सामग्री पर जाएँ

बसवपुराणम्/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ बसवपुराणम्
अध्यायः २
[[लेखकः :|]]
अध्यायः ०३ →

प्. ८) द्वितीयोऽध्यायः ।
गौरीप्रश्नः । नारदप्रश्नः । शिवनिरूपणं च ।

अथागस्त्यवचः श्रुत्वा षण्मुखः सर्वशास्त्रवित् ।।
प्राह गंभीरया वाचा कुंभयोनिं महौजसम् ।। १ ।।
(षण्मुख उवाच) पुरा कैलासशिखरे नानामुनिगणावृते ।।
सहस्रस्तम्भसंयुक्ते शतयोजनविस्तृते ।। २ ।।
मंटपे सर्वतोभद्रे नानारत्नविचित्रिते ।।
दशयोजनविस्तीर्णे मणिसिंहासने स्थितम् ।। ३ ।।
नीलग्रीवमुदारांगं शंकरं लोकशंकरम् ।।
कृताञ्जलिपुटा गौरी रहसीदमभाषत ।। ४ ।।
(गौर्युवाच) स्वामिन् सर्वजगन्नाथ सर्वलोकनमस्कृत ।।
चंडालो नैव चंडालः पुल्कसौ नैव पुल्कसः ।। ५ ।।
शिव इत्येव यो वक्ति भुञ्जीत सह तेन वै ।।
वसेत्तेन सहैकत्र वदेत्तेन सहानघ ।। ६ ।।
एवं वदन्ति श्रुतयः संशयो मे महानभूत् ।।
अतो मे संशयं छेत्तुं त्वमेवार्हसि सांप्रतम् ।। ७ ।।
इति पृष्टस्तया देव्या शंकरः करुणानिधिः ।।
प्रत्युवाच ततो देवीं हर्षसंफुल्ललोचनः ।। ८ ।।
(शंकर उवाच) दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमाः ।।

प्. ९) कलाववतरिष्यन्ति निन्दकास्ते बहिस्.कृता ।। ९ ।।
सहभोजनतस्तेषां चंडालैः सह भोजनम् ।।
वरमित्याह परमश्रुतिरेषा सनातनी ।। १० ।।
तस्माछ्रेष्ठतमा लोके शिवनामपरायणाः ।।
न तैश्च साम्यमायांति सर्वे शापविदूषिताः ।। ११ ।।
एवमुक्ता शंकरेण प्रौढा गिरिवरात्मजा ।।
शिवेति नाम परमं सर्वपापनिकृन्तनम् ।। १२ ।।
प्रायश्चित्तं हि सर्वेषां पापानामतिपावनम् ।।।
अतस्तद्वक्तृभिः सार्धं चंडालाद्यैश्च पुल्कसैः ।।
भोजनं सह कर्त्व्यमिति निश्चित्य सा स्थिता ।। १३ ।।
एतस्मिन्नंतरे योगी नारदः सर्वतत्त्ववित् ।।
कैऌआसशिखरं प्राप दिदृक्षुः परमेश्वरम् ।। १४ ।।

  • ततो नत्वा महादेवं शंकरं चंद्रशेखरं ।।

तुष्टाव विविधैः स्तोत्रैर्लौकिकैर्वैदिकैरपि ।। १५ ।।
समागतं मुनिं दृष्ट्वा शंकरः परमेश्वरः ।।
कुशलप्रश्नकथनमातेने गिरिजापतिः ।। १६ ।।
के वा धर्माश्च लोकेषु वर्तन्ते मुनिपुंगव ।।
इति पृष्टः शंकरेण बभाषे नारदो वचः ।। १७ ।।

प्. १०) नारद उवाच ।। स्वामिन् सर्वजगन्नाथ प्रपन्नार्तिप्रभंजन ।।
सर्वलोका मया दृष्टास्त्वत्प्रसादान्महेश्वर ।। १८ ।।
शैवशास्त्रार्थतत्त्वज्ञाः शैवचारैकतत्पराः ।।
लिंगांगस्थलतत्त्वज्ञा लिंगधारणदीक्षिताः ।। १९ ।।
भविसंदर्शनालापसहवासपराङ्मुखाः ।।
सन्ति सर्वेषु लोकेषु न कुत्रापि महीतले ।। २० ।।
भूलोके यज्ञकर्तारः सन्ति धर्मपरायणाः ।।
वर्तन्ते विष्णुभक्ताश्च पांचरात्रपरायणाः ।। २१ ।।
जैनशास्त्रप्रवक्तारो बुद्धागमविशारदाः ।।
चार्वाकमतसंचाराः सांख्ययोगप्रवर्तकाः ।। २२ ।।
भूतले निवसन्त्येते त्वद्भक्ता न कदाचन ।। २३ ।।
शापदग्धजनानां तु वीक्षणे क्रुद्धमानसः ।।
महेश त्वत्पदध्यानक्षीणपापोऽभवं प्रभो ।। २४ ।।
विश्वेश्वराराध्यवरः पंडितः श्रीपतिस्तथा ।।
एकोराममहायोगी तथा मंचनपंडितः ।। २५ ।।
कोटिपल्याभिधः श्रीमानुद्भटः करुणानिधिः ।।
अन्येऽप्येवंविधाः शैवाः स्थापयित्वा युगे युगे ।। २६ ।।
शिवभक्तिमिमां सम्यक् कैलासपदमाययुः ।।
अद्य ब्रह्मकुले शुद्धे नास्ति भक्तस्तव प्रभो ।। २७ ।।
अतो वर्णान्तरेष्वेवं तव भक्तिर्न दृश्यते ।।
तुश्यं निवेदितुं सर्वं तव्दंतिकमुपागतः ।। २८ ।।

प्. ११) एतच्छ्रुत्वा महादेवः सर्वलोकनमस्कृतः ।।
शैलादिं समवेक्ष्याशु बभाषे मधुरं वचः ।। २९ ।।
यदा यदा तु शैवस्य हानिर्धर्मस्य जायते ।।
तदा तदाऽवतार्य त्वं स्थापयस्व वरानन ।। ३० ।।
धर्मं वेदान्तवाक्यैकतात्पर्यमतिपावनम् ।।
प्रत्यक्षादिप्रमाणानि दर्शयित्वैव निंदकान् ।। ३१ ।।
परिभूय महाभाग ब्रह्मणानपि भूतले ।।
वर्णाचारानुरोधेन शैवाचारान् प्रवर्तय ।। ३२ ।।
वर्णाचारुषु सर्वेषु शैवभक्तिं प्रकाशय ।।
मद्भक्तिस्थापनं कृत्वा वीरशैवान् समुद्धर ।। ३३ ।।
इत्युक्तो देवदेवेन शैलादिरमितद्युतिः ।।
राहुग्रस्त इवादित्यः क्षणं तस्थौ विचिन्तयन् ।। ३४ ।।
अनुस्मृत्य ततः शापं पार्वत्या दत्तमुल्बणम् ।।
अंगीचकार मनसा ह्यलंघ्यमिति निश्चयाअत् ।। ३५ ।।
शैलादिहृदयं ज्ञात्वा पार्वतीरमणः शिवः ।।
निश्चिन्तो भव नंदीश मद्वचः शृणु भक्तितः ।। ३६ ।।
त्वामहं पुत्रगर्भस्थं दीक्षयिष्यामि शैवया ।।
संगमेश्वररूपेण भविष्यामि गुरुस्तव ।। ३७ ।।
लिंगधारणदीक्षां च करिष्यामि यथाविधि ।।
वसामि लिंगरूपेण तवांगत्रितये सदा ।। ३८ ।।
भक्तवेषधरो भूत्वा चरिष्यामि त्वया सह ।।
त्वया सह गणानेतान् स्वतंत्रान् प्रेषितुं क्षमः ।। ३९ ।।
भविष्यामि वृषेंद्राहं वसिष्ये त्वदधीनकः ।।

प्. १२ ) इति प्रबोध्य नंदीशं प्रेषयामास शंकरः ।। ४० ।। वृत्तम् ।।
इति परमरहस्यं वेदवेदान्तगम्यं परशिवभणितं तत्कार्यमावश्यकं
मे ।।
इति मनसि निधाय प्रत्ययान्नंदिकेशः क्षणमनु हृदि दध्यौ शांकरं
पादपद्मम् ।। ४१ ।।

इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रंथे
परमरहस्ये कुमारागस्त्यसंवादे
नारदप्रश्नशिवाज्ञाप्रशंसनं नाम द्वितीयोऽध्यायः