बसवपुराणम्/अध्यायः १६
| ← अध्यायः १५ | बसवपुराणम् अध्यायः १६ [[लेखकः :|]] |
अध्यायः १७ → |
प्. १२३) अथ षोडशोऽध्यायः
।। भक्तकृतद्रव्यदानकथनम् ।।
अगस्त्य उवाच ।। पुनश्च श्रोतुमिच्छामि बसवेश्वरवैभवम् ।।
यस्य स्मरणमात्रेण नॄणां मृक्तिः करे स्थिता ।। १ ।।
इति ब्रुवन्तं तं दृष्ट्वा शिखिवाहः शिवात्मजः ।।
माहात्म्यं तस्य भूयोऽपि प्रोवाच जिततारकः ।। २ ।।
स्कन्द उवाच ।।
कदाचिद् बिज्जलः श्रीमान बसवं दण्डनायकम् ।।
जीवितं देहि भृत्यानां मदीयानां यथा तथा ।। ३ ।।
इत्यवोचन्नृपवरः समक्षं हि स मंत्रिणाम् ।।
सोऽपि राज्ञो वचः श्रुत्वा भृत्यानाहूय सर्वशः ।। ४ ।।
कोशागारं समासाद्य धनमानीय साक्षरम् ।।
यथायोग्यं धनं तेषां दातुं समुपचक्रमे ।। ५ ।।
अथान्तरे समागत्य भक्तः कश्चिद्धनाशया ।।
भो भो वसव मंत्रीश भक्तर्*चितामणे प्रभो ।। ६ ।।
ममैतत्सकलं देहि धनं त्वत्पुरतः स्थितम् ।।
इति संप्रार्थितस्तेन धनं तस्मै न्यवेदयत् ।। ७ ।।
तद्दृष्ट्वा मंत्रिणः सर्वे बसवेशान्तिकस्थिताः ।।
राजान्तिकमुपागत्य राजानमिदमूचिरे ।। ८ ।।
भो भो बिज्जल भूपाल शृण्वस्मद्वचनं परम् ।।
एतद्वाक्यप्रवचनाद् वयं बसववैरिणः ।। ९ ।।
अनुक्त्या वचनस्यास्य राजद्रोहकरा वयम् ।।
प्. १२४) अतः कार्यं किमस्माकमनुज्ञां दातुमर्हसि ।। १० ।।
बिज्जलः प्राह मंत्रीशानागतान् भयकंपितान् ।।
अबह्यं वः प्रदास्यामि यद्वक्तव्यं तदुच्यताम् ।। ११ ।।
अशेषभृत्यसंघानां जीवितं दातुमिच्छता ।।
बसवेशेन तत् सर्वं दत्तं भक्ताय धीमते ।। १२ ।।
एतन्मंत्रिवचः श्रुत्वा बिज्जलः क्रोधमूर्छितः ।।
बसवेश्वरमाहूय प्रोवाच नृपशेखरः ।। १३ ।।
बसवेश धनं दत्वा मदीयं गच्छ सांप्रतम् ।।
लोके मंत्रिवराः सर्वे राजवृद्धिपरायणाः ।। १४ ।।
भूपालनाशकरणे प्रोद्यतस्त्वं न संशयः ।।
एतद्वचनमाकर्ण्य प्रहसन् बसवेश्वरः ।। १५ ।।
राजानं वचनं किंचिद् बभाषे तत्सभांतरे ।।
परमेश्वरभक्ताख्यकल्पवृक्षे स्थिते सति ।। १६ ।।
भक्तानामंगणे तस्मिन् भक्तिमेरुगिरौ स्थिते ।।
वरप्रदस्य कामारेर्भक्तिचिंतामणौ स्थिते ।। १७ ।।
स्थितायामपि सद्भक्तिकामधेनौ जगद्गुरोः ।।
अस्माकं धनमग्राह्यं परेषां प्रभुसत्तम ।। १८ ।।
करिकुंभस्थमांसाशी मृगेंद्रस्तृणमत्ति किम् ।।
दुग्धाब्धौ विहरन् हंसः कांक्षते किं नु पल्वलम् ।। १९ ।।
शुकश्चतफलाशी किं बदरीफलमश्रुते ।।
चंद्रपायी चकोरश्च तिरिरं कांक्षते किमु ।। २० ।।
प्. १२५) विहरंतः पद्मवने भृंगाः किं बर्बुराश्रिताः ।।
दिग्गजेंद्रार्भकः श्रीमान् खरक्षीरं किमीहते ।। २१ ।।
तदीयमेव तद्द्रव्यं तस्मै दत्तं न संशयः ।।
यावद्धनं त्वया पूर्वं निक्षिप्तं कोशमंदिरे ।। २२ ।।
परीक्षय धनं सर्वं गणयित्वाऽतिवेगतः ।।
अतस्त्वया न कर्तव्यं सहसा साहसं मयि ।। २३ ।।
एवमुक्तो नृपवरो गणयामास तद्धनम् ।।
गण्यमानं धनं सर्वं यथापूर्वं प्रवर्तते ।। २४ ।।
दृष्ट्वेदं बिज्जलः श्रीमान् लल्लितोऽभूत्सभांतरे ।।
अथास्मिन्नंतरे सश्या लज्जितं बिज्जलं नृपम् ।। २५ ।।
प्राहुर्गंभीरया वचा मंत्रिणः सूक्ष्मबुद्धयः ।।
अत्रेतिहासं वक्ष्यामः शृणु त्वं बिज्जलप्रभो ।। २६ ।।
मधुरायां महाराजः पांड्यो नाम प्रतापवान् ।।
स्वमंत्रिणं समाहूय धनं दत्वा जगाद सः ।। २७ ।।
भो भो मंत्रिन् महाभाग कद्दत्तं पुष्कलं धनम् ।।
गृहीत्वा सिंधुदेशोत्थतुरंगानानयाधुना ।। २८ ।।
एवं प्रभुसमादिष्टो मंत्रीशोऽपि महामतिः ।।
कंचिद्देशमनुप्राप्य भक्तेश्यस्तद्धनं ददौ ।। २९ ।।
प्रभुदत्ते धने क्षीणे शंकराहितमानसः ।।
मृगधूर्तान् गृहीत्वाश्हु ययौ राजान्तिकं पुनः ।। ३० ।।
बभूवुस्तस्य साम्र्थ्यच्छृगालाश्च तुरंगमाः ।।
प्. १२६) अतो हि शिवभक्तानामसाध्यं किं नु विद्यते ।। ३१ ।।
बसवेशो बहुधनं दत्वा भक्ताय धीमते ।।
तवापि प्रददौ भूयो यथासंख्यं यथास्थितम् ।। ३२ ।।
एतच्छृत्वा बिज्जलोऽपि तुष्टस्तुष्टाव मंत्रिणम् ।।
इतः प्रभृति ये भृत्या मंत्रिवृद्दाश्च ये स्थिताः ।। ३३ ।।
पिशुनत्वं समास्थाय बसवेशं वदन्ति हि ।।
तेषां छिनद्मि रसनां नासिकां क्रूरकर्मणाम् ।। ३४ ।।
इतीरयित्वा बसवं तोषयामास बिज्जलः ।।
ततस्तु बसवेशोऽयमागत्य स्वगृहं प्रति ।। ३५ ।।
आस्ते संमोदमानः सन् जंगमार्चनतत्परः ।।
कल्याणनगरे रम्ये शिवभक्तो दृडह्व्रतः ।। ३६ ।।
गणिकामंदिरे स्थित्वा प्रोवाचाहूय तत्सखीम् ।।
आहारमावयोस्तन्वि नित्यं दापय मानिनि ।। ३७ ।।
तथेत्युक्त्वा तु सा दासी ययौ बसवमंदिरम् ।।
सा दृष्ट्वा बसवेशस्य महिषीं वरवर्णिनीम् ।। ३८ ।।
ददर्श पट्टवस्त्रं च गंगाम्बाधृतमुज्ज्वलम् ।।
अतिविस्मयमापन्ना विसृजाहारयत्नकम् ।। ३९ ।।
त्वरया पुनरागत्य स्वसखीं प्रत्यभाषत ।।
किं ब्रवीम्यद्य जननि मया दृष्टं महाद्भुतम् ।। ४० ।।
सौवर्णरत्नखचितं वस्त्रं गंगाम्बिकाधृतम् ।।
तत्समानाम्बरं लोके न दृष्टं न श्रुतं पुरा ।। ४१ ।।
प्. १२७) एतद्विज्ञापितुं सर्वं त्वदन्तिकमुपागता ।।
भक्तोऽयं शिवशास्त्रशो गत्वा बसवमंदिरम् ।। ४२ ।।
याचयेद्यदि तद्वस्त्रं बसवेऽऽषेन दीयते ।।
श्रुत्वैवं स्वसखीवाक्यं सत्यं सत्यमितीरितम् ।। ४३ ।।
शिवभक्तं विटं दृष्ट्वा रहसीदमभाषत ।।
वस्त्रमानय मे क्षिप्रं गंगाम्बाधृतम्त्तमम् ।। ४४ ।।
तथैव भाषमाणस्तु विप्रोऽयं धूर्तसत्तमः ।।
बसवांतिकमागत्य प्रोवाच वचनं ततः ।। ४५ ।।
गंगाम्बिकाधृतं वस्त्रं शोभमानं महोज्ज्वलं ।।
दापयस्व महाभाग मद्वेश्या तोषमाप्नुयात् ।। ४६ ।।
बसवेशो याचमानो गंगाम्बां वरवर्णिनीम् ।।
चित्रवस्त्रसमाकीर्णामानिनाय सभांतरम् ।। ४७ ।।
शिवभक्त महाप्राज्ञ गृहाणेदं ममांबरम् ।।
एवमुक्त्वा विटं भक्तं बसवेशो दृढाशयः ।। ४८ ।।
गंगाम्बान्तिकमासाद्य चकर्ष वसनं मुदा ।।
आकृष्यमाणं तेनाभूदक्षयं वसनं तदा ।। ४९ ।।
तद्दृष्ट्वा विस्मिताः सर्वे गंगाम्बां तुष्स्तुवुः स्तवैः ।।
जंमाश्च हसंतस्तु प्रोचुः सभ्यान् सुविस्मितान् ।। ५० ।।
किमेतदद्भुतं सश्या बसवेशस्य धीमतः ।।
नयनारुर्भक्तवरो भक्तेनैकेन याचितः ।। ५१ ।।
भार्यावसनमुत्सृज्य ददौ भक्ताय धीमते ।।
प्. १२८) निर्माय द्वादशाब्दैस्तु वस्त्रमेकं महोज्ज्वलम् ।। ५२ ।।
तंतुवायोऽपि दासाख्यो भक्ताय प्रददौ ततः ।।
बल्लालोऽपि महाराजो भक्तसंप्रार्थितो महान् ।। ५३ ।।
ददौ स्वमहिषीं तस्मै रूपलावण्यशालिनीं ।।
श्रियोन्मयधरो भक्तः स्वकीयं मणिमुत्तमम् ।। ५४ ।।
तत्प्रार्थितोऽपि भक्ताय ददौ दिव्यं महोज्ज्वलम् ।।
कश्चित्पेर्मालिनामैकः शिवभक्तो दृढव्रतः ।। ५५ ।।
दुर्भिक्षकाले संप्राप्ते भक्ताअनामतिसंकटे ।।
आहूय शिवभक्तौघान् संख्यातीतं धनं ददौ ।। ५६ ।।
तथैव मनकंजारनामैको भक्तसत्तमः ।।
पुत्रीविवहसमये भक्तेनैकेन याचितः ।। ५७ ।।
तस्याः शिरोरुहान् सर्वान् मुदा छित्वा ददौ ततः ।।
इति भक्तवराः प्रोचुर्बसवेशसभासदः ।। ५८ ।।
भुजंगोऽपि च सद्भक्तो निवार्य बसवेश्वरम् ।।
वेश्याकोपेभयेनैव गृहित्वा वस्त्रसंचयम् ।। ५९ ।।
निर्ययौ मोदमानः सन् विवेश गणिकागृहम् ।।
बसवेश्वरसद्भक्त्या गंगाम्बामानमुत्तमम् ।। ६० ।।
अनूनमभवत्तत्रेत्युमुं तुष्टुवुरादरात् ।।
वदत्येवं भक्तगणे गंगाम्बा वरवर्णिनी ।। ६१ ।।
नीलनीरदधिक्कारिकेशपाशशुशोभिता ।।
प्. १२९) अर्धचंद्रललाट तु राकाचंद्रनिभानना ।। ६२ ।।
दाडिमीबीजसंकाशदन्तकान्तिविराजिता ।।
तिलप्रसूनसंकाशनासापुटविशोभिता ।। ६३ ।।
बिंबिकाफलसंकाशरदनच्छदमंडिता ।।
कंब्वाडंबरधिक्कारिगलकांतिविराजिता ।। ६४ ।।
कुंभिनीकुंभसंशोभिकुचद्वंद्वसमाहिता ।।
नाभिदेशविनिर्धूतगंगावर्ता वरानना ।। ६५ ।।
इंद्रनीलप्रभाश्लिष्टारोमराजियुतावरा ।।
सैकतश्रोणिसंभारा किंकिणीयुतमेखला ।। ६६ ।।
रंभास्तंभसमानोरुप्रदेशकलिता सती ।।
शुंभप्तंकजसंकाशपदद्वयविशोभिता ।। ६७ ।।
पदमंजीरनिक्काणघूर्णिताशेषदिक्तटा ।।
ययावतः परं साध्वी सखीभिः परिवारिता ।। ६८ ।।
बसवेश्वरसद्भक्तिप्रभाश्रेणिः समंततः ।।
व्याप्यमानाऽम्बरे दिक्षु स्वर्गलोके महीतले ।। ६९ ।।
तेजः पटलमात्मीयं संकोचं प्राप्नुयात्परम् ।।
इति संचिन्त्य मनसा भानुमान् पश्चिमांबुधौ ।। ७० ।।
पतन्निव गतः सोऽयमस्तं ग्रहवरस्तथा ।।
अस्तं गते निजे मित्रे सरोजानि समंततः ।। ७१ ।।
प्राप्नुवन्ति हि संकोचं निनदुः पटहादय. ।।
बभुः पंचमहारावा परमेश्वरमंदिरे ।। ७२ ।।
प्. १३०) गृहे गृहे भक्तसंघदीयमानसुगंधिभिः ।।
धूपधूमैश्च संजातघनावलिरिवाधुना ।। ७३ ।।
अंधकारप्रभाजालमरुणद्धरिदन्तरम् ।।
भक्तचिन्तामणेस्तस्य बसवेशस्य धीमतः ।। ७४ ।।
अपवर्गांगनादत्तदीपिका इव रेजिरे ।।
तारकाश्च नभोभागेऽप्यक्षीणतररोचिषः ।। ७५ ।।
ततश्चंद्रोदये जाते बसवेशेन धीमता ।।
सद्भक्तिचिंतामणिना ह्यन्ज्ञाताः सहस्रशः ।। ७६ ।।
सर्वे संभूय सद्भक्ता ययुर्वेश्यागृहान्प्रति ।।
संगृह्य केचित् पुष्पाणि केचित्कस्तूरिकास्तथा ।। ७७ ।।
चंदनं च तथा केचित् केचिद्विटवरास्तथा ।।
वेश्योपभोगयोग्यानि वस्तून्यन्यानि केचन ।। ७८ ।।
तान् दृष्ट्वा मुदितः श्रीमान् मुग्धसंगो महामतिः ।।
बसवेशांतिकं गत्वा प्रोवाच विनयान्वितः ।। ७९ ।।
बसवेश महाभाग शिवभक्ता इमे परे ।।
पूजाद्रव्याणि संगृह्य गच्छंति गणिकागृहान् ।। ८० ।।
तत्र लिंगार्चनासक्ता वसन्त्येते महेश्वराः ।।
अतोऽहं शिवपूजार्ह्तं गच्छामि गणिकागृहान् ।। ८१ ।।
एतद्वचनमाकर्ण्य मुग्धसंगेन भाषितम् ।।
मंदं मंदं प्रहास्यासौ बसवो दण्डनायकः ।। ८२ ।।
गच्छ तात महाप्राज्ञ मुग्धसंग दयानिधे ।।
प्. १३१) इत्युक्त्वाऽऽभरणैर्दिव्यैर्भूषयामास संगयम् ।। ८३ ।।
स्वभृत्यैः प्रेषयामास गणिकामंदिरं प्रति ।।
त्त्रैकां रूपसंपन्नां पीनोन्नतपयोधराम् ।। ८४ ।।
हरिणीलोचनां कंबुकंठी बिम्बोष्ठशालिनीम् ।।
दृष्ट्वा पुरः स्थितां वेष्यां मुग्धसंगस्तपोधनः ।। ८५ ।।
केयं बाला चंद्रमुखी रुद्रकन्या भुवं गता ।।
रतिर्वा मेनका वाऽपि घृताची वा तिलोत्तमा ।। ८६ ।।
शची वा मंजुभाषा वा रंभा श्रीर्वा सुरांगना ।।
इति संचिन्त्य मनसा तूष्णीं तस्थौ गऋहांतरे ।। ८७ ।।
प्रत्युत्थायातिवेगेन सा बाला वरवर्णिनी ।
अर्घ्यपाद्यादिभिः सर्वैः पूजयामास मानिनी ।। ८८ ।।
नानारत्नप्रभोपेतं वितानाद्यैर्महोज्ज्वलम् ।
हंसतूलिकयोपेतं बहुदीपोपशोभितम् ।। ८९ ।।
प्रवेशयित्वा संगेशं क्रीडागारं महत्तरम् ।
नादयित्वा स्वयं वीणां जगौ सा वरवर्णिनी ।। ९० ।।
पदसंवाहनं चक्रे वीटिदानपुः सरम् ।
तया संपूजितः संगो मनसीदं व्यचिंतयत् ।। ९१ ।।
कर्त्व्यं शिवलिंगस्य पूजनं मोक्षकारणम् ।
तत्पर्यंकादधः स्थित्वा शिवपूजां प्रचक्रमे ।। ९२ ।।
प्. १३२) भूतिधृत्संगयेशोऽपि प्राह बालामनिंदिताम् ।
त्व्या न धार्यते भस्म किं तदत्यन्तपावनम् ।। ९३ ।।
मुग्धसंगेन सा पृष्टा हंसंती प्राह बालिका ।
पूर्वं भक्तः समागत्य पीतं भस्म ददौ मम ।। ९४ ।।
रुद्राक्षमालिकाः कंठे न दृश्यन्ते कुतस्तव ।
इत्युक्ता संगमेशेन पुनः प्राह दरस्मिता ।। ९५ ।।
लवणोदधितीरोत्थरुद्राक्षा भवता धृताः ।
क्षीराब्धिजाताः संशुद्धा रुद्राक्षाश्च मया धृताः ।। ९६ ।।
बहुकालधृतत्वेन संजाता मसृणा इमे ।
प्. १३३) सर्वत्र न कृतं भक्तैर्नासारुद्राक्षधारणम् ।। ९७ ।।
एतद्विधायकं वाक्यं कुत्र दृष्टं त्वयाऽनघे ।
नासारुद्राक्षमाहात्म्यं वदेत्युक्ताऽमुना तदा ।। ९८ ।।
सा विस्मितमुखी प्राह संगं संगविवर्जितम् ।
देवाहं न क्षमा वक्तुं नासारुद्राक्षधारणात् ।। ९९ ।।
यत्फलं लभते तत्तु वक्तुं देवाश्च न क्षमाः ।
रुद्राक्षमहिमाधिक्यश्रवणाद्धृष्टमानसः ।। १०० ।।
एतत्प्रोक्तं तया सर्वं मन्वानः सत्यमित्यम् ।
त्वया किमर्थमकृतं जटाधारणमंगने ।। १०१ ।।
इति पप्रच्छ सा बाला दर्शयामास वेणिकाम् ।
ममाप्यस्ति जटासंघः सूक्ष्मः पश्येति वादिनी ।। १०२ ।।
एवमादीनि वाक्यानि श्रुत्वा विस्मितमानसः ।
उत्थाय दंडवद्भूमौ तस्याश्चक्रे नमस्क्रियाम् ।। १०३ ।।
भवद्गुरुवरः को नु सांप्रदायप्रवर्तकः ।
प्. १३४) एवं तु सा बाला प्रहसंती शनैः शनैः ।। १०४ ।।
वामदेवसती साध्वी गौरी गुरुरभून्मम ।
अष्टभागावशेषेण श्रपितं शर्करान्वितम् ।। १०५ ।।
पयः प्रसादं मोक्ष्यामि न शाकान्नादिकं प्रभो ।
पुनस्तदीयकैर्भक्तैर्दीयमानं महत्तरम् ।। १०६ ।।
कृत्वा लिंगार्पितं सम्यग् भोक्ष्याम्येतन्महामते ।
तनुं धनं मनस्त्यक्त्वा शिवभक्ता दृढव्रताः ।। १०७ ।।
मद्गेहेष्वेव तिष्ठंति पादसंवाहनप्रियाः ।
अहोरात्रं जंगमोक्तरहस्याश्रवणोत्सुकाः ।। १०८ ।।
गतिर्नो जंगमा एव नान्ये प्राकृतमानुषाः ।
गुरूपदिष्टमार्गोऽयमस्माकं मुनिसत्तम ।। १०९ ।।
अस्मादाचर्यावर्याश्च संप्रदायप्रवर्तकाः ।
संति श्रीपर्वते रम्ये मल्लिकार्जुनमंदिरे ।। ११० ।।
गौरिसमाश्च तन्वंग्यः पूर्णचंद्रनिभाननाः ।
बह्व्यो मद्वंशजाः संति नानाविद्याविशारदाः ।। १११ ।।
द्राक्षारामे महापुण्ये श्रीमद्भीमेशपालिते ।
कांचीचिदम्बराद्येषु शिवक्षेत्रेषु मामकाः ।। ११२ ।।
गिरिजा सांप्रदायोत्था जंगम प्राणिनो जनाः ।
अद्यापि शैवसंपन्ना वर्तन्ते हि महामुने ।। ११३ ।।
एवं विदधवचनैस्तया संभाषीतो मुनिः ।।
प्. १३५) विस्मयाक्रान्तचित्तः सन् मुग्दह्संगः कृतार्थधीः ।। ११४ ।।
शययामेतां भृशं मेने महामुनिकुलोचिताम् ।।
पुष्पादिद्रव्यनिचयं संशोध्यातिप्रयत्नतः ।। ११५ ।।
तूर्णं प्रचक्रमे कर्तुं शिवपूजां विमुग्धीः ।।
साऽपि बाला मुनिः ज्ञात्वा पर्यंकतलवासिनम् ।। ११६ ।।
कामतंत्रविमूढं च शिवपूजैकतत्परम् ।।
अत्रत्यसर्वद्रव्याणि पूजोपकरणानि च ।। ११७ ।।
कुर्यामिति मतिं चक्रे हसंती च कृतार्थधीः ।।
शिवपूजोत्सवे तस्मिन् प्रणवध्यानपूर्वकम् ।। ११८ ।।
साबाला मुनिशार्दूलं निश्चित्याशु विरागिणम् ।।
आहूय स्वजनान् सर्वान्नत्यादौ समयोजयत् ।। ११९ ।।
नृत्यशास्त्रप्रवीणस्ता गानशास्त्रातिकोविदाः ।।
विणामृदंगपटहान् गृहीत्वा गानसाधकान् ।। १२० ।।
काश्चिद्विदग्धा ननृतुर्गायंति स्म तथाऽपराः ।।
एवं महोत्सवे काले वेश्यास्त्रीपरिवारिताः ।। १२१ ।।
लिंगपूजां प्रकुर्वाणस्तां जिनाय निशां पराम् ।।
ततः प्रभातसमये प्रविनष्टे तमोगणे ।। १२२ ।।
उदयाचलमारुढे परे मार्तंडमंडले ।।
प्. १३६) मुग्धसंगोऽतिवेगेन प्रययौ बसवान्तिकम् ।। १२३ ।।
बसवेशं समाहूय मुग्धसंगो ह्यभाषत ।।
बसवेश महाभाग वेश्यालयं गतः ।। १२४ ।।
तत्रैव महतीः क्रिडाः कृतवानस्मि सादरम् ।।
तत्र संक्रिडमानः स नास्मार्षं त्वां शुचिव्रतम् ।। १२५ ।।
संतोषदायकं कर्म मम जन्मावधीदृशम् ।।
नाभवत्सर्वभक्तानामाशास्यं मोक्षकारणम् ।। १२६ ।।
सदाशिवकृपाहीनजनानामतिदुस्तरम् ।।
नास्तीदृशं महत्कर्म बसवेश महामते ।। १२७ ।।
भवत्कृपालेशबलात् क्रीडाकर्माहमाप्तवान् ।।
मया बिल्ववने रम्ये तथा रम्भावने परे ।। १२८ ।।
श्रीशैले च महापुण्ये क्षेत्रे च विपिनान्तरे ।।
नानाभक्तगणैः साकमुषितोऽहं मनोहरे।। १२९ ।।
तत्रेदृक् परमो भक्तः पीतभस्मावलेपितः ।।
श्वेतरुद्राक्षधारी च न् दृष्टो न श्रुतश्च वा ।। १३० ।।
तस्य भक्तस्य माहात्म्यं देवो वेत्ति नचापरः ।।
एतच्च्रुत्वा स बसवः प्रहसंश्च पुनः पुनः ।। १३१ ।।
तन्मौग्ध्याकृष्टहृदयो मुमुदे स्वान्तरात्मनि ।।
ननाम संगमं स्तुत्वा बसवेशस्तु कुंभज ।। १३२ ।।
प्. १३७) वृत्तम् ।। इति बसवकुमारो मुग्धसंगेशभक्ताल्लपितमिदमशेषं
श्रोत्रयुग्मेन पीत्वा ।।
स्वमनसि विटभावं भूयसाम्रेडयन्सोऽप्यतुलमुदमवाप प्राप्तहेमेव
दीनः ।। १३३ ।।
इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रंथे
परमशिवरहस्ये कुमारागस्त्यसंवादे षोडशोऽध्यायः ।।