बसवपुराणम्/अध्यायः २५
| ← अध्यायः २४ | बसवपुराणम् अध्यायः २५ [[लेखकः :|]] |
अध्यायः २६ → |
प्. ४३) पंचविंशोऽध्यायः
हलायुधकथा
अगस्त्य उवाच ।। किमुवाच ततो माचः सर्ववाचामधीश्वरः ।।
रजकत्वपरिच्छन्नो ब्रूहि मेऽद्य षडानन ।। १ ।।
स्कन्द उवाच ।। भूयश्चन्द्रजटाजूटश्चिरुतोंडं नताननम् ।।
हृहीत्वा स्वकराब्जेन हालायुधपुरं ययौ ।। २ ।।
ततो हलायुथः श्रीमानागतौ भक्तशंकरौ ।।
साष्टांगं प्रणिपत्याशु बभाषे मधुरं वचः ।। ३ ।।
अतिश्रांताविवेदानीं दूराध्वगमनेन हि ।।
अतो भवंतावत्यन्तं स्थातव्यमनुकंपया ।। ४ ।।
एतघ्छ्रुत्वा महादेवस्तमुवाच हलायुधम् ।।
विस्मयं मम वृत्तान्तमाचक्षे तव सुव्रत ।। ५ ।।
अंमाम्बा काचन सती स्तन्यं दत्वा पुपोष माम् ।।
भोगस्य पाणिमादाय गतिमभ्यस्त वानहम् ।। ६ ।।
- णि नम्बिनः कुर्वन् दूतोऽहं वाक्यकोविदः ।।
- णि नम्बिनः कुर्वन् दूतोऽहं वाक्यकोविदः ।।
एकपात्रे तु चन्नेन भुञ्जाना**न्नादिकं परम् ।। ७ ।।
ततो दासस्य दयया वस्त्रवंधनकोविदः ।।
मानकंजारभक्तेन छित्वा पुत्रीशिखां पराम् ।। ८ ।।
बद्धो मम जटाभारो मस्तके पिंगले महान् ।।
प्. ४४) कलत्रहीनं मां वीक्ष्य बल्लालः प्रभुसत्तम्ः ।। ९ ।।
अत्यन्तरूपसंपन्नां ददौ कान्तां मनोरमाम् ।।
भक्तोऽथ मोन्नेयधरः स्वर्ण दत्वा महत्तरम् ।। १० ।।
विटसंचारनिरतमकरोदति भक्तितः ।।
तद्धनं तु समादाय दक्षवाट्यामहं गतः ।। ११ ।।
तत्रैकया तु कामुक्या रूपतारुण्यमुख्यया ।।
रममाणः सुखाविष्टस्ततस्तत्रैव वत्सरान् ।। १२ ।।
चिरुतोंडगृहं गत्वा शिवभक्ताश्चरंति हि ।।
अनुरक्तोऽहमेतेषु क्रीडितुं चरतः सदा ।। १३ ।।
विशुद्धचेतनोऽत्यन्तं सद्भक्ता गतिरावयोः ।।
संपूजयंति भक्ताश्च नौ लिंगमिव भक्तितः ।। १४ ।।
श्रीनीलकंठमूर्तिश्च बलगोंडपतिस्तथा ।।
करिकालो ह्यर्यमश्च हिंगुलीमार एव च ।। १५ ।।
एणाधिनाथनामा च सेदिराजो महामतिः ।।
वागीशोऽपि महाभागश्चारमः श्वपचस्तथा ।। १६ ।।
सोमासिमारनामा च पिल्लस्तत्त्वविदां वरः ।।
एवमाद्या महात्मानः सदा संपूजयन्ति नौ ।। १७ ।।
किमत्र बहुनोक्तेन शृणु वाक्यं हलायुध ।।
ये भक्ता भुवि तिष्ठंति शिवभक्तार्चनोत्सुकाः ।। १८ ।।
तेषां गृहेषु सर्वेषु चराम्यत्र न संशयः ।।
मज्ज्ञ्ननरहितो भक्तस्त्रिषु लोकेषु नास्ति हि ।। १९ ।।
भक्तौघैः पुष्टदेहस्य निर्ययुर्दिवसा मम ।।
प्. ४५) मज्जन्मस्थितिभूमिश्च शिलोच्चयपुरी शुभा ।। २० ।।
मम मातापिर्ट्ज्ञानं नास्ति सत्यं मयोदितम् ।।
मत्सुखं मम कष्टं वा किं वा वक्ष्ये हलायुध ।। २१ ।।
इतोऽपि विस्मयकरीं कथां वक्ष्ये मनोरमाम् ।।
कांचीपुरे पुरा कश्चिच्चिरुतोंडोऽतिधार्मिकः ।। २२ ।।
माहेश्वरार्चनासक्तो ह्यभीष्टार्थप्रदः सदा ।।
शिवो मनः परीक्षार्थं प्रेषयामास पार्षदान् ।। २३ ।।
तेषामपि च सर्वेषामिष्टार्थं प्रददौ मुदा ।।
त्रिसप्तकृत्वदिवसान् स्थिरां वृष्टिमकल्पयत् ।। २४ ।।
तदा नियमसंपन्नः पंचभक्तानतर्पयत् ।।
ततः कस्मिंश्च दिवसे नाभूदेकोऽपि जंगमः ।। २५ ।।
स मार्गयामास कांचीं भक्तार्थं च दृढव्रतः ।।
शिवो महेश्वरो भूत्वा समागत्य च कुत्रचित् ।। २६ ।।
स्थितोऽतिजरयाक्रान्तो भृशं शांत इवेश्वरः ।।
चिरुतोंडोऽपि तं दृष्ट्वा हर्षफुल्ललोचनः ।। २७ ।।
आमंत्रयामास भोक्तुं भक्तं स्वभवनान्तरे ।।
ययाचे पललं नारं शिवः कृत्रिमवेषधृत् ।। २८ ।।
तथेति संप्रतिश्रुत्य प्राप्य स्वीयं गृहान्तरम् ।।
सुतं निहत्य तन्मांसं ददौ भक्ताय धीमते ।। २९ ।।
शिवः संतुष्टहृदयः सर्वैः कांचीनिवासिभिः ।।
प्. ४६) कैलास प्रददौ तस्मै पत्नीपुत्रयुताय च ।। ३० ।।
एतादृशो महात्मानो भक्ताः किं संति भूतले ।।
अशक्यं पुत्रहननं सर्वेषां गृहमेधिनाम् ।। ३१ ।।
भक्तवाक्यमिति श्रुत्वा पुनरूचे हलायुधः ।।
अहो नरामिषं भोक्तुं स शिवः किंनु राक्षसः ।। ३२ ।।
चिरुतोंडो दयाहीनः कथं पुत्रं जघान सः ।।
वचनं चान्यथा कर्तुं गुरुत्वाद्भवतोऽधुना ।। ३३ ।।
तथापि भवतां वाक्यं मिथ्येति प्रतिभाति मे ।।
एवमाभाष्यमाणं तं पुनः प्रोवाच शंकरः ।। ३४ ।।
दातारश्च स्वभाग्यानां सुतानां दानतत्पराः ।।
स्वदेहदाननिरताः संति लोके सहस्रशः ।। ३५ ।।
शिवो मनः परीक्षार्थं दुष्करं वस्तु याचते ।।
भक्तस्तस्य प्रसादार्थं ददत्येव न संशयः ।। ३६ ।।
अतः स चिरुतोंडोऽपि ददौ पुत्रशिरः पलम् ।।
नास्ति चेदत्र विश्वासो मदुक्तार्थे हलायुध ।। ३७ ।।
लोकान् परीक्षय क्षिप्रं गत्वा ग्रामपुरादिकम् ।।
सर्वे गायन्ति शतशो बाला गोपाश्च कोटिशः ।। ३८ ।।
एवमाभाष्यमाणः सन् कुपितोऽभूद्धलायुधः ।।
भक्तवात्सल्य मृत्सृज्य ययाचे पललं कथम् ।। ३९ ।।
भक्तः स चिरुतोंडोऽपि भक्तिहीनोऽभवत् कथम् ।।
प्. ४७) कीदृशो महादेवो भक्तो वा कीदृशः स्मृतः ।। ४० ।।
माता वा राक्षसी घोरा कथं पुत्रं जघान सा ।।
वार्धकात् परमेशस्य बुद्धिभ्रंशोऽथवाऽभवत् ।। ४१ ।।
हन्तुं समुद्यते भक्ते कथं नाविरमच्छिवः ।।
कथं स्वतनुमुत्सृज्य चिरुतोंडो जघान तम् ।। ४२ ।।
जंगमः स्वसुतस्तस्य नाभवत्किं वदाद्य मे ।।
अतोऽयं चिरुतोंडोऽपि जंगमप्राणघातुकः ।। ४३ ।।
शिवेनाद्य परित्याज्यं भोक्तव्यं किं नरामिषम् ।।
अतस्तं चिरुतोंडाख्यं पुत्रद्रोहपरायणं।।
नरमांसाशिनं शंभुं शिवं नांगीकरोम्यहम् ।। ४४ ।।
ये पठंतीदमाअख्यानं चिरुतोंडकथाश्रयम् ।।
तेषामत्यन्तमूर्खाणां बहिष्कारं करोम्यहम् ।। ४५ ।।
इत्युक्त्वा करतालानि भेरीघोषपुरः सरम् ।।
कारयामास वगेन स्वभृत्यैर्बलदर्पितैः ।। ४६ ।।
चिरुतोंडः शंकरोऽपि श्रुत्वा तद्वचनं परम् ।।
महाभयेन संक्रान्तौ तिष्ठतुस्तौ तदंतिके ।। ४७ ।।
शिवभक्तौ महात्मानौ मद्गेहं समुपस्थितौ ।।
संपूजनीयौ परमाविति संचिन्त्य चेतसा ।। ४८ ।।
मया श्रुतानि वक्यानि जुगुप्सा-करणानि च ।।
इतः परं कर्त्व्यं निंदाकरमिदं वचः ।। ४९ ।।
अस्ति चेद्युवयोः प्रीतिश्चिरुतोडप्रशंसने ।।
प्. ४८) गच्छतां शीघ्रमुत्थाय चिरुतोंडांतिकं युवाम् ।। ५० ।।
एवं हलायुधवचः श्रुत्वा तौ लज्जयान्वितौ ।।
नशक्तावुत्तरं दातुं शिवभक्तावुभावपि ।। ५१ ।।
ततः सस्मार देवेशो गौरीं हैमवतीं पराम् ।।
संगलाम्बां पुरस्कृत्य गौरी गिरिवरात्मजा ।। ५२ ।।
ततः शिवान्तिकं तूर्णमाययौ परमेश्वरी ।।
संगलाम्बाहैमवत्योर्जंगमं रूपमीक्ष्य च ।। ५३ ।।
हलायुधो नमश्चक्रे मधुपर्कपुरः सरम् ।।
ततो हलायुधं गौरी प्रोवाच महितंवचः ।। ५४ ।।
सरस्वती च लक्ष्मीश्च विधिकेशवयोरुभे ।।
मुखे च वक्षोदेशे च तिष्ठतो हि हलायुध ।। ५५ ।।
पुरुषांतरगामिन्यौ भवनेष्वखिलेषु च ।।
हित्वा स्वपुरुषं गौरी न याति पुरुषांतरम् ।। ५६ ।।
तथा पतिव्रता चाहं शिवभक्त हलायुध ।।
सद्भक्तानामीप्सितार्थं ददासि त्वं महीतले ।। ५७ ।।
इति श्रुत्वा च बहुशो याचितुं त्वामहं गता ।।
अतो मदीप्सितं दत्वा गृहाणाशीर्वचः परम् ।। ५८ ।।
इत्युक्त्वा विविधैः स्तोत्रैः सा तुष्टाव हलायुधम् ।।
शैवश्रियाऽतिसंपन्नो लिंगांगस्थलतत्ववित् ।।
प्. ४९) अनिश्चिलगात्रश्च कीर्तिमांस्त्वं हलायुध ।। ५९ ।।
एवं स्तुतिगिरा तुष्टस्तामुवाच हलायुधः ।।
यद्यत्कामयसे साध्वि तत्तद्दास्यामि तेष्धुना ।। ६० ।।
तच्छ्रुत्वा मुदिता साध्वी हलायुधमुवाच तम् ।।
अहं शिवस्य महिषी चिरुतोंडवधूरियम् ।। ६१ ।।
चिरुतोंडशिवौ पूर्वं यौ त्वया तु बहिष्कृतौ ।।
बहिष्कृते प्राणनाथे तद्वधूश्च बहिष्कृता ।। ६२ ।।
प्रीतिस्तवावयोः स्याच्चेन्नाथौ मुंच बहिष्कृतेः ।।
श्रुत्वैतत्पार्वतीवाक्यं संतुष्टोऽभूद्धलायुधः ।। ६३ ।।
तथेत्युक्त्वा ततः श्रीमानभयं च तयोर्ददौ ।।
नास्ति नास्ति बहिष्कार इत्युवाच हलायुधः ।। ६४ ।।
ततो वृषध्वजः शंभुः पार्वतीप्राणवल्लभः ।।
गंगोत्तुंगतरंगार्धचंद्ररेखाविराजितः ।। ६५ ।।
हलायुधपुरोभागे प्रादुरासीत्सहोमया ।।
ततो हलायुधं भक्तं परिष्वज्य स्वबाहुभिः ।। ६६ ।।
तत्साहसस्य तद्भक्तेः संतुष्टः परमेश्वरः ।।
तत्पालितैर्नवपुरैर्नानासंपत्समृद्धिभिः ।। ६७ ।।
दिव्यं विमानमारुह्य हलायुधपुरः सरम् ।।
ऋषिभिर्जनसंघैश्च स्तूयमानो महेश्वरः ।। ६८ ।।
ययौ काइलासभुवनमनेकप्रमथोज्ज्वलम् ।।
प्. ५०) चिरुतोंडमनोगर्वनिर्वापणमनीषया ।। ६९ ।।
हलायुधं महाभक्तं मुक्तं चक्रे महेश्वरः ।।
अतो बसवभक्तानां गर्वान्मोक्षो न विद्यते ।। ७० ।।
वृत्तम् ।। माचार्यवागमृतपूरितकर्णरंध्रो
भक्तप्रभावपरिचिन्तनशुद्धभावः ।।
शांत्युज्ज्वलद्विनयसंवृतचित्तवृत्तिर्दध्यौ तदीयचरणद्वयमेव सोऽयम् ।।
७१ ।।
इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रन्थे
स्कन्दागस्त्यसंवादे पंचविंशतितमोऽध्याय ह् ।।