सामग्री पर जाएँ

प्रामाणविचारः/पृष्ठ-१०१-१५०

विकिस्रोतः तः
101.
च तदङ्गीकारे; यत् प्रमेयं तदभिधेयम् इति व्याप्त्या सर्वस्यापि परिच्छिन्नत्वात् सर्वज्ञत्वापत्तिः । नेयमिष्टा । घटोऽयं परज्ञानविषयो न वा इति संशयस्यानुपपत्तेः (त.सि.र. ३८) । तथा ज्ञानलक्षणाप्रत्यासत्तिरपि नाङ्गीकरणीया । 'सुरभि चन्दनम्' इत्यादौ चन्दनत्वादिना सौरभादेः अनुमातुमपि शक्यत्वात् ।
तार्किकाभ्युपगता योगजधर्मप्रत्यासत्तिः भाट्टैः न तरामभ्युपगम्यते । तद्योगिषु मानाभावात् । इतिहासपुराणादेः प्रमाणत्वम् अन्यतात्पर्यकत्वात् नास्तीति तेषां मनीषा ।
१-७-३ प्राभाकरसिद्धान्तः - प्राभाकरमते संयोग-संयुक्तसमवाय- समवायाख्यसंनिकर्षेः त्रिभिः मेयेषु प्रत्यक्षप्रतीतिः उपजायत इत्यङ्गीक्रियते । 'मेयेन्द्रिययोगोत्था' (प्र.प. १०४) इत्यत्र योगपदेन त्रयः संनिकर्षा इमे सङ्गृहीताः । संयोगाख्यात् संनिकर्षात् रूपवद् महत्ववत् स्पर्शवद् द्रव्यं गृह्यते । तदाश्रयजातिगुणादयः संयुक्तसमवायाख्यात् संनिकर्षाद् गृह्यन्ते । शब्दः समवायाख्येन संनिकर्षेण गृह्यते ।
'सत्सम्प्रयोगे चे'ति (मी.द. १-१-४) प्रत्यक्षसूत्रव्याख्यानावसरे भवनाथमिश्रेण नयविवेके सम्प्रयोग एवमभ्यवर्णिसंयोगः, संयुक्तसमवायः, समवायश्चेति [१] ।
१-७-४ समीक्षणम् - संनिकर्षः-व्यापारः-सम्बन्धः-प्रत्त्यासत्तिः इत्यनर्थान्तरम् । नैयायिकैः मीमांसकैश्च सत्यपि अवा-
---------------------------------
१.सम्प्रयोगश्चात्र त्रिविधः - संयोगः, संयुक्तसमवायः, समवायश्चेति । संयोगाद्धि द्रव्यं स्पर्शमहत्ववत् पार्थिवाप्यतैजसवायवीयात्मकमैन्द्रियकं, संयुक्तसमवायात् जातिगुणौ; समवायाच्छब्दः [न.वि.६८] ।
102.
न्तरविभागभेदे संनिकर्षपदं समानार्थकतयैव स्वग्रन्थेषु प्रयुक्तम् ।
१-७-४-१ लौकिकसंनिकर्षः - स्थूलतया संनिकर्षेषु लौकिकालौकिकभेदः उभयोरपि नैयायिकमीमांसकयोः सम्मतः । लौकिकसंनिकर्षविषये नैयायिकानां, भाट्टानां, प्राभाकराणां च ऐकमत्यं नास्ति । नैयायिकैः लौकिकसंनिकर्षे षोढा विभक्ते, भाट्टैकदेशिना मानमेयोदकारेण नारायणेन द्विधा, गागाभट्टेन त्रिधा, तथैव प्राभाकरमीमांसकेन शालिकनाथेन च त्रिधा स विभक्तः ।
१ नैयायिकाः
२ नारायणः
३ गागाभट्टः
४ शालिकनाथः
१ संयोगः
२ संयुक्तसमवायः
३ संयुक्तसमवेतसमवायः
४ समवायः
५ समवेतसमवायः
६ विशेषणविशेष्यभावः
१ संयोगः
२ संयुक्ततादात्म्यम्
१ संयोगः
२ संयुक्तसमवायः
३ संयुक्तसमवेतसमवायः
१ संयोगः
२ संयुक्तसमवायः
३ समवायः
103.
नैयायिकोक्ताः संयोग-संयुक्तसमवाय-संयुक्तसमवेतसमवायाख्याः त्रयः संनिकर्षाः प्राभाकरैश्च स्वीकृताः । अलौकिकसंनिकर्षौ सामान्यलक्षणा-ज्ञानलक्षणाख्यौ गागाभट्टेन, भाट्टचिन्तामणिकारेण स्वीकृतौ । योगजप्रत्यासत्तिस्तु नैयायिकाभ्युपगता तेन निराकृता । अतः विषयेऽस्मिन् नैयायिकानां मार्ग एव आंशिकतया मीमांसकैः अनुसृत इति वक्तुं शक्यते ।
१-७-४-१-१ संयोगसंयुक्तसमवायौः - तत्र संयोगाख्यः प्रथमस्संनिकर्षः मतत्रयेऽपि समानः । द्वितीयसंनिकर्षः संयुक्तसमवायः नैयायिकैः, भाट्टैकदेशिना गागाभट्टेन, प्राभाकरमीमांसकैश्चाङ्गीकृतः । किन्तु मानमेयोदयकर्त्रा नारायणेन समवायस्थाने तादात्म्यपदं निवेश्य संयुक्ततादात्म्यमिति संनिकर्षः अङ्गीकृतः । द्रव्येण सह जातिगुणकर्मणां तादात्म्याख्यः द्वितीयः संनिकर्ष इति तेषां मतम् ।
नैयायिकैरपि अत्यन्ताभेदरूपं तादात्म्यमङ्गीकृतम् । भाट्टनये तु भेदसहिष्णुः अभेदः तादात्म्यमिति तयोर्द्वयोः भेदः । केनचिदंशेन भेदः, केनचिदंशेनाभेदो हि भेदसहिष्णुरभेदः ।
१-७-४-१-२ संयुक्तसमवेतसमवायः - कैश्चिद् भाट्टमीमांसकैरेव तृतीयः संयुक्ततदात्मतादात्म्याख्यः संनिकर्षः अभ्युपगम्यते । नैयायिकानामेतेषां च संनिकर्षत्रितयेऽस्मिन् पदमात्रभेदः; समवाय इति तादात्म्यमिति च । किन्तु तैः निर्वर्त्यं कार्यं तु समानमेव । एवं भाट्टैः तादात्म्यपदं कुतः प्रयुक्तमित्युक्ते तैः
104.
समवायः नित्यसम्बन्धरूपः नाभ्युपगतः । तस्त्थाने तादात्म्यमिति किञ्चिदङ्गीकृतम् । अतः समवायस्थाने तादात्म्यप्रयोगः [१] । समवाय-समवेतसमवायाख्यौ संनिकर्षौ एभिः नाङ्गीक्रियेते; शब्दस्य द्रव्यत्वात् गुणत्वाभावाच्च । एवं शब्दत्वस्य संयुक्ततादात्म्येनैव निर्वाहात् । एवमेव विशेषणविशेष्यभावाख्यः संनिकर्षोऽपि नाश्रीयते । अभावस्य अनुपलब्धिगम्यत्वेन अप्रत्यक्षत्वात्, समवायस्यानङ्गीकाराच्च । भाट्टमतानुयायिना गागाभट्टेन समवायः पदार्थेषु निवेशितः (भा.चि. १७) । अत एव तेन तादात्म्यस्थाने संयुक्तसमवायः, संयुक्तसमवेतसमवाय इति समवायपदं प्रयुज्यते ।
प्राभाकरैरपि समवायः अभ्युपगम्यते । अत एव तैः संयुक्तसमवायः, समवाय इति संनिकर्षद्वयं नैयायिकैरिव व्युत्पादितम् । जातिगुणकर्मगतानां सत्ता-रूपत्व-कर्मत्वादीनां द्वितीयसंनिकर्षेणैव निर्वाह इति संयुक्तसमवेतसमवायस्यानङ्गीकारः ।
अत्र सूक्ष्मेक्षणिकया परीक्षायां क्रियमाणायाम् इदमवश्यवक्तव्यं भवति यत् - नैयायिकाभ्युपगतषट्संनिकर्षवाद एव श्रेयानिति । तथा हि - भाट्टैः प्राभाकरैश्च गुणगता जातिः नाङ्गीक्रियते । अत एव संयुक्तसमवेतसमवायाख्यं संनिकर्षं ते
--------------------------
१.E.B.P. p.187: “The reason is that Samavaya or inherence as a form of relation subsisting between two naturally inseparable things is rejected by Kumarila, and 'Tadatmya' or identity is accepted in its place”.
105.
नोरीकुर्वन्ति । जातिमनभ्युपगच्छद्भिरपि तैः 'इदं रूपम्, इदं रूपम्' इत्यनुगतायाः प्रतीतेः निर्वाहार्थं सादृश्यं किञ्चित् रूपेषु उपगम्यते । तस्य सादृश्यस्य प्रत्यक्षं तु चक्षुस्संयुक्तघटसमवेतरूपसमवायाख्यसंनिकर्षद्वारैव भवतीति अवश्यमभ्युपगन्तव्यम् । एवं चानुक्तिसिद्धः संयुक्तसमवेतसमवायाख्यः संनिकर्ष इति ।
१-७-४-१-३ समवायः - शब्दसाक्षात्कारे समवायः संनिकर्षः । कर्णशष्कुल्यवच्छिन्नस्याकाशस्य श्रोत्रत्वात्, शब्दस्य तत्र समवायात् । ननु सर्वः शब्दः आकाशे वर्तमानः श्रोत्रेण गृह्येत । अवच्छेद्यस्य आकाशस्यैकत्वात्, सर्वेषां च शब्दानां श्रवणेऽपि समवायात् इति चेत् - न । कर्णसंयोगावच्छिन्नसमवायः शब्दप्रत्यक्षहेतुभूतः संनिकर्ष इत्यङ्गीक्रियते । एवं च कर्णसंयोगावच्छेदेन यः शब्दः आकाशे समुत्पद्यते तस्यैव कर्णसंयोगावच्छिन्नसमवायाख्यः संनिकर्षोऽस्ति, न तदितरावच्छेदेन उत्पद्यमानस्य सर्वस्यापि शब्दस्येति तद्दोषपरिहारः । नच समवायस्यैकत्वेन कर्णसंयोगावच्छिन्नसमवायस्य संनिकर्षस्य सर्वेष्वपि शब्देषु सत्त्वात् तत्प्रत्यक्षापत्तिरिति वाच्यम् । प्रत्यक्षे विषयस्य हेतुत्वात् । कर्णसंयोगावच्छिन्नाकाशे सर्वशब्दरूपविषयेविरहादेव न सर्वेषां शब्दानां प्रत्यक्षत्वम् । यथा हि वायौ खलु रूपसमवायसत्त्वेऽपि रूपाभावात् 'वायू रूपवान्' इति न प्रत्यक्षं भवितुमर्हति, तथा शब्दसमवायसत्त्वेऽपि कर्णसंयोगावच्छिन्नाकाशे शब्दरूपविषयाभावात् न सर्वेषां शब्दानां प्रत्यक्षत्वम् । कदम्बगोलकन्यायेन वीचीतरङ्गन्यायेन वा श्रोत्रदेशमुपगत एव शब्दः एतत्संनिकर्षद्वारा गृह्यते ।
106.
१-७-४-१-४ समवेतसमवायः - संयुक्तसमवायवदत्रापि 'अयं शब्दः, अयं शब्दः' इत्यनुगतप्रतीतिबलात् शब्दगतस्य सादृश्यस्य वा जातेर्वा अवश्यमभ्युपगन्तव्यतया, तत्प्रत्यक्षं च विना संनिकर्षेण न खलु समुत्पत्तुमर्हतीति समवेतसमवायाख्यः संनिकर्षः अङ्गीक्रियते ।
१-७-४-१-५ विशेषणविशेष्यभावः - अयमेव विशेषणताख्यसंनिकर्ष इत्युच्यते । नैयायिकैः संनिकर्षेणानेन अभावप्रत्यक्षमुपजायत इत्युच्यते । प्राभाकराः खलु अभावमेव पृथक् पदार्थतया नाभ्युपयन्ति । तस्य अधिकरणात्मकत्वमिच्छन्ति । अतस्तैरयं संनिकर्षः परित्यक्तः । भाट्टास्तु अभावमभ्युपगच्छन्तः तस्यानुपलब्धिगोचरतां प्रतिपादयन्तीति तैरप्ययं संनिकर्षः नाङ्गीक्रियते । किन्तु अभावपदार्थस्य अवश्यमभ्युपगन्तव्यतया अनुपलब्धेश्च पृथक्प्रमाणत्वस्य निराकरिष्यमाणतया च संनिकर्षोऽयम् अभावग्राहकः अङ्गीकार्य एवेति नैयायिकानामाशयः ।
१-७-४-२ अलौकिकसंनिकर्षः - संनिकर्षः -प्रत्यासत्तिः - इति सत्यामपि समानार्थकतायाम् इदमस्माभिः अत्र विशेषतोऽवगन्तव्य यत् - अलौकिकसंनिकर्षविषये न्याय-भाट्ट-प्राभाकरप्रस्थानेषु प्रत्यासत्तिपदमेव दरीदृश्यत इति । सामान्यलक्षणाप्रत्यासत्तिः, ज्ञानलक्षणाप्रत्यासत्तिः, योगजप्रत्यासत्तिरित्येव व्यवहारः पुनः, सामान्यलक्षणासंनिकर्षः इत्यादि नास्ति । अतः शास्त्रकारैः साभिनिवेशम् अलौकिकसंनिकर्षविषय एव प्रत्यासत्तिपदं प्रयुक्तमिति न परोक्षं विचक्षणानाम् ।
107.
अयं चालौकिकसंनिकर्षः सामान्यलक्षणा-ज्ञानलक्षणा-योगजप्रत्यासत्तिभेदेन त्रिविध इति नव्यनैयायिकाः । गागाभट्टादन्ये भाट्टाः प्राभाकरा वा अलौकिकसंनिकर्ष नाङ्गीकुर्वन्ति । न्यायदर्शनवासनावासितान्तःकरणः गागाभट्टः सामान्यलक्षणा-ज्ञानलक्षणाप्रत्यासत्ती अङ्गीकृत्य योगजप्रत्यासत्तिं निराकरोति ।
एतद्विषये नैयायिकमतमेव साधीय इति प्रतिभाति । यतः सामान्यलक्षणानङ्गीकारे प्रकृतघटे शक्तिग्रहे अप्रत्यक्षेतरघटव्यक्तिषु शक्तिग्रहः दुरुपपादः, सामान्यज्ञानाभावात् । अतः सामान्यलक्षणाप्रत्यासत्तिः अवश्यमभ्युपगन्तव्या । तथैव ज्ञानलक्षणाप्रत्यासत्त्यनङ्गीकारे चन्दनखण्डेन चक्षुरिन्द्रिये संनिकृष्टे सति 'सुरभि चन्दनम्' इति ज्ञानं न जायेत । सौरभे, सौरभत्वे च संनिकर्षाभावात् । तादृशं च ज्ञानं जायत इत्येव लोकानुभवः । अतः तद् ज्ञानमेव तत्र संनिकर्षः वाच्यः । अनुभवानुरोधेनैव तृतीया च योगजप्रत्यासत्तिः नैयायिकैरङ्गीक्रियते, वेदशास्त्रपुराणादिभिः प्रतिपाद्यमानत्वाच्च ।
यत्तु भाट्टैरुक्तं योगजप्रत्यासत्तिनिराकरणावसरे तद्योगिषु मानाभावात् इतिहासपुराणादेः अन्यतात्पर्यकतया अप्रमाणत्वाच्चेति हेतुद्वयं, तद् दुष्टम् । तादृशयोगिषु तत्प्रभावेषु च शब्दस्यैव प्रमाणत्वात् । इतिहासपुराणादेश्च वेदार्थोपबृंहकतया प्रमाणकोटिप्रविष्टत्वात् । अतः अस्ति योगजप्रत्यासत्तिरपीति नैयायिकानां पन्था एव समीचीनः ।
108.
सिद्धान्तभेदप्रदर्शिनी-प्रत्यक्षाधिकारे
न्यायसिद्धान्ते
भाट्टसिद्धान्ते
प्राभाकरसिद्धान्ते
१.ज्ञानाकरणकं ज्ञानं प्रत्यक्षम्
२.श्रोत्रमाकाशात्मकम्
३.मनः अणु
४.वायुरनुमेयः प्राचीनमते,नव्यमते प्रत्यक्षः
५.बाह्यप्रत्यक्षे सर्वत्र महत्त्वोद्भूतरूपवत्वालोकसंयोगानां कारणत्वम्
६.संयोगसंयुक्तसमवायसंयुक्तसमवेतसमवायसमवायसमवेतसमवायविशेषणविशेष्यभावरूपाः षट् लौकिकसंनिकर्षाः
७.सामान्यलक्षणा ज्ञानलक्षणा-योगज- प्रत्यासत्तिभेदेन त्रयः अलौकिकसंनिकर्षाः
इन्द्रियार्थसंनिकर्षजं ज्ञानं प्रत्यक्षम्
श्रोत्रं दिगात्मकम्
मनः प्राचीनमते विभु, नवीनमते अणु
वायुः स्पार्शनप्रत्यक्षविषयः
न सर्वत्र तेषां कारणत्वम्; तत्तदिन्द्रियजन्यप्रत्यक्षे तत्तद्गुणः कारणम्
संयोगः संयुक्ततादात्म्यमिति द्वावेवेति केचित्, संयुक्ततदात्मतादात्म्यमिति तृतीयोऽपीत्यन्ये
सामान्यलक्षणाज्ञानलक्षणाप्रत्यासत्तो द्वे इति गागाभट्टः
साक्षात्प्रतीतिः प्रत्यक्षम्, तच्च मेय-मातृ-मितिविषयं त्रिपुटम् उच्यते
श्रोत्रमाकाशात्मकम्
मनः अणु
वायुः प्रत्यक्षः
नैयायिकवदेव
संयोग-संयुक्तसमवाय- समवायाश्चेति त्रयः
अलौकिकः संनिकर्षः नाङ्गीक्रियते
109.
द्वितीयाध्यायः
२ अनुमानाधिकारः
२-१ अनुमानलक्षणम्
२-१-१ न्यायसिद्धान्तः - प्रन्यक्षनिरूपणानन्तरं तदुपजीवकत्वात् बहुवादिसम्मतत्वाच्च अनुमानं निरूप्यते (त.चि.अ. ४) । तथा च गौतमसूत्रम् - “अथ तत्पूर्वकं त्रिविधमनुमानम् पूर्ववत् शेषवत् सामान्यतो दुष्टं च" (न्या.द. १-१-५) इति । अत्र समानासमानजातीयेभ्यः व्यवच्छेदाय तत्पूर्वकमिति । तानि ते, तत् पूर्वं यस्य तदिदं तत्पूर्वकम् । अर्थात् सर्वप्रमाणपूर्वकत्वमनुमानस्याभिहितं भवति । तच्च परम्परया प्रत्यक्षपूर्वकत्व एव पर्यवस्यतीति तथोक्तम् ।
अथवा ते द्वे प्रत्यक्षे पूर्वे यस्य प्रत्यक्षस्य तदिदं तत्पूर्वकं प्रत्यक्षम् । ते च, लिङ्गलिङ्गिसम्बन्धदर्शनं प्रथमं प्रत्यक्षम्, लिङ्गदर्शनं च द्वितीयं प्रत्यक्षम् । बुभुत्सोः लिङ्गदर्शनरूपद्वितीयप्रत्यक्षानन्तरं संसाराभिव्यक्तिः, ततः स्मृतिः, तदनन्तरम् 'अयं धूम' इति पुनः लिङ्गदर्शनम् । पूर्वाभ्यां प्रत्यक्षाभ्यां स्मृत्या चानुगृह्यमाणम् इदम् अन्तिमं प्रत्यक्षं लिङ्गपरामर्शरूपमनुमानं सम्पद्यते इति वार्तिककारः (न्या.वा. २९२) । अनुमानपदार्थश्च अनुमीयते अनेनेति । तात्पर्यटीकायामपि अयमेव प्रकारः विपुलतया विवृतः (ता.टी. ३०३) ।
तत् पूर्वं कारणं यस्य तत् त्पूर्वकम् इति व्युत्पत्तौ निर्णयोपमानादावतिप्रसङ्ग इति ते द्वे प्रत्यक्षे पूर्वं यस्येति व्युत्पत्ति-
110.
रादृता (न्या.म. १२५) । प्रथमं चाविनाभावग्राहि प्रत्यक्षं, द्वितीयं च लिङ्गदर्शनम्; ते द्वे प्रत्यक्षे अनुमानस्य कारणं भवतः, नोपमानादेः ।
वस्तुतस्तु लिङ्गविषयं ज्ञानं, ज्ञानविषयीकृतं वा लिङ्गं प्रतिबन्धस्मरणसहितमनुमानम् । परोक्षः अर्थः लिङ्ग्यते गम्यतेऽनेनेति लिङ्गम् । लिङ्गमिदं पञ्चलक्षणम् । तानि च लक्षणानि - पक्षधर्मत्वं, सपक्षधर्मत्वं, विपक्षाद् व्यावृत्तिः, अबाधितत्वम्, असत्प्रतिपक्षत्वं चेति जयन्तभट्टः न्यायमञ्जर्याम् [१] । मणिकारस्तु अनुमानस्वरूपमेवं न्यरूपयत् - “तत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः, तत्करणमनुमानम् । तच्च लिङ्गपरामर्शो न तु परामृश्यमानं लिङ्गमिति" (त.चि.अ. २०-२१) इति । व्याप्तिविशिष्टं व्याप्तिप्रकारकं यत्पक्षधर्मताज्ञानं तज्जन्यं ज्ञानमनुमितिः । तादृशप्रमाकरणम् अनुमानम् ।
केशवमिश्रेणापि लिङ्गपरामर्श एव अनुमानमित्यभाषि तर्कभाषायाम् [२] । अनुमितौ व्याप्तिज्ञानस्यैव करणत्वम् । परामर्शः व्यापारः । ज्ञायमानस्य लिङ्गस्य नैव करणत्वम् । अना-
-------------------------
१.पञ्चलक्षणकाल्लिङ्गात् गृहीतान्नियमे स्मृतेः ।
परोक्षे लिङ्गिनि ज्ञानमनुमानं प्रचक्षते ॥ [न्या.म.१०९]
२.येन ह्यनुमीयते तदनुमानम् । लिङ्गपरामर्शेन चानुमीयते । अतः लिङ्गपरामर्शोऽनुमानम् । [त.भा.३६]
111.
गतेन अथवा विनष्टेन लिङ्गेन अनुमित्यनुत्पादात् इति विश्वनाथन्यायपञ्चाननः [१] ।
एवं च अनुमितिजनकव्याप्तिज्ञानस्य करणत्वात् प्रमाकरणस्य प्रमाणत्वात् अनुमितिकरणं व्याप्तिज्ञानमेव अनुमानप्रमाणमिति कश्चित् पक्षः (मुक्ता. ४७१) ।
अन्नंभट्टादयस्तु फलाव्यवहितप्राक्क्षणावच्छिन्नं कारणं करणमिति मतमनुसृत्य लिङ्गपरामर्श एव अनुमानमिति पक्षान्तरमवलम्बन्ते (नि.प्र. २७४) । उक्तपूर्वं पक्षद्वयं न्यायग्रन्थेषु प्रामाणिकेषु समुपलम्यत इति समुपादेयमेव ।
२-१-२ भाट्टसिद्धान्तः - भाट्टमतानुरोधमिदम् अनुमानप्रमाणलक्षणम् । यदाह शबरस्वामी, “अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनात् एकदेशान्तरे असंनिकृष्टेऽर्थे बुद्धिः" (शा.बा. ३६) इति । अयं भावः - अत्र अनुमानशब्द अनुमितिपरः । ज्ञातः हेतुहेतुमतोः व्याप्त्याख्यः सम्बन्धः येन प्रमात्रा जनेन, तस्येति विग्रहः । हेतुहेतुमत्सम्बन्धाख्यव्याप्तिज्ञानवतः प्रमातुरित्यर्थः ।
------------------------------
१.व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत् ।
अनुमायां ज्ञायमानं लिङ्गं तु करणं न हि ॥
अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ।
येन पुरुषेण महानसादौ धूमे वह्निव्याप्तिर्गृहीता पश्चात् स एव पुरुषः क्वचित्पर्वतादौ अनवच्छिन्नमूलां धूमरेखां पश्यति; तदनन्तरं धूमो वह्निव्याप्य इत्येवंरूपं व्याप्तिस्मरणं तस्य भवति; पश्चाच्च वह्निव्याप्यधूमवानयमिति ज्ञानं भवति; स एव परामर्श इत्युच्यते । तदनन्तरं पर्वतो वह्निमानिति अनुमितिर्जायते । [मुक्ता.४७१-४७३]
112.
एकदेशदर्शनात् धूमात्मकलिङ्गदर्शनात्, एकदेशान्तरे वह्न्यात्मकलिङ्गिनि, असंनिकृष्टे इन्द्रियसम्प्रयोगरहिते पदार्थे या बुद्धिः तदनुमानमिति ।
एवमेव शास्त्रदीपिकायां पार्थसारथिमिश्रेणापि अनुमानलक्षणमुपन्यस्तम् [१] । मानमेयोदयकारस्तु अन्यथा अनुमानमलिलक्षत् । यथा -
“व्याप्यदर्शनाद् असंनिकृष्टार्थज्ञानमनुमानम् । यथा पर्वते धूमवत्वदर्शनात् अग्निमत्त्वज्ञानम्" (मा.मे. २५) इति ।
गागाभट्टस्तु पूर्वोक्तानुमानलक्षणमन्यथाभिवर्ण्य [२] अन्यदपि लक्षणमुपस्थापितवान् । यथा "अनुमितित्वजातिमती अनुमितिः । अनिमितित्वजातिस्तु अनुमिनोमीत्यनुभवसिद्धा । तत्करणमनुमानम्, तच्च भूतभाविलिङ्गेन अनुमित्यनुत्पत्त्यापत्तेः ज्ञानमेव, न तु ज्ञायमानो हेतुः" (भा.चि. २४) इति । नीतितत्त्वाविर्भावकारः चिदानन्दपण्डितः अनुमानमेवमलिलक्षत् -
---------------------------
१.यस्य यादृशस्य, येन यादृशेन सह साक्षाद्वा प्रणाड्या वा यादृशः संबन्धः संयोगः, समवायः, एकार्थसमवायः, कार्यकारणत्वम्, अन्यो वा दृष्टान्तधर्मिषु नियतो ज्ञातः, तं तादृशं साध्यधर्मिषु दृष्टवतः तस्मिन् तादृशे तादृशसम्बन्धसम्बन्धिनि प्रबलेन प्रमाणेन ताद्रूप्यतद्विपर्ययाभ्याम् अपरिच्छिन्ना या बुद्धिः सा अनुमानम् । यथा धूमस्य अनुपरतोऽर्थगमनस्य अग्निसाहित्यं महानसादिषु नियतमुपलब्धवतः पर्वते तद्दर्शनादग्निज्ञानम् । [शा.दी.६०-६१]
२.सामान्यरूपेण ज्ञातव्याप्तिकस्य व्यक्तिविशेषदर्शनजन्यं सन्दिग्धसाध्यवदधिकरणकमसंनिकृष्टसाध्यविषयकं निश्चयरूपं ज्ञानमनुमितिरित्यर्थः । [भा.चि. २३]
113.
“व्याप्यदर्शनजन्मासंनिकृष्टार्थविषयं ज्ञानमनुमानम्" इति [१] । व्याप्यदर्शनाद् असंनिकृष्टार्थज्ञानमनुमानम् । यथा - पर्वते धूमवत्वदर्शनाद् अग्निमत्वज्ञानम् इति मानमेयोदये नारायणः (मा.मे. २५) । अत्र असंनिकृष्टपदेन अपरिच्छिन्नता प्रतिपाद्यते [२] । एवं च ज्ञानरूपानुमितिकरणत्वाच्च धूमादेः अनुमानत्वम् ।
माधवसरस्वती तु सर्वदर्शनकोमुद्याम् अनुमानमेवमभाणीत् - “तत्र व्याप्यव्यापकांशरूपमनुमानम् । तत्र व्याप्यांशेन व्यापकांशोऽनुमीयते" (स.कौ. ९७) इति ।
२-१-३ प्राभाकरसिद्धान्तः - शबरस्वाम्युक्तमनुमानलक्षणं परिगृह्य बृहत्यां प्रभाकरगुरुरेवं व्याचख्यौ यथा - “अनुमानमेकदेशदर्शनात् एकदेशान्तरे असंनिकृष्टेऽर्थे बुद्धिः । कस्यैकदेशस्य दर्शनात्? ज्ञातसम्बन्धस्य (बृहती ९१)” इति । प्रकरणपञ्चिकायां शालिकनाथस्तु यस्य सम्बन्धनियमः ज्ञातः तस्यैकदेशस्य दर्शनात् असंनिकृष्टे पदार्थे एकदेशान्तरे यद् ज्ञानं जायते तदेवानुमानमित्येवं वर्णयामास [३] ।
-----------------------------
१.अनुमाऽसंनिकृष्टेऽर्थे व्याप्यदर्शनजा मतिः ।
व्याप्तिस्वभावात्साध्येन नियतस्साधनान्वयः ॥ [नीति.१३७]
२.असंनिकृष्टवाचा च द्वयमत्र जिहासितम् ।
ताद्रूप्येण परिच्छित्तिः तद्विपर्ययतोऽपि वा ॥
पूर्वं सत्त्वेन परिच्छिन्ने ह्यग्न्यादौ पुनरनुमानम् अनुवादः स्यात् । असत्त्वेन परिच्छेदे च बाधितत्वेनाप्रामाण्यमेव इति तदुभयनिवर्तनार्थम् असंनिकृष्टपदमिति । [मा.मे. ४९]
३.ज्ञातसम्बन्धनियमस्यैकदेशस्य दर्शनात् ।
एकदेशान्तरे बुद्धिरनुमानमबाधिते ।
ज्ञातः सम्बन्धनियमो यस्य, तस्यैकदेशस्य दर्शनादेकदेशान्तरे असंनिकृष्टेऽर्थे या बुद्धिः, साऽनुमानमित्यर्थः [प्र.प.१९६]
114.
अत्र एकदेशस्येत्यनेन हेतुः, एकदेशान्तर इत्यनेन साध्यं च अभिधीयते । असंनिकृष्टपदं स्मरणाभिमाननिरसनायेति ॠजुविमलपञ्चिका । अत्र दर्शनशब्देन निश्चय इत्येवार्थलाभः । अत एवार्थापत्तितः अनुमानस्यास्य वैलक्षण्यं प्रतिपादितं भवति । प्रत्यक्षवत् प्रसिद्धतया बहुवादिसम्मतत्वाच्च प्रत्यक्षानन्तरमत्रेदमनुमानं निरूप्यत इति नयविवेके भवनाथः (न.वि. ११५) । शाबरम् अनुमानलक्षणमनेन प्राभाकरसिद्धान्तरीत्या सुबहु विचारितम् । दलसार्थक्यादिकमपि स्वपक्षे सम्यक् प्रादर्शि (न.वि. ११५-११९) ।
एवं च समानाश्रयाश्रितयोः एकदेशिनोः ज्ञातसम्बन्धनियमस्यैकदेशस्य दर्शनात् एकदेशान्तरेऽसंनिकृष्टेऽर्थे बुद्धिः अनुमानमिति फलितम् । इदमेव लक्षणं भङ्ग्यन्तरेणोपापादि तन्त्ररहस्ये [१] । इयान् वशेषः - अत्र शाबरभाष्यवाक्यस्यार्थं ज्ञातसम्बन्धनियमस्य एकदेशस्येति वर्णयामास प्रभाकरः भाट्टैः भिद्यमानः भङ्ग्यन्तरेणेति ।
२-१-४ समीक्षणम् - अनुमानपदं त्रिष्वपि प्रस्थानेषु प्रमितिपरतया प्रमाणपरतया चोपयुक्तम् । नैयायिकैः भाट्टैश्च प्रमितिपरतया प्राभाकरवत् अनुमेति पदमपि तत्र तत्र प्रयुज्यते [२] ।
-------------------------
१.एकाश्रयाश्रितयोः एकदेशयोः ज्ञातसम्बन्धनियमेन एकदेशेन संदिग्धस्य एकदेशान्तरस्य परिज्ञानमनुमानम् । [त.र.१०]
२.व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत् ।
अनुमायां ज्ञायमानं लिङ्गं तु करणं न हि ॥ [कारि.८१]
अनुमाऽसंनिकृष्टेऽर्थे व्याप्यदर्शनजा मतिः । [नीति.१३७]
115.
मीमांसकैः अनुमाननिरूपणावसरे नैयायिकोक्तप्रक्रियैव स्थूलतया स्वीकृता । किन्तु तत्र तत्र केषुचिदंशेषु तेषां सरणिः नैयायिकेभ्यः भिद्यते च । अनुमितिकरणमनुमानमिति नैयायिकोक्तं लक्षणं तेषामपि इष्टमेव । अनुमितिस्वरूपनिरूपणावसरे मीमांसकापेक्षया नैयायिकानां सरणिः विशदा वरीवर्ति ।
यद्यपि अनुमितिः भाट्टप्राभाकरग्रन्थेषु तत्तन्मतानुरोधं सम्यक् व्युत्पादिता । तथापि अनुमितिकरणं किं व्याप्तिज्ञानम् अथवा परामर्शः इत्यत्र तु तेभ्यः ग्रन्थेभ्यः किमपि स्पष्टतया अवगम्यते । प्रमाणसामान्यलक्षणविषये मानमेयोदयकारेण नारायणेन तर्कपक्ष एवास्माकमभिमत [१] इत्युक्ततया इदमुन्नीयते यत्-स्थूलतया मीमांसकानां प्रमाणादिविषये सुपरिष्कृते नैयायिकमार्ग एव नैर्भर्यमिति [२] । यत्र यत्र तेषां वैमत्यं तत् तैः तत्तदवसरे आविष्कृतमेवेति न परोक्षं विमर्शनिपुणानाम् ।
२-२ अनुमानविभागः - स्वार्थं परार्थं च
२-२-१ न्यायसिद्धान्तः - सूत्रकारानुरोधं त्रिविधमनुमानम् पूर्ववत्- शेषवत्-सामान्यतोदृष्टभेदेन ।
क) पूर्ववत् - यत्र कारणेन कार्यमनुमीयते । मेघाडम्बरेण वृष्ट्यनुमानम् ।
------------------------------
१.प्रमाकरणमेवात्र प्रमाणं तर्कपक्षवत् । [मा.मे.]
२.See Tripathi Chotalal, “The Idealistic Theory of Inference” ABORI, Vol.LL. pp.175-88; Poona,1970.
३.तत्पूर्वकं त्रिविधमनुमानम् पूर्ववच्छेषवत् सामान्यतोदृष्टं च । [न्या.द.१-१-५]
116.
ख) शेषवत् - कार्येण कारणानुमानम् । नद्याम् अधिकोदकपूर्णत्वं शीघ्रप्रवाहत्वं च दृष्ट्वा भूता वृष्टिरिति ।
ग) सामान्यतोदृष्टम् - अन्यत्र दृष्टस्य च अन्यत्र दर्शनं व्रज्यापूर्वकमिति । अस्त्यप्रत्यक्षापि आदित्यस्य व्रज्येति ।
अत्र भाष्यकारोक्तं सामान्यतोदृष्टानुमानोदाहरणं जयन्तभट्टः नाङ्गीकरोति । इदमप्युदाहरणं शेषवदनुमानस्यैव युज्यत इति तदभिसन्धिः । तेनान्यथा सामान्यतोदृष्टानुमानं सोदाहरणं निरुक्तम् [१] । इमान्येवानुमानानि वात्स्यायनेन न्यायभाष्ये अन्यथापि व्याख्यातानि (न्या.भा. २९१) ।
क) पूर्ववत् - पूर्वं प्रत्यक्षतया सहानुभूतयोः वह्निधूमयोः अन्यतरस्य धूमस्य दर्शनेन अप्रत्यक्षस्य वह्नेरनुमानम् । यथा - धूमवत्वात् वह्निमानिति
ख) शेषवत् - इदं परिशेषानुमानम् । प्रसक्तानां प्रतिषेधे अन्यत्र अप्रसङ्गात्, शिष्यमाणे निश्चयः । यथा शब्दस्य अद्रव्यत्वे, अकर्मत्वे च गृहीते शिष्यमाणः गुणः एवेति गुणत्वनिश्चयः ।
ग) सामान्यतोदृष्टम् - सम्बन्धे च हेतुहेतुमतोरप्रत्यक्षे केनचिदर्थेन हेतोः सामान्यात् यत्र साध्यं गम्यते तत्सामान्य-
-----------------------
१.सामान्यतोदृष्टं तु यदकार्यकारणभूतात् लिङ्गात् तादृशस्यैव लिङ्गिनः अनुमानम्, यथा - कपित्थादौ रूपेण रसानुमानम् । यत्पनर्भाष्यकारेण भास्करस्य देशान्तरप्राप्त्या गत्यनुमानमुदाहृतं तदयुक्तम् । देशान्तरप्राप्तेः गतिकार्यत्वात् कार्येण कारणानुमानं शेषवदेव स्यात् । [न्या.म.१३०-१३१]
117.
तोदृष्टम् । यथा - इच्छादिभिरात्मा । इच्छादयश्च गुणाः । गुणाश्च द्रव्ये वर्तन्ते । तस्मात् एतेषामाश्रयः आत्मेति ।
अन्यः कश्चिद्विभागः अनुमानस्य अन्वयव्यतिरेकी, अन्वयी, व्यतिरेकी चेति । अयं च भारद्वाजोद्योतकरेण न्यायवार्तिके समादृतः (न्या.वा. २९४); नात्रायं प्रस्तुत इति लिङ्गविचारे एतद्विस्तरेण प्रतिपादयिष्यते ।
प्रशस्तपादाचार्यः अनुमानमिदं स्वनिश्चितार्थानुमानपरार्थानुमानभेदेन द्विधा विभक्तवान् । प्रथमं तु दृष्ट- सामान्यतो-दृष्टभेदेन पुनः द्विविधम् [१] (प्र.भा. १०६-११३) ।
न्यायमञ्जर्याम् उत्पन्नप्रतीति-उत्पाद्यप्रतीतिभेदेन अनुमानद्वैविध्यमुपदर्शितम् । तत्र ईश्वरानुमानमुत्पाद्यप्रतीति भवति [२] ।
अर्वाचीनैः नैयायिकैः अनुमानं स्वार्थपरार्थभेदेन द्विधा विभक्तम् (त.भा. ३९) । तथा हि - स्वयं भूयोदर्शनेन यत्र धूमस्तत्राग्निरिति व्याप्तिं गृहीत्वा पर्वतसमीपे तद्गताग्नौ सन्दिहानः धूमं दृष्ट्वा व्याप्तिं संस्मृत्य, परामर्शमुपलभ्य "पर्वतो वह्निमानि"ति ज्ञानमनुमितिरूपं प्राप्नोति । इदमेव स्वार्थानुमानमुच्यते । तदनन्तरं परं प्रति बोधयितुं यत् पञ्चावयववाक्यं प्रयुज्यते तत्परार्थानुमानम् । अत्र स्वार्थपरार्थपदे संगतार्थे प्रयुक्ते (त.स. ३७) ।
-----------------------------
१.तत्तु द्विविधम्,दृष्टं सामान्यतोदृष्टं च । [प्र.भा.१०४]
२.सुशिक्षिततराः प्राहुः द्विविधमनुमानम् । किञ्चिदुत्पन्नप्रतीति किञ्चिदुत्पाद्यप्रतीति । ईश्वराद्यनुमानं तु उत्पाद्यप्रतीति । [न्या.म.१२४]
118.
अर्वाचीनः नैयायिकः रघुनाथनामा पदार्थरत्नमालायाम् अनुमानं केवलान्वयि-केवलव्यतिरेकि-अन्वयव्यतिरेकिभेदेन त्रिविधम् इति प्रत्यपीपदत् (प.र.मा. १०) ।
२-२-२ भाट्टसिद्धान्तः - यथाशाबरभाष्यम् अनुमानं प्रत्यक्षतोदृष्टसम्बन्धं, सामान्यतोदृष्टसम्बन्धं चेति द्विविधम् । धूमाकृतिदर्शनादग्न्याकृतिज्ञानं प्रथमस्य, देवदत्तस्य देशान्तरप्राप्तिं गतिपूर्विकामुपलभ्य सूर्यगत्यनुमानं द्वितीयस्य चोदाहरणम् (शा.भा. ३६- ३७) ।
तदनन्तरकालिकैः इदमेवानुमानं स्वार्थ-परार्थरूपेण विभक्तम् । असूचि च तथैव पार्थसारथिमिश्रेणापि स्वार्थपरार्थविभागः तादृशशब्दप्रयोगं विनैव शास्त्रदीपिकायाम् [१] । अभ्यधायि च मानमेयोदयेऽपि अयं विभागः नारायणेनैवम्, यथा - “तच्चानुमानं स्वार्थपरार्थभेदेनापि द्विविधमाहुः । यत्तु स्वयमेव धूमादिकं दृष्ट्वा व्याप्त्यादिनिरूपणेनानुमीयते तत् स्वार्थम् ।”
“यदा पुनः स एवार्थः परवाक्येन बोध्यते ।
तदा परार्थमित्याहुः तयोरेतावती भिदा ॥” (मा.मे. ६३) इति ।
अत्राहुरिति द्विःप्रयोगदर्शनेन नैयायिकाभ्युपगते विभागेऽस्मिन् न मीमांसकानां नैर्भर्यमिति सूचितमिव । यतः अनेनैव नारायणेन मानमेयोदये प्रागेव अन्वयव्यतिरेक्यादिभेदेन अनुमानत्रैविध्यमुपदर्शितम् (मा.मे. ५३) । गागा-
----------------------------
१.नियतमुपलब्धवतः पर्वते तद्दर्शनादग्निज्ञानम् । यस्तु प्रतिपन्नमर्थ परमनुमानेन प्रतिपिपादयिषति तेन साधनं प्रयोक्तव्यम् । [शा.दी.६१-६४]
119.
भट्टेनापि भाट्टचिन्तामणौ स्वार्थपरार्थभेदेन अनुमानद्वैविध्यमुपन्यस्तम् [१]
माधवसरस्वती तु अन्वयव्यतिरेकि-केवलान्वयिभेदेन द्विविधमनुमानमित्यवादीत् सर्वदर्शनकौमुद्याम् । [२]
२-२-३ प्राभाकरसिद्धान्तः - शाबरभाष्यानुरोधमनुमानं द्विविधम् प्रत्यक्षतोदृष्टसम्बन्धं, सामान्यतोदृष्टसम्बन्धं चेति [३] । धूमाकृतिविज्ञानादग्न्याकृतिविज्ञानं प्रथमस्य, गतिपूर्विकां देवदत्तस्य देशान्तरप्राप्तिमभिलक्ष्य सूर्येऽपि गतिस्मरणं द्वितीयस्य च क्रमेणोदाहरणं भवति ।
इदं च द्वैविध्यम् प्रमेयद्वैविध्यमुपलक्ष्येति प्रभाकरगुरुः । विशेषात् विशेषावगतिरेकत्र, अन्यत्र च सामान्यात् सामान्यावगतिरिति तस्याभिप्रायः [४] । एवं च अनुमानस्य प्रमेयं द्विधा भिद्यत इति सारः ।
------------------------------
१.तच्चानुमानं द्विविधम् । स्वार्थं परामर्थम् च । परामर्शेन स्वस्यैव साध्यज्ञानजनकं स्वार्थम् । प्रतिज्ञाद्यवयवप्रयोगेण परस्य साध्यज्ञानजनकं परार्थम् । [भा.चि.३०]
२.तच्चान्वयव्यतिरेकि केवलान्वयि चेति द्विविधम् । केवलव्यतिरेकि तु न प्रमाणमतिप्रसङ्गकत्वादित्याहुः । [स.कौ.९७]
३.तत्तु द्विविधम् - प्रत्यक्षतोदृष्टसम्बन्धं-सामान्यतोदृष्टसम्बन्धं च । प्रत्यक्षतोदृष्टसम्बन्धं यथा - धूमाकृतिविज्ञानात् अग्न्याकृतिविज्ञानम् । सामान्यतोदृष्टसम्बन्धं यथा - देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिमुपलभ्य आदित्येऽपि गतिस्मरणम् । [बृहती ९०-१०१]
४.अथ प्रमेयद्वैविध्यमङ्गीकृत्य एतदुच्यते - एकत्र विशेषाद्विशेषोऽवगम्यते, अन्यत्र सामान्यात् सामान्यावगतिः । [बृहती ९७]
120.
यथोक्तं प्रकरणपञ्चिकायाम् "प्रमेयमनुमानस्य दृष्टादृष्टस्वलक्षणम्" (प्र.प. २१४) इति । दृष्टस्वलक्षणं यथावह्न्यादि । अदृष्टस्वलक्षणं यथा - कर्मादि ।
वस्तुतः अनुमानं द्विधा समुत्पद्यमानं सत् भिद्यते स्वार्थानुमानं परार्थानुमानं चेति । स्वयमनुमानोत्पादकसामग्र्या अवगम्यमानं प्रथमम् । इतरप्रयुक्तवाक्यबोधितं च द्वितीयमिति शालिकनाथः प्रकरणपञ्चिकायां प्रत्यपीपदत् [१] । शालिकनाथोक्तमेव अनूदितवान् रामानुजाचार्यः तन्त्ररहस्ये [२] ।
२-२-४ समीक्षणम् - न्यायसूत्रकारानुरोधं पूर्ववत् शेषवत्-सामान्यतोदृष्टभेदेन त्रिविधमनुमानम् । वात्स्यायनेनाप्ययं विभागः समादृतः, अन्यथा सोदाहरणं व्याख्यातश्च । उद्योतकरः इदम्प्रथमतया अन्वयव्यतिरेकि, अन्वयि, व्यतिरेकि चेति त्रिधा अनुमानं विभक्तवान् लिङ्गविशेषानुरोधम् [३] । वाचस्पतिमिश्रः वीतावीतभेदेन अनुमानं द्विविधमिति, तत्र वीतं पूर्ववत्-सामान्यतोदृष्टभेदेन द्विविधम्, अवीतं पुनः शेषवत् अथवा परिशेषापरपर्यायमेवमेवेति न्यरूरुपत् [४] ।
-------------------------------
१.परप्रत्यायनेच्छूनामनुमोदयसाधनम् ।
वचनं दूषणैस्सार्धमर्थादेतेन वर्णितम् ॥
द्वेधा अनुमानमुत्पद्यते स्वयमनुसंहितया अनुमानोत्पादकसामग्र्या, परप्रयुक्तवाक्योद्बोधितया वा । [प्र.प.२२०]
२.तच्चानुमानं स्वार्थपरार्थभेदेन द्विविधम् । स्वयमनुसंहितया सामग्र्या अनुमानोत्पत्तिः स्वार्थम् । परप्रयुक्तवाक्योद्बोधितया तु परार्थम् । [त.र.११]
३.Dhruva,A.B., “Trividham Anumanam”, Proceedings of the First Oriental Conference,Poona, 1919.
४.तत्रावीतं शेषवत्, वीतं द्वेधा-पूर्ववत् सामान्यतोदृष्टं च [सा.त.कौ.५]
121.
स्वार्थ-परार्थभेदेन इदम्प्रथमतया अनुमानविभागमुपादर्शयत् प्रशस्तपादः स्वभाष्ये, यो वा अद्यावधि नव्यनैयायिकैरपि प्रामाणिकतया स्वीक्रियते । बौद्धैरपि एवमेवानुमानविभागः स्वग्रन्थेषु कृतः । समीचीनोऽयं विभागः । जगति स्वयंगृहीतस्यैवार्थस्य परं प्रति बोधयितुम् ईष्ठे सकलोऽपि जनः । अतः प्रथमतः स्वार्थानुमानं, पश्चात् परार्थानुमानमिति सम्यक्तरोऽयं पन्थाः । स्वार्थानुमाने विषयः स्वयं गृह्यते, परार्थानुमाने स एव शब्दप्रयोगपुरस्सरं परं प्रति बोध्यते । अयमेव द्वयोर्भेदः । अत एव स्वार्थानुमानापेक्षया परार्थानुमाने बहवः हेत्वाभासाश्च स्युः ।
तदनन्तरकालिकाः नव्यनैयायिकाश्च केशवमिश्रान्नंभट्टादयः इमं विभागं समीचीनं मन्यमानाः स्वग्रन्थेषु अनुसरन्ति स्म । यद्यपि केवलान्वय्यादिविभागः कैश्चिदुपदर्शितः; तथापि स केवलं लिङ्गानामेव विभाग इत्युक्तावौचित्यं वर्तत इति बहुभिरयं परित्यक्तः ।
प्राचीनैः भाट्टैः प्राभाकरैश्च प्रत्यक्षतोद्दष्टसम्बन्ध-सामान्यतोद्दष्टसम्बन्धभेदेन द्विधा यद्यप्यनुमानं विभक्तम् । अथापि नव्याः मीमांसकाः समीचीने नैयायिकमत एव गौरवं सूचयन्तः स्वार्थ-परार्थविभाग एव बद्धादराः तदनुसारिणः शोभन्ते ।
त्रिष्वपि मतेषु नव्यैरनुसृतः स्वार्थपरार्थविभागः नैयायिकोपज्ञ एव समुचित इति वक्तुं शक्यते ।
122.
२-३ व्याप्तिलक्षणम्
२-३-१ न्यायसिद्धान्तः - व्याप्तिरियं भाष्यकारेण वात्स्यायनेन अनुमानसूत्रव्याख्यानावसरे लिङ्गलिङ्गिनोः सम्बन्धदर्शनम् इत्यत्र सम्बन्धपदेन असूचि (न्या.भा. २९१) । वार्तिककारेण भारद्वाजोद्योतकरेण "तत्पूर्वकमि"त्यस्य व्याख्यानावसरे प्रथमप्रत्यक्षतया भाष्यकारेण व्याख्यातमवलम्ब्यैव लिङ्गलिङ्गिसम्बन्धदर्शनम् आद्यं प्रत्यक्षम् इति स एव सम्बन्धः निरदेशि (न्या.वा. २९२) ।
लिङ्गलिङ्गिनोः सम्बन्धमिमं प्रथमतः वार्तिककारः व्याप्तिपदेन व्याजहार (न्या.वा. ३०१) । ततः पश्चात् टीकाकारः वाचस्पतिमिश्रः तथा बहुवारं व्यवाहरत् (ता.टी. ३०३) । अयं च सम्बन्धः स्वाभाविकः नियतश्च यदि, तदा गमको भवति । अतः नियतः सम्बन्धः व्याप्त्यपरपर्यायः अनुमानाङ्गं भवितुमर्हति [१] ।
न्यायमञ्जरीकारः जयन्तभट्टः "यद्दर्शनात् यत्र यस्य प्रतीतिर्भवति, अस्ति कश्चन सम्बन्धः तयोरर्थयोः । स च सम्बन्धः तादात्म्य-तदुत्पत्तिरूपः न हि सम्भवति । साहचर्यमेव स सम्बन्ध इति नैयायिकमतम् । अयमेव अविनाभाव इत्युच्यते"
---------------------------
१.यो वा स वास्तु सम्बन्धः केवलं यस्यासौ स्वाभाविकः, नियतः, स एव गमको गम्यश्चेतरः सम्बन्धीति युज्यते । तथा हि धूमादीनां वह्न्यादिसम्बन्धः स्वाभाविकः । न तु वह्न्यादीनां धूमादिभिः । [ता.टी.३०९]
123.
इत्यभिदधे [१] । इदम्प्रथमतया अनेन अन्तर्व्याप्तिः बहिर्व्याप्तिरिति नूतनः व्याप्तिविभागः कृतः ।
साध्यसाधनयोः व्याप्तिः कणादेन प्रसिद्धिरित्युक्ता (वै.द. ३-१-१४) । प्रशस्तपादस्तु अविनाभावपदेन व्याप्तिमुवाच । तद्ग्रहणप्रकारः विधिरित्युक्तवान् किरणावल्याम् उदयनाचार्यः [२] ।
व्यापकस्य व्याप्याधिकरणोपाध्यभावविशिष्टः सम्बन्धः व्याप्तिरिति शिवादित्यः सप्तपदार्थ्याम् (स.प. ७०) । सा चेयं व्याप्तिः सिद्धान्तेऽस्मिन् प्रमुखं स्थानमधिरोहति अनुमानप्रमाणमूलभूतत्वात् । बहूनि व्याप्तिलक्षणानि बहुभिः प्रणीतानि, येषु वा तदनन्तरकालिकैः दोषाः समुद्भाविताः । विस्तरभिया न तानि सर्वाणि अत्र समुपस्थाप्यन्ते । सिद्धान्तव्याप्तिलक्षणं मणिकारोक्तं त्विदम् - “प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः" (गादा. ३०७) इति । तेनैव पुनः विशेषव्याप्तिलक्षणानि त्रीण्येवं प्रतिपादितानि पश्चात् । यथा -
क) यद्वा प्रतियोगिव्यधिकरणस्वसमानाधिकरणात्यन्ताभावप्रतियोगिना सामानाधिकरण्यम्,
--------------------------
१.अतो यद्दर्शनाद्यत्र प्रतीतिरुपजायते ।
तयोरस्त्यर्थयोः कश्चित्सम्बन्ध इति मन्महे ॥
तदात्मतातदुत्पत्ती न श्रद्दधति तद्विदः ।
साहचर्यं तु सम्बन्ध इति नो हृदयङ्गमम् ॥
तस्मिन् सत्येव भवने न विना भवनं ततः ।
अयमेवाविनाभावो नियमः सहचारिता ॥ [न्या.म.१२१]
२.विधिस्तु अविनाभावग्रहणप्रकारः । [किर.२९५]
124.
ख) यत्समानाधिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं तस्य सामानाधिकरण्यं वा,
ग) स्वसमानाधिकरणान्योन्याभावाप्रतियोगि यद्वत्कत्वं वा (गादा. ५५९-६७) इति ।
इमानि च लक्षणानि तदनन्तरकालिकैः रघुनाथशिरोमणिमधुरानाथ – गदाधर-जगदीशादिभिः बहुधा व्याख्यातानि । बहूनि व्याख्यानानीति प्रकृते अप्रस्तुतया विस्तरभिया च नात्र तानि प्रस्तुतानि ।
मुक्तावल्यां विश्वनाथः हेत्वधिकरणवृत्तिः योऽभावः तदप्रतियोगिना साध्येन सह हेतोः सामानाधिकरण्यं व्याप्तिरित्यब्रवीत् [१] । अन्नंभट्टस्तु यत्र यत्र धूमस्तत्राग्निरिति साहचर्यनियमः व्याप्तिरित्युक्त्वा (त.स. ३४), साहचर्यं सामानाधिकरण्यं तस्य नियमः, अर्थात् हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिरिति विवृणोति स्म । धूमव्यापकवह्निसामानाधिकरण्यं व्याप्तिः इति न्यायबोधिन्यां गोवर्धनः (न्या.बो. ३६) ।
सा चेयं व्याप्तिः भूयोदर्शनग्राह्या अन्वयव्यतिरेकभेदेन सिद्धान्तेऽस्मिन् द्विधा भिद्यते । यथा - भावयोः साहचर्यम् अन्वयव्याप्तिः, अभावयोः साहचर्यं व्यतिरेकव्याप्तिः । अन्वयः भावः, व्यतिरेकस्त्वभावः । इयान् विशेषः यत् - यः व्याप्य-
-------------------------
१.अथवा हेतुमन्निष्ठविरहाप्रतियोगिना ।
साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥ [कारि.६९]
125.
व्यापकभावः भावयोः दृष्टः अन्वयव्याप्तौ,स व्यतिरेकव्याप्तौ अभावयोः विपर्यस्तो भवतीति [१] ।
२-३-२ भाट्टसिद्धान्तः - कौमारिलैरपि व्याप्तिस्वरूपमेवं प्रत्यपादि - नियतसम्बन्धः व्याप्तिरिति । हेतुसाध्ययोः नियतः सम्बन्धः संयोगः, समवायः, एकार्थसमवायः, कार्यकारणभावः, तादात्म्यलक्षणो वा व्याप्तिः (शा.दी. ६०) । नैते सम्बन्धाः प्रयोजकाः गम्यगमकभावे । कृत्तिकारोहिण्यादीनां तदभावेऽपि लिङ्गलिङ्गिभावस्योपपत्तेः । एवमेव कार्यस्यापि कारणगमकता न कार्यत्वनिबन्धना किन्तु नियतत्वप्रयुक्ता [२] ।
अनुमानव्यवहारे व्याप्तिलक्षणः अयं सम्बन्धः अङ्गमिति एतेषां मतम् । व्याप्यमधिकदेशकालावृत्ति, व्यापकं च अधिकदेशवृत्ति [३] । एवं चैतदुक्तं भवति यत् - दृश्यमानेषु देशकालादिषु यः हेतोः साध्येन सह सहभावः स एव नियमः । तेन नियमेन यस्य येन यथादृष्टेषु देशकालादिषु येन केनापि सम्बन्धेन पूर्वोक्तेन साहित्यं नियततया उपलभ्यते सा व्याप्तिरिति । सा च व्याप्तिः भूयोदर्शनेन व्यभिचारादर्शनेन सम्यगव-
---------------------------
१.भावसामान्ययोर्यद्वत् तथैव तदभावयोः ।
भावयोः साहचर्यं यदन्वयं तत्प्रचक्षते ॥
व्यतिरेकं तु मन्यन्ते साहित्यं तदभावयोः ।
इयानेव विशेषस्तु भावयोर्यादृशी ययोः ॥
व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः । [न्या.म.१२३]
२.सम्बन्धो व्याप्तिरिष्टात्र लिङ्गधर्मस्य लिङ्गिना । [श्लो.वा.३४८]
३.व्याप्यस्य गमकत्वं च व्यापकं गम्यमिष्यते ।
यो यस्य देशकालाभ्यां समो न्यूनोऽपि वा भवेत् ॥
स व्याप्यो व्यापकस्तस्य समो वाभ्यधिकोऽपि वा । [तत्रैव ३४८]
126.
गम्यते [१] । व्याप्तिः, अविनाभावः, नियमः, प्रतिबन्धः, अव्यभिचार इति अनर्थान्तरम् । तथैव व्याप्यं, नियम्यं, गमकं, लिङ्गं, साधनमिति च पर्यायाः [२] ।
मानमेयोदये तु स्वाभाविकसम्बन्धः व्याप्तिरित्युक्तम् । अत्र उपाधिराहित्यं स्वाभाविकत्वम् । अर्थात् निरुपाधिकसम्बन्धरूपा व्याप्तिरिति फलितम् [३] । सा च व्याप्तिः अन्वयव्याप्तिः व्यतिरेकव्याप्तिरिति द्विधा भिद्यते । सति साधने साध्यसद्भावः अन्वयव्याप्तिः । सति साध्याभावे हेतोरप्यभावः व्यतिरेकव्याप्तिः [४] ।
गागाभट्टस्तु भाट्टचिन्तामणौ अत्र "गौडमैथिलसर्वस्वम्" इत्युपक्रम्य नव्यन्यायसरण्या बहूनि व्याप्तिलक्षणान्युपन्यस्य, “हेतुसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकसाध्यवत्वावच्छिन्न- वृत्तित्वं व्याप्तिः" इति जरन्मीमांसकमतमुपन्यस्य, “यादृशप्रतियोगितावच्छीन्नानधिकरणत्वं हेतुमतः तादृशप्रति-
------------------------------
१.भूयोदर्शनगम्या च व्याप्तिः सामान्यधर्मयोः ।
ज्ञायते भेदहानेन क्वचिच्चापि विशेषयोः ॥ [तत्रैव ३५०]
२.व्याप्तिर्नियमः प्रतिबन्धोऽव्यभिचारस्तथाविनाभावः ।
व्याप्यं पुनर्नियम्यं गमकं लिङ्गं च साधनं हेतुः ॥
इत्युभयोः पर्याया इति तस्य तु दर्शनं त्रिविधम् । [मा.मे.४८]
३.स्वाभाविकः सम्बन्धो व्याप्तिः । स्वाभाविकत्वम् उपाधिराहित्यम् । उपाधिरिति च साध्यस्य साक्षात्प्रयोजकं हेत्वन्तरमुच्यते । [तत्रैव २६]
४.द्वेधा हि व्याप्तिः अन्वयव्याप्तिः व्यतिरेकव्याप्तिश्चेति । तत्र साधनस्य सद्भावे साध्यस्यापि सद्भावः अन्वयव्याप्तिः । साध्यस्याभावे साधनस्याभावः व्यतिरेकव्याप्तिः । [मा.मे.५३-५५]
127.
योगितानवच्छेदकत्वस्य विवक्षितत्वात्" (भा.चि. २६) इति तामलिलक्षत् ।
२-३-३ प्राभाकरसिद्धान्तः - अनुमानलक्षणघटकज्ञातसम्बन्धस्येति पदेनैव व्याप्तिरभिहिता । प्रभाकरः कथयति बृहत्यां यथा "व्याप्यं हि दृष्टं हि व्यापकं गमयति" (बृहती ९३) इति । तेनेदमवगम्यते यद् दृष्टस्य व्याप्यस्य व्यापकावगमसामर्थ्यं यद् वर्तते सैव व्याप्तिरिति । अव्यभिचरितत्वमित्यर्थः । शालिकनाथः ॠजुविमलपञ्चिकायां प्रतिपादयति अमुमेवाभिप्रायं मनसिकृत्यैवम्, “अव्यभिचारो हि व्याप्तिः । अव्यभिचारश्च सकलदेशकालव्यापित्वम्" (बृहती ९५) इति । स चाव्यभिचारः कथं ज्ञायत इत्युक्तौ भूयोदर्शनेनेति तत्रैव तेन प्रत्यपादि [१]
एवं च हेतुहेतुमतोः नियतसाहचर्यं व्याप्तिरित्युक्तं भवति । प्रत्यपादि चैवमेव प्रकरणपञ्चिकायां शालिकनाथेन 'ज्ञातसम्बन्धनियम' पदव्याख्याने सोदाहरणम् [२] । एतावता निरुपाधिकसम्बन्धः व्याप्तिरित्युक्तं भवति । अत्रोपाधिशून्यता अन्वयव्यतिरेकाभ्यां गृह्यते । असकृद्दर्शननिबन्धनं चैतत् (प्र.प. २०६) ।
-----------------------------
१.अव्यभिचारस्त्वसकृद्दर्शनगम्यः । [बृहती प. ९६]
२.तस्मात् कार्यकारणभावादय एव सम्बन्धा यस्य येन नियता अव्यभिचारिणः, स हेतुरिति दर्शयितुं 'ज्ञातसम्बन्धनियमस्य' इत्युक्तम् । धूमस्य कार्यस्य कारणसम्बन्धो नियतः, अग्नेस्त्वनियतः । [प्र.प.२०२]
128.
एवं स्थिते नन्दीश्वरः प्रभाकरविजये 'सकृद्दर्शनगम्या व्याप्ति'रिति कथयन्, भूयोदर्शनानावश्यकतां बहुशः प्रतिपादयति [१] ।
वह्निधूमयोः सम्बन्धनियमे प्रथमं प्रत्यक्षमेव प्रमाणम् । निरुपाधिकत्वनिश्चयश्च भूयोदर्शनेन । यत्नतः अन्विष्यमाणस्यापि उपाधेस्तत्रादर्शनात् । अतः भूयोदर्शनम् अर्थवदित्येव प्राभाकराणां राद्धान्त इति ॠजुविमलपञ्चिकातः, प्रकरणपञ्चिकातश्च अवगम्यते [२] । उपरितनः नन्दिकेश्वरसिद्धान्तः तदुपज्ञ एवेति प्राचीनप्राभाकरग्रन्थपरिशीलनेन प्रतिभाति ।
प्राभाकरमतानुरोधं नियमापरपर्यायायाः व्याप्तेः सम्बन्धत्वं नास्ति [३] । तथैव तस्याः तादृशसम्बन्धरूपतया अनुमानकारणता च नास्ति । नहि नाम स्वस्वामिभावादिव्यतिरिक्तः व्याप्तिर्नामापरः सम्बन्धः कश्चन वरीवर्ति । अतः कार्यकारणभावादिः सम्बन्ध एव कस्यचिद् व्यापकः, कस्यचित्तु न व्यापक इति लोकानुभवः (बृहती प. ९५) ।
------------------------------
१.अतो न भूयोदर्शनेन तत्त्वग्रहण उपयोगः । [प्र.वि.९९]
२.ज्ञायते - नायं तदुपाधिक इति एतच्चासकृद्दर्शनप्रभावादित्युक्तम् । [बृहती प.९३] प्रयत्नेनान्विष्यमाणे औपाधिकत्वानवगमात् । तच्चैतद् भूयोदर्शनायत्तमिति मन्वाना आचार्या भूयोदर्शनमादृतवन्तः । [प्र.प.२०५]
३.अनुगमन – नियमन – व्याप्तिरूपास्तु सम्बन्धा एवायुक्ताः । क्रियागर्भत्वात् सम्बन्धस्य । अग्न्यादीनां धूमादीन् प्रति अनुगमननियमव्यापनक्रियासम्भवात् [प्र.प.२०२] ।
129.
यस्य वा केनचन सम्बन्धेन व्याप्यता तस्यैव तं प्रति गमकता अङ्गीकार्या । यथा - धूमो हि वह्निकार्यतया वह्निसंयोगितया व्याप्त इति तं प्रति तस्य गमकत्वम् [१] । न तथा वह्नेः सर्वदा धूमसम्बन्धित्वं वर्तत इति सम्बन्धाव्याप्ततया न तस्य गमकत्वम् (बृहती ९५) ।
२-३-४ समीक्षणम् - व्याप्तिरितीदं पदं ऐदम्प्राथम्येन न्यायग्रन्थेषु न्यायवार्तिककारेण भारद्वाजोद्योतकरेण प्रायोजि । तत्प्राक्तनाभ्यां वात्स्यायन-गौतमाभ्याम् इदं पदं न प्रयुक्तम् । अनेकबौद्धकथाप्रसङ्गव्यापृतेन, तत्सिद्धान्तखण्डनपण्डितेन च वार्तिककारेण तेभ्य एवेदं पदं परिगृहीतमस्मिन् अर्थे प्रयुक्तमिति तर्क्यते । श्लोकवार्तिके कुमारिलभट्टेन, बृहत्यां प्रभाकरेण च व्याप्तिरिति पदं प्रयुक्तम्
वि-आप्तिः व्याप्तिः । अयं कश्चन विलक्षणस्सम्बन्धः । अयं च व्याप्यव्यापकयोर्मध्ये वर्तमान उच्यते । यथा - “पर्वतो वह्निमान् धूमवत्त्वात् " इति सर्वप्रसिद्धे वाक्ये धूमवह्न्योः व्याप्यव्यापकभावः । सर्वत्र साध्यं व्यापकं, साधनं च व्याप्यमिति नियमः । अयमेव सम्बन्धः लिङ्गलिङ्गिसम्बन्धः, गम्य-गमकभावः, साध्य-साधनभावः, गमक-गम्यभावः, साधन-साध्यभावः, अविनाभावनियमः इत्यादिपदैरुच्यते [२] ।
------------------------------
१.यः कश्चित् येन यस्येह सम्बन्धो निरुपाधिकः ।
प्रत्यक्षादिप्रमासिद्धः स तस्य गमको मतः ॥ [प्र.प.२०६]
२.आचार्यः,वि, “कार्यकारणभावः,” S.V.U.O.J. Vol.IV, 1961.
130.
कणादेन प्रसिद्धिरिति, साङ्ख्यैर्योगैश्च प्रतिबन्ध इति, जयन्तभट्टेन साध्याविनाभावितेति, बहुलतया नव्यनैयायिकैः व्याप्तिरिति, जैनैः अन्यथानुपपत्तिः अथवा अन्यथानुपपन्नत्वमिति, प्रशस्तपादेन च अविनाभाव इति चाथमेव तत्तद्ग्रन्थेषु निर्दिष्टः (I.T.K. 146) । सर्वेष्वप्येषु व्याप्तिरिति पदमेव नव्यैः दार्शनिकैः अतिमात्रमादृतम् ।
उपरितनसम्बन्धबोधकतया अस्य पदस्य प्रयोगे प्रायः नैयायिकमतमेव भाट्टैः प्राभाकरैः अनुसृतमिव प्रतिभाति । भाट्टप्रस्थानमूलपुरुषेण कुमारिलभट्टेन, तदनुयायिभिः, प्राभाकरप्रस्थानप्रारम्भकेण प्रभाकरेण, तन्मार्गावलम्बिभिश्च व्याप्तिपदस्य प्रयुक्तत्वात् । व्याप्तिस्वरूपनिरूपणे, तद्विभागे च नैयायिकमतं मात्रयापि नातिक्रामन्ति मीमांसका इति तत्तद्ग्रन्थदर्शनेनास्माभिरवगम्यते ।
व्याप्तिरियं भूयोदर्शनजन्येति यन्नैयायिकैरुपन्यस्तं तत्रापि नास्ति मीमांसकानामसम्मतिः । किन्तु प्राभाकरविजयकर्त्रा नन्दीश्वरेण सकृद्दर्शनगम्यैव व्याप्तिरिति प्रत्यपादि । तत्तु प्राचीनैः प्राभाकरैः कुत्रापि नोक्तम् । परन्तु प्रकरणपञ्चिकायां शालिकनाथपङ्क्तिषु (प्र.प. २०५) भूयोदर्शने अनास्था मनाक् सूचितेव प्रतिभाति ।
सम्बन्धस्य क्रियागर्भत्वमभ्युपगच्छद्भिः प्राभाकरैः व्याप्तेः सम्बन्धत्वं नोररीकृतम् । नैयायिकैः भाट्टैश्च तस्याः सम्बन्धत्वं स्पष्टमुक्तम् । वस्तुतः प्राभाकरैरपि साधारणसम्बन्धरूपत्वमेव
131.
तस्याः प्रतिषिद्धम्, किन्तु विलक्षणसम्बन्धरूपता तेषामपि इष्टैवेति प्रतिभाति (प्र.प. २०६) । सम्बन्धनियमे प्रथमं प्रत्यक्षमेव प्रमाणमिति यत्प्राभाकरैरङ्गीकृतं तन्नैयायिकैर्नाभ्युपगम्यते । अनुभवाननुरोधित्वात् (I.T.K. 159) ।
२-४ व्याप्तिग्रहोपायः
२-४-१ न्यायसिद्धान्तः - व्याप्तिज्ञानस्यैव व्याप्तिग्रह इति व्यपदेशः न्यायशास्त्रे । व्याप्तिज्ञानोपायाभावात् अनुमानमेव न सिध्यतीति कथयन्ति चार्वाकाः । अतः अनुमानप्रामाण्यौपयिकव्याप्तिज्ञाननिरूपणार्थं तदुपायः दार्शनिकै महता आग्रहेण प्रदर्श्यते ।
न्यायमञ्जरीकारेण जयन्तभट्टेन व्याप्तिग्रहणोपायपदं प्रथमतः प्रयुक्तम् [१] । तेन व्यभिचारज्ञानविरहसहकृतसहचारदर्शनस्यैव व्याप्तिज्ञानोपायत्वं प्रादर्शि [२] । नैयायिकमते व्यभिचारनिश्चयाभावसहकृतेन सहचारदर्शनेन व्याप्तिज्ञानं भवतीति तत्त्वचिन्तामण्यां गङ्गेशोपाध्यायेन प्रत्यपादि [३] । अर्थात् व्यभिचाराग्रहः सहचारग्रहश्च व्याप्तिः ग्राहयतीति सिध्यति ।
-----------------------------
१.तस्मान्नियमवत् तद्ग्रहणोपायोऽप्यस्तीति सिद्धम् । [न्या.म. १२२-२३]
२.Gupta,B., “Pramanasamagrivada of Jayanta Bhatta”., AIOC XXV, Sp: pp. 287-88 [1966].
३.व्यभिचारज्ञानविरहसहकृतं सहचारदर्शनं व्याप्तिग्राहकम् । ज्ञानं निश्चयः शंका च । सा च क्वचिदुपाधिसन्देहात्, क्वचित् विशेषादर्शनसहितसाधारणधर्मदर्शनात्; तद्विरहश्च क्वचित् विपक्षबाधकतर्कात्; क्वचित् स्वतःसिद्ध एव [गादा.६६२]
132.
मुक्तावलीकारः विश्वनाथोऽपि व्यभिचाराग्रहः सहचारग्रहश्च व्याप्तिग्रहे हेतुरिति अभिदधे [१] । व्यभिचाराग्रहस्य प्रतिबन्धकाभानविधया कारणत्वम् । अन्वयव्यतिरेकाभ्यां सहचारग्रहस्यापि कारणता । भूयोदर्शनं तु न व्याप्तिग्रहे हेतुः । व्यभिचारविरहे सकृद्दर्शनेनापि व्याप्तिज्ञानोदयात् । भूयोदर्शनं तु व्यभिचारशङ्काविधूननद्वारा सहकारि भवति (मुक्ता. ७८- ८०) । अत एवं प्रत्यपादि केशवमिश्रेण तर्कभाषायाम्, यथा - “तथा च सत्युपाध्यभावजनितसंस्कारसहकृतेन भूयोदर्शन जनितसंस्कारसहकृतेन साहचर्यग्राहिणा प्रत्यक्षेणैव धूमाग्न्योः व्याप्तिरवधार्यते" (त.भा. ३५) इति ।
२-४-२ भाट्टसिद्धान्तः - व्याप्तिग्रहः व्याप्तिज्ञानमित्यर्थः । तच्च भूयोदर्शनगम्यमिति भाट्टमतम् । यदि भूयोदर्शनमात्रं तत्र कारणमित्युच्यते तर्हि मैत्रीतनयत्वश्यामत्वयोरपि सत्त्वाद् व्यभिचारः । अतः न केवलं भूयोदर्शनं किन्तु प्रमाणोत्पत्त्यनुकूलतर्कोऽपि तत्र कारणमिति निश्चितम् (मा.मे. ३४) । एवं च तर्कसहकृतं भूयोदर्शनं व्याप्तिज्ञानं जनयति इति तस्य व्याप्तिज्ञानजनकत्वं सूपपादम् [२] ।
व्याप्तिग्रहोपायश्च व्यभिचाराग्रहः, सहचारग्रहश्च । अर्थाद्व्यभिचारज्ञानविरहसहकृतसहचारज्ञानं व्याप्तिग्राहकमिति
---------------------------------
१.व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा ।
हेतुर्व्याप्तिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः ॥ [कारि.१३७] ।
२.तदेवं तर्कसहायेन भूयोदर्शनेनैव निरुपाधिकसम्बन्धोऽवधार्यते ।
भूयोदर्शनतः शक्या दृश्या दृश्योपाधिनिराक्रिया ।
अदृश्योपाधिशङ्का तु तर्कैरेव निरस्यते ॥ [मा.मे.४७]
133.
सिद्धम् (भा.चि. २५) । न केवलं भूयोदर्शनं हेतुर्भवितुमर्हति, व्यभिचारस्मरणाभावे सकृद्दर्शनेनापि व्याप्तिज्ञानोदयात् । व्यभिचारशङ्कानिवर्तकतया भूयोदर्शनस्य क्वचिदुपयोगः । क्वचिच्च तर्क एव व्यभिचारशङ्कानिवर्तकः ।
अथ संनिकृष्टयोः महानसीयवह्निधूमयोः सहचारग्रहेऽपि अन्येषां वह्निधूमानां संनिकर्षाभावात् सहचारप्रत्यक्षाभाव इति निखिलेषु धूमेषु कथं नाम व्याप्तिर्गृह्यते इति चेत् - सत्यम् । सामान्यलक्षणाप्रत्यासत्त्या अलौकिकसंनिकर्षवशात् निखिलवह्निधूमसहचारप्रत्यक्षस्य सम्भवात् निखिलधूमेषु व्याप्तिग्रहः संभवतीति न काप्यनुपपत्तिः (भा.चि. २७) । अतः भूयोदर्शनसहकृततर्कज्ञानं व्यभिचारज्ञानविरहसहकृतसहचारज्ञानद्वारा व्याप्तिं ग्राहयतीति संक्षेपः ।
२-४-३ प्राभाकरसिद्धान्तः - व्याप्तिग्रहः व्याप्तिज्ञानम् । अस्य व्याप्तिज्ञानस्योत्पत्तौ विवदन्ते वादिनः । प्राभाकरास्तु अव्यभिचारः व्याप्तिरिति वदन्ति । स चाव्यभिचारः कथं गृह्यत इत्यत्र प्रभाकरः कथयति बृहत्याम् - 'अव्यभिचारः असकृद्दर्शनगम्यः' इति । अर्थात् किमायातम्? भूयोदर्शनेनैव व्याप्तिः गृह्यत इति ।
किन्तु प्राभाकरैकदेशी नन्दीश्वरः प्रभाकरविजये सकृद्दर्शनगम्यत्वमेव व्याप्तेः लक्षणं प्रत्यपीपदत् (प्र.वि. ९८) ।
134.
न तवता स तूष्णीं तिष्ठति किन्तु व्याप्तिग्रहे भूयोदर्शनमनावश्यकमिति च निरूपयति [१] ।
नन्दीश्वरादन्यैश्च भूयोदर्शनस्य अङ्गीकृततया ॠते तस्मात् अन्येषां प्राभाकराणां, भूयोदर्शनसहकृतं तर्कज्ञानं व्यभिचारज्ञानविरहसहकृतसहचारज्ञानद्वारा व्याप्तिग्रहणे उपाय इत्यत्र नास्ति विप्रतिपत्तिरित्युत्पश्यामः ।
२-४-४ समीक्षणम् - व्याप्तेः ग्रहः व्याप्तिज्ञानम् । तस्मिन्नुपायः व्याप्तिग्रहोपायः । अथवा व्याप्तेः ग्रहणं व्याप्तिग्रहणम् । तस्मिन् उपाय: व्याप्तिग्रहणोपायः । यथाकथञ्चित् ग्रहो वा ग्रहणं वाऽस्तु । उभयमपि ज्ञानपरमेव । नव्यन्यायग्रन्थे व्याप्तिग्रहः, व्याप्तिग्रहोपायः इति प्रयोगाः ग्रहपदघटिता एव समुपलभ्यन्ते । जयन्तभट्टस्तु न्यायमञ्जर्यां व्याप्तिग्रहणोपायमिति प्रायुङ्क्त ।
व्याप्तिग्रहोपायनिरूपणावसरे नैयायिकमतमेव भाट्टैः प्राभाकरैश्च स्वीकृतम् । नन्दीश्वर एक एव भूयोदर्शनमनावश्यकमिति प्रत्यपीपदत् । नैयायिकैरपि भूयोदर्शनस्य व्याप्तिनिश्चये न कारणत्वमभ्युपगतम् । किन्तु व्यभिचारशङ्काविधूननार्थमेव तदङ्गीकृतम् । व्यभिचारास्मृतौ तैरपि भूयोदर्शना-
---------------------------------
१.न तत्रापि भूयोदर्शनस्य ग्राहकत्वम् । किन्तु विवेचकाकारग्रहणे प्रवृत्तस्य चातिसौक्ष्म्यात् मनःसमवधानाद्यभावाच्च न तत्त्वं ग्रहीतुं प्रभवति, केवलं रत्नमात्रमेव गृह्णाति । एवमनेकदर्शने जाते मनःसमवधानादिसामग्रीसंभवात् अर्थादेकदा तत्त्वं गृह्णाति । अतः न भूयोदर्शनस्य तत्त्वग्रहण उपयोगः । [प्र.वि.९९]
135.
पेक्षां विनैव सकृद्दर्शनेनैव व्याप्तिग्रहः क्वचिद् भवतीति उक्तम् (मुक्ता. ७६७) । अत्र भूयोदर्शनं नाम भूयस्सु स्थानेषु साध्यसाधनसहचारदर्शनम्, भूयसां साध्यानां साधनानां सहचारदर्शनं, साध्यसाधनसहचारविषयकबहुत्वदर्शनं चेत्यभिप्रायः । कदाचित् भूयोदर्शनादपि शङ्का नापगच्छति । तत्र बाधकतर्कः विपक्षे प्रदर्शनीयः । यत्र शङ्कैव नास्ति तत्र न तर्कस्यापि अपेक्षेत्यवगन्तव्यम् (मुक्ता. ७७१) । एवं तर्हि भूयोदर्शनविषये कुत आग्रह इति चेत् - उच्यते तस्य व्याप्तिनिश्चयं प्रति अकारणत्वे क्वचित् तत्प्रयोजकमिति तस्मिन् आदर इति दिनकरभट्टः (दिन. ७६८) । अतः भूयोदर्शनमप्यावश्यकमेव । एवं च मण्याद्युक्तरीत्या व्यभिचारज्ञानविरहसहकृतं सहचारदर्शनमेव व्याप्तिग्राहकमिति सिद्धान्तः । अत्र सुविशदमनवद्यं नैयायिकमतमिति तदेव भाट्टैः प्राभाकरैश्च स्वीकृतमिति तत्तद्ग्रन्थसादृश्यपरिशीलनेन निश्चीयते । अथ तत्त्वप्रदीपिकायां 'प्रमाणस्याभावाद् दुरधिगमः व्याप्तिग्रह" इति यदुक्तम् (त.प्र. ३८८) तत्तु लोकवृत्तापलापनिबन्धनमिति नोपादेयम् । भूयोदर्शनसहकृततर्कज्ञानेनैव तदुपपत्तेः । सामान्यलक्षणाप्रत्यासत्त्या च निखिलवह्निधूमसहचारप्रत्यक्षस्य सुलभतया प्रत्यक्षेणैव व्याप्तिग्रहः सुलभ इति विज्ञेयम् ।
सि.डि.बिजिल्वान्महोदयेन भारतीयदर्शनेषु व्याप्तिग्रहोपायविषये न प्रभूत आदरः प्रदर्शित इति यदुक्तम् [१] तत्
------------------------
१.I.T.K. 152: “This in fact, is the problem of induction and does not find an exclusive treatment in Indian logic”.
136.
पाक्षिकं सत्यम् । किन्तु अन्यदर्शनापेक्षया न्यायदर्शने, तत्रापि नव्यनैयायिकैः तस्मिन् विषये बद्धादरैः एव स सम्यक् विचारितः निशितमतिभिः महता आग्रहेणेति अस्माभिरवश्यमङ्गीकार्यम् ॥
२-५ तर्कनिरूपणम्
२-५-१ न्यायसिद्धान्तः - यस्यार्थस्य तत्त्वं न विज्ञातं, तत्र तत्त्वावगतये क्रियमाण ऊहः तर्क इति सूत्रकाराभिप्रायेण तर्कस्वरूपम् [१] । अयं भावः - अविज्ञाततत्त्वेऽर्थे जायते च जिज्ञासा "ज्ञातव्योऽमर्थ" इति । तस्यार्थस्य विरुद्धौ धर्मौ विविच्य विमृशति, “इदमित्थमन्यथा वे"ति । तयोः विमृश्यमानयोर्धर्मयोः कारणोपपत्त्या एकस्मिन् अवधारणा जायते, “एवमेवेदमि"ति । ततः इदमित्थमेव नान्यथेति ऊहः क्रियते, स तर्क इति
यथा - अयमात्मा किं नित्यः उत अनित्य इति, पूर्वजन्मार्जितकर्मानुभवान्यथानुपपत्त्या अयमनित्य इति वक्तुं न शक्यते । लोके चोत्पन्नः अनित्यः पदार्थः अवश्यं नश्यति । तथा अस्याप्यात्मनः अनित्यत्वं यद्यङ्गीक्रियते कर्मानुबन्धः नोपपद्यते । अतः अयं नानित्यः किन्तु नित्य एवेति ऊह्यते तर्केण । अस्य च ज्ञानस्य अनवधारणात्मकत्वात् तर्कोऽयं तत्त्वज्ञानार्थः न तु तत्त्वज्ञानमेवेति (न्या. भा. ५८१) । अविज्ञाततत्त्वार्थप्रवृत्तिरूप-
----------------------------
१.अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितः तत्त्वज्ञानार्थ ऊहस्तर्कः । [न्या.द.१-१-४०]
137.
साम्ये सत्यपि तर्कोऽयं संशयाद् इच्छायाश्च भिद्यते, प्रमाणोपपत्तिबलात् [१] ।
शिवादित्यः सप्तपदार्थ्यां तर्कस्वरूपम् अनिष्टव्यापकप्रसञ्जनरूपं वर्णयामास [२] । तर्कशब्दस्य अनुमानपर्यायतयापि प्रयोगाः तत्र तत्र ग्रन्थेषु समुपलभ्यन्ते [३] । अथापि अत्र पुनः ऊहरूपतैव तर्कस्याभ्युपेयात् । अस्य च तत्त्वज्ञानसाधनता च प्रमाणानुग्राहकत्वेन; न तु साक्षात् [४] । (न्या.म. ५८८)
मीमांसकास्तु न्याये, न्यायफले च तर्कपदं प्रयुञ्जते । नैयायिकैः पुनः प्रमाणव्यतिरिक्त ऊह उपपाद्यते [५] । सकलशास्त्रार्थसंग्रहरूपे मानमेयरहस्यश्लोकवार्तिके तर्क एवमभिलक्षितः 'व्याप्याङ्गीकारेण अनिष्टस्य व्यापकस्य प्रसक्तिः तर्कः ।
-------------------------------
१.समानजातीयात् संशयादेः असमानजातीयाच्चेच्छादेः व्यवच्छिद्यते । यद्यपि संशयजिज्ञासे अपि अविज्ञाततत्त्वेऽर्थे प्रवर्तेते तथापि न कारणोपपत्तित इति तयोर्व्यवच्छेद इति । [ता.टी. ५८५-५८६]
२.अनिष्टव्यापकप्रसञ्जनं तर्कः । [स.प.७५]
३.आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥ [न्या.म.५८८]
तर्कशब्दं पुनः केचिदनुमाने प्रयुञ्जते ।
अनुमानविशेषोऽयम् इति केचित् प्रचक्षते ॥ [मा.र.वा.३७५]
४.श्रीहरिरामशुक्लः, “तर्कस्वरूपविमर्शः", सरस्वतीसुषमा, १७ (३-४) पृ.३८७-९२ ।
५.तदेष मीमांसककल्प्यमानो नोहः प्रमाणव्यतिरेकमेति ।
प्रमाणसन्देहदशान्तरालवर्ती तु तर्कः कथितोऽत्र शास्त्रे ॥ [न्या.म. ५९०]
138.
स च पञ्चधा षोढा वा भवति । तस्य च व्याप्तिः, तर्काप्रतिहतिः, विपर्यये अवसानम्, अनिष्टम्, अननुकूलत्वम् इति पञ्चाङ्गानि भवन्ति' [१] इति ।
मणिकारस्तु लक्षणमिदं परिष्कृत्य तर्कस्य स्वरूपमित्थं प्रत्यपीपदत्, यथा - धूमो यदि वह्न्यसमवहिताजन्यत्वे सति वह्निसमवहिताजन्यः स्यात् नोत्पन्नः स्यात् । (गादा. ६७५) इति । व्याप्यस्य पदार्थस्यारोपेण व्यापकस्य आरोपः तर्क इत्यस्माद् ज्ञायते । अयं च तर्कः व्यभिचारशङ्कानिवर्तकतया व्याप्तिग्रहोपयोगी । शङ्कावधिः अयमिति उदयनाचार्यः [२], शङ्कानिवर्तकत्वात् ।
सत्तर्कस्यास्य व्याप्तिप्रमाजनकता, तर्काभासात् व्याप्त्यप्रमा च जायेते इति मणिकारः [३] । न हि तावत् धूमस्याग्निसाहचर्ये उपाधिः कश्चिदस्ति । यद्यभविष्यत् तर्हि अद्रक्ष्यत् । अदर्शनात् नास्तीति तर्कसहायेन अनुपलम्भसहितेन प्रत्यक्षेणैव उपाध्यभावः अवगम्यते । एवं चोपाध्यभावग्रहणजनितसंस्कारसहितेन साहचर्यग्राहिणा प्रत्यक्षेणैव धूमवह्न्योः व्याप्तिः निश्चीयते (त.भा. ३८) ।
---------------------------
१.व्याप्याङ्गीकरणेऽनिष्टव्यापकस्य प्रसञ्जनम् ।
तर्कस्य चोभयविधविषयोपेत इष्यते ॥ [मा.र.वा.३७४-७५]
२.शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥ [न्या.कु.२८५]
तर्कः क्वचिच्छङ्कानिवर्तकः । [मुक्ता.८०]
३.सत्तर्कात् व्याप्तिप्रमा, तदाभासात्तदप्रमा, विशेषदर्शनसत्यत्वासत्यत्वाभ्यां पुरुषज्ञानमिव । [त.प्र. ३९-४०]
139.
तर्कोऽसौ द्विविध इति दिनकरभट्टः मुक्तावलीव्याख्याने निरूपयति । यथा - 'तर्कश्च द्विविधो विषयपरिशोधको व्याप्तिग्राहकश्चेति । तत्र विषयपरिशोधकः निर्वह्निः स्यान्निर्धूमः स्यात् इत्यादिः । धूमो यदि वह्निव्यभिचारी स्यात् वह्निजन्यो न स्यात् इत्यादिश्च व्याप्तिग्राहकः' (दिन. ७७२) इति ।
यत्र भूयोदर्शनेनापि शङ्कायाः न निवृत्तिः तत्र विपक्षे बाधकतर्कप्रयोगः ,यथा - वह्न्यभाववत्यपि धूमोऽस्तु इति यद्याशङ्का तर्हि तत्रैवं तर्कः प्रयोगमर्हति । “यदि धूमः वह्निव्यभिचारी स्यात् वह्निजन्यो न स्यात्" इति । अयं व्याप्तिग्रहोपयिकः तर्कः । विश्वनाथेन "यद्ययं वह्निमान् न स्यात् तदा धूमवान् न स्यात्, कारणं विना कार्यानुत्पत्तेः" इति विषयपरिशोधकतर्काकार एव दर्शित इति व्याख्यातृभिः स परिष्कृतः । यदि कदाचित् कारणं विनापि कार्यं भविष्यति तदा अहेतुक एव भविष्यति इति तदुपरि शङ्का, तर्हि सा व्याघातप्रदर्शनेन वारणीया । यदि कारणं विनापि कार्यमुत्पद्येत तदा धूमार्थं वह्ने, तृप्त्यर्थं भोजनस्य वा नियमेनोपादानं न स्यात् इति (मुक्ता. ८०) ।
व्याप्यारोपेण व्यापकारोपस्तर्क इति नव्यनैयायिकः अन्नंभट्टः तर्कस्वरूपं संक्षेपेणाकथयत् (त.स. ६९) । आपादयामीत्यनुभवविषयतावच्छेदकतर्कत्वं जातिरिति केषांचिदभिप्रायः । व्यापकाभावप्रकारकनिश्चयविषयीभूते धर्मिणि आहार्यव्याप्यारोपेण तथाविधव्यापकारोपस्तर्क इति अन्येषां मतम् । पक्षे आपाद्यव्याप्यापादकवत्तानिश्चयजन्यज्ञानं तर्क इति वामाचरणभट्टाचार्याः (त.प्र.वि. १) ।
140.
२-५-२ भाट्टसिद्धान्तः - प्रमाणैः साध्यमानस्यार्थस्य अन्यथाभावशङ्कायां तन्निरासाय अन्यथात्वे दोषोद्घाटनं तर्कः । तर्कमिमं बाधकपदेनापि व्यवहरन्ति भाट्टाः (मा.मे. ३५) । अस्येदं स्वरूपम् - प्रमाणेन साध्यमानस्यार्थस्य अन्यथात्वशङ्कायां तन्निरासार्थम् अन्यथात्वे दोषकथनं तर्कः । यद्यत्राग्निः न स्यात् तर्हि धूमोऽपि न स्यात् (मा.मे. ३५) इति ।
तर्कस्य चास्य पञ्चाङ्गानि भवेयुः । यथा व्याप्तिः, तर्काप्रतिहतिः, विपर्यये अवसानम्, अनिष्टम्, अननुकूलत्वमिति [१] । एतादृशाङ्गविशिष्टेन तर्केण साध्यवैपरीत्यं वह्न्यभावादिकमारोप्य हेतुभूतेन तेन हेत्वभावाद्यनिष्टप्रसञ्जनं क्रियते [२] एतादृशाङ्गवैकल्ये तर्काभासः स भवेत् (मा.मे. ३६) । आत्माश्रयादयः दोषाः अनिष्टप्रसङ्गरूपतया अस्मिन्नेव तर्के अन्तर्भवन्ति ।
तर्कोऽयं अनुकूल-प्रतिकूलभेदेन द्विविधः [३] । अयं च व्याप्तिग्रहणसमये अथवा अनुमानोदयवेलायां व्यभिचारशङ्कां
-------------------------------
१.व्याप्तिस्तर्काप्रतिहतिः अवसानं विपर्यये ।
अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ॥ [मा.मे.३५]
२.तत्र प्रसञ्जकस्य आहार्यलिङ्गस्य प्रसञ्जनीयेन व्याप्तिरेष्टव्या । तथा प्रतितर्कैः अप्रतिघातः । प्रसञ्जनीयविपर्यये पर्यवसानम् । एवं चेदेवं स्यात् न चैवमिति । प्रसञ्जनीयस्य चानिष्टत्वं प्रसिद्धम् । अननुकूलत्वं प्रतिपक्षासाधकत्वमिति । [तत्रैव ३५-३६]
३.साध्यानुभावानुवादेन दोषः साध्ये गुणोऽपि वा ।
यत्रानुकूलतर्कोऽसौ साध्यसिद्धावनुग्रहात् ॥
साध्यस्यैवानुवादेन यदनिष्टप्रसञ्जनम् ।
स तर्कः प्रतिकूलः स्यात् साध्यसिद्धिनिरोधनात् ॥ [तत्रैव ३९]
141.
व्युदस्य व्याप्तिशोधनं कुर्वन् अनुमानमनुगृह्णाति [१] । न केवलमयं तर्कः अनुमानप्रमाणस्यैव अनुग्राहकः, किन्तु सर्वेषामपि प्रमाणानाम् । यथा प्रत्यक्षस्य – अयं घटः इति प्रत्यक्षं बौद्धोक्तपरमाणुप्रत्यक्षनिरासकेन तर्केण अनुगृहीतमेव अवयविगोचरं कल्पते । “यदि परमाणुगोचरता स्यात् तर्हि एकत्वेन महत्वेन चायं नावभासेत" इति हि तर्कः (मा.मे. ४२) । एवं सर्वप्रमाणानुग्राहकः तर्कः कथ्यते [२] ।
अस्य अविज्ञाततत्त्वोऽर्थः संदिग्धविषयः भवति । आरोपितं लिङ्गं हेतुः, तत्त्वार्थनिर्णयः फलं च संभवतः [३] । गागाभट्टेन भाट्टचिन्तामणौ तर्कलक्षणमेवमभ्यधायि, यथा - व्याप्यारोपेण व्यापकारोपद्वारा अनिष्टप्रसञ्जनं तर्कः (भा.चि. २७) इति ।
२-३-५ प्राभाकरसिद्धान्तः - प्राभाकरसिद्धान्ते सुप्रथितेषु बृहती- प्रकरणपञ्चिका-तन्त्ररहस्य-प्रभाकरविजयादिषु न मात्रयापि तर्कस्वरूपप्रस्तावः उपलभ्यते । नायमर्थः - तावता प्राभाकराणां तर्कः अनावश्यक इति वा, अनिष्ट इति वा । तत्र कारणमिदमुत्पश्यामः यत् - सामान्यतः प्रमाणेषु, विशेषतश्च
---------------------------
१.भूयोदर्शनतो शक्या दृश्योपाधिनिराक्रिया ।
अदृश्योपाधिशङ्का तु तर्कैरेव निरस्यते ॥ [मा.मे.४७]
२.तस्मात्सर्वप्रमाणानां तर्कोऽनुग्राहकः स्थितः ।
साध्ये विपर्ययाशङ्काविच्छेदः तदनुग्रहः ॥ [तत्रैव ४५]
३.अस्याविज्ञाततत्त्वोऽर्थः सन्दिग्धो विषयो मतः ।
हेतुरारोपितं लिङ्गं फलं तत्त्वार्थनिर्णयः ॥ [तत्रैव ४६]
142.
अनुमाने युक्तिसहपरिष्कारप्रणयनप्रवीणानां नैयायिकानां मार्गमनुधावद्भिः तैः तदीयसिद्धान्त एव अत्रापि अनुसरणीय इत्युदासितमिति ।
अथापि भवनाथमिश्रेण नयविवेकाख्ये ग्रन्थे, तद्व्याख्याने विवेकतत्त्वाख्याने च रविदेवेन, व्याप्तिग्रहोपयिकतया तर्कः प्रकीर्तितः । अतः प्राभाकरैः अन्येषु ग्रन्थेषु अनृट्टङ्कितमपि भवनाथेन नैयायिकवत् व्याप्तिग्रहपरिपन्थ्युपाधिविधूननार्थं तर्कस्य कण्ठरवेणैव उक्ततया [१] इदं निश्चीयते यत् प्राभाकराणां स एव तर्कः अभिमतः, यश्च नैयायिकैरभ्युपगत इति । विवेकतत्त्वाख्याने व्याख्याने रविदेवकृते च तर्कावश्यकता सविस्तरं प्रतिपादिता [२] ।
२-५-४ समीक्षणम् - तर्क इति पदं त्रिष्वपि प्रस्थानेषु एकस्मिन्नेवार्थे प्रायोजि । इदमत्रास्माभिः मनसि निधेयं यत् भाट्टैः कैश्चित् बाधकपदेनापि अयं व्यवाहारीति । प्राभाकरास्तु तर्कविषये नातीव बद्धादराः दरीदृश्यन्ते । बहृतीप्रकरणपञ्चिकादिषु तत्प्रसङ्गाभावात् । यद्यपि मीमांसादर्शने नवमाध्याये ऊहः विचारितः, अथापि नैयायिकोक्तस्य तर्कापरपर्यायस्य ऊहस्य मीमांसकोक्तस्य ऊहस्य च महान् भेद इति
----------------------------
१.यदि चानेकव्यक्त्युपाधिशङ्का, तदानुगतं तदाकृतिकत्वमेकमुपाधिः लाघवात् तर्कतः, उपाधिशङ्कापनयनमपि तर्कात् मानोत्पत्तिसहायादिति दिक् । [न.वि. १२२-२३]
२.नच विषयविवेकेनैव तर्कस्य सहायतेति नियमः, तर्कानुग्राह्यतोपपत्तेरित्यर्थः । [तत्रैव १२२-२३]
143.
उभयदर्शनपरिशीलनेन विभावयामः । अयं च निरुपाधिकसम्बन्धावधारणे भूयोदर्शनस्य सहायकारी ऊहरूपस्तर्कः, स तु एतस्माद् भिन्नः [१] ।
तर्कविषये नैयायिकमतमेव मीमांसकैः स्वीकृतम् । अत एव मीमांसकग्रन्थेषु प्राचीनेषु तत्प्रसङ्गः न भूयान् उपलभ्यते । न्यायवासनावासितेषु नव्यमीमांसकग्रन्थेषु तत्स्वरूपविचारादि समुपलभ्यते । नैयायिकैः तर्कोऽसौ अनुकूल प्रतिकूलभेदेन प्रथमतः द्विविध इत्युक्तः । ततश्च विषयपरिशोधकव्याप्तिग्राहकभेदेन च द्वैविध्यं तस्य तैरभ्युपागामि । मीमांसकानामपि अनुकूल-प्रतिकूलविभाग इष्ट एव । विषयपरिशोधकादिरूपेण विविच्य विभागः न मीमांसकग्रन्थेषु समुपलभ्यते ।
भाट्टैः व्याप्तिः, तर्काप्रतिहतिः, विपर्ययेऽवसानम्, अनिष्टम्, अननुकूलत्वमिति तर्काङ्गानि पञ्चाङ्गीकृतानि । नैयायिका नामप्येतानि न विरुद्धानीति तेषामपि इमान्युपादेयान्येव । अपि च भाट्टैर्यत् सर्वप्रमाणानुग्राहकत्वं तर्कस्य प्रतिपादितं तदपि नैयायिकानां सम्मतमेव ।
एवं व नैयायिकैः प्रथमतः प्रतिपादितः तर्कः भाट्टैः परिगृहीतः सम्यगुपयुक्तः स्वग्रन्थेषु स्वदर्शनानुरोधं परिष्कृतश्चेति तद्ग्रन्थपरिशीलनेन सम्यगस्माभिरवगम्यते । प्राभाकरेषु
---------------------------
१.Cf.EBP. p.246: “Tarka is defined as a method of removing doubt regarding the validity of a proposition by first assuming the truth of its contradictory and then showing that such an assumption leads to an absurd conclusion.”
144.
तावत् सुचरितमिश्र-भवनाथमिश्रावन्तरा अन्यैः तर्कविषये न बहु व्यवसितम् । नयविवेक-विवेकतत्त्वाभ्यामेव शङ्कानिवर्तकतया प्राभाकरैः तर्कः समुपयुक्त इति वयं जानीमः ।
२-६ पक्षता
२-६-१ न्यायसिद्धान्तः - अनुमितिलक्षणैककार्यानुकूलत्वसङ्गत्या समग्रव्याप्तिनिरूपणानन्तरं पक्षधर्मता निरूपणीया । सा च पक्षधर्मता व्याप्यस्य पक्षसम्बन्ध एवेति शिवादित्यः [१] । तदौपयिकी च पक्षता नैयायिकैः सम्यग् व्युत्पादिता । तत्त्वचिन्तामणिकारः गङ्गेशोपाध्यायः पक्षतास्वरूपमेवं न्यरूरुपत् - “सिषाधयिषाविरहसहकृतसाधकप्रमाणाभावः यत्रास्ति स पक्षः ।....यत्र साधकप्रमाणे सति असति वा सिषाधयिषा, यत्र वा उभयाभावतः तत्र विशिष्टाभावात् पक्षत्वम्" (गादा. १०९२) इति । उक्तं च विश्वनाथेनापि कारिकावल्यामेवं पक्षतालक्षणम् [२] । एवं च सिषाधयिषाविरहविशिष्टविध्यभावः पक्षतेति फलितम् । तद्वांश्च पक्षो भवति । न केवलं सिषाधयिषा अथवा साध्यसन्देहो वा पक्षता भवितुमर्हति । घनघर्जितेनैव मेघानुमानोदयात् [३] । उक्तानुमाने सिषाधयिषाया वा साध्यसन्देहस्य वा
-----------------------------
१.पक्षधर्मता च व्याप्यस्य पक्षसम्बन्धः । [स.प.७०]
२.सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते ।
स पक्षस्तत्रवृत्तित्वज्ञानादनुमितिर्भवेत् ॥ [कारि.१६]
३.See HIL. p.433: “The State of being the locus or the minor term (paksata) has been defined by some logicians as the state in which it is doubtful whether the major term abides in it or not. Gangesa prefers to define the minor term as that whose connection with the major term is not known with certainty in consequence of the absence of a desire to know the connection.”
145.
अकारणत्वात् । सत्यामपि सिद्धौ यदि सिषाधयिषा भवति तर्हि अनुमितिः भवत्येवेति सिषाधयिषाविरहविशिष्टसिध्यभावः पक्षतेति विशिष्टान्तं विशेषणम् ।
एवं च सिद्धेरभावे, असत्यां सत्यां वा सिषाधयिषायां पक्षता, यत्र वा सिषाधयिषा वर्तते यत्र सत्यां असत्यां वा सिद्धौ पक्षता भवति । यत्र च सिद्धिरेवास्ति नास्ति सिषाधयिषा तत्र न पक्षता । सिषाधयिषाविरहविशिष्टायाः सिद्धेरेव तत्र सत्त्वात्, तदभावाभावात् । अतः सिषाधयिषाविरहविशिष्टसिध्यभावः पक्षता इति सारः । (मुक्ता. १६-१७) नवीनैस्तु अनुमित्युद्देश्यत्वम्, अथवा अनुमितिप्रयोजनकत्वं पक्षत्वमिति निर्दुष्टं पक्षतालक्षणमुक्तम् [१] ।
२-६-२ भाट्टसिद्धान्तः - असत्यानुमितिसिद्धौ सत्यां वा, असत्यां च अनुमित्सायां, उभयासत्त्वे वा अनुमितिः उत्पद्यत इति लोकानुभवः । अतः अनुमित्साविरहविशिष्टायाः अनुमितिसिद्धेः अभावः पक्षतेति कल्प्यते । यादृशयादृशेच्छासत्त्वे अनुमितिरुत्पद्यते सा सा अनुमित्सा अत्र भवितुमर्हति (भा.चि. २७) ।
एवं च तत्साध्यतावच्छेदकावच्छिन्नसाध्यविशिष्टतत्पक्षतावच्छेदकविशिष्टभिन्नविषयिकानुमितित्वभिन्नप्रमितिभाज-
------------------------------
१.प्राचीनमतं विहाय नवीनैः अनुमित्युद्देश्यत्वं पक्षत्वमिति स्थिरीकृतम् । [न्या.ओ.४३]
146.
कधर्माविषयकतल्लिङ्गतावच्छेदकावच्छिन्नलिङ्गकत्वाप्रकारकत्वे सति तदन्यलिङ्गतावच्छेदकावच्छिन्नलिङ्गकत्वप्रकारिका तल्लिङ्गतावच्छेदकाविरुद्धधर्मविशिष्टलिङ्गकानुमितित्वावच्छिन्नानुद्देश्यिका तद्विशिष्टलिङ्गकत्वाप्रकारकत्वे सत्ति तद्विरुद्धधर्मविशिष्टलिङ्गकत्वाप्रकारिका तल्लिङ्गकान्यकालाविषयिणी या तदन्यानुमित्सा तद्विरहविशिष्टसिध्यभावः पक्षतेति निष्कृष्टं पक्षतास्वरूपम् (भा.चि. २७-२८) ।
२-६-३ प्राभाकरसिद्धान्तः - प्राभाकराणां पक्षता नानुमानाङ्गमिति प्रसिद्धिः । किन्तु बृहतीव्याख्याने ॠजुविमलपञ्चिकायाम् अनुमानाङ्गपरिगणनमेवं कृतम् शालिकनाथेन । यथा - “तदेवं सम्बन्धव्याप्तिपक्षधर्मत्वे हेतुरूपे निश्चिते अनुमानाङ्गमिति स्थितिः" (बृहती.प. ९७) इति । प्रकरणपञ्चिकायां शालिकनाथेन असाधितविषयत्वस्य अनुमितिहेतुत्वमाशङ्क्य खण्डितम् (प्र.प. २११) । तदनन्तरं प्राभाकरमतानुरोधम् अनुमानकारणजातं तेनैवं परिगणितम् । यथा - “तस्मात् पूर्णमिदम् अनुमानकारणपरिगणनम् - नियतसंबन्धैकदेशदर्शनं, सम्बन्धनियमस्मरणम्, अबाधितविषयत्वं चेति" (प्र.प. २१२) इति ।
अतः प्राभाकरमते पक्षतायाः नाङ्गत्वमिति निश्चीयते । उभयत्रापि पक्षतायाः अनुमानाङ्गतया अपरिगणनात् । बृहतीनयविवेकविवेकतत्त्वादिषु च पक्षतायाः प्रस्तावोऽपि नोपलभ्यते । अतः प्राभाकरमतानुरोधं पक्षता अनुमानाङ्गतया नाभ्युपगम्यत इति सारः । अत्रैवं निर्णये अनुमानचिन्तामणिस्थपक्षताप्रकरणे
147.
पक्षता प्राभाकरमते नानुमानाङ्गमिति वदतः गङ्गेशोपाध्यायस्य वचनमस्माकम् अत्यन्तमुपयोगि कल्पत इत्यवगन्तव्यम् ।
२-६-४ समीक्षणम् - नैयायिकैः भाट्टैश्च पक्षतापदं तुल्येऽर्थे प्रयुज्यते । प्राभाकरास्तु कुत्रापि अनुमानाङ्गतया पक्षतेति पदं न प्रयुञ्जते । तेषां मते पक्षताया एव अनङ्गीकारात् ।
पक्षतानिरूपणावसरे नैयायिकमतमेव भाट्टैरभ्युपगतम् । तत्रापि न प्राचीनैः भाट्टैः किन्तु नव्यैः । प्राभाकरैस्तु पक्षताया एव अनङ्गीकारात् नात्र तेषां प्रसक्तिः ।
पक्षस्य भावः पक्षता । सा च साध्यसन्देहः, अथवा सिषाधयिषाविरहविशिष्टसिध्यभावो वेति प्राचीनानां नैयायिकानां भाट्टानां च मतम् । नव्यानां मते तु गगनविशेष्यकमेघप्रकारसन्देहाभावेऽपि गृहध्यस्थस्य धनगर्जितेन "गगनं मेघवत्" इत्यनुमितिरुत्पद्यत इति अनुमित्युद्देश्यत्वमेव पक्षतेति निश्चप्रचम् । एतत्तु समीचीनम् ।
प्राभाकरैरपि अनुमानाङ्गतया पक्षधर्मत्वस्य अभ्युपगमेन पक्षता च तैरङ्गीकृतप्रायेति विभावयाम । अस्मदभिप्रायमुपोद्बलयति शालिकनाथवचनकदम्ब एवम् - “प्रमातारस्तु निवृत्तप्रमित्साः सम्बन्धनियमानुसन्धानं प्रति नाद्रियन्त इति, नानुमानमुदेति" (प्र.प. २१२) इति । वाक्येनानेनेदं ज्ञायते यत् - यदि तेषां प्रमातॄणां प्रमित्सा जायेत तावदनुमितिरुत्पद्यत इति । एवं च सिषाधयिषाविरहविशिष्टरूपं पक्षतालक्षणं प्राभाकरैरपि अवश्यमङ्गीकार्यमित्यायाताम् ।
148.
अन्यच्च पक्षताश्रयत्वस्यैव पक्षलक्षणत्वकथनाद् या काचित् पक्षता तैरप्यवश्यमनुमानाङ्गतया अभ्युपगन्तव्या । पक्षपदस्य विलक्षणेऽर्थे पारिभाषिकत्वात् । पक्षप्रतिपादने तेषामपि वैमत्याभावात् । पक्षाभासादिकस्यापि तैः प्रतिपादितत्वात् ।अतः तैरप्यवश्यं अनुमानाङ्गभूता पक्षता अङ्गीकार्यैव । दार्शनिकेषु प्राभाकरैः पक्षतायाः अनुमानाङ्गत्वं नाङ्गीकृतमिति प्रसिद्धिः [१], तदनुत्कीर्तननिबन्धना अथवा विनष्टप्राचीनप्राभाकरग्रन्थमूला वेति अभ्युह्यते ॥
२-७ परामर्शविचारः
२-७-१ न्यायसिद्धान्तः - परामर्शशब्दोऽयम् इदंप्रथमतया न्यायवार्तिककारेण भारद्वाजोद्योतकरेण पारिभाषिकतया अस्मिन्नर्थे प्रयुक्तः । “स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षोऽर्थोऽनुमीयते" इति वात्स्यायनभाष्यपङ्क्तिव्याख्यानावसरे लिङ्गदर्शनपदं लिङ्गपरामर्शरूपतया अभ्यधायि वार्तिककारेण [२] ।
ये केचिद् एनं परामर्शं नाभ्युपजिगमिषन्ति तैः उपनयोऽपि नैषितव्य इति उदयनाचार्यः परिशुद्धौ अवादीत् । न च
----------------------------
१.प्राभाकरास्तु विनाप्यनुमित्सां क्वचित् परामर्शानुमितिप्रवाहस्याविरललग्नस्य आनुभविकत्वात् कालभेदकल्पनायां च मानाभावात् भानाभावाच्च पक्षता नानुमितिहेतुः । [त.चि.अ.११७५]
२.बुभुत्सावतो द्वितीयात् लिङ्गदर्शनात् संस्काराभिव्यक्त्यनन्तरकालं स्मृतिः, स्मृत्यनन्तरं च पुनर्लिङ्गदर्शनम्, “अयं धूम" इति । तदिदमन्तिमं प्रत्यक्षं पूर्वाभ्यां प्रत्यक्षाभ्यां स्मृत्या चानुगृह्यमाणं लिङ्गपरामर्शरूपमनुमानं भवति । [न्या.वा.२९२]
149.
स्वार्थानुमाने द्वितीयलिङ्गदर्शनेनैव पक्षधर्मतायाः अवगमात् परामर्श अनावश्यक इति वाच्यम् । पक्षधर्मतायाः अनुमानोपयोगित्वात् । सा च उपनयेन प्रदर्श्यते, न द्वितीयलिङ्गदर्शनेन । अतः स्वार्थानुमाने परामर्शं, परार्थानुमाने चोपनयम् अवश्यमभ्युपगच्छन्ति तार्किकाः (परि. ३३८) ।
न्यायसारव्याख्याने न्यायमुक्तावल्याम् अपरार्कदेवेनैवमुक्तम् - “सामर्थ्यं पुनः इदमेव साधनस्य यद् व्याप्तिग्रहणोपकृतं पक्षधर्मत्ववेदनम्" (न्या.मु. १९३) इति । अर्थात्, व्याप्तिविशिष्टपक्षधर्मताज्ञानमित्येव फलति । तत्त्वचिन्तामणिकारोक्तं परामर्शलक्षणद्वयमिदम् - “पक्षधर्मे व्याप्तिविशिष्टज्ञानं, तदनन्तरविशिष्टवैशिष्ट्यज्ञानं, पक्षे वा तृतीयलिङ्गपरामर्शः" (त.चि.अ. १२६२) इति । दीधितिकारः रघुनाथशिरोमणिस्तु "व्याप्यपक्षयोः वैशिष्ट्यावगाहिज्ञानत्वेन हेतुत्वम् । विनिगमनाविरहेण अन्यतरविशेषणविशेष्यभावस्य अतन्त्रत्वात्" (त.चि.अ.दी. १२६२-६३) इति ।
विश्वनाथस्तु व्याप्तिविशिष्टस्य पक्षेण सह वैशिष्ट्यावगाहिज्ञानं परामर्शः । तच्च अनुमितिजनकम् । एतच्च ज्ञानं पक्षे व्याप्यः इति अथवा पक्षो व्याप्यवान् इति वा ज्ञानम् । तत्र च क्रमेण पक्षे साध्यम्, पक्षः साध्यवान् इत्यनुमितिर्जायते इत्यवोचत् [१] । उभयविधादपि परामर्शात् पक्षः साध्यवान् इत्येवानुमितिरुपजायत इति अन्येषां मतम् । वस्तुतस्तु अनुभवानु-
-------------------------------
१.व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते । [कारि.४७५]
150.
रोधेन पक्षविशेष्यकपरामर्शस्यैव हेतुत्वमिति दिनकरभट्टः । तत्र व्युक्तिस्तु "वह्निव्याप्यधूमवांश्चायम्" इत्याकारकः पक्षविशेष्यक उपनय एव; सर्वसम्मतत्वात् (दिन. ४७७) । व्याप्तिविशिष्टं च यत्पक्षधर्मताज्ञानं स परामर्श इति अन्नंभट्टः [२] ।
२-७-२ भाट्टसिद्धान्तः - भाट्टैस्तावत् परामर्शस्य अनुमितिहेतुत्वं नाङ्गीक्रियते । अत एव तैः वाक्यावयवेषु उपनयोऽपि नोररीकृतः । पार्थसारथिमिश्रस्तु परामर्शपदं शास्त्रदीपिकायां प्रयुङ्क्ते [३] । किन्तु स्वमते तस्य अङ्गीकार इति न कुत्रापि प्रतिपादयति । अन्यैश्च भाट्टैः परामर्शशब्दोऽपि न प्रयुज्यते ।
अथ तार्किकैरुच्यमानः व्याप्तिविशिष्टवैशिष्ट्यावगाहिरूपः परामर्शः नानुमितित्वावच्छिन्नं प्रति हेतुर्भवितुमर्हति । वह्निव्याप्यधूमवान् पर्वत इति ज्ञानमन्तरापि यत्र वा पर्वतः धूमवान् इति प्रत्यक्षं, ततश्च वह्निव्याप्यः धूमः इति स्मरणं, तत्र ज्ञानद्वयादेव अनुमितिरुत्पद्यत इति । न सर्वत्र व्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानं अनुमित्युत्पत्तिं प्रत्यपेक्षितम् । परन्तु व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेनैव कारणत्वं तत्रावश्यकम् । अतः विशिष्टज्ञानकल्पनं नैयायिकमते गौरवावहमेवेति भाट्टैः परामर्शस्य अनुमितिं प्रति नियमेन कारणत्वं नाभ्युपगम्यते (त.चि.अ. ११७७) ।
----------------------------------
२.व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा - वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः । [त.स.३४]
३.स्मरणस्यापि तत्परामर्शप्रमोषेन अनुभवाभिमानोपपत्तेः । वस्तुतः अनुभवत्वं त्वसिद्धमेव, प्रमाणाभावात् । [शा.दी.६३]