बसवपुराणम्/अध्यायः १३
| ← अध्यायः १२ | बसवपुराणम् अध्यायः १३ [[लेखकः :|]] |
अध्यायः १४ → |
प्. ९२) अथ त्रयोदशोऽध्यायः
श्रीगुरुभ्यो नमः
प्रभुदेवप्रभावाख्यानम्- अगस्त्य उवाच ।।
एवं स्तुतो हि प्रभुणा बसवेशः कृपानिधिः ।।
ततः किमकरोत् सर्वं कृपया वद षण्मुख ।। १ ।।
।। स्कन्दौवाच ।।
वक्ष्ये श्रीबसवेशस्य प्रभावं कुंभसंभव ।।
भक्त्या शृणु महेशैकभक्तिज्ञानप्रदं सदा ।। २ ।।
प्रभुणेत्थं स्तूयमानो बसवो विनयान्वितः ।।
प्राह गंभीरया वाचा सर्वशास्त्रविशारदः ।। ३ ।।
भक्तवत्सल सर्वेश परमात्मन् परात्पर ।।
मोक्षलक्ष्मीप्रद श्रीमन् दिव्यमंगलविग्रह ।। ४ ।।
गणाग्रगण्य सर्वज्ञ लिंगजंगमरूपधृत् ।।
संगमेश्वरसद्भक्तपरानुग्रहतत्पर ।। ५ ।।
अशेषभक्तसंघातकारुण्यामृतवारिधे ।।
मादृशानां न भक्तिर्हि (शक्तिर्हि) भोज्यं दातुं भवादृशाम् ।। ६ ।।
अत्रेतिहासं वक्ष्यामि शृणु देव दयानिधे ।।
पुरा कैलासशिखरे सुखासीनं महोज्ज्वलम् ।। ७ ।।
विरूपाक्षं महादेवं शंकरं लोकशंकरम् ।।
हिमवत्पर्वतागाराद्गौरी गिरिवरात्मजा ।। ८ ।।
द्रष्टुमश्याययौ तूर्णं सखीभिः परिआरिता ।।
प्रेमधूर्षु च सर्वेषु शिवसारूप्यधारिषु ।। ९ ।।
प्. ९३) बुबुधे न महेशानं साम्बं सत्यादिलक्षणम् ।।
गणास्तदंतरे सर्वे स्वान्तरंगे प्रकंपिरे ।। १० ।।
गौर्याः संशयविच्छित्यै स्वस्वरूपाणि ते दधुः ।।
मेषाननाश्च कतिचिद्गोमुखाश्च तथाऽपरे ।। ११ ।।
केचिच्च वानरमुखाः कतिचित्कुक्कुटाननाः ।।
कतिचित् सामजमुखाः शरभोष्ट्रमुखाः परे ।। १२ ।।
व्याघ्राननाश्च कतिचिन्मार्जास्यास्तथाऽपरे ।।
वृकाननास्तथा केचित् सारमेयाननाः परे ।। १३ ।।
तुरंगवदनाः केचित् सारंगवदनास्तथा ।।
एकाननाश्च द्विमुखास्त्रिमुखाश्चतुराननाः ।। १४ ।।
षण्मुखाः प.चवदनाः सप्तास्याश्चाष्टसन्मुखाः ।।
नवास्याश्च दशास्याश्च त्वेकादशमुखाः परे ।। १५ ।।
विमुखाश्च तथा केचित् सहस्रास्याः शताननाः ।।
सहस्रद्वयवक्त्राद्या बहवो हि तथा परे ।। १६ ।।
प्रलम्बोष्ठास्तथा केचिल्लम्बमानाननाः परे ।।
विकृतास्यास्तथा केचिद्विकृतांगास्तथा परे ।। १७ ।।
लम्बकर्णास्तथा केचिद् घंटाकर्णास्तथा परे ।।
शंखकर्णा विश्वकर्णा केचिच्चात्यूर्ध्वबाहवः ।। १८ ।।
भुजपादाः कुक्षिपादाः पार्श्वपादास्तथाऽपरे ।।
बहुजिह्वास्तथा केचिद्बहुवर्णास्तथैव च ।। १९ ।।
प्. ९४) त्रिनेत्राश्च सहस्राक्षाः सह्स्ररसनाः कति ।।
अनेकप्राणिवदनाश्चानंतप्राणिलोचनाः ।। २० ।।
अनंतजीवित्कंठा ह्यनंतदशनाः परे ।।
अनंततालवो ह्यन्ये केचिद्बहुशिरोयुताः ।। २१ ।।
अंडमालाश्च कतिचिद् व्याघ्राजिनधराः कति ।।
गजाजिनधराः केचिद्वृषवाहस्तथा परे ।। २२ ।।
अनंतभूषणाः केचित् बहुशस्त्रधराः कति ।।
कामांगदग्धभस्मांगा ब्रह्मशीर्षधराः कति ।। २३ ।।
नृसिंहाजिनवस्त्रांगा विष्णुकंकालिनः कति ।।
विषकंठा कति जटाचंद्रगंगाधराः परे ।। २४ ।।
एवंविधान् महाभागान् लयकालविवर्जितान् ।।
गंगायाः सिकतानां च गणनादधिकान् बहून् ।। २५ ।।
प्रमथांस्तान् रुद्रगणान् शिवसामर्थ्यरूपिणः ।।
दृष्वा कुमारजननी गौरी सर्वगणांस्तदा ।। २६ ।।
विस्मिता शिवमासाद्य पंचवक्त्रं सदाशिवम् ।।
साष्टांगं दंडवद्भक्त्या ननाम चरणाम्बुजे ।। २७ ।।
तुष्टावविविधैः स्तोत्रैर्लौकिकैर्वैदिकैरपि ।।
शृणु शंकर सर्वेश यन्मया परिभाष्यते ।। २८ ।।
प्. ९५) मन्मनश्चिंतितं ज्ञात्वा प्रमथौघास्तवाधुना ।।
त्वत्सारूप्यं परित्यज्य निजरूपाणि ते दधुः ।। २९ ।।
अतस्तेषां प्रदास्यामि मृष्टान्नमतिशोभनम् ।।
इत्युक्त्वा गिरिजा तत्र तेषां भस्म तदा ।। ३० ।।
वियद्विविक्तदेशे तु तत्वान्यादाय पार्वती ।।
कायमानं चकाराशु विश्रुतं भुवनोज्ज्वल्म् ।। ३१ ।।
कृत्वाऽजांडानि भांडानि विस्तृतानि समंततः ।।
महार्घ्यवस्तुनिचयं पादयित्वा यथारुचि ।। ३२ ।।
क्षिराब्धेः क्षीरमानिन्ये घृताब्धेश्च घृतं तथा ।।
ऐक्षवं रसमानिन्ये दधिसिंधोस्तथा दधि ।। ३३ ।।
कल्पवृक्षप्रसूतानि बहूनि विविधानि च ।।
पत्राणि कल्पवृक्षाणाममृतार्थानि पार्वती ।। ३४ ।।
आनीय चक्रे सामग्रीं गणसंतर्पणोत्सुका ।।
रसायनानि संगृह्य दीर्घकासन्निभानि च ।। ३५ ।।
मणिभित्तिसमाक्रान्तचिन्तामणिगृहान्तरे ।।
स्थापयामास वस्तूनि महार्घाणि महान्ति च ।। ३६ ।।
अत्युत्तमानि वस्तूनि कामधेनूद्भवानि च ।।
संगृह्य हिमवत्पुत्री गणार्चनरता स्थिता ।। ३७ ।।
एतस्मिन्नंतरे काले समेताः प्रमथाधिपाः ।।
बालमेकं समाहूय सर्वे वचनमब्रुवन् ।। ३८ ।।
भो भो वत्स त्वमद्याशु गत्वा गौरीगृहान्तरम् ।।
भोजनावसरोऽस्माकं किमिदानीमुपस्थितः ।। ३९ ।।
प्. ९६) एवमाभाष्यतां गौरीं पुनरागच्छ बालक ।।
इति तैः प्रेषितो बालः समागत्येमब्रवीत् ।। ४० ।।
मामद्य प्रमथाः सर्वे प्रेषयामासुरंबिके ।।
मध्याह्नकालः संवृत्तो भोजनोद्यमशंसकः ।। ४१ ।।
सैवमुक्ता तु बालेन प्रत्युवाच तमद्रिजा ।।
पश्यामि सर्ववस्तूनि भक्ष्यभोज्यान्यनेकशः ।। ४२ ।।
शीघ्रमानय तान् भोक्तुं सर्वं निष्पन्नतामतात् ।।
एवमुक्तस्तया बालो गौरीमूचे महेश्वरीम् ।। ४३ ।।
देहि किंचिन्ममाद्य त्वं क्षुधा संबाधते भृशम् ।।
तद्भुक्त्वाऽहं गमिष्यामि त्वरया प्रमथांतिकम् ।। ४४ ।।
श्रुत्वाऽर्भकवचो गौरी तथैवांगीचकार सा ।।
तत्रोपवेश्य बालं तं ददावन्नं रसैर्वृतम् ।। ४५ ।।
कृत्वा लिंगार्चनं बालो भोक्तुं समुपचक्रमे ।।
किंचित् किंचित् पृथक्कृत्य गौरी तस्मै ददौ तथा ।। ४६ ।।
भुंजानःसोऽपि बालोऽयं देहि देहीति चाब्रवीत् ।।
तस्मिन् बाले तु भुंजाने धीरे सद्गणसत्तमे ।। ४७ ।।
अशेषप्रमथार्थं तु गौर्या यद्धि कृतं तदा ।।
तत्सर्वं शून्यमभवन्नावशिष्टं तु किंचन ।। ४८ ।।
एतद्दृष्ट्वा महादेवी चिन्तयामास विस्मिता ।।
चिन्तापरवशा गौरी ययौ सा भर्तुरन्तिकम् ।। ४९ ।।
शिवपादाम्बुजं नत्वा ब्रह्मविष्ण्वाद्यगोचरम् ।।
प्. ९७) शिरोऽवनम्य सा स्वीयं तूष्णीं तस्थौ हियाऽगजा(?) ।। ५० ।।
गौरीं नतमुखीं दृष्ट्वा प्रोवाच परमेश्वरः ।।
कर्मैतत् कृतवान् बालो विचित्रं परमाद्भुतम् ।। ५१ ।।
असंख्यातास्तव गणाः सहस्राणि सहस्रशः ।।
एते महागणा दिव्या बहुरूपधरास्तथा ।। ५२ ।।
पुरातनमुनीनां च पुराणाः प्रमथाः प्रिये ।।
अधिकृत्य च तानेव श्वेताश्वतरशाखिनः ।। ५३ ।।
नमोभिः संयुजे तान् वै विशोकांश्च परात्परान् ।।
सर्वस्मिन् पथि साधूंश्च पंडिताः समदर्शिनः ।। ५४ ।।
अमृतत्वस्य ये पात्राः शिवभक्ता जितेंद्रियाः ।।
तेषां धामानि दिव्यानि ह्यपेतास्तु समंततः ।। ५५ ।।
एवं स्तुवंति सततं मनोवाचामगोचरान् ।।
तेषामन्नप्रदाने तु का शक्तिस्तव सुंदरि ।। ५६ ।।
गणाः सर्वे शरीरं मे तच्छरीरमहं प्रिये ।।
मम प्राणास्तु ते प्रोक्ताः प्राणास्तेषामहं प्रिये ।। ५७ ।।
तेषां मम न भेदोऽस्ति सत्यं सत्यं मयोदितम् ।।
ब्रह्मांडानि समस्तानि जातानि च गणेच्छया ।। ५८ ।।
तदाज्ञया संस्थितानि लयं यान्ति नगात्मजे ।।
ब्रह्मविष्ण्वादिदेवाश्च तेषां भृत्यत्वमागताः ।। ५९ ।।
किमेतद्बहुनोक्तेन कार्यं गिरिवरात्मजे ।।
सृष्टिस्थितिलयाः सर्वे तेषामिच्छैकगोचराः ।। ६० ।।
प्. ९८) अतः प्रमथमाहात्म्यं वर्णितुं कः क्षमः पुमान् ।।
श्रुत्वेत्थं गणमाहात्म्यं परमेशाननोदितम् ।। ६१ ।।
गौरी विस्मयमापन्ना तूष्णीं तस्थौ शिवान्तिके ।।
गणेषु चातिबालोऽयमन्नपूर्णा महेश्वरी ।। ६२ ।।
गणबालकसंतृप्तिकरणे निर्बलाऽभवत् ।।
इत्यत्र प्रमथानां च गौर्या तृप्तिः कथं भवेत् ।। ६३ ।।
न शक्यमन्नदानं तु कर्तुं देव्याऽपि तादृशा ।।
तथा ते चन्नदानेन मादृशानां तु का कथा ।। ६४ ।।
इत्युक्त्वा बसवेशोऽथ प्रभुं तुष्टाव भक्तितः ।।
अशेषागम्यरूपाय नानागमविधायिने ।। ६५ ।।
नानागुणसमेताय निर्गुणाय नमो नमः ।।
कुक्षिस्थाशेषभुवनब्रह्मांडाय नमो नमः ।। ६६ ।।
अशेषविश्वसंहर्त्रे वेदवेद्याय ते नमः ।।
न क्षमोऽहं महाभाग दातुमन्नादिकं तव ।। ६७ ।।
कृपां कुरु महेशान त्वदंघ्रिध्यानतत्परे ।।
बसवेशवचः श्रुत्वा सद्भक्तं विनयान्वितम् ।। ६८ ।।
प्रभुः संतुष्टहृदयः स्वकटाक्षैर्निरीक्ष्य तम् ।।
दयामृतप्लुतं चक्रे स्वशिष्यं बसवेश्वरम् ।। ६९ ।।
त्वदंगणे कामधेनुः सुरवृक्षाश्च निष्कुटे ।।
चिंतामणिर्गृहेष्.वत्र प्रार्थनीयं किमस्ति ते ।। ७० ।।
प्. ९९) प्रसादं तव दास्यामि त्रिषु लोकेषु दुर्लभम् ।
वरानन्यान् प्रदास्यामि देवदानवदुर्लभान् ।। ७१ ।।
तव हस्ताब्जसंस्पृष्टं लोष्टं कांचनतामियात् ।।
यद्दृष्टं भवता वत्स सर्वं तत्कांचनं भवेत् ।। ७२ ।।
स्मर्यन्ते यानि वस्तूनि तेषां प्राप्तिर्भवेत्तदा ।
चरं वाऽपि महादेवं यजस्व परमेश्वरम् ।। ७३ ।।
भक्तसंप्रार्थ्यमानं यत् तद्दास्यामि तवानघ ।
एबमादीन् वरान् दत्वा शिवभक्तिं ददाउ प्रभुः ।। ७४ ।।
मोहमायातमोराशिमुत्सार्य प्रभुसत्तमः ।
देहेंद्रियादिसंभ्रांतिं नशयित्वा कटाक्षतः ।। ७५ ।।
स्वात्मज्ञानं ददौ तस्मै महानाचार्यसत्तमः ।
एवं तद्बोधितः श्रीमान् बसवेशो महामतिः ।। ७६ ।।
अतिसूक्ष्मदृशा लिंए स्वप्राणांश्च व्यलीयत ।
अशेषजगदाधारं लिंगं प्राणेषु पंचसु ।। ७७ ।।
विलीय संस्तितस्तूष्णीं ब्रह्मानंदैकतत्परः ।
अंतर्यागरतः श्रीमान् दयावानमितद्युतिः ।। ७८ ।।
अनुरागसासक्तैरनघैः प्रमथैः सदा ।
संवित्सुखरसास्वादलालसैः सह संस्थितः ।। ७९ ।।
जलनिक्षिप्तलवणं कर्पूरं वन्हिसंयुतम् ।
तद्वद्रराज बसवः करका इव वारिधौ ।। ८० ।।
प्. १००) स्वांगोपांगविहीनः सन् रेजेऽसौ बसवेश्वरः ।
ये पठंति महात्मानः प्रभोर्माहात्म्यमुत्तमम् ।। ८१ ।।
शृण्वन्ति परया भक्त्या ते यांति परमां गतिम् ।
लिंगांगैक्यैकविज्ञानमाप्नुवन्ति न संशयः ।। ८२ ।।
।। वृत्तम् ।। प्रभुवदनसरोजोद्भूतमत्यन्तहृद्यं रसमति रसयित्वा
वाक्यरूपं महार्हं ।
परशिवसुखमग्नो निश्चलध्यानमार्गे क्षणमनुहृदि दध्यौ लोचने
मीलयित्वा ।। ८३ ।।
इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे स्वरूपग्रंथे
परमरहस्ये कुमारागस्त्यसंवादे प्रभुदेवप्रभावाख्यानं नाम
त्रयोदशोऽध्यायः ।।