सामग्री पर जाएँ

फलकम्:स्वागतम् ऐपि

विकिस्रोतः तः
(फलकम्:Welcomeip इत्यस्मात् पुनर्निर्दिष्टम्)

प्रियसंस्कृतबन्धो,स्वागतम् ऐपि अत्र ते हार्दं स्वागतम् । नमांसि च ।
भवतः योगदानार्थं हार्दं कृतज्ञताः । अत्र योजकत्वेन प्रविष्टः इति सन्तोषः किन्तु नामाभिलेखन स्वस्थानं निर्मीय प्रविशति चेत् इतोपि आनन्दः आनुकूल्यं च जायते । अतः कृपया नामाभिलेखेन योगदानं करोतु इति निवेदनम् ।

विकिस्रोतः आधुनिकतन्त्रज्ञानचालितः कश्चित् स्वतन्त्रः पुस्तकालयः । संस्कृतं तु एका प्राचीना समृद्धा च भाषा या सार्वकालिका अपि । अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति । भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तनपरम्परया प्रभावितं भवति। अतः समृद्धायाः संवृद्धायाः च संस्कृतभषायाः विस्तारः भारतीय वाङ्मयस्य उन्नतिः भवेत्। अत एव संस्कृतस्य ज्ञानसमुद्रे विहर्तुम् अन्येषां सर्वेषामपि अवकाशः भवतु इति धिया अत्र संस्कृतविकिस्रोतसि अपि संस्कृतं प्रवेशितम् ।
विकिस्रोतसि ग्रन्थानाम् उत्तारणावसरे कार्यनिर्वहणावसरे यदि भवतः/भवत्याः मनसि संस्कृतभाषायाः विषये काचित् समस्या वा कश्चन संशयः वा उद्भवति तदा अन्यैः योजकैः सह परिचर्चां कर्तुं शक्नोति। संभाषणपुटेषु परिचयं सन्देशं प्रश्नं चिन्तनं वा लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान्/भवती ''~~~~'' इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षरं स्वयमेव उदेति । सङ्गच्छध्वम् । संवदध्वम् । सं वो मनांसि.......
आशास्महे यत् विकिस्रोतसः सान्निध्ये अस्माकं साहचर्ये च भवान्/भवती सानन्दं सेवताम् ।

"https://sa.wikisource.org/w/index.php?title=फलकम्:स्वागतम्_ऐपि&oldid=26141" इत्यस्माद् प्रतिप्राप्तम्