बसवपुराणम्/अध्यायः ०६
| ← अध्यायः ०५ | बसवपुराणम् अध्यायः ६ [[लेखकः :|]] |
अध्यायः ०७ → |
प्. ४३) षष्ठोऽध्यायः
श्रीगुरुभ्यो नमः
।। अगस्त्य उवाच ।।
ततः किमकरोद्बालो धैर्यवान् बसवेश्वरः ।।
षडानन महाभाग तन्मे ब्रूहि समासतः ।। १ ।।
कुमार उवाच ।।
एवमुक्त्वा ततो बालः क्षणमेवं व्यचिन्तयत् ।।
तातो मे दुष्टहृदयः पाषंडाचारतत्परः ।। २ ।।
सर्वदा वशमापन्नो ब्राह्मणानां दुरात्मनाम् ।।
मया संबोध्यमानोऽपि नूनं नैव निवर्तते ।। ३ ।।
अत्यंतमूर्खहृदयः पापकर्मैकतत्परः ।।
तथापि बोधयिष्यामि सन्मार्गं तु शुभप्रदम् ।। ४ ।।
इति संचिन्त्य मनसा ब्राह्मणान प्रत्यभाषत ।।
इतिहासं प्रवक्ष्यामि श्रुणुत ब्राह्मणोत्तमाः ।। ५ ।।
यस्य श्रवणमात्रेण नाशमाप्नोति किल्बिषम् ।।
पुराऽश्वलायनो नाम मुनिः परमधार्मिकः ।। ६ ।।
अधीत्य चतुरो वेदान् सर्वांगैश्च समन्वितान् ।।
विरुद्धवाक्यश्रवणाद्विषण्णहृदयोऽभवत् ।। ७ ।।
ततः स चिन्तयामास केन वै तन्निवार्यते ।।
अनेकशाखासंभिन्ना वेदा ब्राह्मणसंस्थिताः ।। ८ ।।
सत्यलोकं गमिष्यामि पितामहदिदृक्षया ।।
एवं संचिन्त्य मनसा ब्रह्मलोकमवाप सः ।। ९ ।।
ततश्चतुर्मुखं दृष्ट्वा मुनिभिः परिवेष्टितम् ।।
साष्टांगं प्रणिपत्याशु तुष्टाव
प्. ४४) विविधैः स्तवैः ।। १० ।।
ततः पप्रच्छ धातारं रहस्यं स्वात्मनि स्थितम् ।।
अधीहि भगवन् ब्रह्मन् ब्रह्मविद्यां सनातनीम् ।। ११ ।।
सेव्यमानां सदा सद्भिर्निगूढां श्रुतिपंजरे ।।
ययाऽचिरात्सर्वपापं व्यपोह्य चतुरानन ।। १२।।
परात्परं तु पुरुषं विद्वानेति महत्तरम् ।।
तस्मै प्रोवाच मुनये भगवांश्चतुराननः ।।१३ ।।
श्रद्धाभक्तिध्यानयोगादवेहीमां महत्तराम् ।।
ज्योतिष्टोमादिकर्मौघैः प्रजया च धनेन च ।।
न लश्यते ब्रह्मविद्या त्यागेन मुनिसत्तम ।। १४ ।।
त्यक्त्वा समस्तकर्माणि मुनयो ब्रह्मवादिनः ।।
प्राप्ताः पूर्वे ऽमृतत्वं तु शिवध्यानपरायणाः ।। १५ ।।
नाकं हित्वाऽऽत्महृदयगुहामध्ये व्यवस्थितम् ।।
सूर्यकोटिप्रतीकाशं विशंत्येतन्मुनीश्वराः ।।
वेदवेदान्तविज्ञाननिश्चितार्था महत्तराः ।। १६ ।।
काम्यकर्मपरित्यागः संन्यास इति कथ्यते ।।
तद्योगाद्यतयः प्रोक्ताः शुद्धसत्वाशया जनाः ।। १७ ।।
बृहत्वाद्ब्रह्मणत्वाच्च शिवो ब्रह्मेति कथ्यते ।।
सूर्यकोटिप्रतीकाशश्चंद्रकोटिसुशीतलः ।।
अर्धमात्रात्मकः श्रीमान् सोमलोक इतीरितः ।। १८ ।।
ब्रह्मांडस्योर्ध्वभागे तु दीप्यमानो निरामयः ।।
ब्रह्मलोक इति प्रोक्तः सोऽयं लोको महामुने ।। १९ ।।
प्. ४५) विश्वाकारेण या शक्तिः परिणाममुपैति हि ।।
प्रकृतिः सां परेत्युक्ता मुनिभिः शंसितव्रतैः ।।
अथवा परशब्देन ब्रह्माऽपि परिगीयते ।। २० ।।
तदन्तकाले संप्राप्ते परस्मादमृताच्छिवात् ।।
लोके विज्ञानिनः सर्वे परिमुच्यन्ति बन्धनात् ।। २१ ।।
भविसंसर्गरहिते विविक्ते च सुखावहे ।।
सुखासनस्थितः सिद्धः समग्रीवाशिरोऽङ्गवान् ।। २२ ।।
विरजानलजं भस्म गृहीत्वाऽत्यन्तपावनम् ।।
अग्निरित्यादिभिर्मंत्रैः सप्तभिश्चाभिमंत्रितम् ।। २३ ।।
शरीरोद्धूलनं कृत्वा त्रिपुंड्रस्य तु धारणम् ।।
रुद्राक्षधारणं चैव षडक्षरजपस्तथा ।। २४ ।।
धृतेष्टलिंगपूजा च संस्कारः परिकीर्तितः ।।
अत्याश्रम इति ख्यातो मुनिभिस्तत्वदर्शिभिः ।। २५ ।।
अत्याश्रमस्थः सकलानींद्रियाणि प्रयत्नतः ।।
निरुध्य स्वीयंमाचार्यं भक्त्या संप्रणमेद्बुधः ।। २६ ।।
हृत्पुंडरीकममलं रजोगुणविवर्जितम् ।।
विशुद्धं पापराहित्याद्विशोकमतिनिर्मलम् ।। २७ ।।
विचिन्तयेत्स्वहृदयं तस्य मध्ये महामुने ।।
दहराभिधमत्यन्तसूक्ष्मं सुषिरमस्ति हि ।। २८ ।।
तस्मिन्नचिन्त्यविभवमव्यक्तं परमाद्भुतम् ।।
अनन्तरूपं सर्वेशं शिवं परमकारणम् ।। २९ ।।
प्. ४६) परात्परतरं चैव महोऽपि महत्तरम् ।।
अणोरपि महादेवमणीयांसं सितप्रभम् ।। ३० ।।
मृत्युंजयमुदारांगं कालकूटविषाशनम् ।।
अनन्तरूपमव्यक्तं शिवं परमकारणम् ।। ३१ ।।
अतीतं शांतममृतं वेदानां कारणं परम् ।।
आदिम्ध्यान्तरहितमेकं तच्छब्दबोधितम् ।। ३२ ।।
अत्यन्त्विभवोपेतं चिदानंदस्वरूपिणम् ।।
अरूपमद्वयं नित्यं शाश्वतं परमेश्वरम् ।। ३३ ।।
उमासहायं विश्वेशं लोचनत्रितयोज्वलम् ।।
सकलं परमेशानं नीलकंठमनीश्वरम् ।। ३४ ।।
मुनिर्गच्छति तं ध्यात्वा पंचभूतैककारणम् ।।
सुषुप्तिसाक्षिं सर्वस्मात्तमसः परतः स्थितम् ।। ३५ ।।
स ब्रह्मा स शिवः प्रोक्तः स एवेंद्रः प्रकीर्तितः ।।
स एवाक्षरसंज्ञश्च स एव परमस्वराट् ।। ३६ ।।
स एव विष्णुरित्युक्तः स एव प्राणसंज्ञकः ।।
कालः स एव सोऽग्निश्च चंद्रमाश्च स कथ्यते ।। ३७ ।।
स एव सर्वं यद्भूत यच्च भव्यं सनातनम् ।।
द्यात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ।। ३८ ।।
आत्मानं सर्वभूतस्थं सर्वभूतानि चात्मनि ।।
संपश्यन्मुदितो योगी
प्. ४७) परब्रह्म निरामयम् ।। ३९ ।।
विच्छिद्य सकलान् पाशान् याति नान्येन हेतुना ।।
स्वीयमात्मानमरणिं प्रणवं चोत्तरारणिम् ।। ४० ।।
कृत्वा ध्यानाख्यमथनदण्डं देव महामुने ।।
अत्यन्तमथनेनाग्निं प्रंज्वाल्यानन्यमानसः ।। ४१ ।।
अविद्याख्यमहापाशं शिवभक्तो दहेत् पुमान् ।।
कर्मणा पाशविच्छित्तिर्नास्ति नास्ति महामुने ।। ४२ ।।
मायया मोहितात्मा सन्नधिष्ठाय कलेवरम् ।।
करोति सकलं कार्यं चोदितस्तेन कर्मणा ।। ४३ ।।
कान्ताऽन्नपानप्रमुख्यैर्भोगैर्जाग्रत् प्रतुष्यति ।।
अतः स्वप्नेऽपि जीवोऽयं भोक्ता च सुखदुःखयोः ।। ४४ ।।
स्वमायाकल्पिते विश्वे विचित्रे तैजसाभिधः ।।
सुषुप्तिकाले सकले विलीने जीव एव हि ।। ४५ ।।
तमोऽभिभूतः प्राज्ञाअऽऽख्योऽप्येत्ययं सुखरूपताम् ।।
बहुजन्मार्जितानां हि सम्बंधात्पूर्वकर्मणाम् ।। ४६ ।।
स एव जीवः स्वपितः प्रबुद्धो भवति क्षणात् ।।
जीवः पुरत्रये यस्तु क्रीडते चिन्मयात्मकः ।। ४७ ।।
विचित्रं सकलं जातं मनोवाचामगोचरम् ।।
आधारं सर्वं
प्. ४८) लोकानां सदानंदैकविग्रहम् ।। ४८ ।।
अखंडबोधं सर्वेशं पश्येत्स्वाभिन्नरूपिणम् ।।
तस्मिन् पुरत्रयं चैव विलयं याति सर्वतः ।। ४९ ।।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।।
वियद्वायुस्तथा तेजो ह्यापः सर्वास्तथैव च ।। ५० ।।
सर्वप्रपंचनिलया भूमिरत्यन्तविस्तृता ।।
यदेतत्परमं ब्रह्म विश्व्स्यायतनं महत् ।। ५१ ।।
सूक्ष्मात्सूक्ष्मतरं नित्यं तद्ब्रह्म त्वं त्वमेव च ।।
जाग्रत्स्वप्नसुषुप्त्यादि विश्वं यत्र प्रकाशते ।। ५२ ।।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ।।
त्रिषु धामसु यद्भोज्यं भोक्ता यश्च सनातनः ।। ५३ ।।
भोगाश्च सर्ववस्तूनामन्नादीनां महामुने ।।
साक्षी विलक्षणस्तेभ्यश्चिदात्माऽहं सदाशिवः ।। ५४ ।।
एतच्च सकलं विश्वं जातं मययेव तत्वतः ।।
मययेव स्थितिमायाति मयि नाशं समश्नुते ।। ५५ ।।
अतोऽहमद्वयं ब्रह्म लक्षितं तत्पदेन तु ।।
तदेवाहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ।। ५६ ।।
लोके ह्यणुतरं यत्तु ततोऽहमणुरेव हि ।।
महद्भ्यो वियदादिभ्यो ह्यहमेव परो महान् ।। ५७ ।।
अशेषं विश्वमेतद्धि चाहमेव न संशयः ।।
पुरातनो विशुद्धश्च पुरुषोऽहं हिरण्मयः ।। ५८ ।।
ईशोऽहं शिवरूपोऽहमभिन्नोऽहं
प्. ४९) सदाशिवात् ।।
पाणी पादौ च मे न स्तो ह्यचिन्त्योऽद्भुतशक्तिमान् ।। ५९ ।।
अचक्षुरेव पश्यामि कर्णहीनः शृणोम्यहम् ।।
विविक्तदेहः सकलं जानाम्येव चराचरम् ।। ६० ।।
वेत्ता मम न कोऽप्यस्ति चित्स्वरूपः सदाशिवः ।।
अनेकैर्वेदसंघैश्च वेद्योऽहं तु न चापरः ।। ६१ ।।
अहमेव हि वेदान्तकर्ता वेदान्तविन्मुने ।।
न मे पुण्यं च पापं च मम नाशो न विद्यते ।। ६२ ।।
मम जन्म शरीरं वा नेंद्रियाणि मतिस्तथा ।।
न मे भूमिर्न चापोऽपि तेजो वायुश्च मे न हि ।। ६३ ।।
न चाम्बरं च दिक्कालो मनो मम न विद्यते ।।
एवं गुहाशयं साम्बं विदित्वा परमेश्वरम् ।। ६४ ।।
निष्कलं निष्क्रियं शान्तं सर्वभेदविवर्जितम् ।।
समस्तसाक्षिभूतं च विश्वातीतं निरामयम् ।। ६५ ।।
प्रयाति परमेशानं सदानन्दैकविग्रहम् ।।
एतद्विद्याभिगमने कारणं शतरुद्रियम् ।। ६६ ।।
योऽधीते शतरुद्रीयं सोऽग्निपूतो भवेत्पुमान् ।।
सुरापानोदितात्पापाद्ब्रह्महत्योदितादपि ।। ६७ ।।
गुरुतल्पोपगमनात् पूतो भवति मानवः ।।
तस्माद्विभूतिसंपन्नो भस्मशययामुपेयिवान् ।। ६८ ।।
प्. ५०) श्रीमत्पंचाक्षरीमंत्रं प्रणवेन षडक्षरम् ।।
ध्यायमानो महामंत्रं शिवलिंगार्चने रतः ।।
मोक्षश्रियमवाप्नोति नात्र कार्या विचारणा ।। ६९ ।।
अतः कर्म परित्यागान्मोक्षमाप्नोति तत्त्वतः ।।
द्विजाजामिति बालोऽयं बसवेशोऽब्रवीन्मुने ।। ७० ।।
इति बसवकुमारस्याननओद्गीयमानम् ।।
श्रवणकटु तदानीं ब्राह्मणानामदोषम् ।।
सवनसदति विद्वद्गीयमानं हि सामामरवरनुतियोग्यं
राक्षसानामिवासीत् ।। ७१ ।।
इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवेश्वरपुराणे
स्वरूपग्रंथे षष्ठोऽध्यायः ।।