सामग्री पर जाएँ

प्रामाणविचारः/पृष्ठ-३०१-३२२

विकिस्रोतः तः
301.
अव्याप्यस्याव्यापकस्य नास्ति सहभाव इति का नो हानिः? अथ कथं नाम बहिस्सत्वास्योपपादकं भवितुमर्हति? यदि चैत्रनिष्ठः गृहाभावः बहिर्भावेन सह अवश्यं भवति सः स्वभावसिद्ध इत्युच्यते चेत् - यत्र यत्र जीवित्वविशिष्टगृहासत्वं तत्र तत्र बहिस्सत्वमिति यद्युच्यते तर्हि वचनमिदं अन्वयव्याप्तिसमानयोगक्षेमम् । अतः इदमनुमान एवान्तर्भवति [१] ।
यदि व्याप्तिपक्षधर्मतासद्भावेऽपि अनुपपद्यमानेन गृहासत्वेन बहिस्सत्वस्य कल्पनं तर्हि एवमपि वक्तुं शक्येत । वह्निमन्तरा अनुपपद्यमानः धूमः वह्निं कल्पयतीति अनुमानप्रमाणस्यैवोच्छेदः संभवति । अतः अर्थापत्तिः अनुमानेऽन्तर्भवतीति [२] ।
मणिकारेणापि केवलव्यतिरेक्यनुमान एवार्थापत्तेरन्तर्भाव उक्तः [३] । तथा हि - उपपादकाभावविशिष्टे उपपाद्याभावनियमः अनुपपत्तिरेव । न तु अभावः केवलम् । एवं व्यतिरेकव्याप्तिमतः उपपाद्यात् अर्थात् व्यतिरेक्यनुमानविधयैव साध्यसिद्धिः सुकरेति किं प्रयोजनमर्थापत्त्या [४]? तथा चायं प्रयोगः - 'देवदत्तो बहिर्वर्तते, जीवित्वे सति गृहासत्वात्, यन्नैवं तन्नैवम् । यथा - मृतः, गृहस्थितो वा" (त.चि.अ.१४५१) ।
-------------------------------
१.अनियम्यस्य नायुक्तिः न नियन्तोपपादकः ।
न मानयोर्विरोधोऽस्ति प्रसिद्धेनाप्यसौ समः ॥ [न्या.कु.३-१९]
२.धूमोऽपि वा अनुपपद्यमानतयैव वह्निं गययेत् [तत्रैव ३८२]
३.व्यतिरेक्यनुमानसिद्धौ अर्थापत्तिर्न मानान्तरम्, तेनैव तदर्थसिद्धेः [त.चि.अ.१४३५]
४.See DIXIT, Srinivas, “The Redundance of the Vyatireki – Vyapti of the Nyaya system” P.Q. 23, 1950, 13-16
302.
एवमेव श्रुतार्थापत्तिरपि न पृथक् प्रमाणम् । 'देवदत्तः रात्रौ भुङ्क्ते, दिवा अभोजित्वे सति पीनत्वात्' इत्यनुमाने अन्तर्भूतत्वात् (त.चि.अ.१४५९) । विश्वनाथोऽपि मणिकारनिरूपितं पन्थानमनुरुध्यार्थापत्तेः द्विविधायाः अनुमानगतार्थतां न्यरूरुपत् [१] ।
अतः अत्र विषये न्यायपक्षस्यैव साधीयस्त्वं पूर्वोपदर्शितहेतुभिः उत्पश्यद्भिः अस्माभिरपि नार्थापत्तेः पृथक् प्रमाणता अभ्युपगम्यते । किन्तु तस्याः अनुमानान्तर्भाव एव समीचीनः पन्थाः इति चिन्त्यते [२] ॥
---------------------------------
१.अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते ।
व्यतिरेकव्याप्तिबुद्ध्या चरितार्था हि सा यतः ॥ [कारि.१४४]
यत्र जीवित्वस्य बहिस्सत्वगृहसत्वान्यतरव्याप्यत्वं गृहीतं तत्रान्यतरसिद्धौ जायमानायां गृहसत्वबाधात् बहिस्सत्वमनुमितौ भासते । एवं पीनो देवदत्तः दिवा न भुङ्क्ते इत्यादौ पीनत्वस्य भोजनव्याप्यत्वावगमात् भोजनसिद्धौ दिवाभोजनबाधे रात्रिभोजनं सिध्यतीति [मुक्ता.८६]
२.See KOTHIA,D.L., “भारतीय दर्शनों में प्रमाण भेद की महत्वपूर्ण चर्चा" Anekanta XXII (1) pp.11-13 1969.
303.
सिद्धान्तभेदप्रदर्शिनी - अर्थापत्त्यधिकारे
न्यायसिद्धान्ते
भाट्टसिद्धान्ते
प्राभाकरसिद्धान्ते
१.अर्थापत्तिः न पृथक् प्रमाणम् अनुमाने अन्तर्भूतम्
२..........................
अर्थापत्तिः पृथक् प्रमाणम्
दृष्टा, श्रुतेति द्विधा भिन्ना
तथैव
केवलं दृष्टैव, नास्ति श्रुता
304.
षष्ठाध्यायः
६ अनुपलब्ध्यधिकारः
६-१ अनुपलब्धिविचारः
६-१-१ भाट्टसिद्धान्तः - अभावलक्षणमेवभाषि भाष्यकारेण शबरस्वामिना । यथा - "अभावोऽपि प्रमाणाभावो नास्तीत्यर्थस्यासन्निकृष्टस्य" (बृहती.११८) इति [१] । भाट्टमतानुरोधं षष्ठं प्रमाणमभावः । अस्यैवानुपलब्धिरिति व्यवहारः । अनुपलब्धिर्नाम उपलब्धेरभावः । प्रत्यक्षानुमानादिप्रमाणपञ्चकप्रवृत्तिप्रतियोगिकः सः अभावः भवति । तथा च प्रवृत्तियोग्यानां प्रत्यक्षादीनां पञ्चानां प्रमाणानां यत्र वा न प्रवृत्तिः सा योग्यानुपलब्धिरित्युच्यते [२] । सा च घटाद्यभावविषयिणी षष्ठं प्रमाणमिति भाट्टसिद्धान्तः [३] ।
---------------------------------------
१.Vide PMS.P.144 : When the first five means of cognition do not function towards bringing about the cognition of the existence of a certain object, then those comes to function that (sixth) means of cognition which is known as 'Abhava' 'Non-Apprehension', 'Negation'. It is through this means of cognition that the non-existence of things becomes cognised.
२.अथोपलम्भयोग्यत्वे सत्यप्यनुपलम्भनम् ।
अभावाख्यं प्रमाणं स्यात् अभावस्यावबोधकम् ॥ [मा.मे.१३२]
३.प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥ [श्लो.वा.४७३]
305.
नच कथं नाम प्रमाणाभावः प्रमाणलक्षणं भवितुमर्हति । स्ववचनव्याघातादिति वाच्यम् । प्रमाणाभावलक्षणगतस्य प्रमाणशब्दस्य सत्पदार्थोपलम्भकप्रत्यक्षादिप्रमाणपञ्चकाभिप्रायकत्वात् । तदभावः षष्ठस्याभावाख्यप्रमाणस्य लक्षणमिति न काचिदनुपपत्तिः । किं नामास्य प्रमेयम्? उक्तं हि लक्षण एव नास्तीत्यर्थस्य इति । लोके हि वस्तु द्विविधम् । सद्रूपमसद्रूपं चेति । सद्रूपेण वर्तमानस्य घटपटादेः प्रत्यक्षादिभिः सत्ता प्रतीयते । यच्चासद्रूपेण वर्तते तत्र सद्रूपबोधकानां प्रत्यक्षादीनां सद्रूपबोधने सत्यपि योग्यत्वे यः अनुत्पादः दृश्यादर्शनयोग्यानुपलम्भादिपर्यायः स एव प्रमाणाभावपदेन अभाषि शबरस्वामिना । तेनैव अभावाख्यप्रमाणेन इन्द्रियशब्दादिस्थानीयेन नास्तीति प्रतीतिरुपजायते । यथा - भूतले घटो नास्तीति [शा.दी.८३]
नास्तितारूपमभावाख्यं प्रमेयं चेदं प्रागभाव – प्रध्वंसाभाव – अन्योन्याभाव – अत्यन्ताभावभेदेन चतुर्था व्यभजत् श्लोकवार्तिककारः [१] ।
अनुपलम्भोऽयं द्विविधः - प्रमाणाभावरूपः, स्मरणाभावरूपश्चेति । प्रत्यक्षप्रमाणाभावरूपादनुपलम्भात् घटपटाद्यभावज्ञानमुपजायते । तथा च योग्यानुमानादयः । अनुमानप्रमाण-
----------------------------------
१.क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते ।
नास्तिता पयसो दध्नि प्रध्वंसाभावलक्षणम् ॥
गवि योऽश्वाद्यभावस्तु सोन्योऽन्याभाव उच्यते ।
शिरसोऽवयवा निम्नाः वृद्धिकाठिन्यवर्जिताः ॥
शशे श्रृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते । [श्लो.वा.४७३-७४]
306.
गम्यानां पदार्थानामभावग्रहणे बोधकः भवति । उक्तं च मनोरथमिश्रैः । यथा - चेष्टालिङ्गकानुमानस्य रूपदर्शनबोधकस्यानुदयः दिवा रूपदर्शनाभावं अनुकूलस्य गमयतीति । एवमेव इतरप्रमाणभावरूपः अनुपलम्भः सुलभः । स्मरणाभावरूपः अनुपलम्भो यथा - अत्र मैत्रः प्रातर्नासीदिति सायङ्काले ज्ञानम् । प्रातःकालविशिष्टस्य मैत्रस्य सायङ्काले दर्शनयोग्यत्वाभावात्, सति च स्मरणयोग्यत्वे स्मरणाभाव एव तदा प्रातःकालविशिष्टमैत्राभावस्य बोधक इत्यङ्गीक्रियत इति [मा.मे.१३४] ।
६-२ अनुपलब्धेः प्रमाणान्तरत्वविचारः -
भाट्टमतानुरोधमनुपलब्धिः पृथक् प्रमाणं भवितुमर्हति । उक्तपूर्वप्रमाणेष्वनन्तर्भावात् । तथा हि - न सा प्रत्यक्षेऽन्तर्भवति । इन्द्रियसन्निकर्षाद्यभावेऽपि तदुत्पत्तेः । यश्च प्रातः गृहेऽवस्थितः मध्याह्ने स एवं पृछ्यते । किं प्रातरस्मिन् गृहे कश्चित् श्यामः लोहिताक्षः दृष्टो भवतेति । स च सद्य एव योग्यस्मरणानुदयात् प्रातःकालिकेन्द्रियव्यापारमन्तरैव तस्याभावमवधारयति । अत एवं ज्ञातुं शक्यते यत् - तदिदं ज्ञानं नेन्द्रियकरणकम् [शा.दी.८६-८७] । नच वाच्यम् अस्तु विशेषणत्वादिः सन्निकर्ष इति । प्रत्येकवृत्तेः तस्योभयनिष्ठत्वाभावेन सन्निकर्षत्वस्यैवानङ्गीकारात् [भा.चि.४६] ।
अथ कैश्चिदुच्यते प्रत्यक्षत्वमभावस्य । तथा चायं प्रयोगः । अभावः प्रत्यक्षः, अपरोक्षप्रतीतित्वात् । घटवत् इति चेत् - न । अभावस्यापरोक्षाप्रतीतित्वाभावात्, हेतोः स्वरूपासिद्धत्वात्
307.
[मा.मे.१३७] । अपरोक्षतया भूतलादेः, तथैव अभावोऽपीति भ्रमत्वात् । एवमेव मानमेयोदये उदयनेनोक्ताः चत्वारोऽपि हेतवः [१] अभावप्रत्यक्षगमकाः हेत्वाभासा इति निरस्ताः [२] ।
न चाप्यभावो अनुमेयः । हेतुहेतुमतोः सम्बन्धग्रहाभावात् । नापि अनुपलब्धेः उपमानादिष्वन्तर्भावः । उपमानादिहेतोः सादृश्यज्ञानादेः तत्राभावात् । अतः पृथक् प्रमाणभूतया अनुपलब्ध्यैव अभावः ग्राह्य इति सिद्धं पृथक् प्रमाणत्वमनुपलब्धेः (शा.दी.८७) ।
भाट्टचिन्तामणिकारस्तु एवं प्रतिपादयति । यदि अधिकरणात्मकत्वमभावस्य अङ्गीक्रियते तर्हि भूतले घटाभाव इत्याधाराधेयभावस्यानुपपत्तिः स्यात् । अतः अभावस्य पृथक् प्रमाणत्वं अङ्गीकार्यमेवेति । प्रतियोगिप्रत्यक्षाभावः करणम् । अनुमितिः अवान्तरव्यापारः । अभावज्ञानं फलम् । अर्थापत्तौ च
-----------------------------------
१.प्रतिपत्तेरपारोक्ष्यात् इन्द्रियस्यानुपक्षयात् ।
अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः ॥ [न्या.कु.३-२०]
२.अस्ति चेदुपलभ्येतेत्यस्य कोऽर्थो विचार्यताम् ।
घटादन्योत्र सर्वोऽपि ज्ञानहेतुरभूदिति ॥
संस्कारो हि स्मृतौ हेतुः स चाज्ञातोऽवबोधकः ।
अज्ञातकरणाप्येवं स्मृतिर्नाध्यक्षतां गता ॥
न खल्विन्द्रियदोषः स्यात् अभावभ्रमकारणम् ।
योग्यता भ्रम एवात्र तत्कारणमितीरितम् ॥
अपि चेन्द्रियसम्बन्धयोग्यतैव हि वस्तुनः ।
प्रत्यक्षत्वं उपाधिः स्यात् व्याप्त्यसिद्धास्ततोऽखिलाः ॥ [मा.मे.१३८-४१]
308.
उपपाद्यज्ञानं करणम् । अनुपपत्तिज्ञानं अवान्तरव्यापारः । उपपादकज्ञाने फलमिति अर्थापत्त्यनुपलब्ध्योरस्ति सुमहान् भेद इति भाट्टमते षट् प्रमाणानीति (भा.चि.४६-४७) । एवमुक्त्वा पुनः यथार्थतः अर्थापत्त्यनुपलब्ध्योः परस्परभेदं अनुमानप्रमाणात् तयोः भेदं च नावगच्छाम इति सहृदयनिहितं तात्पर्यमन्ते चाविष्करोति गागाभट्टः [१] ।
इदमत्र साधकानुमानं - अभावः स्वानुरूपेण प्रमाणेन गृह्यते । प्रमेयत्वात् भाववत् इति । उक्तं चैवमेव वार्तिककारेण कुमारिलभट्टेन [२] । अतः अस्ति षष्ठं प्रमाणं अनुपलब्धिरिति । अधिकारेऽस्मिन् अभावपदं प्रमाणपरतया अनुपलब्ध्या सह प्रायोजि । प्रमेयपरतया च प्रयुक्तमिति वेदितव्यम् ॥
६-३ प्राभाकरमतेन अभावविमर्शः
प्राभाकरमते पदार्थेषु नाभावः परिगणितः । अभावप्रामाण्यं ते नाभ्युपगच्छन्ति । अभावस्य अधिकरणात्मकत्वं तैरंग्यकारि । अतः भावातिरिक्तस्य अभावरूपस्य प्रमेयस्यैवाभावात् तन्निरूपणार्थं अनुपलब्धेः प्रमाणान्तरत्वमपि नाङ्गीकरणीयमिति तेषामाशयः [प्र.प.२८२] ।
-------------------------------
१.वस्तुतस्तु अर्थापत्त्यनुपलब्ध्योः अन्योन्यभेदं अनुमानाच्च भेदं नाकलयामः [भा.चि.४७]
२.भावात्मके यथा मेये नाभावस्य प्रमाणता ।
तथाभावप्रमेयेऽपि न भावस्य प्रमाणता ॥ [श्लो.वा.४७४]
309.
ननु सर्वजनीनोऽयमनुभवः यत् - लोके सर्वं प्रमाण किमपि प्रमेयं विना न भवतीति । तर्हि अभावाख्यस्य प्रमाणस्य किं वा प्रमेयमस्तीति? उच्यते । अस्ति प्रमेयमभावस्यापि । तत्पुनः न प्रमाणान्तरेण बोध्यते । प्रमाणस्य हि एष स्वभावः यत् स्वमहिम्नैव स्वप्रमेयस्योपस्थापनं नाम । अपि नाम प्रत्यक्षस्य प्रमेयं प्रमाणान्तरव्यवस्थाप्यम्? स्वप्रतीतिबलसिद्धमेव । अतः अभावरूपं प्रमाणमपि स्वमहिम्नैव प्रमेयमुपस्थापयितुं क्षमम् । तथा हि अस्ति काचन प्रतीतिः इह भूतले घटो नास्तीति । सा च न भूतलमात्रविषया । घटे सत्यपि तथा आपत्तिप्रसङ्गात् । यदि केवलभूतलविषयेत्युच्यते चेत् - किमत्र कैवल्यम्? यदि भूतलस्वरूपमुच्यते - सत्यपि घटे तस्यानपायात् नास्ति घट इति बुध्युत्पादः । इन्द्रियव्यापारं विना प्रतीयमानत्वात् नेदं प्रत्यक्षप्रमेयमिति वक्तुं शक्यते । अतः इह भूतले घटो नास्तीति प्रतीतिबलात् विलक्षणप्रमेयस्य अङ्गीकार्यतया प्रमाणमपि अभावाख्यं विलक्षणमङ्गीकार्यमिति चेत् -
उच्यते [प्र.प.२८६-२९२] । अधिकरणस्वरूपातिरिक्तः अभावः अस्मन्मते नाभ्युपगम्यते । द्विधा हि भावानां अवगतिः सम्पद्यते । एका भावान्तरसंसृष्टविषया । तदेकविषया द द्वितीया । या च तदेकविषया बुद्धिः साऽपि पुनर्द्विविधा । प्रतियोगिनि दृश्ये अदृश्ये च । एवञ्च दृश्ये प्रतियोगिनि या तदेकविषया बुद्धिः सा तस्य प्रतियोगिनः अभाव इत्युच्यते । यथा - 'भूतले घटाभाव' इति ।
310.
एवञ्च भूतले घटो नास्तीत्युक्ते घटे दृश्ये भूतलमात्रस्यैव बोध इति फलति । प्रतियोगिनि दृश्यत्वं नाम अन्यत्र प्रमितस्य अन्यत्र प्रसक्तिः । सैव दृश्यता प्राभकरैः ज्ञानविशेषतया अङ्गीकृतेति धर्मिकल्पनापेक्षया धर्मकल्पना लाघवमेव । अतः अधिकरणस्वरूप एवाभावः अङ्गीक्रियते गुरुमतानुयायिभिः न तद्विलक्षण इति [१] ।
६-४ अनुपलब्धेः प्रत्यक्षादिगतार्थत्वम्
भाट्टैस्तावत् अनुपलब्धेः पृथक् प्रमाणत्वं महता आग्रहेण अभ्युपगम्यते । ते च कथयन्ति अभावाख्यः कश्चन पदार्थः अस्तीति अवश्यमभ्युपगन्तव्यः । स च न पूर्वोक्तप्रमाणगम्यः, केवलमनुपलब्धिगम्य एवेति । प्राभाकरास्तु अभावस्य पदार्थत्वमेव नाङ्गीकुर्वन्ति । नैयायिकाः पुनः अभावः पदार्थ एव, सत्यम् । किन्तु तद्ग्रहणार्थ प्रमाणान्तरमनुपलब्धिरूपमनावश्यकमिति मन्यन्ते ।
तथाहि - प्रत्यक्षदिभिः गृह्यमाणतया अभावाख्यं प्रमेयं आत्मपरिच्छित्तये न प्रमाणान्तरमपेक्षत इति तेषामभिसन्धिः । तथा हि - इह घटो नास्तीति एकमेव ज्ञानम् । “इह कुण्डे दधीति" ज्ञानवत् । नच तत्र भूप्रदेशमात्र एव नायनं ज्ञानम्, इतरत्र तु प्रमाणान्तरजन्यमिति वाच्यम् । अव्यवधानेनैव भूप्रदेशवत् घटनास्तिताया अपि विना विच्छेदं अनुभूयमानत्वात् ।
-------------------------------------
१.अभावाख्यप्रमाणं ये षष्ठमाहुर्मनीषिणः ।
तेषां प्राभाकरैरेवं प्रत्यादेशोऽयमुच्यते ॥ [प्र.प.१०६-१११]
311.
अत्र अपरिम्लाननयनव्यापार एव पुरुषः घटाभावं पश्यतीति अभावज्ञानं चाक्षुषमेव, तद्भावभावित्वविधानात् ।
नच तर्हि सम्बद्धस्यैव हि चक्षुषा ग्रहणमिति, असम्बद्धस्यापि चाक्षुषत्वे भवतु नाम विभीषणादेरपि चाक्षुषत्वप्रसङ्ग इति वाच्यम् । भावपदार्थेषु खल्वयं नियमः यत् - सम्बद्धस्यैव चक्षुषा ग्रहणम्, न त्वसम्बद्धस्येति । अभावस्तु असम्बद्धोऽपि चक्षुषा ग्राह्य एव । सन्निकर्षेषु षट्प्रकाराभिवर्णनमपि भावपदार्थाभिप्रायेणैव । सम्बद्धं यद्यद् वस्तु गृह्यते तदवश्यं पूर्वोक्तसन्निकर्षान्यतमेनैव ग्राह्यमिति । एवमेवेन्द्रियाणां प्राप्यकारित्वमपि वस्त्वभिप्रायकतयैवोक्तम् । अभावस्तु न वस्तु ।
अतः तेन सन्निकर्षमन्तरापि चक्षुस्तदवगमयति । नच तर्हि विना सम्बन्धमेवाभावः गृह्यते चेत् देशान्तरस्थितसर्वाभावग्रहणमपि प्रसज्येतेति वाच्यम् । आश्रयग्रहणसापेक्षा हि नाम अभावप्रतीतिः । स चाश्रयः सन्निहित एव प्रत्यक्षयोग्यः भवति । अथवा संयुक्तविशेषणभावाभिधसन्निकर्षद्वारा चक्षुरेव अभावं गृह्णातीत्यपि वक्तुं शक्यते । अयमेव विशेषणविशेष्यभावाख्यः सन्निकर्षः कथ्यते । एवञ्च प्रत्यक्षगम्य एवाभावः नानुपलब्धिगम्य इति नैयायिकानां पन्थाः (न्या.म.५१-५३) ।
वैशेषिकास्तु नैयायिकेभ्यः अत्र भिद्यन्ते । अभावस्यानुमान एवान्तर्भाव इति तेषामाशयः । प्रशस्तपादः स्वपदार्थधर्मसंग्रहे अभावस्य अनुमान एवान्तर्भाव इति सुष्टु प्रत्यपीपदत् [१] ।
---------------------------------
१.अभावोऽप्यनुमानमेव । यथोत्पन्नकार्य कारणसद्भावे लिङ्गं, एवमनुत्पन्नं कार्य कारणासद्भावे लिङ्गम् [प्र.भा.१११]
312.
उपस्कारकारः शङ्करमिश्रस्तु अभावस्य क्वचित् प्रत्यक्षे क्वचिच्चानुमाने अन्तर्भावमभिदधे [१] । न चेन्द्रियमधिकरणग्रहण एवोपक्षीणमिति वाच्यम् । अभाव – ग्रहणावधि तद्व्यापारस्य वर्तमानत्वात् अभावस्यानुमानेऽन्तर्भावता नैयायिकानामपि न विरुद्धा । असन्निहितदेशवर्तिनः अभावस्य अनुमेयत्वात् । यथा - सन्तमसे बहुलमभिवर्षति देवे मेघवायुसंयोगाभावः अनुमीयते । तथैवार्थापत्तौ गृहभावेन चैत्रस्य बहिरभावकल्पनं इत्युदाहृतम् [२] ।
ननु अनुरूपेण प्रमाणेन प्रमेयं प्रतीयत इति लोकानुभवः । अतः अभावरूपप्रमेयस्य तदनुरूपेण प्रमाणेन ग्रहणमेव वक्तव्यमिति चेत् - न । अप्रयोजकत्वात् [३] । इदमत्र तत्वं यत् - भाट्टैः अभावः पदार्थः सः अनुपलब्धिप्रमाणगम्यः इत्यभ्युपगतम् । प्राभाकरैस्तावत् अभावस्य पदार्थत्वमेव नाङ्गीकृतम् । अतः अनुपलब्धिगम्यत्वमपि तस्य मृग्यमेव तेषां मते । नैयायिकास्तावत् अभावस्य पदार्थतामभ्युपगम्य तस्य प्रत्यक्षादिगम्यत्व-
-------------------------------------------
१.तत् क्वचित्प्रत्यक्षे क्वचिच्चानुमनेऽन्तर्भूतं, चक्षुरादिनैवाभावग्रहात् [वै.उप.२२८]
२.आगमादप्यभावस्य क्वचिद् भवति निश्चयः ।
चौरादिनास्तिता ज्ञानमध्वगानामिवाप्ततः ॥ [न्या.म.६४]
३.अभावः पटलादीनां प्रत्यक्षं प्रतिपाद्यते ।
विपक्षे वृत्यभावश्च लिङ्गस्य सहकारिताम् ॥
पुरुषोक्तिषु दोषाणामभावश्चोपयुज्यते ।
सामायन्तर्गतात् तस्मादभावादपि भावधीः ॥
अभावश्च क्वचिल्लिङ्ग मिष्यते भावसंविदः ।
वृष्ट्यभावोऽपि वाय्वभ्रसंयोगस्यानुमापकः ॥
तस्माद्युक्तमभावस्य नाभावेनैव वेदनम् ।
न नाम यादृशो यक्षः बलिरप्यस्य तादृशः ॥ [तत्रैव ५४]
313.
मुपगच्छन्ति । अत एव ते अनुपलब्धेः प्रमाणत्वं न प्रतिपादयन्ति । इयमेवानुपलब्धिः अनुपलम्भः इत्यपि व्यह्रियते दार्शनिकैः ।
भाट्टैः अभावस्य प्रत्येकपदार्थताभ्युपगमे नैयायिकमतमेव अनुसृतम् । किन्तु न्यायविरुद्धतया अनुपलब्धिं अभावग्राहिणीं ते अङ्गीकुर्वन्ति । प्राभाकरास्तु अभावमेव नाङ्गीकुर्वन्ति इति नैयायिकानां तेषां चात्र भूयान् भेदः [१] । अयं चाभावः गौतम – वात्स्यायन – उद्योतकरादिभिः सम्यक् निरूपितः । जयन्तभट्टेन सुस्पष्टं प्रत्यपादि तत्स्वरूपम् । अत्रैवं विचारे क्रियमाणे अस्त्यभावः, किन्तु स क्वचित् प्रत्यक्षगम्यः, क्वचिदनुमानग्राह्य इति निरूपयतां नैयायिकानां पक्ष एव साधुरिति सुव्यक्तम् ।
६-५ सम्भवादिप्रमाणान्तरविचारः
अथ न केवलं प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि, अर्थापत्त्यनुपलब्धिसंभवैतिह्यचेष्टालोकप्रसिद्धिप्रतिभाह्रस्वदीर्घादीनां प्रमाणानां सत्वात् [२] । तथा हि - अर्थापत्त्यनुपलब्धी पुनः पञ्चमषष्ठाध्याययोः उपन्यस्ते । शिष्टानि प्रमाणान्यधिकृत्यात्र किञ्चित् प्रस्तूयते ।
पौराणिकैस्तावत् सम्भवाख्यप्रमाणं उक्तपूर्वविलक्षणमङ्गीक्रियते । तेषां मतमिदम् - शतं सहस्रे संभवतीति संभवाख्य-
---------------------------------------
१.See JHA, Krishnamadhava, “Abhavavicarah” PAIOC 14.4, 1948,4-6.
२.न चतुष्ट्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् [न्या.द.२-२-१]
314.
प्रमाणात् सहस्रेण शतज्ञानमिति [१] । नैतदुपपद्यते । अस्यानुमान एवान्तर्भावात् । तथा चायं प्रयोगः - इदं शतसंख्यावत्, सहस्रसंख्यावत्वात्, शतसंख्याव्याप्यपञ्चाशत्संख्यायुक्तफलसमूहवत् इति । अतः नेदमनुमानाद्भिद्यते । तत्रैवान्तर्भवति [२] ।
केचिदैतिह्यं प्रमाणान्तरमित्यभिप्रयन्ति । 'इति ह' इति निपातसमूहः उपदेशपरम्परायां प्रयुज्यते । अत्र स्वार्थे यप्रत्यये [३] ऐतिह्यमिति रूपं सिध्यति । ऐतिह्यं नाम अविदितकर्तृकं वाक्यमित्यर्थः । अत एवोच्यते 'इति होचुर्वृद्धाः' इत्यैतिह्यम् । यथा 'इह वटे यक्षः तिष्ठति' इति । अस्य च शब्देऽन्तर्भावः [४] ।
केचित् कराकुञ्जनादिरूपस्याभिनयस्य आह्वानादिप्रतीतिजनकतया चेष्टां प्रमाणान्तरत्वेन परिगणयन्ति । व्याप्त्या परिगृहीतः अभिनयः येन स प्रसिद्धाभिनयः गृहीतसङ्केत विशेषः । तस्य चेष्टया शारीरकव्यापारेण प्रतीतेरनुभूयमानतया
----------------------------------------
१.सम्भवोऽप्यविनाभावित्वात् अनुमानमेव [प्र.भा.१११]
सम्भवो नाम अविनाभाविनोऽर्थस्य सत्ताग्रहणात् अन्यस्य सत्ताग्रहणम्
यथा - द्रोणस्य सत्ताग्रहणात् आढकस्य सत्ताग्रहणम् । आढकस्य
ग्रहणात् प्रस्थस्येति [न्या.भा.१६९]
२.शब्द ऐतिह्यानर्थान्तरभावात् अनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर-
भावाच्चाप्रतिषेधः [न्या.द.२-२-२]
इह भवति शतादौ सम्भवाद्यासहस्रात्
मतिरवियुतभावात् साऽनुमानादभिन्ना । [श्लो.वा.४९२]
३.अनन्तावसधेतिहभेषजात् यः
४.तथैवेतिह्यमप्यवितथमाप्तोपदेश एवेति [प्र.भा.११२]
जगति न बहु तथ्यं नित्यमैतिह्यमर्थ
भवति तु यदि सत्यं नागमात् भिद्यते तत् । [श्लो.वा.४२]
315.
सा च अनुमानेऽन्तर्भवति । अन्ये चास्याः प्रामाण्यमेव नाभ्युपगच्छन्ति [१] । विश्वनाथस्तु चेष्टायाः शब्देऽप्यन्तर्भावमिच्छति । सङ्केतग्राहकशब्दस्मारकतया लिप्यादिसमानयोगक्षेमत्वात् [२] ।
एवं लोकप्रसिद्धमित्युच्यमानं लोकप्रसिद्धिरिति पृथक् प्रमाणमिति केचिदभिप्रयन्ति । किन्तु प्रत्यक्षादिष्वेव साऽप्यन्तर्भवतीति न तस्याः पृथक् प्रमाणत्वं वक्तुं शक्यम् [३] । अस्याः पुनः लोक इत्यपि व्यवहारः ।
केचित्तु प्रातिभं ज्ञानमपि प्रमाणमिति वदन्ति । स च विद्यातपस्समाधिजः प्रकृष्टधर्मः । कणादेन आर्ष ज्ञानं न पृथक् लक्षितम् । किन्तु योगिप्रत्यक्ष एवान्तर्भावितम् । तच्च प्रातिभं ज्ञानमार्षमित्युच्यते । तच्च धर्मादिवत् अतीतादिविषयेषु प्रमाणमिति । यथा - “श्वस्ते भ्राता आगमिष्यति" “सोमयाजी पुत्रोऽस्य भविष्यति" इत्यादि । एवमेव लौकिकवाक्यान्यपि यथा कन्यका ब्रवीति - श्वो मे भ्राता आगमिष्यतीति (वै.उ.२२९) । नेदं प्रमाणमेव भवितुमर्हति । अर्थनिश्चयसामर्थ्याभावात् । इदं हि ज्ञानं न लिङ्गजन्यम् । किन्तु लिङ्गाभासजन्यम् । अतः नेदं प्रमाणम् भवितुमर्हतीति [४] ।
-----------------------------------------
१.प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात् तदप्यनुमानमेव । [प्र.भ.१०९]
२.चेष्टापि न प्रमाणान्तरम्, तस्याः सङ्केतग्राहकशब्दस्मारकत्वेन लिप्यादिसमशीलत्वात् शब्द एवान्तर्भावात् । [मुक्ता.८६]
३.लोकोऽपि प्रत्यक्षादिप्रमाणव्यतिरिक्तः कश्चिन्नोपलक्ष्यते । [प्र.प.२९३]
लोकप्रसिद्धिः प्रत्यक्षान्तर्गतैव । [भा.चि.४७]
४.प्रतिभाऽपि नार्थनिश्चयसमर्थेति, न प्रमाणतां, प्रतिपत्तुमर्हतीति । [प्र.प.२९३]
316.
अथ केचित् ह्रस्वदीर्घयोरपि प्रमाणान्तरत्वमभिमन्यन्ते । तथा हि दीर्घदर्शनात् इन्द्रियपथाधिवर्तिनि हृस्वज्ञानं, नेदं उक्तपूर्वप्रमाणेष्वन्तर्भवतीति पृथगिदं प्रमाणं वक्तव्यमिति ।
एतच्च नोपपद्यते । परिमाणविशेषरूपत्वात् दीर्घत्वह्रस्वत्वादीनाम् । परिमाणं च प्रत्यक्षद्रव्यवर्तीति प्रत्यक्षमेव भवितुमर्हति । अतः नेदं पृथक् प्रमाणपदवीमारोढुमर्हति । एवं बहुभिः प्रमाणाभासाः, अथवा पूर्वोक्तप्रमाणान्तर्भावार्हाणि प्रमाणानि च बहुधा प्रतिपादितानि । न तेषां तत्वमङ्गीकर्तुं शक्य इति चत्वार्येव प्रमाणानि इति नैयायिकानां पञ्च प्राभाकराणां षट् भाट्टानां इति संक्षेपः ।
सिद्धान्तभेदप्रदर्शिनी - अनुपलब्ध्यधिकारे
न्यायसिद्धान्ते
भाट्टसिद्धान्ते
प्राभाकरसिद्धान्ते
१.अभावस्तु पदार्थ इत्यङ्गीक्रियते, न तस्य प्रमाणत्वम्
२.अनुपलब्धिः प्रत्यक्षादिगम्या
अभावस्य पदार्थत्वं प्रमाणत्वं च
अनुपलब्धिः स्वतन्त्रं प्रमाणम्
अभाव एव नास्ति
नास्त्येव
317.
उपसंहारः
अथेदानीं षडध्यायात्मके विस्तरोपोद्घातविभासुरेऽस्मिन् शोधप्रबन्धे समुपस्थापितेषु विभिन्नदार्शनिकपक्ष – प्रतिपक्षरूपेषु विषयेषु निर्गलिता इमे सिद्धान्तः यथाक्रममत्र प्रतिपाद्यन्ते -
१. ज्ञानस्वरूपनिरूपण – विभागादिविषये भाट्ट – प्राभाकरमतापेक्षया युक्तिसहः नैयायिकानां पन्थाः । स्मृतेर्विद्यापरपर्याये यथार्थज्ञाने अन्तर्भावः वैशेषिकोक्तोऽपि नोपादेयः ।
२. ज्ञानविभागावसरे भाट्टैः सर्वाशेन, प्राभाकरैरेकदेशेन च नैयायिकानां मार्ग एवानुसृतः । प्रभाकराणां आख्यातिवादः लोकानुभवादिविरुद्धतया न परिग्राह्यः । मीमांसकापेक्षया अन्यूनानतिरिक्तं निर्दुष्टं प्रमालक्षणं नैयायिकैरभ्यधायि ।
३. अन्यथाख्यातिवादः भाट्टाभ्युपगत एव नैयायिकानामाप्यभिमतः । तत्रापि दोष एव कारणम् नेन्द्रियसंयोगः इति प्रतिपादयतां भाट्टानां, तदभ्युपगच्छतां नव्यनैयायिकानां च सरणिरेव मनोरमा ।
४. प्रमाकरणं प्रमाणम् इति प्रमाणलक्षणं नैयायिकोक्तं अन्वकारि मीमांसकैः । प्रमास्वरूपविषये तु परस्परं भेदः । अयथार्थानुभवस्य अनपलपनीयतया, अज्ञातपदघटितप्रमालक्षणस्य भाट्टोक्तस्य निरस्ततया नैयायिकोक्तं प्रमालक्षणं सर्वानवद्यमित्युपादेयम् ।
318.
५. प्रत्यक्षशब्दश्च चाक्षुषज्ञानवाची चेत् अव्ययीभावसमासेन इतरेन्द्रियजन्यज्ञानवाची चेत् तत्पुरुषसमासेन चावसेयः । नैयायिकोक्तं प्रत्यक्षलक्षणं भाट्टैस्सर्वथा अनुस्रियते । प्राभाकरोक्तं तु नन्दीश्वरपरिष्कृतं उपादेयमेव । मणिकारोक्तं लक्षणमपि उदयनाचार्योपज्ञमिति शोधप्रबन्धेऽस्मिन् न्यरूपि ।
६. प्रत्यक्षविभागे नैयायिकमतमेव मीमांसकैरन्वसारि । प्रत्यक्षसूत्र एव विभागस्समसूचीति वाचस्पतिमिश्रपक्षः तावत् युक्तिसहः । प्राभाकरोपज्ञं त्रिपुटीप्रत्यक्षं अनुभवविरोधीति नोपादेयम् ।
७. इन्द्रियविभागावसरे नैयायिकमार्ग एव मीमांसकैरनुसृतः । नैयायिकप्राभाकरविरुद्धतया भाट्टाभ्युपगतं श्रोत्रस्य दिगात्मकत्वं न युक्तिसहम् । श्रोत्रमाकाशात्मकमिति सिद्धम् ।
८. नीतितत्वाविर्भाव – मानमेयोदयावन्तरा न कुत्रापि मनसः वैभवं मीमांसकग्रन्थेषु प्रतिपादितम् । नैयायिकैः प्राभाकरैः पूर्वोक्तग्रन्थावपहाय अन्यैः भाट्टैश्च तस्य अविभुत्वं अथवा अणुत्वमेव प्रत्यपादि । तदेव युक्तिसहम् । अत्रापि नैयायिकमार्ग एव मीमांसकैरङ्गीकृतः ।
९. प्रत्यक्षोत्पत्तिप्रकाराभिवर्णने भाट्टमतं, तदनुकुर्वतां नव्यनैयायिकानां च मतमेव समीचीनम् ।
१०. नैयायिकोक्तः लौकिकालौकिकसन्निकर्षविभागः युक्तिसह इति उपादेयः । अन्योक्तस्तु अपरिपूर्ण इति अनु-
319.
पादेयः भाट्टैः समवायानभ्युपगमात् तत्स्थाने तादात्म्यपदप्रयोगः क्रियते ।
११. अनुमाननिरूपणे भाट्टेभ्यः प्राभाकरेभ्यश्च नैयायिकानां सरणिः विशदा वरीवर्ति । अनुमितिकरणं कीदृशमित्यत्र मीमांसकैः स्पष्टतया न किमप्यभाणि ।
१२. अनुमानस्य स्वार्थ – परार्थविभागः प्रशस्तपादोपज्ञः । नव्यैः भाट्टैः, नव्यैः प्राभाकरैश्च स एव मार्गः समादृतः ।
१३. व्याप्तिरिति पदं न्यायवार्तिककारोपज्ञम् । तेनेदं कथाप्रसङ्गेषु कदाचित् बौद्धेभ्यः परिगृहीतं स्याद्वेति विचारणीयम् । भूयोदर्शनगम्या नैयायिकैः सुपरिष्कृतेयं व्याप्तिः नन्दीश्वरमन्तरा अन्येषां मीमांसकानामिष्टेव । प्राभाकरैः तस्या विशेषसम्बन्धत्वं अभ्युपगतम् ।
१४. भाट्टोपन्यस्तं तर्काङ्गपञ्चकं, तर्कस्य सर्वप्रमाणानुग्राहकत्वं च नैयायिकैः स्वीकृतम् । प्राभाकरमते साक्षात् तर्कस्य अप्रतिपादनेऽपि शङ्कानिर्वतकतया तेषां तर्कः इष्ट एव ।
१५. यद्यपि प्राभाकरैः पक्षतायाः कुत्राप्यनुमानाङ्गत्वं नाभ्युपगामि । तथापि पक्षताश्रयत्वस्यैव पक्षलक्षणत्वे या काचित् पक्षता अनुमानाङ्गतया तैरवश्यमभ्युपगन्तव्या ।
१६. परामर्श इति पारिभाषिकपदमिदं ऐदम्प्राथम्येन उपायोजि वार्तिककारेण भारद्वाजोद्योतकरेण । क्वचिदेव
320.
मीमांसकाः परामर्शस्य अनुमितिकारणतामभ्युपगच्छन्ति । अत्र नैयायिकमतमेव युक्तिसहम् ।
१७. लिङ्गविभागस्य व्याप्तिनिबन्धनतया त्रिविधं लिङ्गमङ्गीकार्यमेवेति नैयायिकमतमुचिततरम् ।
१८. हेत्वाभासविभागे च नैयायिकानां पन्था एवोचितः । प्राभाकरैः हेत्वाभासस्थाने हेतुदूषणं, क्वचित् हेतुरिति च व्यवह्रियते । अपि च तैः बाधोऽङ्गीकृतः । नैयायिकसिद्धान्तानुरोधं पञ्चधा हेत्वाभासविभाग एव साधीयान् ।
१९. मीमांसकोक्तं अप्रसिद्धेन प्रसिद्धस्य साधर्म्यरूपं उपमानं नोपादेयम् । न्यायपन्था एवात्र समीचीनः ।
२०. सति बाहिरसाम्ये सादृश्यमिति व्यवहारः । सत्यसति वा बाहिरसाम्ये आन्तरसाम्ये विद्यमाने साधर्म्यपदप्रयोगः । अत्रोभयं तत्र सामान्यमिति व्यवहारः । भाट्ट – नैयायिकभिन्नतया सादृश्यस्यातिरिक्तपदार्थत्वं यत् प्राभाकरैरभ्युपगतं तदेवोचितमिति प्रतिभाति ।
२१. शास्त्ररूपस्य वैदिकशब्दस्यैव प्रामाण्यमिति वदतां मीमांसकानामपेक्षया, ॠष्यार्यम्लेच्छसमानतया शब्दस्याप्तोपदेशरूपस्य प्रामाण्याभ्युपगन्तृ नैयायिकमतमेव साधीयः । इदं नव्यमीमांसकानामपि अभिमतम् ।
321.
२२. शाब्दकारणान्यतमायाः आसत्त्याः पर्यायतया आसक्तिपदं च भाट्टैः प्रयुज्यते । तत्र सन्निधिपदमेव प्राभाकरैः प्रायोजि । नैयायिकैः भाट्टैश्च तात्पर्यस्यापि शाब्दकारणता अङ्गीकृता । प्राभाकरैर्नोपगता । भाट्टैः नैयायिकमतमेवात्र सर्वथा अनुसृतम् ।
२३. शब्दार्थयोः अभिधानाभिधेयनियमरूपं नैयायिकोक्तं अनित्यं सम्बन्धं सन्त्यज्य, मीमांसकैः प्रत्याय्य – प्रत्यायकभावरूपः अपौरुषेयः सम्बन्धः समकल्पि । नव्यनैयायिकोक्तः इच्छामात्रभूतः सङ्केताख्यः शब्दार्थसम्बन्ध एव उपादेयः । न तु नित्यः प्रत्याय्य – प्रत्यायकभावरूपः मीमांसकोदितः ।
२४. भाट्टमते लक्षितलक्षणा नास्तीति व्यवह्रियते । तथापि तेषां लक्षितलक्षणा इष्टैवेति पार्थसारथिमिश्रवाक्यानुरोधं अवधार्यते । नास्ति गौण्याः वृत्तित्वम् । वेदापौरुषेयत्वप्रतिपादनौपयिकतया मीमांसकाः प्राचीननैयायिकवत् अन्वयानुपपत्तिं लक्षणाबीजमिति वदन्ति । किन्तु नव्यनैयायिकोक्तप्रकारेण तात्पर्यानुपपत्तिरेव लक्षणाबीजमिति निश्चप्रचम् ।
२५. भाट्टोक्तः अभिहितान्वयवादः, प्राभाकरोक्तः अन्वताभिधानवादश्च नैयायिकैः नाङ्गीकृतौ । नैयायिकोक्तः तात्पर्यशक्तिवादः समीचीन इति प्रबन्धेऽस्मिन् उदपादि । अस्य जातिविशिष्टशक्तिवाद इति व्यवहारः । अन्विताभिधानवाद इति नैयायिकमते व्यवहारः न युज्यते ।
322.
२६. भावनामुख्यविशेष्यकबोधः मीमांसकैरभ्युपगतः । प्रथमान्तार्थमुख्यविशेष्यकबोध एव प्राचुर्येण सर्वजनानुभवसाक्षिकः नैयायिकसिद्धान्तः ।
२७. व्याप्तिनिबन्धनत्वं लिङ्गस्योच्यते । अन्वयव्याप्तिनिबन्धनं केवलान्वयिलिङ्गमभ्युपगम्य केवलव्यतिरेकव्याप्तिनिबन्धनस्य केवलव्यतिरेकिलिङ्गस्यानभ्युपगमे, तत्स्थाने अर्थापत्तेरभिषेके च विनिगमकं औचित्यं च न स्तः । अर्थापत्तेः प्रसिद्धानुव्यवसायस्य अभावात् च सा प्रमाणतया समुपादेया । नैयायिकमतमत्र मीमांसकैः परित्यक्तम् ।
२८. अभावः पदार्थ एव । किन्तु न तस्य पृथक् प्रमाणत्वम् । अत्र त्रयाणां सिद्धान्तानां भूयान् भेदः । प्रत्यक्षेणानुमानेन वा अभावस्य गतार्थतेति नैयायिकपक्षः शोधप्रबन्धेऽस्मिन् प्रत्यपादि ।