सामग्री पर जाएँ

बसवपुराणम्/अध्यायः ३३

विकिस्रोतः तः
← अध्यायः ३२ बसवपुराणम्
अध्यायः ३३
[[लेखकः :|]]
अध्यायः ३४ →

प्. १३३) अथ त्रयस्त्रिंशोऽध्यायः

अगस्त्यः ।। तिर्वदूरपुरे बौद्धा दृष्ट्वेदं नमिनंदिनः ।।
माहात्म्यं विस्मयाविष्टाः किमकुर्वंस्ततः परम् ।। १ ।।
स्कंदः ।। ननिनंदी दीपमालां शोभमानां सरोजलैः ।।
दृष्ट्वा स्वगोविनाशं च भीत्या तं शरणं ययुः ।। २ ।।
समागत्य च ते सर्वे प्रणेमुर्नमिनंदिनम् ।।
नमिनंदी मृपाष्टो गवां प्राणान् पुनर्ददौ ।। ३ ।।
ततस्तु सौगतान् सर्वान् लिंगधारणसंयुतान् ।।
भस्मरुद्राक्षनिरतान् षडक्षरजपातुरान् ।। ४ ।।
चकार स्वप्रभावेन सर्वलोकैकसंस्तुतः ।।
पुनरेकांतरामोऽयं बभाषे सौगतं ततः ।। ५ ।।
अथान्यमपि वक्ष्यामि जैनकोलाहलं परम् ।।

।। सांख्यतोंडकथा ।।

चोडदेशे पुरा कश्चिच्छांतमंडाभिधे पुरे ।। ६ ।।
सांख्यतोंड इति ख्यातो बौद्धपुत्रोऽतिधार्मिअः ।।
आबाल्यं परमेशानपदाम्भोरुहभक्तिमान् ।। ७ ।।
शिवपूजां ततः कर्तुं चिंतयामास चेतसा ।।
करणे शिवपूजाया नानुमन्यंति सौगताः ।। ८ ।।

प्. १३४) शिवपूजापरित्यागे मुक्तिर्मम न विद्यते ।।
उपायंचिंतयामयत्र मदीयानुमतावहम् ।। ९ ।।
त्रीण्यश्मानि समादाय पूजयामि महेश्वरम् ।।
तुष्यंति तेन मे वृद्धाः शिवपूजा कृता भवेत् ।। १० ।।
एवं निश्चित्य मनसा शिवपूजां तथाऽकरोत् ।।
शिवालयपुरो मध्ये नदी काचिन्महाजला ।। ११ ।।
मार्गं तस्मै च न ददावालयागमनं प्रति ।।
सांख्यतोंडो महाभागो दिनत्रयमुपोषितः ।। १२ ।।
चतुर्थदिवसे प्राप्ते नदी गगजलाऽभवत् ।।
तामुत्तीर्य समागत्य मनोज्ञं शंकरालयम् ।। १३ ।।
पाषाणनवकं त्यक्त्वा गृहित्वैकां शिलां घनाम् ।।
चिक्षेप शिवलिंगेऽस्मिन् पुष्पबाणमिवोज्वलम् ।। १४ ।।
शिवोऽपि तां शिलां क्षिप्तां स्वहस्ताभ्यामथाग्रहीत् ।।
मंदस्मितमुखांभोजस्तमुवाच महेश्वरः ।। १५ ।।
वरं वरय भद्रं ते प्रीतोऽस्मि तव सांप्रतम् ।।
एवमुक्तः सांख्यतोंडस्तुष्टाव गिरिजापतिम् ।। १६ ।।
ब्रह्मविष्ण्वाद्यसंप्रेक्ष्यतत्वरूपाय ते नमः ।।
अशेषवेदवदांतवागगम्याय ते नमः ।। १७ ।।
उपमन्युदधीच्यादिमुनिवंद्याय ते नमः ।।

प्. १३५) शेषजवागवेद्याय विश्वरूपाय ते नमः ।। १८ ।।
त्वत्पादकमलध्यानान्नेतरत्र स्पृहा मम ।।
किरंतं मृदुपुष्पाणि दग्ध्वा मन्मथकुज्वलम् ।। १९ ।।
शिलाक्षेपसमुद्युक्तं ममाद्यानुगृहीतवान् ।।
समौ मानापमानौ ते स्तुतिर्निन्दा तथा समे ।। २० ।।
भक्तेषु तव वात्सल्यं वक्तुं जिव्हायते विधिः ।।
नियोज्य त्वां च सेवायां नंबी प्राप भवत्पदम् ।। २१ ।।
संस्तुत्य मल्हणस्त्वां हि मुक्तिं प्रापान्यदुर्लभाम् ।।
अतो मामनुगृह्याशु ग्रामं मत्प्रेरितं महत् ।। २२ ।।
तवालयेषु सर्वेषु शिरोभागेऽवधारय ।।
एवमुक्त्वा सांख्यतोंडस्त्यक्त्वा सौगतपद्धतिम् ।। २३ ।।
हत्वा च सौगतानन्यान् स्वयं शिवपदं ययौ ।।

।। कोवूरिब्रह्मकथा ।।

तथा कोवूरिब्रह्माख्यः शिवभक्तो जितेंद्रियः ।। २४ ।।
सौगतान् सर्वशास्त्रेषु जितवान् परमार्थवित् ।।
निर्जितास्तेन चार्वाका ब्रह्माख्यं तु तदोचिरे ।। २५ ।।
वटवृक्षं दहाशुत्वं स्वेक्षणेन महामते ।।
नो चेद्वयं दहिष्यामः पुनर्जीवय सत्वरम् ।। २६ ।।

प्. १३६) इत्युक्तस्तैः पुनः प्राह युष्माभिर्दह्यतां वटः ।।
अहं पुनर्जीवयिष्ये मंत्रितेनैव भस्मना ।। २७ ।।
इत्युक्तास्ते च ददहुर्वटवृक्षं महोज्वलम् ।।
वटभस्मोपरि परं क्षिप्त्वा भस्म सुमंत्रितम् ।। २८ ।।
पुनरुत्पादयामास वटवृक्षं महत्तरम् ।।
ततो जैनालयान् सर्वान् सक्रोधः स्ंददाह सः ।। २९ ।।
रे रे चार्वाक दुर्बुद्धे त्रपा नास्ति तवाधुना ।।
पुनरन्यां कथां वच्मि त्वदीयमतखंडनाम् ।। ३० ।।

।। देवरदासदेवकथा ।।
  
पुरा पोट्लचरग्रामे चार्वाकोऽभून्महामतिः ।।
पंचविंशतिसाहस्रचार्वाकपरिवारितः ।। ३१ ।।
तद्ग्रामे बल्लहो नाम राजा जैनकुलोद्भवः ।।
तस्य राज्ञो गुरुरभूत् स्वयं जैनशिखामणिः ।। ३२ ।।
सिंगबलाहभूपस्य पुरंदरसमश्रियः ।।
तस्यासीत्सुग्गला देवी भार्या त्रैलोक्यसुंदरी ।। ३३ ।।
गुरुं देवरदासाख्यं शिवभक्तं दृढव्रतम् ।।
भृत्यान् संप्रेष्य यत्नेन साङयामास सुंदरी ।। ३४ ।।
अगणयय च चार्वाकचरिताः कपटक्रियाः ।।

प्. १३७) अनेकशिष्यसंयुक्तश्चाययौ गुरुसत्तमः ।। ३५ ।।
श्रुत्वाऽऽयातं गुरुवरं सुग्गलाम्बाऽतिधर्मिका ।।
अर्घ्यपाद्यादिविधिभिः पूजयामास सत्व्रम् ।। ३६ ।।
ततो बौद्धवराः सर्वे राज्ञे सर्वं न्यवेदयन् ।।
राजा स्वपत्नीमासाद्य रहसीदमभाषत ।। ३७ ।।
दंपत्योर्न हि भेदोऽस्ति पत्नी भर्टृवशंगता ।।
अहं जैनेषु सस्नेहो जैनाचारपरायणः ।। ३८ ।।
गुरुं देवरदासाख्यं समानीतवती परम् ।।
विरुद्धमिदमत्यन्तं सर्वलोकैकनिंदितम् ।। ३९ ।।
शृण्वंति चेज्जैनवरास्तं हनिष्यंति कोपनाः ।।
गुरुं समागतं त्वां हि शीघ्रं त्वं प्रेषयाधुना ।। ४० ।।
सा प्राह नृपतिं क्रुद्धा पंकजायतलोचना ।।
हंतुमेव हि चार्वाका नानीतोऽयं गुरूत्तमः ।। ४१ ।।
इदं मदीयवचनं शृणु राजन् महामते ।।
चार्वाकभक्तस्त्वं राजन् शिवभक्त्यां स्पृहा मम ।। ४२ ।।
जैनास्तिष्ठंत्यत्र पुरे सोऽपि मद्गुरुरागतः ।।
प्रत्यक्षादिप्रमाणैश्च विवदंतु परस्परम् ।। ४३ ।।
त्वत्समक्षं जयो यस्य स एव गुरुरावयोः ।।
तथैवेति प्रतिश्रुत्य जैनान् स्र्वान् समाह्वयत् ।। ४४ ।।
तथा देवरदासोऽयमाययौ नृपसन्निधिम् ।।

प्. १३८) बौद्धा महेंद्रजालादिक्षुद्रविद्यातिकोविदाः ।। ४५ ।।
चक्रुः प्रसंगं ते सर्वे स्वसिद्धांतानुसारतः ।।
तथा देवरदासोऽपि बौद्धांस्तान् प्रत्यभाषत ।। ४६ ।।
पुरा ब्रह्मर्षयः सर्वे वदन्ति ब्रह्मवादिनः ।।
विश्वस्यास्य समस्तस्य किं भवेत्कारणं परम् ।। ४७ ।।
वयं कुतोऽद्य संजाता जीवामः केन वा वयम् ।।
क्वचास्माकं संप्रतिष्ठा वर्धिताः केन आ वयम् ।। ४८ ।।
अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता ।।
कालस्यापि न हेतुत्वं स्वभावो नैव युज्यते ।। ४९ ।।
नियतेश्च न हेतुत्वं यदृच्छाऽपि न युज्यते ।।
भूतानि भूतसंयोगे जगतो न हि कारणम् ।। ५० ।।
अचेतनत्वादेतेषां चेतनत्वेऽपि चात्मनः ।।
सुखदुःखसमाक्रांत्या ह्यसामर्थ्यत्वतस्तथा ।। ५१ ।।
ततस्ते मुनयः सर्वे संशयाविष्टमानसाः ।।
निश्चेतुमसमर्थाश्च ब्रह्म विश्वस्य कारणम् ।। ५२ ।।
दध्युर्नियमसंपन्ना ब्रह्मविद्यां महत्तराम् ।।
तेषां प्रादुरभूद्गौरी हिमवत्पुत्रिकाऽमला ।। ५३ ।।
अशेषागमसंबोध्या ब्रह्मविद्याधिदेवता ।।
नमश्चक्रुस्ततस्तस्यै मुनयो ब्रह्मवादिनः ।। ५४ ।।

प्. १३९) तत्प्रसादान्महेशानं सांबं चंद्रार्धशेखरम् ।।
ब्रह्मेति निश्चयामासुर्जगज्जन्मादिकारणम् ।। ५५ ।।
एवं वदंति शतशः श्रुतिवाक्यं महत्तरम् ।।
ततो देवरदासं तं प्रत्यूचुर्बौद्धपुंगवाः ।। ५६ ।।
प्रामाण्यं नानुमानस्य सर्वत्रोपाधिसंशयात् ।।
प्रामाण्यं नोपमस्यापि पौरुषेयत्वसंभवात् ।। ५७ ।।
ईश्वरस्याप्यभावेन चेश्वररोक्तत्वकल्पनम् ।।
न युज्यते हि वेदानां तस्मात्त्वद्भाषितं वृथा ।। ५८ ।।
श्रुतयश्च प्रमाणं चेद्विरुधार्थं वदंति किम् ।।
वेदितव्ये ब्रह्मणी द्वे इति भेदं वदन्त्यहो ।। ५९ ।।
तत्वमस्यादि वाक्यानि त्वभेदं प्रवदंति हि ।।
प्रामाण्यं तत्तु किं वाच्यमुभयोर्वाक्ययोर्वद ।। ६० ।।
न कर्मणा न प्रजया धनेनेति वचः परम् ।।
विधत्ते कर्मणस्त्यागं वेदप्रामाण्यवादिनाम् ।। ६१ ।।
कानिचित्संति वाक्यानि कर्मत्यागेत् किल्बिषम् ।।
प्रवदन्ति विरुद्धत्वं न प्रामाण्यं श्रुतेर्गिराम् ।। ६२ ।।
ततो देवरदासोऽयमित्युक्तस्तानथावदत् ।।
अनुकूलेन तर्केण नष्टे चोपाधिसंशये ।। ६३ ।।

प्. १४०) व्याप्तिग्रहस्ततस्तस्माज्जायतेऽनुमितिर्ध्रुवम् ।।
साध्यते हि न कर्तृत्वं पक्षीकृत्यांकुरादिकम् ।। ६४ ।।
कार्यत्वहेतुना देवः परिशेषस्य सिध्यति ।।
त्वदुक्तत्वाच्च वेदानां प्रामाण्यं न विहन्यते ।। ६५ ।।
उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् ।।
अर्थवादोपपत्ती च लिंगं तात्पर्यनिर्णये ।। ६६ ।।
तात्पर्यलिंगषट्केन युक्तं यत्तत्परं वचः ।।
तदेव प्रबलं ज्ञेयं वाक्यवाक्यार्थवेदिभिः ।। ६७ ।।
तदभावाद्द्वैतवाक्यं व्यवहारानुवादकम् ।।
अतस्तद्दुबलं ज्ञेयं श्रौतमार्गानुयायिभिः ।। ६८ ।।
तत्वमस्यादिवाक्यानामयुक्तमनुवादता ।।
मानांतराबोधनेन ह्यद्वैतस्य च सौगताः ।। ६९ ।।
अद्वैतवाक्यं प्रबलमप्राप्तार्थविधायकम् ।।
यस्तु वैराग्यहीनोऽपि कर्म त्यजति मानवः ।। ७० ।।
तस्यैव दोषः कथितो वाक्यैः कर्मप्रशंसकैः ।।

प्. १४१) वैराग्यात्कर्मसंत्यागे विद्वद्भिश्च कृते सति ।। ७१ ।।
दोषो नास्तीति विदुषां कर्मत्यागे वचो जगौ ।।
निर्विशंकं हि वेदानां प्रामाण्यमुपयाति हि ।। ७२ ।।
अतो वेदविहीनानां भवतां दुर्गतिर्भवेत् ।।
सर्वाननशिरोग्रीवः सर्वभूतगुहाशः ।। ७३ ।।
सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिवः ।।
एक एव हि रुद्रोऽयमद्वितीयो हि तिष्ठति ।। ७४ ।।
तिलेषु च यथा तैलं दधिनीव परं घृतम् ।।
स्रोतःसु चोदकानीव पावको ह्यरणिष्विव ।। ७५ ।।
श्रुतयश्चैवमाद्यास्ताः शिवं सर्वेश्वरं प्रभुम् ।।
विश्वस्यान्तर्यामितया प्रवदन्ति सहस्रशः ।। ७६ ।।
एवमुक्तास्ततो बौद्धाः पुनर्वाक्यं बभाषिते ।।
शिवस्य सर्वव्यापित्वे संत्यज्यैतच्चराचरम् ।। ७७ ।।
किमर्थं धृतवांल्लिंगं खंडरूपं शिलामयम् ।।
पुरूषत्यागदेशः कः को वा मूत्रविसर्जने ।। ७८ ।।
ततो देवरदासोऽयं प्रत्युवाच स सौगतान् ।।
शिवस्य सर्वव्यापित्वे संस्थिते गुरुरूपतः ।। ७९ ।।
शिव एव समागत्य स्वस्वरूपं महत्तरम् ।।
शिष्यानुग्रहदश्चक्रे शिष्यस्योत्तारणाय वै ।। ८० ।।
निकृत्य शिलारूपं लिंगं चिन्मयमुत्तमम् ।।
धारयामो वयं लिंग गुरुदत्तमतः सदा ।। ८१ ।।

प्.१४२) शिवः सर्वत्र नासीति ये वदन्ति नराधमाः ।।
तेषामाननभूरेव स्थानं मूत्रपुरीषयोः ।। ८२ ।।
एवमुक्तास्ततो बौद्धाः शिवभक्तेन संसदि ।।
एतच्छास्त्रप्रसंगेभ्यो निवृत्ताः संबभूविरे ।। ८३ ।।
विचार्य सर्वे संभूय सर्पमानीय भीषणम् ।।
घटोदरे विनिक्षिप्य प्रोचुस्तं भक्तपुंगवम् ।। ८४ ।।
तिष्ठतु सर्ववाक्यानि प्रत्यक्षं हि महत्तरम् ।।
अस्ति चेत्परमेशानः सर्वत्र व्यापकः प्रभुः ।। ८५ ।।
घटस्थितं स्वहस्तेन बहिरानय शंकरम् ।।
एवमुक्तस्तु चार्वाकैर्हसन् देवरदासकः ।। ८६ ।।
पुरातनान्नूतनांश्च भक्तान्नत्वाऽतिभक्तितः ।।
समुत्ततार हस्तेन घटस्थं तं महोरगम् ।। ८७ ।।
तद्धस्तस्पर्शनेनासौ फणींद्रो भीषणाकृतिः ।।
स्फटिकं लिंगमभवत्सर्वलक्षणलक्षितम् ।। ८८ ।।
लेभिरे विस्मयं सर्वे नृपाद्याश्च सभासदः ।।
ततो बल्लहभूपोऽयं सपत्नीकः सभृत्यकाः ।। ८९ ।।
सचार्वाकगणो हीमान्(?) प्रणनामातिभक्तितः ।।
ततो बल्लहभूपालं लिंगधारणसंयुतम् ।। ९० ।।
कृत्वा जिनालयान् सर्वांश्चिक्षेपायां महत्तरः ।।
प्रतिष्ठाप्य ततो लिंगमुत्तरेश्वरसंज्ञकम् ।। ९१ ।।

प्. १४३) शिवदीक्षां ततश्चक्रे जैनानां तत्पुरौकसाम् ।।
एतद्देवरदासस्य माहात्म्यमतिपावनम् ।।
सद्भ्कता ये तु शृण्वंति ते यान्ति परमं पदम् ।। ९२ ।।
  इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्कंदागस्त्यसंवादे
त्रयस्त्रिंशोऽध्यायः ।।