर्वदैवतैः ।।
शिवस्य तस्य देवानां कथं साम्यं वदेत्पुमान् ।। ५३ ।।
त्रिपुरांधकमु ख्यानां सःअर्त्रा शूलपाणिना ।।
तैर्नित्यं हन्यमानानां कथं साम्यं वदेत्पुमान् ।। ५४ ।।
नारायणोऽपि भृगुणा शप्तो लक्ष्मीपतिर्महान् ।।
दशावतारगहने भ्रमत्यद्यापि भूपते ।। ५५ ।।
एतादृशस्य कृष्णस्य शिवेनामिततेजसा ।।
साम्यं वदेत् कथं धीमान् वेदशास्त्रविशारदः ।। ५६ ।।
यो घोरवेषमास्थाय शरभाख्यो महेश्वरः ।।
नृसिंहं लोकहन्तारं संजघान् महाबलः ।। ५७ ।।
हन्त्रा च हन्यमानस्य कथं साम्यं वदेत् पुमान् ।।
उत्पाटयन् स्वनेत्राब्जं पूजयामास शंकरम् ।। ५८ ।।
पूजकस्यास्य पूज्येन कथं साम्यं वदेत्पुमा ।।
दक्षाध्वरे वीरभद्रो दक्षसाहाययकारिणम् ।। ५९ ।।
प्. १६७) गदाशार्ङ्समापेतं शंखचक्रविराजितम् ।।
यत्पुत्रस्ताडयामास तेन साम्यं कथं वदेत् ।। ६० ।।
अवलिप्तं विधिं ज्ञात्वा शिवनिंदापरायणम् ।।
यः पंचमं शिरः श्रेष्ठं चिच्छेद वृषभध्वजः ।। ६१ ।।
विधातुस्तेन रुद्रेण कथं साम्यं वदेत्पुमान् ।।
सृष्ट्वा प्रजापतिः पुत्रीं तां दृष्ट्वा स्मरपीडितः ।। ६२ ।।
रन्तु गृहीतुकामः सन् मतिं चक्रे विमूडधीः ।।
सा प्राप्य हरिणीरूपं प्रदुद्रावाति वेगतः ।। ६३ ।।
चतुर्मुखोपि हरिणस्तस्याः पश्चात्प्रदुद्रवत् ।।
भूत्वा शिवो मृगव्याधो जघान हरिणं विधिम् ।। ६४ ।।
हंत्रा च हन्यमानस्य कथं साम्यं वदेत् पुमान् ।। ६६ ।।
विष्णुर्नायायणः श्रीमान् दीक्षितश्चोपमन्युना ।।
इंद्रनीलमयं लिंगं पूजयामास भक्तितः ।। ६७ ।।
सर्वदेवाः पुरा काश्यां स्थाप्य लिंगं स्वनामभिः ।।
पूजयामासुरत्यन्तभक्त्या सर्वेश्वरं शिवम् ।। ६८ ।।
सर्वेषामपि देवानामीप्सितार्थान् ददौ शिवः ।।
प्. १६८) अतः शिवस्य माहात्म्यं वर्णितु न क्षमो भुवि ।। ६९ ।।
एकांतरामप्रमुखा ये भक्ता भुवि संस्थिताः ।।
पुरातनाश्च ये भक्ताः काटकूटादयः परे ।। ७० ।।
शिवेनानुगृहीतास्ते कैलासपदमाययुः ।।
भक्तवात्सल्यसंयुक्तस्तत्तुल्यो न हि विद्यते ।। ७१ ।।
अतो मोक्षार्थिभिः सर्वैर्ध्येयश्चंद्रार्धशेखरः ।।
श्रोतव्यः कीर्तितव्यश्च मंतव्यः परमेश्वरः ।।
अतो विष्ण्वादयः सर्वे न ध्यातव्या मनीषिभिः ।। ७२ ।।
वृत्तम् ।। एतद्धि बाचवचनं श्रुतिसारभूतम् ।।
श्रुत्वा च बिज्जलमुखा मुदितान्तरंगाः ।।
बाचस्य पादकमले प्रणिपत्य भक्त्या ।।
स्वं स्वम् निकेतनमवापुरुदारभावाः ।। ७३ ।।
इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे
स्कंदागस्त्यसंवादे षट्त्रिंशोऽध्यायः ।।