बसवपुराणम्/अध्यायः २०
| ← अध्यायः १९ | बसवपुराणम् अध्यायः २० [[लेखकः :|]] |
अध्यायः २१ → |
प्. १६० ) अथ विंशतितमोऽध्यायः
।। नाट्यनमित्तंडिकथा ।।
अगस्त्य उवाच ।। कुमाराय नमस्तुभ्यं कुमाराचलवासिन् ।।
पुनश्च श्रोतुमिच्छामि भक्तमाहात्म्यमुत्तमम् ।। १ ।।
अगस्त्यवचनं श्रुत्वा तस्मै स्कंदः पुनस्तथा ।।
मुग्धभक्तकथामन्यामूचे सर्वाघनाशिनीम् ।। २ ।।
कुमार उवाच ।।
ततस्तु बसवः श्रीमान् श्रीचन्नबसवेश्वरम् ।।
मुग्धानामेव माहात्म्यं वक्तुं समुपचक्रमे ।। ३ ।।
श्रीमत्कांचीपुरे रम्ये नानामुनिगणावृते ।।
तत्राभूद्ब्राह्मणः कश्चिच्छिवभक्तो दृढव्रतः ।। ४ ।।
नमित्तंडिरिति ख्यातो मुग्धभक्तिसमावृतः ।।
सोऽप्येकाम्रेश्वरं द्रष्टुं गजासुरनिषूदनम् ।। ५ ।।
अत्यद्भुताकारधरं बालेंदुकृतशेखरम् ।।
कालकंठं विरूपाक्षं तूर्णमभ्याययौ द्विजः ।। ६ ।।
एकं शिवार्चकं दृष्ट्वा समाहूयेदमब्रवीत् ।।
शिवस्य मध्यभागोऽयं कुटिलं परिदृश्यते ।। ७ ।।
वक्रभावं समासाद्य हस्तौ वा परमेशितुः ।।
रोगादिना वा तौ पीनौ किमेतत्तिष्ठतेऽधुना ।। ८ ।।
त्रिधाननं सदवनीं स्पृष्टमस्पृष्टवत्तथा ।।
वर्तते पदयोरेकमन्यद्दूरेच तिष्ठति ।। ९ ।।
प्. १६१) नेत्रत्रयं निमेषैश्च विहीनं परिदृश्यते ।।
एकस्मिन्नेव भागे तु प्रस्थवद्वर्तते शिरः ।। १० ।।
जटाभारस्य सद्ग्रंथिर्भृश्यमाना प्रवर्तते ।।
एतच्चोद्यमिवाभाति कारणं तत्र किं वद ।। ११ ।।
शिवद्विजवरः प्राह मंदस्मितमुखो वचः ।।
वातरोगसमाक्रान्तः स्थितस्त्वेवं महेश्वरः ।। १२ ।।
न चेदस्य तु भैष्ज्यं शरीतं नाशमाप्नुयात् ।।
वेद्म्यहं तच्चिकित्सां वै भेषजं परिवर्तते ।। १३ ।।
यद्यस्ति शक्तिस्ते ब्रह्मन् कारयस्व मयाऽधुना ।।
शिवद्विजेनैवमुक्तः परिहासपुरःसरम् ।। १४ ।।
श्रद्दधानो नमित्तंडिरतिभक्तिसमन्वितः ।।
यदस्ति स्वगृहे द्रव्यं तदानीय महत्तरम् ।। १५ ।।
निक्षिप्तवांस्तदग्रे तु वेपमानो भयाकुलः ।।
गृहीत्वा सकलं द्रव्यं वार्तं कुरु महेशितुः ।। १६ ।।
साध्वी सती सुताश्चाहं भवामस्ते हि भृत्यकाः ।।
कुरुष्वेतन्महापुण्यमित्यवोचच्छिवार्चकं ।। १७ ।।
गृहीत्वा तद्धनं सर्वं कापट्येन शिवार्चकः ।।
वातशांतिकरं तैलं करिष्यामीत्यवोचतम् ।। १८ ।।
गृहीत्वा श्रपितं तैलं ददावस्मै द्विजन्मने ।।
तद्गृहीत्वा नमित्तंडिर्लेपयामास शंकरम् ।। १९ ।।
अर्कपत्रादिपत्राणि समानीय द्विजोत्तमः ।।
प्. १६२) उपचार ततश्चक्रे वातरोगनिबर्हणम् ।। २० ।।
पथ्ययोग्यानि भोज्यानि ददौ प्रत्यहमास्थया ।।
एवं दिनेषु गच्छत्सु चिन्तयामास स द्विजः ।। २१ ।।
व्यतीतानि दिनान्यस्य रोगस्तु न निवर्तते ।।
नश्येत्किं वातरोगोऽयं वन्यमूलैरुमापतेः ।। २२ ।।
अहमेव भिषक् तस्य भविस्यामि न संशयः ।।
इति संचिन्त्य मनसा मर्तुं समुपचक्रमे ।। २३ ।।
अथास्मिन्नंतरे देवो महादेवो महेश्वरः ।।
पार्वतीसहितः श्रीमान सर्वतंत्रविशारदः ।। २४ ।।
भृंग्यादिप्रमथोपेतः शिवः प्रत्यक्षतामगात् ।।
ततो नाट्यनमित्तंडिं दोर्भ्यामालिंग्य सत्वरम् ।। २५ ।।
तवेप्सितं वरं दद्यां दैवतैरपि दुर्लभम् ।।
एवमुक्तो नमित्तंडिः प्रोवाच परमेश्वरम् ।। २६ ।।
वरैरन्यैः किमेभिर्मे भयेनाक्रान्तचेतसः ।।
तथापि च वरिष्यामि वरं मद्धृदयस्थितम् ।। २७ ।।
दृश्यते वक्रता देहे तव त्रिपुरभंजन ।।
रोगेणेयं समुत्पन्ना सहजा वा महेश्वर ।। २८ ।।
वक्तुमर्हसि देवेश कृपा चेन्मयि चाधुना ।।
इत्युक्तः परमेशोऽपि प्राह ब्राह्मणपुंगवम् ।। २९ ।।
तांडवाकृतिरेषा मे न रोगादिनिमित्तजा ।।
प्. १६३) नाट्यस्याभिमुखश्चाहं ढक्कां संताडयामि चेत् ।। ३० ।।
सर्वं विलयमाप्नोति जगदेतच्चराचरम् ।।
नृत्तार्थं चलिते पादे तारा भुवि पतंति हि ।। ३१ ।।
निरीक्षणेन महता ब्रह्मविष्ण्वादयः सुराः ।।
लीयन्ते कुत्रचिद्देशे भयभ्रान्तविलोचनाः ।। ३२ ।।
किंकिणीनादसंभ्रान्ता देवी गिरिवरात्मजा ।।
मम वामांगभागस्था वेपमाना भयार्तितः ।। ३३ ।।
निश्वासैश्च तथोच्छ्वासैर्ज्वलिते वडवानले ।।
समुद्राः शुष्कतामापुर्नदीभिश्च समाकुलाः ।। ३४ ।।
मत्पादघट्टनैर्भूमी रजोराशिस्तथाऽभवत् ।।
भ्रान्ताश्च दिग्गजाः सर्वे निनदुर्मयि संस्थिते ।। ३५ ।।
भ्रश्यत्कुठारपातेन गिरयश्चूर्णतां ययुः ।।
पादाग्रताडनात्कूर्ममुखात्सस्राव शोणितम् ।। ३६ ।।
जटाछटाभिघातेन भिन्नो ब्रह्मांडखर्परः ।।
उत्पाटितानि भूतानि किरीटाग्रस्य घट्टनात् ।। ३७ ।।
शेषो भुग्नफणो जातस्ताण्डवोद्धतवेगतः ।।
प्. १६४) शेषनिश्वासवातेन नेत्राग्नौ ज्वलिते सति ।। ३८ ।।
तदग्निज्वालया चन्द्रे भिन्ने सति शिरस्थिते ।।
तस्मात्सुधा समुत्पना शिरसः स्पर्शमाप्नुवत् ।। ३९ ।।
शिरोवक्षः पाणितले नृकपालानि यानि हि ।।
अच्युतस्य कपालानि वर्तन्ते यानि यत्र हि ।। ४० ।।
सुधासुत्या समस्तानि तानि प्राणयुतानि च ।।
अभयं याचमानानि व्यतिष्ठन् ब्राह्मणोत्तम ।। ४१ ।।
सर्वेष्वमरवर्गेषु सेवमानेषु तांडवे ।।
क्रियमाणेऽतिवेगेन सर्वलोकक्षयावहे ।। ४२ ।।
तत्तद्रसानुगुण्येन शरीरं वक्रतामगात् ।।
तदाऽऽरभ्यजनाः सर्वे लसत्तांडवविग्रहम् ।। ४३ ।।
अनुध्यायंति मामेव मम भक्ता मुमुक्षवः ।।
एवमाभाष्य देवेशो नमित्तंडिं महोज्ज्वलम् ।। ४४ ।।
ऋजूकृत्वा वक्रभावं हर्षितं भक्तसत्तमम् ।।
कैलासं प्रापयामास सच्चिदानंदलक्षणः ।। ४५ ।।
इत्युक्त्वा पुनरन्यस्य कथामाह वृष्र्श्वरः ।।
वेदागमरहस्यं हि निशामय महामुने ।। ४६ ।।
।। कन्नप्पदेवकथा ।।
श्रीकालहस्तिनगरे शैवसंघविराजिते ।।
उडुमूरुकूलोद्भूतः कन्नपो भक्तसत्तमः ।। ४७ ।।
प्. १६५) अत्यन्तधीरहृदयो दयासत्यविरागवान् ।।
चोरमार्गरतो वाऽपि श्वगणैः परिवारितः ।। ४८ ।।
धनुर्धरैः सहचरैर्लुब्धैर्बहुवनेचरैः ।।
कदाचिन्मृगयाश्रांतः सुष्वाप विजने वने ।। ४९ ।।
समागतस्ततः स्वप्ने भस्मदिग्धकलेवरः ।।
रुद्राक्षमालाभरणो भक्तवेषधरः शिवः ।। ५० ।।
कन्नप्पाख्यं समालोक्य भूतिपट्टं चकार सः ।।
शिवकुंभोदकेनैवमभिषिच्य दृढाशयः ।। ५१ ।।
परेद्युर्द्रक्ष्यसे लिंगंयत्सर्वैर्लक्षणैर्युतम् ।।
तदेव प्राणलिंगं त्वं कुरुष्वात्यन्तभक्तितः ।। ५२ ।।
ततः स्वप्नात् समुत्थाय विलोक्य च दिशो दश ।।
अत्यन्तापूर्वमार्गोऽयमिति चिन्तितवानसौ ।। ५३ ।।
जनान्सहचरान् सर्वान् विनिवार्यातिविस्मितः ।।
तस्मान्मार्गादयं तूर्णं कार्याकार्यविमुढधीः ।। ५४ ।।
ततः शतपदं प्राप्य गत्वा देशं वनान्तरे ।।
तत्र लिंगं ददर्शाशु सुरम्यमतिपावनम् ।। ५५ ।।
मया स्वप्नेऽपि यल्लिंगं दृष्टं शैवमनामयम् ।।
तदेव लिंगमद्राक्षं प्रत्यक्षेण वनांतरे ।। ५६ ।।
प्. १६६) अहो विवित्रमत्यन्तं स्वप्नस्येत्थं हि सत्यता ।।
इति संतोषकलितः कन्नाख्योऽयं महामतिः ।। ५७ ।।
ननाम दण्डवद्भूमौ सद्भक्त्या सकृता~ज्जलिः ।।
स्वप्नोपदिष्टंयल्लिंगं देशिकेन महात्मना ।। ५८ ।।
तदेवैतन्महालिंगमिति निश्चित्य चिन्तयन् ।।
एतल्लिंगं मया त्यक्त्वा न गंतव्यं गृहान्तिकम् ।। ५९ ।।
इति तल्लिंगमादाय कन्नपो गन्तुमुद्ययौ ।।
अत्रास्ति चेदिदं लिंगमातपेनाति तप्यते ।। ६० ।।
लिंगस्यास्य तु मद्ग्रामे गेहमेकं करोम्यहम् ।।
अभीष्टार्थान् बहून् दत्वा संस्तुत्य विविधैः स्तवैः ।। ६१ ।।
एतल्लिंगं तु नेतव्यं नान्योपायैर्महत्तरैः ।।
इति मौग्धेन देवेशं तुष्टाव परमेश्वरम् ।। ६२ ।।
अहो देव महाभाग संतज्य रजताचलम् ।।
अनेकरत्नसंयुक्तं मंदराख्यं महानगरम् ।। ६३ ।।
किमर्थं विपिनं प्राप्य विष्ठसि त्वं महेश्वर ।।
अर्कधत्तूरपुष्पैस्त्वमुन्मत्तोऽसि किमीश्वर ।। ६४ ।।
कुपितोऽस्यर्चकेषु त्वमुपचाराद्यभावतः ।।
अनेकजनसंमर्दात्त्यक्त्वाऽन्यं नगमागतः ।। ६५ ।।
गंगागौर्योस्तु कलहं समाधातुं त्वमक्षमः ।।
चन्नभक्तादिसंपर्काद्भक्तैः किं नु बहिष्कृतः ।। ६६ ।।
प्. १६७) संपादितुं वधूमन्यां तपः कर्तुं समागतः ।।
कर्तुं नंबीशसंसेवामक्षमः किं समागतः ।। ६७ ।।
अनुग्रहार्थं भक्तेऽस्मिन् काननं किमुपागतः ।।
एकाकिनं काननस्थं विहीनं कार्मुकेषुभिः ।। ६८ ।।
कथं संत्यज्य गच्छामि पदौ संचलितौ न मे ।।
अर्धांगहारिणी गौरी क्व गता कमलेक्षणा ।। ६९ ।।
सर्वान् गणान् परित्यज्य विष्ण्वादीनमरानपि ।।
अरण्यं घोरमद्य त्वं सिंहव्याघ्रसमन्वितम् ।। ७० ।।
अनेककिटिभिर्व्याप्तमागतोऽस्य विचारतः ।।
दृष्ट्वा किरातशिशवस्ताडयेयुः शरः शितैः ।। ७१ ।।
अतः सन्त्यज्य कान्तारं शुष्कमत्यन्तभीषणम् ।।
नानाभोज्यैश्च संपूर्णं दधिक्षीरसमाकुलम् ।। ७२ ।।
अनेकमधुसंकीर्णमागच्छ त्वं पुरं मम ।।
कन्नपः प्रलपन्नेवं ननाम भुवि दण्डवत् ।। ७३ ।।
अभाषयंतं देवेशं दृष्ट्वा चिन्तापरोऽभवत् ।।
अनेककालमारभ्य नास्त्यस्य किमु भोजनम् ।। ७४ ।।
वृथालापान परित्यज्य ह्यानये भोज्यमुत्तमम् ।।
इति संचिन्त्य कनाख्यः कंदमूलफलानि च ।। ७५ ।।
नानाफलानि दिव्यानि स्वादुमांसान् मृगानपि ।।
प्. १६८) अन्वेषयन्वने तस्थौ धनुष्पाणिर्वनेचरः ।। ७६ ।।
पुरातिबलसंपन्नौ महाविक्रमशोभितौ ।।
श्रीवौंदरमहाकायौ दानवौ लोकविश्रुतो ।। ७७ ।।
तौ तपश्चक्रतुः साम्बं शिवं लोकैकशंकरम् ।।
तयोस्तु तपसा तुष्टः शिवः प्रत्यक्षतामगात् ।। ७८ ।।
वरं दास्यामि युवयोर्मनसा परिचिंतितम् ।।
ब्रह्मविष्ण्वादिदेवानां दास्यामि पदवीः पराम् ।। ७९ ।।
इति शंभुवचः श्रुत्वा सभयौ भक्तिसंयुतौ ।।
साष्टांगं दानवौ नत्वा याचयामासतुर्वरम् ।। ८० ।।
पुराजलंधरेणायं भंगमाप मुरांतकः ।।
नास्तल्लोकमिच्छावः समृद्धमपि सर्वथा ।। ८१ ।।
अस्मद्गजासुरेणैव निकृत्तं ब्रह्मणः पदम् ।।
निराकृतं तारकेण पदमीश शचीपतेः ।। ८२ ।।
अतः स्थानेषु सर्वेषु सर्वदाऽऽवां पराङ्मुखौ ।।
गजव्याघ्रादयस्त्वत्तो हताः पूर्वं महौजसः ।। ८३ ।।
मोक्षमेव प्रपन्नस्ते पुनरावृत्तिवर्जितम् ।।
आवामपि तथा मोक्षं गमिष्यावः पुरांतक ।। ८४ ।।
अतो गृहाण नौ देहमाहारार्थं महेश्वर ।।
इत्युक्तः परमेशोऽपि तौ बभाषे निशाचरौ ।। ८५ ।।
श्रीकालहस्तिक्षेत्रस्य समीपे मृगरूपिणौ ।।
युवां च तिट्ठतां नित्यं पुत्रमित्रसमन्वितौ ।। ८६ ।।
प्. १६९) कन्नाख्यस्तु भवेद्भक्तो हनिष्यति मृगाकृती ।।
तद्दत्तमांसनिचयं भुक्त्वा मुक्तिं ददामि वः ।। ८७ ।।
राक्षसावेवमुक्तौ तौ शिवेन परमात्मना ।।
पुत्रमित्रकलत्रैश्च जग्मतुर्मृगरूपताम् ।। ८८ ।।
अन्यैश्चाप्रेक्षमाणास्ते विचेरुर्लिंगसव्निधौ ।।
एकैकेनेषुणा कन्नो ह्येकैकमवधीत्क्रमात् ।। ८९ ।।
मृगमांसं तदादाय मृदुलं शोभनं ततः ।।
वन्हौ परमहर्ष्र्ण पचन्नास्वाद्य जिव्हया ।। ९० ।।
रुच्यं रुच्यं पृथक् कृत्वा रम्यपत्रपुटे तथा ।।
निक्षिप्य बिल्वपत्राणां पुटीं कृत्वा स्वमूर्धजान् ।। ९१ ।।
मुखेनैव जलं गृण्हन् दक्षिणेनैव पाणिना ।।
शरचापान् समादाय वमेनैव करेण च ।। ९२ ।।
मांसयुक्तं पुटं गृण्हन् स ययौ शिवसंनिधिम् ।।
आगत्य कन्नः पादेन चोपानहविशोभिना ।। ९३ ।।
प्रमृज्य कालहस्तीशपूजां पूर्वंकृतां पराम् ।।
गंडूषवारिणा स्नाप्य प्रार्चयद्बिल्वपत्रकैः ।। ९४ ।।
ततो निवेदयामास स्वानीतं पिशितं परम् ।।
किरातेन कृतां पूजामवलोक्य महीसुरः ।। ९५ ।।
किरातोऽयमनाचरः पापकर्माविधर्षितः ।।
कृतां च विधिना पूजां लोपयामास दुर्मतिः ।। ९६ ।।
किं करोमि क्व गच्छामीत्येवं संचिन्त्य चेतसा ।।
प्. १७०) तन्मांसखंडनिचयं स्वपादेन व्यचिक्षिपत् ।। ९७ ।।
ततः पंचामृतैर्दिव्यैः स्नापयामास भक्तिमान् ।।
पौराणैर्वेदिकैश्चैव स्तवैः स्तुष्टाव शंकरम् ।। ९८ ।।
स्वयं रहस्यंदेशे* तु प्रच्छन्नः संस्थितो द्विजः ।।
आगच्छन्तं महाक्रूरं पूजितुं परमेश्वरम् ।। ९९ ।।
स ददर्श धनुष्पाणिं कालान्तकमिवापरम् ।।
तत्पादमार्जितां पूजां स्वकृतां वेदमंत्रकैः ।। १०० ।।
दृष्टाऽथ ब्राह्मणः श्रीमान् मनसीदं व्यचिन्तयत् ।।
अहो नैव नियोगोऽयं किरातेन दुरात्मना ।। १०१ ।।
लिंगं संस्पृष्टमभवत् संस्कृतं वेदमंत्रकैः ।।
न निवारयितुं शक्तिर्दुर्बलस्य ममास्ति हि ।। १०२ ।।
यथाऽत्रैव महाक्षेत्रे तंतुवायोऽतिदुर्बलः ।।
तंतुभिः स्वांगसंभूतैरालयं शूलपाणिनः ।। १०३ ।।
गोपुराणि चकाराशु मंडपान्यकरोद्भृशम् ।।
एवं बाह्यस्थलिंगेऽस्य कीटस्तूपचचार सः ।। १०४ ।।
अथास्मिन्नंतरे तूर्णमेकः शुंडालपुंगवः ।।
लिंगं हि कीटनीतेन तन्तुजालेन वेष्टितम् ।। १०५ ।।
इदं रम्यं करिष्यामि तंतुनाशनपूर्वकं ।।
इति निश्चित्य मनसा चिन्ताभारसमाकुलः ।। १०६ ।।
बृंहितैश्च कराग्रेण तंतुजालमनाशयत् ।।
ततः करानीतजलैरभिषेकं चकार सः ।। १०७ ।।
प्. १७१) पूजयामास वेगेन स्वकुंभानीतपंकजैः ।।
एवं त्रिषंध्यं शुडालः पूजां कुर्वन्नवर्तत् ।। १०८ ।।
ततः कीटवरो धीमानागत्यैतन्निरीक्ष्य च ।।
शोकभारसमाक्रान्तस्तस्थौ लिंगस्य सन्निधौ ।। १०९ ।।
आगच्छन्तं महामत्तं स्वोपचारविनाशकम् ।।
सर्वदाऽहं हनिष्यामीत्येवं चेतस्यचिन्तयत् ।। ११० ।।
ततः शनैरिभं प्राप्य नासाद्वारं विवेश सः ।।
तद्वारेण शिरोभागं प्राप्य तन्मांससंचयम् ।। १११ ।।
विनाशयामास ततः स ममारोद्धतो गजः ।।
तथैवाहममुं क्रूरं हनिष्यामि दुरासदम् ।। ११२ ।।
विचार्येत्थं द्विजन्माऽपि गृहीत्वा शस्त्रमुत्तमम् ।।
तदागमनवेलायां रहो देशे च संस्थितः ।। ११३ ।।
एतस्मिन्नन्तरे देवः कालहस्तीश्वरो महान् ।।
किरातभक्तिदार्ढ्यं तद्ब्राह्मणाय निवेदितुम् ।। ११४ ।।
विकृतं रूपमास्थाय लोचनत्रितयोज्ज्वलम् ।।
जलं सस्राव नेत्राब्जाच्छिवस्य परमात्मनः ।। ११५ ।।
किरातोऽत्र समागत्य दृष्ट्वा रूपान्तरं परम् ।।
स्रवमाणं च नेत्र्ब्जाज्जलं दृष्ट्वा महत्तरम् ।। ११६ ।।
भयेन वेपमानोऽसौ शोकाक्रान्तस्वमानसः ।।
स्वयं च पूर्ववत्पूजां चकारायं वनेचरः ।। ११७ ।।
ततो नेत्र जलं दृष्ट्वा कन्नः प्रोवाच शंकरम् ।।
प्. १७२) भो भोः किमेतदाश्चर्यमदृष्टचरमीदृशम् ।। ११८ ।।
दाक्षायणीमृतिं श्रुत्वा न नेत्रेभ्यो जलं स्रुत्म् ।।
चीलालस्य शिरश्छेदं चिरुतोंडकृतं परम् ।। ११९ ।।
दृष्ट्वाऽप्यश्रूण्यजातानि भवतः परमेश्वा ।।
भवदाज्ञापसारे तु दृष्ट्वा ब्रह्मणमुत्तमम् ।।। १२० ।।
तदानीं तव नेत्राब्जान्नासीज्जलविनिः सृतिः ।।
गृहीतुमन्यवनितां दारुकाख्यवने परे ।। १२१ ।।
नाभवद्बध्यमानस्य नेत्रात्ते जलनिस्रुतिः ।।
मृत्पूर्णपात्रभरणे न नेत्रात्ते जलस्रुतिः ।। १२२ ।।
विहाय पत्नीपुत्रादीन् वसामि हि वनान्तरे ।।
एवं संचिन्त्य दिनात्मा किं रोदिषि महेश्वर ।। १२३ ।।
एकाकिना मया सर्वे लोका धर्तुं च न क्षमाः ।।
तथा क्षुद्बाधया किं नु मदनागमनोत्थया ।। १२४ ।।
व्याघ्रादिभिरयं भक्तो भक्षितस्त्विति चिंतया ।।
सर्वोपचारान् संत्यज्य कन्नो ग्रामं ययाविति ।। १२५ ।।
अतिक्रूतो महासर्पो दशतीत्यथवा प्रभो ।।
किमर्थं रोदति भवान् भयभ्रान्त इवाधुना ।। १२६ ।।
वदस्व मम सर्वेश रोदनस्याद्य कारणम् ।।
इति दोर्श्यां समालिंग्य कालहस्तीश्वरं परम् ।। १२७ ।।
प्. १७३) नेत्रोत्थं ममृजे नीरं चिंताव्याकुलमानसः ।।
सिकतं पतितं किं नु वायवानीतं तृणादिकम् ।। १२८ ।।
इति संमार्जयामास वस्त्राग्रेण्स् वनेचरः ।।
एकनेत्रजलं दृष्ट्वा क्रोशमाने वनेचरे ।। १२९ ।।
नेत्रांतराच्च् निष्क्रान्तो जलासारोष्तिदुस्तरः ।।
ईशनेत्रजलं घोरं स निवारितुमक्षमः ।। १३० ।।
भूमौ च निपतत्याशु हृदयं ताडयत्यसौ ।।
नेमान्यानंदबाष्पाणि मुखे शोकनिरीक्षणात् ।। १३१ ।।
कटाक्षवीक्षणजलं नेदमौष्ण्यानुवर्तनात् ।।
न नेत्रयोर्घर्मजलं नेत्रस्वेदानिरीक्षणात् ।। १३२ ।।
एकलोचनजन्यत्वान्नेदं कुःखोद्भवं जलम् ।।
अतो रोगसमुत्पन्नमिदं नेत्रजलं परम् ।। १३३ ।।
नाहं भिषग्वरो धीमान् नेत्रौषधविचक्षणः ।।
त्वां त्रिनेत्रमिति ज्ञात्वा भृत्या जाताः सुराधिपाः ।। १३४ ।।
यदा कदापि ते देहो नैतादृग्रोगसंकुलः ।।
यन्नेत्रानलनिर्दग्धास्ते मृतिं प्राप्नुवंति हि ।। १३५ ।।
प्. १७४) अंगहीनं दृष्ट्वा विमुखाः पंकजाननाः ।।
त्वामंगहीनं सद्भक्ता इह तु प्रहसंति वै ।। १३६ ।।
पुरा नेत्रं समुत्पाट्य पूजयमास केशवः ।।
ततस्तद्भक्तिसंतुष्टो दत्तवानसि लोचनम् ।। १३७ ।।
तत्सामर्थयं क्वानुगतं वद मे परमेश्वर ।।
किं करोमि क्व गच्छामि किं वदाम्यतिदुःखितः ।। १३८ ।।
नासीत्तवेदृशो रोगो भगवन् चिरजीविनः ।।
एवं संचिन्त्य बहुधा किरातो भक्तसत्तमः ।। १३९ ।।
उपायं निश्चयामास नेत्ररोगनिवृत्तये ।।
शस्त्रेणोत्तार्य मन्नेत्रं तव दास्यामि निश्चयात् ।। १४० ।।
त्वन्नेत्रं रोगसंयुक्तमहं गृण्हाम्यतंद्रितः ।।
नेत्रमुत्पाटितुं शस्त्रं संदधे स वनेचरः ।। १४१ ।।
उत्पाट्य लोचनं स्वीयं स शिवाय न्यवेदयत् ।।
तेनैकनेत्रमीशस्य पद्मपत्रमिवाबभौ ।। १४२ ।।
पुनर्नेत्रांतराज्जातं सलिलं परमेशितुः ।।
तद्दृष्ट्वा सौख्यमापन्नः किंचित्प्रीतिमुखो ऽभवत् ।। १४३ ।।
द्वितीयं लोचनं स्वीयमुप्ताटितुमसंशयः ।।
चक्रे बुद्धिं महाभक्तो दातुमन्तकहारिणे ।। १४४ ।।
प्. १७४) एतस्म्न्नंतरे सांबश्चंद्रार्धकृतशेखरः ।।
वृषभेश्वरमारुह्य प्रत्यक्षोऽतिष्ठदन्तिके ।। १४५ ।।
पुरःस्थितं च कन्नाक्यं भक्तं दृष्ट्वाऽतिविस्मितः ।।
दोर्भ्यामालिंग्य तन्नेत्रं पुनस्तस्मै ददौ शिवः ।। १४६ ।।
आनंदाश्रूणि कनाख्यनेत्राभ्यामथ जज्ञिरे ।।
लिंगनेत्रसमुद्भूता या पुरा जलरूपिणी ।। १४७ ।।
आनंदबाष्पधाराऽभूत्तदा तस्य पिनाकिनः ।।
ततो मुनिगणाः सर्वे विष्ण्वाद्याश्च सुरास्तदा ।। १४८ ।।
तुष्टुवुर्विविधैः स्तोत्रैर्देवदेवं त्रिलोचनम् ।।
ते प्रशंसुश्च कन्नाख्यं भक्तं च विजितेंद्रियम् ।। १४९ ।।
देवदंदुभयो नेदुः पुष्.पवृष्टिः पपात च ।।
कन्नस्य शिवभक्तेश्च तथा तस्य गुणोन्नगेः ।। १५० ।।
तन्मौग्ध्यस्यापि संतुष्टं शिवं परमकारणम् ।।
द्रष्टुमभ्याययौ तूर्णं रहोदेशाद्द्विजोत्तमः ।। १५१ ।।
स्तुवन्नानाविधैः स्तोत्रैर्वैदिकैश्च पुराणगैः ।।
कन्नाख्यं शिवभक्तं च प्रणनाम द्विजोत्तमः ।। १५२ ।।
ततः कन्नमुवाचेदं प्रांजलिर्द्विजपुंगवः ।।
मौग्ध्यमीश्वरभक्तिं च न जानामिदृशीं पराम् ।। १५३ ।।
तवापकारकरणे सन्नद्धोऽस्मि वनेचर ।।
प्. १७६) अपराधसहस्राणि क्षमस्वाद्य ममानघ ।। १५४ ।।
अशेषवेदवेदान्तवेद्यस्त्वं परमेश्वरः ।।
शिवस्यापि तवात्यन्तं न भेदोऽस्ति यथार्थतः ।। १५५ ।।
तवेदृशी महाभक्तिर्मौग्ध्यं चापि महत्तरम् ।।
नास्ति भूमंडलेऽन्यत्र ब्राह्मणेषु महत्स्वपि ।। १५६ ।।
वनेचरे स्तूयमाने ब्राह्मणेन महात्मना ।।
गौरी च विस्मयं लेभे शिववामांगसंस्थिता ।। १५७ ।।
शिवः संप्रेक्षयामास किरात. परमादरात् ।।
किरातोऽपि महादेवं ददर्शा त्यन्तहर्षितः ।। १५८ ।।
तयोरकेत्वमभजन् दृष्टयोऽत्यन्तशोभनाः ।।
पूर्वमस्य महेशस्य कन्नदत्तं विलोचनम् ।। १५९ ।।
अस्ति चेन्मथः श्रीमान् कथं नाशमवाप्नुयात् ।।
महत्पुरत्रयं चापि कथं दाहमवाप्नुयात् ।। १६० ।।
अत्यन्तशीतलेनैतच्चक्षुषा दृश्यते यदि ।।
विश्वं प्रलयकालेऽपि कथं दग्धं भविष्यति ।। १६१ ।।
कथमुग्राक्षि तस्य स्यादेतस्मींअल्लोचने सति ।।
एतन्नयनलोभेन शिवोऽत्यन्तदयापरः ।। १६२ ।।
इति संस्तूयमानोऽभूज्जनैः सर्वेर्मुनीश्वरैः ।।
कन्नप्पनेत्रलाभेन शुशुभे परमेश्वरः ।। १६३ ।।
कन्नस्य पादरक्षायाः संस्पर्शसहनाद्भुवि ।।
भक्तवत्सलविख्यातिं लेभे त्रिपुरभंजनः ।। १६४ ।।
प्. १७७) इति संस्तूयमानं तं कन्नाख्यं भक्तसत्तमम् ।।
आलिंग्य च शिवो दोर्भ्यां करुणाप्लुतमानसः ।। १६५ ।।
प्राह गंभीरया वाचा गणानामग्रतः शिवः ।।
वरं दास्यामि संतुष्टस्ते वृणीष्व यथेप्सितम् ।। १६६ ।।
स शिवेनैवमुक्तस्तु कन्नः प्रोवाच शंकरम् ।।
अहं नाम न जानामि त्वदुक्तं वरमोक्षयोः ।। १६७ ।।
त्वामेकमेव जानामि सत्यं सत्यं मयोदितम् ।।
तथापि कामये चाहं सर्वेषामतिदुर्लभम् ।। १६८ ।।
कटाक्षा एव सततं पतन्तु मयि शंकर ।।
एवमुक्तस्तदा देवः शंकरो लोकशंकरः ।। १६९ ।।
कन्नाख्यं पुरतः स्थाप्य स्वयं तस्थौ कृतार्थधीः ।।
कन्नेशयोः कटाक्षाश्च मिलिताः संचकाशिरे ।। १७० ।।
एवमानंदकलितावुभौ भक्तेश्वरौ परौ ।।
कालहस्तिपुरे रम्ये तिष्ठंतौ च महौजसौ ।। १७१ ।।
ततः प्रभृति कन्नस्य गंडूषमतिपावनम् ।।
कालहस्तीश्वरस्नाननीरमासीन्मनोहरम् ।। १७२ ।।
जनाः संपूजयन्त्यद्य शिवलिंगं महोज्ज्वलम् ।
कन्ननिर्माल्यपुष्पौधैरेतद्धि शिवशासनम् ।। १७३ ।।
पूर्वं निवेद्य कन्नाय भक्षभोज्यादिकं परम् ।
निवेदयन्ति देवाय पश्चात्सर्वे तपोधनाः ।। १७४ ।।
प्. १७८) अतो मुग्धस्व्भावानां शिवः शीघ्रं प्रसीदति ।
एवं मुग्धकथां रम्यां कथयन् बसवेश्वरः ।। १७५ ।।
सद्भिर्गणैः स्तुतः सभ्यैः श्रीचन्नबसवेन च ।
पुरा भक्तवरः कश्चित् कलियंबुरिति श्रुतः ।। १७६ ।।
भक्तानन्दप्रदो नित्यमद्भुताख्यानवर्णनैः ।
हासयामास देवेशं लीलाविग्रहधारिणम् ।। १७७ ।।
तथैवाहं करिष्यामि भक्तान् स्मितमुखान् परान् ।
जन्मसाफल्यमेतद्धि श्रुणुध्वं भक्तसत्तमाः ।। १७८ ।।
वृत्तम् ।। श्रीकालहस्तिनिलये परमेशभक्ता एवं स्थिताः
सकललोकजनाभिवंद्याः ।।
मुग्धेशभक्तकथया बसवेश्वरोऽसौ संतोषमूर्मिकलयैव जगाम
सिंधुः ।। १७९ ।।
मुग्धसंगस्य वै रुद्रपशुपस्य महात्मनोः ।
श्रीनीलनक्कनैनारोर्बालिकाबिज्जमाम्बयोः ।। १८० ।।
दीपदाख्यकलीशस्य नाट्यनम्यंकतंडिनः ।
कन्नप्पाख्यस्य मुग्धानां शिवभक्तिसुसंपदां ।। १८१ ।।
एतेषां नब भक्तानां चरितानि तु ये भुवि ।
स्तुवंति नित्यं शृण्वंति गायंति शिवभक्तितः ।। १८२ ।।
पुत्राभिवृद्धिधर्मार्थकाममोक्षादिसिद्धयः ।
सिध्यंति सज्जनानां च तेषां शंभोः कृपाबलात् ।। १८३ ।।
इत्येवं बोधितं चन्नबसवाय वृषेण हि ।
प्. १७९) मुग्धचारित्रनिकरं विद्धि कुंभज मोक्षदम् ।। १८४ ।।
इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवेपुराणे
स्कंदागस्त्यसंवादे कन्नप्पकथानुवर्णनं नाम विंशोऽध्यायः