बसवपुराणम्/अध्यायः १२
| ← अध्यायः ११ | बसवपुराणम् अध्यायः १२ [[लेखकः :|]] |
अध्यायः १३ → |
प्. ८४) अथ द्वादशोऽध्यायः
श्रीगुरुभ्यो नमः
प्रभुसमागमन-तृप्तिकरणम् ।। अगस्त्य उवाच ।।
श्रीचन्नबसवेशेन संस्तुतो बसवेश्वरः ।।
ततः किमकरोद्धीरस्तन्मे ब्रूहि षडानन ।। १ ।।
स्कंद उवाच ।। एवं संस्तुत्य बसवं श्रीचन्नबसवेश्वरः ।।
गुरुध्यानपरो नित्यंतूष्णीमेव व्यवस्थितः ।। २ ।।
अथास्मिन्नन्तरे योगी प्रभुर्नाम महातपाः ।।
अणिमादिगुणोपेतो वियन्मात्रशरीरकः ।। ३ ।।
ब्रह्मांडानि समस्तानि त्विंद्रजालसमानि हि ।।
संप्रेक्स्ऽमाणः सततं दृढवैराग्यमास्थितः ।। ४ ।।
अनुग्रहपरो नित्यं दयावानमितद्युतिः ।।
अंतकान्तकसन्मूर्तिरसमानयशाः परः ।। ५ ।।
निर्मूलितोद्रिक्तमलः पुण्यपापनिकृन्तनः ।।
दृढभक्तिसमायुक्तः संसारगुणवर्जितः ।। ६ ।।
दूरस्थितानां वस्तूनां द्रष्टा योगविदुत्तमः ।।
प्रतिग्रहैकविमुखमानसः करुणानिधिः ।। ७ ।।
समलिष्ठसुवर्णश्च तुल्यनिम्दास्तुतिः शुचिः ।।
शत्रुमित्रसमः श्रीमांस्तुल्यो मानावमानयोः ।। ८ ।।
प्. ८५) सप्तधातुमदोद्रेकसर्वावगुणवर्जितः ।।
प्रभुश्चिद्रूपदीपोऽसावंधकारिस्वरूपभाक् ।। ९ ।।
कालसंकल्परहितो विकल्पगुणवर्जितः।।
महेंद्रजालसदृशप्रपंचोन्मूलनक्षमः ।। १० ।।
परमानंदजलधिनिमज्जन्मानसः परः ।।
रक्तवर्णसमाक्रांतजटाभूषितमस्तकः ।। ११ ।।
अनिमेषसुधास्यंदिदिव्यदृष्टिसमंचितः ।।
सामागानप्रियो नित्यं सच्चिदानंदविग्रहः ।। १२ ।।
अन्तर्योगरतः श्रीमान् योगतत्वस्वरूपवित् ।।
अनन्तवेदवेदान्तवेद्यमानो महामतिः ।। १३ ।।
सनामो नामरहितो निःशरीरः शईर्यपि ।।
शब्दगम्योऽप्यशब्दोऽयं भावाभावविवर्जितः ।। १४ ।।
द्वैतयोगक्रियाद्वैतयोगातीतक्रियान्वितः ।।
लिकत्रयीलक्ष्यमाणो भक्तिसर्वस्वरूपभृत् ।। १५ ।।
सर्वकार्याणि संत्यज्य लिंगरूपनिरीक्षणः ।।
लिंगेक्षणानन्दकेल्या विस्मृतात्मस्वरूपवान् ।। १६ ।।
समायातः प्रभुः श्रेष्ठो बसवेशगृहान् प्रति ।।
प्. ८६) निम्नोन्नतप्रदेशेषु समानगतिरादरात् ।। १७ ।।
आगच्छन्तं प्रभुं दृष्ट्वा सर्वे दूरमुपागताः ।।
स्थावरैर्दत्तमार्गोऽयं कोऽयं स्यादिति शंकया ।। १८ ।।
तुष्टुवुर्विविधैः स्तोत्रैर्जनाः सर्वे पथि स्थिताः ।।
बसवेश्वरसद्भक्तिसिंधावुज्जृंभिते सति ।। १९ ।।
तद्वीचिमध्यसंलग्नदृश्यमानतरिर्यथा ।।
प्रभुः समाययौ तूर्णं साक्षात्परशिवो यथा ।। २० ।।
यथेक्षते शिलामध्ये रत्नं रत्नपरिक्षकः ।।
बसवेशो निश्चिकाय प्रभुः लोकैकवर्जितम् ।। २१ ।।
ननाम दंडवद्भूमौ बसवेशो गुरुं यथा ।।
बसवेशकरानीतं रत्नसिंहासनं परम् ।। २२ ।।
आरुरोह प्रभुः श्रीमान् कैलासमिव शंकरः ।।
प्रभोरंगप्रभाः सर्वाश्चतुर्दिक्षु चकाशिरे ।। २३ ।।
सजीवो जीवरहितः सक्रियो निष्.क्रियस्तथा ।।
प्रभुः स मोदते सर्वान् पश्यन् सन् ज्ञानचक्षुषा ।। २४ ।।
पुरापि जिजचिल्लिंगमेव प्राणो न चापरः ।।
चेष्टाहीनश्चेतनोऽपि ख्याति हीनोऽपि संस्तुतः ।। २५ ।।
प्. ८७) वाचामगोचरमहाशपथश्चिन्मयाकृतिः ।।
अशेषजनचित्तौघध्यानचित्तः परात्परः ।। २६ ।।
गुणाक्रान्तो गुणैर्हीनो विभक्तो ह्यक्षराकृतिः ।।
एतादृशो महाभागः प्रभुर्लोकैकविश्रुतः ।। २७ ।।
सिंहासने सुखासीनो विरराज महारुचिः ।।
बसवेशोऽपि सद्भक्तो ननाम प्रभुसत्तमम् ।। २८ ।।
हर्षगद्गदकंठः सन् तुष्टाव विविधैः स्तवैः ।।
तूर्येषु वाद्यमानेषु नदत्सु पटहेषु च ।। २९ ।।
ननृतुर्गणिकाः सर्वा जगुर्वैतालिकाः परे ।।
वीणाक्कणनशब्दौघैर्मूर्छितोऽभूद्दिशं गणः ।। ३० ।।
एवंविधोत्सवे काले बसवेशो नयान्वितः ।।
प्रभोरन्तिकमासाद्य ययाचे भृत्यवत्स्वयं ।। ३१ ।।
नीराजनकरांभोजपरिवारेण संवृतः ।।
भो भो प्रभो महाभाग शिष्यसंघो मया सह ।। ३२ ।।
आगच्छ शिवपूजार्थं पूजागारं महत्तरम् ।।
एवं संप्रार्थ्यमानः सनाययौ प्रभुसत्तमः ।। ३३ ।।
आगच्छन्तं महाभागं प्रभुं लोकैकपूजितम् ।।
विचित्ररंगवल्लीभिर्बह्वीभिः परिशोभिते ।। ३४ ।।
प्. ८८) सदीपदीपिकास्तम्भसहस्रशतदीपिते ।।
कर्पूरदीपसंघैश्च परितः परिशोभिते ।। ३५ ।।
सुगंधनिच्योपेतादिव्यधूपैश्च धूपिते ।।
संक्रान्तचित्रपुष्पौघहेमपात्रविराजिते ।। ३६ ।।
भोजनायतने रम्ये रत्नपीठे महत्तरे ।।
बसवेशो भृत्यभावादुपावेशयदास्थितः ।। ३७ ।।
हेमपात्रं समानीय भक्ष्यभोज्यादिपूर्वकम् ।।
स्थापयामास पुरतः प्रभोरमिततेजसः ।। ३८ ।।
सुरीयचमषययाख्यः शिवभक्तो दृढव्रतः ।।
सव्यंजनान्नं मृदुलं सहस्तपरिमाणकम् ।। ३९ ।।
यथा शिवाय प्रददौ भक्तितो लिंगमूर्तये ।।
तथैव बसवेशोऽपि प्रभवे गुरुमूर्तये ।। ४० ।।
स्वहस्तेन पृथक्कृत्य ह्यन्नं सव्यंजनं ददौ ।।
बसवेश्वरहस्ताग्रदत्तमन्नं महोज्ज्वलम् ।। ४१ ।।
गृह्णन् प्रभुः स बुभुजे विश्वरूपधरः परः ।।
सहस्राणां शतेनैव तथाऽशीत्या च संख्यया ।। ४२ ।।
संख्येयानां गणानां तु पर्याप्तं प्राशनाय तत् ।।
पक्कं तदन्नमखिलं नालं तस्य प्रभोस्तदा ।। ४३ ।।
सर्वस्मिन्नन्नजाते तु प्रकीर्णे बसवेश्वरः ।।
प्रभुं शिवं विनिश्चित्य भोक्तारं भक्तिनम्रधीः ।। ४४ ।।
अशक्तोऽहममुष्यान्नं प्रभोर्दातुं महौजसः ।।
इति निश्चित्य बसवः कार्याकार्यविमुढधीः ।। ४५ ।।
प्. ८९) उपहारे ततश्चक्रे शरीरं निजमंजसा ।।
तद्दत्तात्मोपहारेण प्रभुः संतोषमाप्नुयात् ।। ४६ ।।
ततः सर्वेषु सद्भक्तास्तुष्टुवुर्बसवेश्वरम् ।।
अहो प्रभोस्तु माहात्म्यम् मनोवाचामगोचरम् ।। ४७ ।।
१ यश्चान्तकाले संप्राप्ते सांबः सत्यादिलक्षणः ।।
चराचरस्य बिश्वस्य चात्मा भवति निश्चयात् ।। ४८ ।।
२ यस्य च ब्रह्मविष्णू तावूभे भवति जीवने ।।
उपसेचनतां याति मृत्युः सर्वविनाशकृत् ।। ४९ ।।
तादृशोऽपि महाभागः प्रभुः स्वातंत्र्यजृंभितः ।।
आयातो भक्तिमात्रेण बसवेशस्य दृश्यताम् ।। ५० ।।
गत्वा तमनुगृह्णाति सद्भक्तं बसवेश्वरम् ।।
भक्तिमात्रेण साध्योऽयं नान्यमार्गेण किंचन ।। ५१ ।।
इति तं तुष्टुवुः सर्वे तत्रत्या भक्तसत्तमाः ।।
स्वयं तुष्टाव बसवं कारुण्यात्प्रभुसत्तमः ।। ५२ ।।
बसवेश महाभाग भक्तिसंत्राणकारण ।।
स्वकीर्तिचंद्रिकाव्याप्तसमस्ताजांडखर्पर ।। ५३ ।।
अशेषभक्तसंदोह भक्तिषंड धुरंधर ।।
नंदिकेशावतारस्त्वं केवलं न तु मानवः ।। ५४ ।।
प्. ९०) इक्षुवृक्षोत्थफलवन्मणिगर्भस्थदीप्तिवत् ।।
हेम्नि ह्यामोचवच्चैव चंदनोत्थप्रसूनवत् ।। ५५ ।।
आलेखलेख्यमानाया वनितायाः सुजीववत् ।।
स्वर्णकृत्रिमपुत्रस्य प्राणपंचकवत्तथा ।। ५६ ।।
सद्भक्तस्थानभूतः सन् त्वं हि जातो यथार्थकः ।।
बसवेश त्वमात्मीयो ह्यसतां दण्डनायकः ।। ५७ ।।
असंख्यातगणानां त्वमीयः प्रभुसत्तमः ।।
अनंतवेदवेधोऽसि मुक्तेस्त्वं हि नियामकः ।। ५८ ।।
प्रसादरूपो भक्तानां सत्व रूपो हि कथ्यसे ।।
अशेषाम्नायशिखरवाक्यतात्पर्यकोविदः ।। ५९ ।।
गुरुप्रतिष्ठचिल्लिंगसत्पात्रं त्वं न संशयः ।।
अशेषतत्वरूपस्त्वं महत्तत्वं त्वमेव हि ।। ६० ।।
संविदादिस्वरूपस्त्वं नित्यानंदस्वरूपभृत् ।।
बसवेश तवाशेषस्वरूपं भक्तिरेव हि ।। ६१ ।।
पशवो ये च शृण्वंति बसवेत्यक्षरत्रयम् ।।
प्. ९१) तेषामपि शिवज्ञानं भक्तिश्चोत्पद्यते दृढा ।। ६२ ।।
शिशवः पक्षिणो बाऽपि ये शृण्वन्त्यक्षरत्रयम् ।।
तेषां च शाश्वती भक्तिर्नेतरेषामिति श्रुतिः ।। ६३ ।।
गृहीत्वाऽपि विषं घोरं नाम चोच्चार्यतेऽनघम् ।।
अमृतं वै भवेत्तद्धि सत्यं सत्यं मयोदितम् ।। ६४ ।।
ये स्मरन्ति महाभाग त्वन्नामात्यन्तपावनम् ।।
तेषां प्रसूनकल्पं स्यात्कुलिशं चातिदारुणम् ।। ६५ ।।
शत्रवि यान्ति मित्रत्वं भवन्नामानुवर्तनात् ।।
त्वन्नामश्रवणादेव दवाग्निश्चंद्रिकायते ।। ६६ ।।
लिंगैक्यकलिकायोगस्त्वयि नान्यते दृश्यते ।।
मृतजंगमसत्प्राणसंधानाख्यक्रिया परा ।।
त्व्ययेव दृश्यते वत्स नान्यत्र परिदृश्यते ।। ६७ ।।
वृत्तं ।। एवं वचोभिरनघैः शिवतंत्रसंस्थैः संस्तुल्य तं
बसवभक्तमुदारभावम् ।।
प्रीत्या च हर्षपरिगद्गदकंथदेशस्तूष्णीः स्थितः प्रभुवरः
परमार्थत्ता ।। ६८ ।।
इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे स्वरूपग्रंथे
परमरहस्ये कुमारागस्त्यसंवादे प्रभुदेवतृप्तिर्नाम द्वादशोऽध्यायः
।। १२ ।।