बसवपुराणम्/अध्यायः ३०
| ← अध्यायः २९ | बसवपुराणम् अध्यायः ३० [[लेखकः :|]] |
अध्यायः ३१ → |
प्. ९८) त्रिंशोऽध्यायः
।। कन्नदब्रह्मार्यकथा ।।
अगस्त्यः ।। पार्वतीहृदयानंदहेतवे कारणात्मने ।।
नमस्तुश्यं पुनर्भक्त माहात्म्यं वद षण्मुख ।। १ ।।
स्कंदः ।। भक्तः कन्नदब्रह्माख्यः शिवभक्तिपरो महान् ।।
भक्तार्पितप्राणधनो ह्यत्यद्भुतचरित्रकः ।। २ ।।
सदा शैवव्रताचारो जंगमाराधकाग्रणीः ।।
ब्रह्यांतरार्चनासक्तः सत्कीर्तिरतिसाहसः ।। ३ ।।
चोरतंत्रप्रयोगाढ्यश्चोरवेषधरः सदा ।।
भक्तगेहान्समुत्सृज्य चक्रे रौर्यमितस्ततः ।। ४ ।।
चौर्येण धनमानीय चक्रे भक्तार्चनं सदा ।।
तद्गेहमागता भक्ता बहवो लिंगधारिणः ।। ५ ।।
तदा तस्य गृहे नाभूदर्चितुं जंगमान्धनम् ।।
बहुधा स तु संचिन्त्य दिवेत्यवगणयय च ।। ६ ।।
हुज्जलस्य धनागारे धनमानेतुमुद्यतः ।।
आगच्छतश्च तस्यासीद्बसवो दृष्टिगोचरः ।। ७ ।।
त. दृष्ट्वा बसवेशोऽपि दण्डवत्प्रणनाम सः ।।
चौर्येण धनमानेतुमुद्युक्तोऽहं समागतः ।। ८ ।।
प्. ९९) बिज्जलस्य धनागारमिदानीं दर्शयस्व मे ।।
एवमुक्तोऽथ बसवस्तस्थौ संचिंतयन् क्षणम् ।। ९ ।।
भक्तसंप्रार्थितं वस्तु यत्तन्नास्तीत्यहं वचः ।।
न ददामीति संकल्पं कृतः सन् भक्तसंनिधौ ।। १० ।।
इति निश्चित्य बसवो धनागारमदर्शयत् ।।
सर्वापेक्ष्यं भूमिजलं स कृत्वा धनमाहरेत् ।। ११ ।।
संभूयाथ जनाः सर्वे कोशागाराधिकारिणः ।।
बिज्जलायावदन्वेगात्कन्नदब्रह्मचेष्टितम् ।। १२ ।।
बिज्जलः क्रोधविवशो बसवेशमुवाच तम् ।।
बसवेश महाभाग म्तकार्यकरणक्षमः ।। १३ ।।
परद्रव्यापहरणमुखकार्यपराङ्मुखः ।।
इति संचिन्त्य स मया दत्तं स्वातंत्र्यमुल्बणम् ।। १४ ।।
त्वयेत्थं क्रियते चेद्धि पापिष्ठस्त्वत्समो न हि ।।
प्राणानपि कदाचिन्म हरिष्यसि न संशयः ।। १५ ।।
इत्युक्तवंतं नृपतिं प्रोवाच बसवेश्वरः ।।
नाहं ददामि ते द्रव्यं भक्तसंरक्षणक्षमम् ।। १६ ।।
तदीयं तद्धनं चास्य ददामि क्षितिपालक ।।
एवमुक्त्वा ययौ तूर्णं बसवेशः कृपानिधिः ।। १७ ।।
पुरस्कृत्य च राजानं क्रोधविव्हलरूपिणम् ।।
कोशागारस्थितं द्रव्यं राज्ञो दर्शयितुं ततः ।। १८ ।।
बिलदेशे स्थितां सर्वां मृत्तिकाराशिमुज्ज्वलम् ।।
प्. १००) हिरण्मयं ददर्शाग्रे राजा विस्मितमानसः ।। १९ ।।
बसवेश्वरमाहूय राजा वचनमब्रवीत् ।।
चोरः को नु महाभागो येन भूः कांचनायिता ।। २० ।।
बसवेशः पुनः प्राह राजानमतिविस्मितम् ।।
भक्तः कन्नदब्रह्माख्यः सर्वागण्यसुखोज्वलः ।। २१ ।।
प्रवक्तुं तस्य माहात्म्यं ब्रह्मणाऽपि न शक्यते ।।
एतस्य पादांगुलयः कल्पवृक्षादिपंचकम् ।। २२ ।।
कामधेनुपयोधारि तत्कटाक्षनिरीक्षणम् ।।
तच्चित्ते शैवसंकल्पे चिंतामणिरवर्तत ।। २३ ।।
स्पर्शवेधिरभूत्तस्य हस्तमध्ये नृपोत्तम ।।
या भूस्तत्पादसंलग्ना मुक्तिभूः साऽपि जायते ।। २४ ।।
तेन दत्तः प्रसादोऽपि भक्तानाममृतायते ।।
निग्रहानुग्रहावस्य निदानं भोगमोक्षयोः ।। २५ ।।
तत्कटाक्षैकवशगा ह्यणिमाद्यष्टसिद्धयः ।।
एतत्सामर्थ्ययुक्तोऽपि व्रतं चक्रे महामतिः ।। २६ ।।
चौर्यार्जितधनेनैव तर्पयामीति सद्गुणान् ।।
कुमार्गोऽयं सद्भक्तिरिति वाच्यं न पंडितैः ।। २७ ।।
द्यूतेन पांडवाः सर्वे राज्यभ्रष्टा बभूविरे ।।
द्यूतेन मूर्खनैनारुर्भक्तो मोक्षमवाप्तवान् ।। २८ ।।
प्. १०१) मृगयानिरतो रामो हृतभार्यो हि रक्षसा ।।
मृगयानिरतः कन्नः कैलासपदमाययौ ।। २९ ।।
परस्त्रीनिरताः सर्वे नरकं यांति भीषणम् ।।
परस्त्रीनिरतो नंबी बभूव सुजनाग्रणीः ।। ३० ।।
स्वल्पजंतुं निहत्याशु मांडव्यः शूलभागभूत् ।।
चंडीशः पितरं हत्वा मोक्षलक्ष्मीमवाप सः ।। ३१ ।।
मृषावादरतो ब्रह्मा नागमत्पूज्यतां भुवि ।।
चिरितोंडो मृषावादी मोक्षलक्ष्मीमवाप हि ।। ३२ ।।
अल्लंध्य वचनं चैतद्राज्यान्ते नरकं व्रजेत् ।।
चोडराजो ययौ तूर्णं पुनरावृत्तिवर्जितम् ।। ३३ ।।
अधर्मो धर्मतां याति शिवार्थं त्वेनसा कृतः ।।
धर्मोऽप्यधर्मतां याति शिवं त्यक्त्वा जनैः कृतः ।। ३४ ।।
एतेषामपि भक्तानामसौ भक्तो महत्तरः ।।
दिवारात्रविभागोऽस्य नास्ति चौर्याय भूपते ।। ३५ ।।
यदा भक्तः समायाति चौर्यकालः स एव हि ।।
भक्तोऽयं शिवभक्तानां धनं न स्वीकरोति हि ।। ३६ ।।
प्राकृतानामेव धनं गृहीत्वा याति सत्वरम् ।।
धूल्यादिकं च तत्स्पृष्टं याति कांचनतां पराम् ।। ३७ ।।
अतस्तस्यैव संस्पर्शान्मृत्तिका स्वर्णता गता ।।
प्. १०२) एवमुक्त्वा समाहूय कोशागाराधिकारिणः ।। ३८ ।।
तत्रत्यं गणयामास राजकीयं धनं तदा ।।
यथापूर्वं धनं तत्र प्रातिष्ठद्बिज्जलप्रभोः ।। ३९ ।।
बिज्जलोऽत्यंतसंतुष्टः स्वभृत्यैश्च धनं ययौ गृहम् ।।
ततः कन्नदब्रह्माऽपि समागत्य गृहं स्वकम् ।। ४० ।।
भक्तान संतर्पयामास भक्ष्यभोज्यादिवस्तुभिः ।।
ये पटह्ंति कथामेतामतिविस्मयकारिणीम् ।। ४१ ।।
ते यांति परमं धाम शिवस्य परमात्मनः ।।
मूषिणीचौडार्यकथा
अस्मिन् महीतले रम्यं मुषिणीति पुरं परम् ।। ४२ ।।
चमडोनाम तत्रासीच्छिवभक्तो निरंकुशः ।।
सर्वेषां शिवभक्तानां मानसाब्जदिवाकरः ।। ४३ ।।
सफलीकृअतसत्कर्मा दुष्टकर्मविवर्जितः ।।
प्राज्ञः संसारसंतापविच्छेदनविचक्षणः ।। ४४ ।।
अज्ञानजनतादूरः सदावीररसोज्वलः ।।
प्रवर्षदमृतासाररम्यदृष्टिर्विलासवान् ।। ४५ ।।
शापानुग्रहशक्तश्च प्रथितो भुवनत्रये ।।
स्वसिद्धांतसमायुक्तो जनकार्यक्रियोद्यतः ।। ४६ ।।
तपसो वा गोपतिर्वा भक्तो वा मृतिमेति चेत् ।।
प्. १०३) तदा संजीवयिष्यामीत्येवं तेन प्रतिश्रुतम् ।। ४७ ।।
गच्छतो मे पुरोभागे नदी कचित्स्थिता यदि ।।
तस्याः प्रवाहमध्येऽह. गमिष्यामि न संशयः ।। ४८ ।।
एवं नियमसंयुक्तश्चमडो दृढनिश्चयः ।।
अर्चनं शिवभक्तानां कुर्वन्नास महोज्वलः ।। ४९ ।।
स एकदा भक्तमुखान्माहात्म्यं बसवेशितुः ।।
श्रुत्वा तद्दर्शनोत्कंठः कल्याणं गंतुमुद्ययौ ।। ५० ।।
भक्तसंघातवृतः श्रीमान् मार्गमध्येऽतिसुंदरम् ।।
विषवृक्षं ददर्शैकं फलमालासमाकुलम् ।। ५१ ।।
समीपवर्तिनो भक्ताः प्रोचुस्तं चमडेश्वरम् ।।
अस्माकं चमडेशाद्य प्रीतिरेतत्फलाशने ।। ५२ ।।
एतद्भक्तवचः श्रुत्वा स्वासिमुद्यम्य भक्तराट् ।।
विषवृक्षान्तिके स्थित्वा प्राह भक्तान् समीपगान् ।। ५३ ।।
एतत्फलानि भुंक्षध्वं यथेच्छं भक्तसत्तमाः ।।
इत्युक्तास्ते भक्तवरा भक्षयामासुरादरात् ।। ५४ ।।
सुधासमानि तान्यासन् विषवृक्षफलानि वै ।।
ततस्तु बसवेशोऽपि संगमेशोदरे परे ।। ५५ ।।
आगच्छन्तं महात्मानमपश्यच्चमडेश्वरम् ।।
अर्घ्यपात्रं समादाय शिघ्रं प्रत्युद्ययौ ततः ।। ५६ ।।
पूजयित्वा स चमषं प्रणनामातिभक्तितः ।।
प्. १०४) चमडो बसवेशश्च यथेच्छं तिष्ठतः पुरे ।। ५७ ।।
ततस्तु चमडो भक्तवरैः संप्रार्थितो महान् ।।
विवाहर्थं ययौ तूर्णं स्वीयभक्तसमावृतः ।। ५८ ।।
कल्याणनगरे रम्ये शिवभक्तौघमध्यगम् ।।
तपराजाभिधशव. वाहितं भक्तपुंगवैः ।। ५९ ।।
विमानमध्यगं दृष्ट्वा प्राहेदं वचनं परम् ।।
तव नंदीशवाहस्य न युक्तं नरवाहनम् ।। ६० ।।
आगच्छागच्छ भो भक्त विवाहार्थं मया सह ।।
खड्गहस्तोऽथ पादाग्रं गृहीत्वाऽशु चकर्ष तम् ।। ६१ ।।
उत्थाय तपराजोऽपि मंदस्मितमनोहरम् ।।
समालिंग्य ततो दोर्भ्यां चमडेशं महाद्युतिम् ।। ६२ ।।
ततः पौरैः स्तूयमानस्तपराजेन संयुतः ।।
विवाहार्थं तु चमडो गतवांस्तुष्टुवुर्जनाः ।। ६३ ।।
व्यतीत्य दूरमध्वानं वटवृक्षसमाकुले ।।
अतिष्ठत्प्रवने देशे चमडेशो गणैः सह ।। ६४ ।।
तव गोपकुमारौ द्वौ विवादं चक्रतुस्तदा ।।
एकस्तत्रान्यमवदन्नापराधः कृतो मया ।। ६५ ।।
अत्र साक्षी च बसव-वटवृक्षो महानयम् ।।
एतच्छ्रुत्वा समागत्य चमडो गोपबालकम् ।। ६६ ।।
अपृच्छदित्यय. वृक्षो कथं बसवनामधृत् ।।
एतद्वृक्षस्य बसवसंज्ञा जाता कथं वद ।। ६७ ।।
इत्युक्तो गोपपृथुकश्चमडं पुनरब्रवीत् ।।
प्. १०५) पितामहेन कथितं तत्पितामहभाषितम् ।। ६८ ।।
अस्माभिर्गोपपृथुकैस्तच्छ्रुतं भक्तसत्तम् ।।
नामेदं प्रवदन्त्यस्य वृद्धा ग्रामनिवासिनः ।। ६९ ।।
निमित्तं किंचिदप्यत्र श्रुतं वृद्धमुखान्मया ।।
वृषभावतिदृप्तौ द्वौ सप्ताहं चक्रतुः पुरा ।। ७० ।।
युद्धमत्यन्तमतुलं तत्रैको निहतो वृषः ।।
अत्र पौराश्च निक्षिप्तं चक्रुर्वृषमहीपतिम् ।। ७१ ।।
समाध्युपरिभागे च निक्षिप्तो वटभूरुहः ।।
निर्यासो वटवृक्षस्य रक्तरूपेण तिष्ठति ।। ७२ ।।
फलं तु मांसरूपेण तिष्ठत्यत्र न संशयः ।।
एतस्माद्वटवृक्षोऽयं बसवेश्वरनामधृत् ।। ७३ ।।
एतच्छ्रुत्वा च चमषः क्रोधघूर्णितलोचनः ।।
वृषभेशस्य मरणं पुराणं वा नवीनकम् ।। ७४ ।।
श्रुत्वा मया न गंतव्यं विवाहार्थमितोऽन्यतः ।।
सहैव वृषभेशेन गंतव्यमिति चोक्तवान् ।। ७५ ।।
वटवृक्षान्तिकं गत्वा प्राह गंभीरया गिरा ।।
आगच्छागच्छ वृषभ भुवं भित्वा बलादमुम् ।। ७६ ।।
त्वया साकं गमिष्यामि विवाहार्थं वृषाधिप ।।
इत्युक्तश्चमडेनाथ वृषभोऽत्यन्तदर्पितः ।। ७७ ।।
वटवृक्ष विनिर्भिद्य निर्ययावतिवेगतः ।।
तमागतं च वृषभं किंकिणीजालसंयुतम् ।। ७८ ।।
ककुत्खुरविषाणाढ्यं चमडोऽयमपूजयत् ।।
तत्रत्या विस्मिताः सर्वे तुष्टुवुश्चमडेश्वरम् ।। ७९ ।।
प्. १०६) ततो वृषभराजाय ददुःक्षीरघटाज्जनाः ।।
वृषभेशं पुरस्कृत्य पयसा पूरितोदरम् ।। ८० ।।
विवाहर्थं ययौ पश्चाच्चमडो भक्तपुंगवः ।।
उद्वृत्तवीचिनिकरां गहीरोदकपूरिताम् ।। ८१ ।।
नदीं समुद्रगां कांचिन्मार्गमध्ये ददर्श सः ।।
ततः प्राहनदीं भक्तः स्वपुरोभागसंस्थिताम् ।। ८२ ।।
शिवभक्तः पुरा कश्चित्पपौ सप्तार्णवानपि ।।
भविभिर्नीयमानां तां नावमुत्सृज्य दासकः ।। ८३ ।।
भवतीं निर्जलां कृत्वा नदीमवततार सः ।।
गजेशमसणं पूर्वं शिवध्यानैकतत्परम् ।। ८४ ।।
मध्यस्थितं महाभागे दृष्ट्वाऽन्तं भयसंयुता ।।
स्वतनूं द्विविधां कृत्वा सन्मार्गं दत्तवत्यसि ।। ८५ ।।
अतोऽस्माकं महापुण्ये देहि मार्गं च सांप्रतम् ।।
एवमुक्त्वा तु चमडः खड्गं तीक्ष्णमकंपयत् ।। ८६ ।।
भीता साऽपि नदी वेगान्मार्गं तस्मै न्यवेदयत् ।।
तेन मार्गेण चमडस्तस्याः पारमुपागतः ।। ८७ ।।
वृषेण भक्तसंघैश्च तपराजेन संयुतः ।।
उत्सुकः श्वशुरग्रामनिकटे समतिष्ठत ।। ८८ ।।
ततो बंधुजनैः सर्वैः प्रत्युद्यातोऽतिवैभवात् ।।
पौरैस्तु प्रेक्ष्यमाणः सन् विवेश श्वशुरालयम् ।। ८९ ।।
प्. १०७) कन्यामुदवहत्साध्वीं रूपयौवनसंयुताम् ।।
वध्वा वृषेण भक्तैश्च तपराजेन संयुतः ।। ९० ।।
चमडो विभवाक्रांतः प्राप कल्याणपत्तनम् ।।
कल्याणपत्तने काचिद्बालिका दशवार्षिकि ।। ९१ ।।
आगत्य चमडस्यास्य ननाम चरणौ तदा ।।
सोऽप्याशीर्वचनं चक्रे चिरंजीवेति भक्तराट् ।। ९२ ।।
ततो बसवगेहेषु प्रातिष्ठद्भक्तसत्तमः ।।
परेद्युरेव सा बाला ममारात्यन्तरोगतः ।। ९३ ।।
पिता माता बंधुजनाः संभूय चमडान्तिकम् ।।
मृतां बालां गृहीत्वैव समागत्यैवमब्रुवन् ।। ९४ ।।
अस्यास्त्वयाश्हीर्वचनं कृतं पूर्वेद्युरेव हि ।।
चिरंजीवेति तद्वाक्यमद्यैवाभून्मृषापरम् ।। ९५ ।।
आक्रोशमानांस्तद्बंधून् दृष्ट्वा शोऽपि दयापरः ।।
हस्ते स्वखड्गमादाय शवस्यान्तिकमाययौ ।। ९६ ।।
उत्तिष्ठोत्तिष्ठ बाले त्वमिति प्राहातिधैर्यवान् ।।
एवमुक्ते च चमडे सोत्थिताऽभूद्वरानना ।। ९७ ।।
सुप्तोत्थितेव सा बाला सहसाऽऽगत्य सस्मिता ।।
ननाम चमडं भक्तांस्तदन्तिकनिवासिनः ।। ९८ ।।
नतावभूतां पितरौ चमडस्य पदद्वयम् ।।
ततः संप्रार्थयामासुस्त्रयस्ते चमडेश्वरम् ।। ९९ ।।
लिंगधारणदीक्षां नः कुरुष्वेत्यतिमोदतः ।।
चमडश्च तथेत्युक्त्वा चक्रे चिल्लिंगधारणम् ।। १०० ।।
प्. १०८) गतायुस्त्वं परित्याज्य शतायुस्त्वं ददौ मुदा ।।
न शक्तिः प्राणदाने तु ब्रह्मादीनां दिवौदसाम् ।। १०१ ।।
अयं तु मृतबालायाः पुनः प्राणं ददौ क्षणात् ।।
अयं परशिवः साक्षान्मर्त्यलोके चरत्यहो ।। १०२ ।।
एवं पौरजनाः सर्वे तुष्टुवुश्चमडेश्वरम् ।।
ततोऽन्यदर्शकाः सर्वे प्राकृताः कपटात्मकाः ।। १०३ ।।
चमडेश्वरसामर्थ्यमेकदा तु परीक्षितुम् ।।
आनीय दारुप्रतिमां सर्वावयवसंयुताम् ।। १०४ ।।
रुद्राक्षमालिकोपेतां भस्मदिग्धतनुज्वलाम् ।।
जटाभारसमाक्रांतां कौपीनाच्छादनान्विताम् ।। १०५ ।।
कस्मिंश्चिद्विजने देशे शून्ये चैव शिवालये ।।
निवेशमानाः सर्वे च स्वयमूचुरितस्ततः ।। १०६ ।।
दरिद्रोऽयं मृतःअ शैवो नास्ति तत्सन्निधौ धनम् ।।
नागच्छंति ततः शैवाः शवं संस्कर्तुमद्य हि ।। १०७ ।।
शिवार्चकांस्ततः सर्वे समाहूय च तापसान् ।।
प्रेस्थानं नेतुकामा दारुयंत्रशवाकृत्म् ।। १०८ ।।
वाहयित्वा तु चमडनिलयान्तिकमाययुः ।।
स दृष्ट्वा चमडः प्रेतं कृत्रिमं दारुकल्पितम् ।। १०९ ।।
ज्ञात्वेत्थं चिंतयामास स्वचित्ते भक्तसत्तमः ।।
एतत्कृतं प्राकृतैस्तैर्मत्परीक्षार्थमेव हि ।। ११० ।।
प्. १०९) इति निश्चित्य चमडस्तथैवास्त्विति चाब्रवीत् ।।
ब्रह्मांडखर्परे भिन्ने पुनः संधातुमीश्वराः ।। १११ ।।
शिवभक्ता महात्मानः कियन्मात्रं ममेदृशम् ।।
ततो भक्तान्नमस्कृत्य शिवं संचिन्त्य भक्तितः ।। ११२ ।।
किपात्खंड्गं समुद्धृत्य ययौ तच्छवसंनिधिम् ।।
उत्तिष्ठोत्तिष्ठ प्रेताद्य शिवभक्तदयानिधे ।। ११३ ।।
एवं वदन् स्वहस्तेन शवपाणिं ततोऽग्रहीत् ।।
चमडेशकरस्पर्शात् प्रतिमा दारुयंत्रिता ।। ११४ ।।
दिव्यदेहसमाक्रांता सप्राणा चाभवत्ततः ।।
विस्मितेष्वपि सर्वेषु पश्यत्स्वत्यन्तमादरात् ।। ११५ ।।
आगत्य चमडेशस्य ननाम चरणौ च सः ।।
तुष्टाव चमडेशानं वैदिकस्तुतिभिस्ततः ।। ११६ ।।
नान्यं जाने च मज्जन्म त्वत्कृपाविहितं परम् ।।
तेनैव मुच्यमानस्तु चमडो भक्तपुंगवः ।। ११७ ।।
लिंगधारणदीक्षां च चक्रे तस्य महामतिः ।।
ततस्तु चमडः क्रुद्धो वंचकान् प्रतिवादिनः ।। ११८ ।।
खड्गमुद्धृत्य सहसा ययौ हंतुं स्वयं क्षणात् ।।
ततस्तेऽपि भयभ्रांता निपेतुस्तस्य पादयोः ।। ११९ ।।
तुष्टुवुर्विविधैः स्तोत्रैर्लौकिकैर्वैदिकैरपि ।।
अस्माकं तु गतिस्त्वं हि गतिरन्या न विद्यते ।। १२० ।।
प्. ११०) एवमुक्तस्तु चमडो ह्यनुगृह्य नताञ्जनान् ।।
कृपया तान् ररक्षाय कृतवन् लिंगधारणम् ।। १२१ ।।
वृत्तम् ।। एतत्कथामृतरसं च पिबंति कर्णैः
सर्वातिशायिमहिमोज्वलमप्रमेयम् ।।
ये चामडं निहतकल्मषसंचयास्ते गच्छन्ति शैवपदमच्युतमुख्यवेद्यम्
।। १२२ ।।
इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्कंदागस्त्यसंवादे
मुषिणीचमडेशमाहात्म्यं नाम त्रिंशोऽध्यायः ।।