बसवपुराणम्/अध्यायः १९
| ← अध्यायः १८ | बसवपुराणम् अध्यायः १९ [[लेखकः :|]] |
अध्यायः २० → |
प्. १५५) अथ एकोनविंशोऽध्यायः ।।
अगस्त्य उवाच ।। विचित्रं शिवमाहात्म्यं विचित्रं भक्तचेष्टितम् ।।
बसवेश्वरमाहात्म्यं विचित्रं विस्मयावहम् ।। १ ।।
पुनस्तच्छ्रोतुमिच्छामि समासेनाद्य ऽण्मुख ।।
कुंभयोनेर्वचः श्रुत्वा कार्तिकेयो महामतिः ।।
बसवेश्वरमाहात्म्यं वक्तुं समुपचक्रमे ।। २ ।।
कुमार उवाच ।।
बसवेशेनैवमुक्तः श्रीचन्नबसवेश्वरः ।।
मुग्धानामेव भक्तानां माहात्म्यं वद सद्गुरो ।। ३ ।।
एवं शिष्यकृतप्रश्नो बसवेशो गुरूत्तमः ।।
प्रचक्रमे कथामेकां वक्तुं पापप्रणाशिनीम् ।। ४ ।।
कलियारुकथा
बसवेश उवाच ।। श्रीमत्कांचीपुरे रम्ये कलियारुर्महामतिः ।।
दृढभक्तिर्महादेवे शिवभक्तार्चनोत्सुकः ।।
स कदाचित्ततो गन्तुं रम्यं ग्रामान्तरं प्रति ।। ५ ।।
अरण्यमतुलं दीर्घं नानावृक्षसमाकुलम् ।।
तरक्षुव्याघ्रभल्लूकनानामृगसमाकुलम् ।। ६ ।।
विवेश दीपदकलिः शिवभक्तो दृढव्रतः ।।
तन्मध्ये जीर्यमाणं च स ददर्श शिवालयम् ।। ७ ।।
प्. १५६) हा कष्टं शिवलिंगस्य जीर्णं स्वस्यालयं परम् ।।
ततोऽपि च महाकष्टं महारण्याधिवासनम् ।। ८ ।।
तस्मात्परतरं कष्टमेकस्यैव निवासनम् ।
कौपीनाच्छानरतान् यश्चकार मुनीश्वरान् ।। ९ ।।
दानवानपि यश्चक्रे मुक्तिसौख्यैकभाजिनः ।।
ब्रह्मेंद्रविष्णुप्रमुखान् देवान् सर्वान् समंततः ।। १० ।।
भृत्यत्वे योजयामास यश्चंद्रार्धशिरोमणिः ।।
भ्राजयामास मार्तंडान् द्वादशापांगवीक्षणात् ।। ११ ।।
अकरोद्भस्म मदनं परं सौंदर्यगर्वितम् ।।
पुरत्रयं महाघोरं यो ददाह क्षणेन च ।। १२ ।।
चक्रे दामोदरं यस्तु याचकं बलिमंदिरे ।।
वेदैर्विधेयं यश्चक्रे विधातारं महत्तरम् ।। १३ ।।
करुणार्द्रान्तरंगोऽपि यश्चक्रे सर्वसंहृतिम् ।।
तस्यैव परमेशस्य निवासो विपिने कथम् ।। १४ ।।
आलयं जीर्णमभवन्नानास्तम्भसमाकुलम् ।
गोपुरं जीर्णमुत्तुंगं मंटपं शिथिलं परम् ।। १५ ।।
जिर्णानि च कवाटानि सार्गलानि महान्ति च ।।
किमत्र बहुनोक्तेन सर्वं जीर्णमभूत्स्वयम् ।। १६ ।।
प्. १५७) स्वदेहार्धमहागौरी यद्यस्तीदं कथं भवेत् ।।
संमार्जनक्रिया नैव महत्यस्मिन् शिवालये ।। १७ ।।
पूजाहीनमिवाभाति लिंगं सर्वमनोहरम् ।।
ऽऽइवार्चकानां संचारो नैवात्र परिदृश्यते ।। १८ ।।
किमम्त्रोक्तिसहस्रेण तस्यैकस्य स्थितिर्वने ।।
महाप्रमादजननई बहुजानिप्रदा भवेत् ।। १९ ।।
किमाभिः शुष्कचिन्ताभिः स्वस्थं सर्वं करोम्यहम् ।।
इति निश्चित्य मनसा कलियारुर्दृढाशयः ।। २० ।।
सर्वं धनं स्वायनस्थितमानीय भृत्यकैः ।।
शिवालयं दृढं कृत्वा चक्रे प्राकारमुत्तमम् ।। २१ ।।
शिवालयसमीपे तु चक्रे बिल्ववनं परम् ।।
नानावृक्षसमाकीर्णं नानापुष्पोपशोभितम् ।। २२ ।।
वापीकूपतटाकादीन् कारयामास भक्तितः ।।
दीपिकाग्राहिणः सर्वानर्चकानां ततिं ततः ।। २३ ।।
नानामृदंगवादित्रवादनात्यन्तकोविदान् ।।
कुंतपट्टकृपाणादिनानाऽऽ.युक्धधरानपि ।। २४ ।।
नृत्यगेयादिकुशलान् वेश्यासंघाननेकशः ।।
स्थापयामास सद्भक्त्या दीपदो भक्तसत्तमः ।। २५ ।।
किमत्र बहुनोक्तेन विपिनं घोरदर्शनम् ।।
सोमप्रभासमायुक्तं पुरमासीन्मनोरमम् ।। २६ ।।
एवं बहुविधे काले गते सर्वसमृद्धिदे ।।
कलियारोर्धनं सर्वं विनष्टमभवत्तदा ।। २७ ।।
ततो यथायथं ज * हुरुपचारप्रवर्तकाः ।।
प्. १५८) उपचारांश्च तान् सर्वान् स्वयमेवाकरोदयम् ।। २८ ।।
न शक्तिरभवत्तस्य दीपतैलादिसंग्रहे ।।
अंधकारापनोदार्थं काष्ठभारं ददाह सः ।। २९ ।।
तृणेष्वपि च दग्धेषु धैर्यवान् भक्तसत्तमः ।।
आनीय वस्त्रनिचयं सर्वं स्वभवनस्थितम् ।। ३० ।।
ददाह परमप्रीत्या चिंताभारविवर्जितः ।।
यातेषु तेषु तच्छिद्रैश्चकार करदीपिकाम् ।। ३१ ।।
तस्यामपि विनष्टायां भृशं चिंतापरोऽभवत् ।।
अंधकारो महानासीद्भुवि विष्टंति तस्कराः ।। ३२ ।।
अतो मयाद्य किं कार्यमिति चिंतां चकार सः ।।
एवं संचिन्त्य बहुधा निर्विण्णो भक्तसत्तमः ।। ३३ ।।
जटामाबध्य सुदृढां प्रददाह विशंकितः ।।
ततो न गणयामास शिरोवेदनमात्मनः ।। ३४ ।।
एतत्सर्वं तु विज्ञाय शिवस्त्रिपुरभंजनः ।।
अंबिकारमणः साक्षाच्छूलहस्तः पिनाकधृक् ।। ३५ ।।
प्रत्यक्षतामगात्तूर्णं प्रमथैः परिवारितः ।।
अयि दीपद सद्बुद्धे प्रीतोऽहमधुना तव ।। ३६ ।।
यदिष्टं वरय त्वं हि तद्दास्यामि न संशयः ।।
एवमुक्तस्तु देवेन दीपदः प्रत्युवाच तम् ।। ३७ ।।
ममाशास्यं किमस्त्यन्यच्चंद्रचूड दयानिधे ।।
प्. १५९) किं त्वेकं वरयाम्यद्य वरं लोकैकविश्रुतम् ।। ३८ ।।
एतस्मिन् घोरकांतारे न युक्तं तव वर्तितुम् ।।
एतत्संरक्षणे शक्तिर्मम नास्ति महेश्वर ।।
अत्रोपायं चिन्तयस्व वरो मम महानयम् ।। ३९ ।।
वृत्तम् ।। श्रीमद्दीपदनायकेन महता भक्तेन संबोधितः सर्वज्ञः
परमेश्वरोऽतिकरुणाक्रान्तान्तरात्मा महान् ।।
भक्तं तेन विनिर्मितानि सकलान्यादाय तूर्णं ययौ कैलासाख्यपदं
परं च पुनरावृत्त्या विहीनं महत् ।। ४० ।।
लोके भक्तिमुपागताः स्वतनुना साकं शिवं यान्त्यमीत्येतन्नाद्भुत मेव
दीपदकलिः सांबं च तस्यालयम् ।।
आदायाद्भुतमेव तारकगिरिं यातीति सर्वे जनाः संभुयातितरां
विमुग्धहृदयं स्तुत्यं प्रशंसंति हि ।। ४१ ।।
इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे
कुमारागस्त्यसंवादे दीपदकलियारुचरितं नामैकोनविंशोऽध्यायः ।।