सामग्री पर जाएँ

बसवपुराणम्/अध्यायः २९

विकिस्रोतः तः
← अध्यायः २८ बसवपुराणम्
अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →

प्. ८९) एकोनत्रिंशोऽध्यायः
।। कलकेतब्रह्मदेवकथा ।।

अगस्त्यः ।। भूयोऽपि भक्तमाहात्म्यं तारकासुरभंजन ।।
समस्तपातकघ्नं च कृपया वद मे प्रभो ।। १ ।।
स्कन्दः ।। कलकेतब्रह्मनामा शिवभक्तस्तपोनिथिः ।।
लिंगांगस्थलतत्वज्ञो जंगमार्चनतत्परः ।। २ ।।
अशेषकर्मसंघातनिर्मूलनविचक्षणः ।।
तृणीकृताखिलसुरो जीवन्मुक्तः प्रतापवान् ।। ३ ।।
मेषशृंगधरः श्रीमान् विरभद्र इवापरः ।।
परेषामिमपि सिद्धांतान्निर्दग्धुं मेषवाहनः ।। ४ ।।
आययौ भक्तसदनमित्युच्चैः प्रवदन्मुहुः ।।
हासयन्भक्तसंघांश्च तैर्दत्तं व्रीहिसंचयम् ।। ५ ।।
गृहीत्वा हृहमागत्य चक्रे भक्तार्चनं सदा ।।
अथास्मिन्नंतरे कश्चिच्छिवभक्तो दृढाशयः ।। ६ ।।
किन्नरब्रह्मनामानं भक्तं द्रष्टुं समाययौ ।।
ततो मार्गे परिश्रांतः श्रुत्पिपासासमन्वितः ।। ७ ।।
कलकेतब्रह्मभक्तभवनं समुपागमत् ।।
श्रांतं तमर्चयित्वा तु भोजनादिभिरादरात् ।। ८ ।।
ततः प्रोवाच वचनं शिवभक्तं महामतिः ।।

प्. ९०) किमर्थमटसे भूमिगणयय परिश्रमम् ।। ९ ।।
कलकेतब्रह्मभक्तं पुनरूचे शिवार्चकः ।।
नंबिने प्रत्यहं शंभुर्ददौ यो धनमीप्सितम् ।। १० ।।
किन्नरब्रह्मनाम्नश्च भक्तस्यापि ददाति सः ।।
इति श्रुत्वा दरिद्रोऽहं धनसंग्रहणोत्सुकः ।। ११ ।।
भक्तं तं याचितुं द्रव्यमागतोऽस्मि महामते ।।
कलकेतब्रह्मनामा श्रुत्वा भक्तप्रभाषितम् ।। १२ ।।
भक्तं समागतं प्राह धनग्रहणतत्परम् ।।
धनं लब्ध्वा महेशानाद्ददातीति किमद्भुतम् ।। १३ ।।
स्वव्यापारेण यल्लब्धं तदेव धनमुत्तमम् ।।
तदेव देयं भक्तेभ्यस्तस्मान्न गणयामि तम् ।। १४ ।।
दत्ते लिंगसुखेऽत्यन्तं गुरुणा परमात्मना ।।
बहूकरोमि त्च्चैव न धनं तुच्छसौख्यदम् ।। १५ ।।
मत्कायकेन यल्लब्धं तद्धनं चास्ति भूतले ।।
इच्छाऽस्ति चेत्तव धनं गृहाण त्वं मदन्तिके ।। १६ ।।
इत्युक्त्वा हस्तदण्डेन ताडयामास भूतलम् ।।
महद्धनं तदा तत्र दृष्टं भक्तेन तेन वै ।। १७ ।।
तद्गृहीत्वा धनं सर्वं हृष्टांतःकरणस्ततः ।।
बसवेशान्तिकं तूर्णमाययौ धनभारभृत् ।। १८ ।।
ततो भक्तवरः श्रीमान् बभाषे बसवेश्वरम् ।।

प्. ९१) कलकेतब्रह्मनाम्ना दत्तं मह्यं धनं बहु ।। १९ ।।
ओढुं चैतदशक्तो ऽहं देहि भृत्य बलान्वितम् ।।
इति श्रुत्बा भक्तवाक्यं बसवोऽत्यन्तविस्मितः ।। २० ।।
शिवभक्ता महात्मानस्तन्माहात्म्यं तु को वदेत् ।।
कल्पवृक्षो याचितः सन्नभीष्टार्थं ददाति हि ।। २१ ।।
तादृशी कामधेनुश्च तादृक् चिंतामणिस्तथा ।।
एते मुक्तिप्रदाने तु न शक्ता इति कीर्तिताः ।। २२ ।।
अभिष्टार्थप्रदः सोऽयमपवर्गप्रदश्च हि ।।

  • प्रत्यक्षसंगमेशोऽयं केवलं न तु मानुषः ।। २३ ।।

शिवदत्तधनं त्यक्त्वा स्वव्यापारार्जितं धनम् ।।
देयं शंकरभक्तानां प्रशांतानां महात्मनाम् ।। २४ ।।
इत्यालोच्य धिया हृषृस्तस्य भृत्यं नियोज्य च ।।
तं द्रष्टुमुत्सुकोऽत्यन्तं बसवेशः स्वयं ययौ ।। २५ ।।
तुष्टाव विविधैः स्तोत्रैर्बसवो भक्तवत्सलः ।।
स्तुवंतं बसवेशानं प्रोवाच ब्रह्मभक्तराट् ।। २७ ।।
सर्वे भक्तास्त्वया दृष्टाः श्रुताश्च विविधा अपि ।।
किन्नरब्रह्मभक्तेन सदृशः किमु विद्यते ।। २८ ।।

प्. ९२) यो नंबिने धनं दत्वा तुतोष परमेश्वरः ।।
इदानीं किन्नरब्रह्मभक्तस्यापि धनं ददौ ।। २९ ।।
एकः संभाषयामास स्वकार्यमत्परो महान् ।।
कारयामास देवेन तयोः को नु समो भुवि ।। ३० ।।
किमेभिः शून्यवचनैस्त्यक्त्वा संप्रार्थनां शिवात् ।।
अभिष्टानि महार्हाणि किं वस्तूनि लभंति हि ।। ३१ ।।
वृथेदं तम्कृतं पूर्वं मम नास्ति धनागमः ।।
अस्माभिः पूजितो देवो न ददाति च किंचन ।। ३२ ।।
अत्यंतायासकरणे प्रस्थमात्रास्तु शालयः ।।
लभ्यंते न ततः किंचिल्लभ्यते धनमुत्तमम् ।। ३३ ।।
किमत्र बहुनोक्तेन बसवेश महामते ।।
किन्नरब्रह्मनिकटं गत्वैतद्वचनं वद ।। ३४ ।।
त्वं गत्वा राजतगिरिं पुनरागतवानसि ।।
तेन ख्यातिरभूल्लोके इदानीमागतं यशः ।। ३५ ।।
त्वया संप्रार्थितो देवश्चाहेति च शिवोऽवदत् ।।
अतः समागमिष्यन्ति शिवभक्ताः सहस्रशः ।। ३६ ।।
धनलोभेन रत्नादिवस्त्रलिभात्त्वदन्तिकम् ।।
अतिव्ययकृतस्तस्य नास्ति चेद्धनमुल्बणम् ।। ३७ ।।
स्वव्यापारार्जितं द्रव्यं तिष्ठत्यद्य मदन्तिके ।।
ददामि तद्धनं तस्य किंचित्संरक्षितं मया ।। ३८ ।।
इत्युक्त्वा हगृहे भक्तो मृत्तिकामान्तिकस्थितम् ।।

प्. ९३) मृत्तिका स्वर्णमभवत् तत्करस्पर्शमात्रतः ।। ३९ ।।
तद्दृष्ट्वा बसवेशोऽपि परं विस्मयमाप्तवान् ।।
किन्नरब्रह्मभक्तोऽपि श्रुत्वैतद्वचनं परम् ।। ४० ।।
कलकेतब्रह्मपादावागत्य प्रणनाम हि ।।
कलकेतब्रह्मभक्तः किन्नरब्रह्मभक्तकम् ।। ४१ ।।
आलिंग्य च स्वयं दोर्भ्यां कृपावृष्ट्याऽवलोक्य तम् ।।
किन्नरब्रह्मसर्वज्ञ शिवं संपूज्य भक्तितः ।। ४२ ।।
शिवाखंडकृपां हित्वा शिवाभिन्नस्वरूपतः ।।
द्रव्यं दातुं धनं प्रार्थ्य देहं पोषितवानसि ।। ४३ ।।
न युक्तमीदृशं कार्यं सद्भक्तानां विशेषतः ।।
तस्मादखंडरूपं त्वं भज भावपुरःसरं ।। ४४ ।।
किन्नरब्रह्मभक्ताख्यमित्युक्त्वा कलकेतकः ।।
किन्नरब्रह्मभक्तस्य बसवेशस्य धीमतः ।। ४५ ।।
पादोदकप्रसादौ च दत्वा करुणया ततः ।।
चेतः प्रवेशयांचक्रे तस्य लिंगस्य कीलके ।। ४६ ।।
ततः किन्नरब्रह्माख्यो बसवेशोऽपि निर्ययौ ।।
इमां पुण्यां तस्य कथां ये शृण्वंति समाहिताः ।। ४७ ।।
पठंत्यनुदिनं वाऽपि तेषां मुक्तिर्न संशयः ।।

।। मोलिगेमारकथा ।।

भक्तो मोलिगेमाराख्यः साक्षाद्रुद्रस्वरूपधृत् ।। ४८ ।।
सदाचाररतः श्रीमान् कामक्रोधविवर्जितः ।।

प्. ९४) विमलांगो निष्प्रपंचस्तत्वसंचिंतनोत्सुकः ।। ४९ ।।
सर्वकर्मापहर्ता च सर्वकर्मविवर्जितः ।।
लिंगाक्रांतप्राणचयः शिवध्यानपरायणः ।। ५० ।।
आनीय काष्ठनिचयं तद्विक्रयणजाद्धनात् ।।
अनेकशिवभक्तौघपूजायां निरतोऽभवत् ।। ५१ ।।
बसवेशगृहे भक्ता भुक्त्वा सर्वरसोज्वलम् ।।
नानाभक्ष्यैरुपहितं शाल्यन्नं सुमनोहरम् ।। ५२ ।।
असंतुष्टाश्च तद्गेहे कांजिकं च ततः परम् ।।
तेन संतुष्टहृदयाः प्रोचुस्ते बसवेश्वरम् ।। ५३ ।।
त्वद्गेहे दत्तवस्तूनि षड्रसैः सहितानि च ।।
मारप्रदत्तकांजीरसमानि न भवंति हि ।। ५४ ।।
एकप्रस्थमितं धान्यं स्वव्यापारेण लभ्यते ।।
अनेन भक्तसंघानां ददौ भोज्यं मनोहरम् ।। ५५ ।।
तस्मान्मोलिगेमारेण भक्तश्च सदृशो न हि ।।
एतच्छ्रुत्वा तु बसवो मारगेहमुपाविशित् ।। ५६ ।।
प्रसन्नवेषधारी सन् गृहीत्वा निष्कसंचयम् ।।
दृष्ट्वा तद्गृहिणीं तत्र ययाचेऽन्नं रसोज्वलम् ।। ५७ ।।
साध्वी संतुष्टहृदया ह्यर्घ्यपाद्यादिकं ददौ ।।

प्. ९५) तत्र लिंगार्चनं कृत्वा निक्षिप्य धनमुत्तमम् ।। ५८ ।।
विष्टराधः प्रदेशे तु बसवेशो विनिर्ययौ ।।
एतत्प्रसादग्रहणं भवरोगैकभेषजम् ।। ५९ ।।
अभीष्टार्थप्रदं चैव मुक्तिमार्गप्रदर्शकम् ।।
एतद्गृहे क्षणेनैव नाशमायाति पातकम् ।। ६० ।।
एतदायतनं दृष्ट्वा कृतार्थो भवति क्षणात् ।।
एतन्निवासदेशस्था मृगपक्षिमहोरगाः ।। ६१ ।।
पिपीलिकादयः सर्वे कृतार्था नात्र संशयः ।।
इति संचिंतयंश्चित्ते तोषं बसवराट् गतः ।। ६२ ।।
ततो मध्याह्नसमये व्यापारोपरतो गृहम् ।।
मारभक्तः समायातः प्रत्युद्यातश्च भार्यया ।। ६३ ।।
ततओ लिंगार्चनकाले विष्टराधः स्थितं धनं ।।
दृष्ट्वाऽऽहूय स्वमहिषीं दत्तं केनेति चाब्रवीत् ।। ६४ ।।
साऽपि भर्तारमाहेत्थं नाहं जाने धनागमम् ।।
कश्चिद्भक्तः इतः पूर्वं कृत्वा लिंगार्चनं गतः ।। ६५ ।।
निश्चिकाय स्वमनसा मारस्तं बसवेश्वरम् ।।
बसवेशं स्वांतगर्वविनाशं करवाण्यहम् ।। ६६ ।।
इति निश्चित्य मारोऽपि गणानाहूय सत्वरम् ।।
प्रक्षाल्य तेषां पादौ च तत्तीर्थं स्वकरेण च ।। ६७ ।।
गणसंस्मरणं कुर्वन् काष्ठभारे व्यचिक्षिपत् ।।
ततो मारः समुत्थाय काष्ठकैकमुज्वलम् ।। ६८ ।।

प्. ९६) भक्तानां प्रददौ तेषां कल्याणपुरवासिनाम् ।।
सुवर्णदण्डास्ते जाता मारभक्तप्रभावतः ।। ६९ ।।
आनीतं बसवेशेन धनं चापि ददौ ततः ।।
श्रुत्वैतत्सकलं भक्तमुखेभ्यो बसवेश्वरः ।। ७० ।।
विस्मितस्तस्य माहात्म्यं ननामागत्य सत्वरम् ।।
नमंतं बसवेशानं दृष्ट्वा मारोऽब्रवीद्वचः ।। ७१ ।।
गतिस्त्वं सर्वभक्तानां सदाभीष्टप्रदायकः ।।
मादृशानां च भक्तानां त्वदायत्ता हि संस्थितिः ।। ७२ ।।
यथा मम धनं दत्तं कृतार्थस्त्वं न चापरः ।। ७३ ।।
एतत् प्रहासवचनं श्रुत्वा शोकसमाकुलः ।।
मारं प्रोवाच बसवेऽप्यत्यन्तविनयान्वितः ।। ७४ ।।
दुर्गुणामाकरोऽहं सुगुणां त्वमाकरः ।।
यथा चंडालनिकटे वेदवाक्यं न विद्यते ।। ७५ ।।
यथा हसंतिकामध्ये पंकजं वा मनोहरम् ।।
तथा मयि महाभाग विनयो हि न तिष्ठति ।। ७६ ।।
संगमेश्वररूपस्त्वं गतिर्मम न चापरः ।।
ब्रुवन्तमेवं चरणे पतितं बसवेश्वरम् ।। ७७ ।।
उत्थाप्यालिंग्य मारस्तं मृदुवाक्यैरतोषयत् ।।
ततो मारं नमस्कृत्य निर्ययौ बसवेश्वरः ।। ७८ ।।

प्. ९७) वृत्तम् ।। माराख्याभक्तचरितं जनतातिहृद्यं
पापेंधनानलशिखोपममम्प्रमेयम् ।।
शृण्वंति ये परमयोगिगणाः पठंति ते यांति
शैवपदमुत्तममत्युदारम् ।। ७९ ।।
इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्कंदागस्त्यसंवादे
मोलिगेमारमाहात्म्यं नाम एकोन्त्रिंशोऽध्यायः ।।