सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/सप्तविंशोऽध्यायः

विकिस्रोतः तः
← षड्विंशोऽध्यायः प्रकीर्णाऽधिकारः
सप्तविंशोऽध्यायः
[[लेखकः :|]]
अष्टाविंशोऽध्यायः →

अथ सप्तविंशोऽध्यायः॥
प्रायश्चित्तम्
आचार्यस्यर्त्विजां चैव पूजकस्य विशेषतः
यथोक्तवरणे हीने शान्तिं कुर्याद्यथाविधि 1
अब्जाऽग्नौ तु महाशान्तिं दशवारं हुनेत्ततः
यथोक्तं वरणं कृत्वा पश्चात्कर्म समाचरेत्॥ 2
अंकुरार्पणकाले तु ब्रह्मादीनामथाऽर्चने
हविर्निवेदने वाऽपि हीने शान्तिं समाचरेत् 3
तद्दैवत्यं वैष्णवं च हुत्वा-भ्यर्च्य निवेदयेत्
अंकुरार्पणहीने तु वैष्णवं विष्णुसूक्तकम्॥ 4
पुरुषसूक्तं च ब्राह्मं च व्याहृतीश्च हुनेत्तथा
पुनरप्यंकुरान्‌ कृत्वा पश्चात्कार्यं समाचरेत्॥ 5
कृत्वांऽकुरार्पणं पश्चान्नाचरेत्कर्म चेत्ततः
राजराष्ट्रविनाशस्स्यान्महाशान्तिं समाचरेत् 6
`क्षम'स्वेति प्रणम्यैव पुनरंकुंमाचरेत्
अक्ष्युन्मेषात्तु पूर्वं चेत्पीठसंघातकर्मणि॥ 7
अलाभे चैव रत्नानां वैष्णवं विष्णुसूक्तकम्
सूक्तं तु पौरुषं ब्राह्मं सौम्यं चैव तु व्याहृतिः 8
हुत्वा सुवर्णं बहुश स्तत्तत्थ्साने विनिक्षिपेत्
अक्ष्युन्मेषणकाले तु गवादीनामसंभवे॥ 9
दर्शनद्रव्यरूपाणां यथालाभं प्रगृह्य च
तत्तद्द्रव्याधिदैवत्यं वैष्णवं जुहुयात्क्रमात्॥ 10
तत्तद्द्रव्यं च संपाद्य विधिवद्दर्शयेत्पुनः
अक्ष्युन्मेषणहीने वा राहुसौरोदयेऽथ वा 11
अन्धकेचैव नक्षत्रे कृते चैवाक्षिमोचने
सर्वनाशो भवेत्तस्माद्वैष्णवं विष्णुसूक्तकम्॥ 12
नवग्रहादिमंत्राश्च हुत्वाऽक्ष्युन्मीलनं चरेत्
पंचगव्यादिषु द्रव्येष्वधिवासे विवर्जिते॥ 13
हुत्वा वैष्णवमार्षंच विष्णुसूक्तं तथैव च
जलाधिवासं त्रियहमेकाहं वापि कालयेत्॥ 14

  • * *

यज्ञालये महावेद्यां कृतायामप्रमाणतः
अन्यदेशकृतायां वा विहीनायां च शोभनैः 15
तत्तद्देशाधिदैवत्यं वैष्णवं विष्णुसूक्तकम्
श्रीभूदैवत्यं च हुत्वैव यथोक्तं पुनराचरेत्॥ 16

  • * *

ध्रुवबेराऽक्षिमोक्षान्ते यदि बेरं न शोधयेत्
विपरीतेऽपि वा हुत्वा वैष्णवं विष्णुसूक्तकम् 17
पुरुषसूक्तं रौद्रमार्षं वारुणं च पुनश्चरेत्
अग्निकुंडान्यविधिना कृतान्यालक्ष्य सत्वरम्॥ 18
ब्राह्मं सौम्यमथाऽग्नेयं विधिना कारयेत्ततः
अप्रमाणेषु कूर्चादिष्वाज्यपात्र स्रुवादिषु॥ 19
मिंदाहुती च सावित्रं व्याहृतीश्च हुनेद्बधः
पंचाग्निषु यथास्थानं प्रोक्षणोल्लेखने कृते॥ 20
मथिताऽग्नावलाभे तु प्राप्य चाचार्यमंदिरम्
अथ वा श्रोत्रियागारादाहृत्याग्निं समाचरेत्॥ 21
निधाय गार्हपत्येग्निमाघारं जुहुयाद्बुधः
वैष्णवं भूमिदैवत्यमाग्नेयं च हुनेत्क्रमात्॥ 22
तमग्निं वर्धयित्वातु दक्षिणाग्नौ प्रणीय च
तत आहवनीयाग्नावावसध्ये ततः परम्॥ 23
सभ्ये पद्मानले चैवं क्रमात्प्रणयनं चरेत्
विपरीते प्रणयने तत्तन्मंत्रविवर्जिते॥ 24
वैष्णवं पावकं ब्राह्मंसौम्यं हुत्वा पुनश्चरेत्
तत्तदग्निषु चाघारात्पूर्वं तेषामथान्तरा॥ 25
नगच्छेद्यदि गच्छेत्तु तत्तद्दिक्पालदैवतम्
वैष्णवं पावकं चेति प्रायश्चित्तं हुनैत्क्रमात् 26
(उत्पन्ने मथिताऽग्नौ तु शान्ते तत्र प्रमादतः
आदौ प्रणयनादर्वागथवाग्निषु सर्वशः
शान्तिं यथोदितां कुर्यादग्नि सूक्तं सहस्रशः)
तंडुलै रेकजातीयैर्द्विप्रस्थैः पाचयेच्चरुम्
गव्यं च नवनीतं च लौकिकाऽनलसंस्कृतम्॥ 27
संस्कारकाले संस्कुर्यात्तदग्निं मंत्रवत्तदा
आज्यस्थाल्यामथ चरौ मक्षिकादिः पतेद्यदि॥ 28
तद्व्यपोह्यान्यदादाय प्राजापत्यं च पावकम्
वैष्णवं च हुनेदाज्ये त्वलब्धे नूतने पूनः॥ 29
व्यपोह्य दोषं तं दर्भैरुद्दीप्योत्पूय चाचरेत्
आघारितेऽग्नौ नष्टे तु `अयं ते योनि' मुच्चरन्‌॥ 30
आरोपयेच्च समिधं तद्भस्मनि यथार्हतः
`उद्बुद्ध्य'स्वेति निक्षिप्य विधिना लौकिकेऽनले॥ 31
विच्छिन्नं मिंदाहुती च वैष्णवं व्याहृतिपूर्वकम्
परिस्तरादिद्रव्याणां दाहे भेदेऽथ नाशने 32
पुनस्तत्तच्च संयोज्य महाव्याहृतिपूर्वकम्
आग्नेयं मिंदाहुती च वैष्णवं च हुनेद्बुधः॥ 33
पात्रेऽनुक्ते स्रुवं पात्रं गृह्णीयाद्धोमकर्मणि
हविर्विशेषेऽनु क्तेतु घृतं वा सघृतं चरु॥ 34
द्रव्ये प्रमाणहीने तु कापिलेन घृतेन वै
वैष्णवं विंशतिर्हुत्वा पश्चात्कार्यं समाचरेत्॥ 35
प्रायश्चित्ताऽनलेऽनुक्ते छुल्ल्यां नित्यानलेऽपि वा
क्रियाहीने विपर्यासे मंत्राणां संकरेऽपि वा॥ 36
वैष्णवं व्याहृतीश्चैव व्याहृत्यन्तं हुनेत्क्रमात्
पुण्याहहीने पुण्याहमंत्रान्‌ द्वादशशो जपेत्॥ 37
वास्तुहोमविहीने तु तन्मंत्रान्‌ दशशो हुनेत्
प्रायश्चित्तविशेषे यद्यनुक्ते वैष्णवं ततः॥ 38
विष्णुसूक्तं पौरुषं च सूक्तं हुत्वा समाचरेत्

  • * *

रत्नप्रतिनिधी रुक्मं धातूनां पारदं तथा॥ 39
बीजानां च यवाः प्रोक्ताः पूर्वालाभे परस्स्मतः
रत्नानां प्रणिधिं गृह्य वैष्णवं विष्णुसूक्तकम्॥ 40
दिग्दैवत्यं वैष्णवं च धातूनामथ तत्परम्
बीजानां प्रणिधिं गृह्य वायव्यं वैष्णवं तथा 41
हुने द्विंशतिवारं तु प्रत्येकं दोषशान्तये
वस्त्रेलक्षणहीने वा युक्ते छेदादिना ततः 42
तत्त्यक्त्वान्यं समाहृत्य श्रीदैवत्यं च वैष्णवम्
अंडजादिद्वलब्धेषु वस्त्रं प्रत्येकमाहरेत्॥ 43
वैष्णवं श्रीभूदैवत्यं हुत्वा कार्यं समाचरेत्
प्रमाणहीनेषु पुनस्तोरणादिषु चाऽत्वरः 44
पृथग्द्वाराधिदैवत्यं जुहुयाद्विंशतिं बुधः
दर्भरज्ज्वां विहीनायां हुनैदार्षं च वैष्णवम्, 45
कुंभे प्रमाणहीने वा दोषयुक्तेऽपि वा तथा
वस्त्राभ्यां वर्णचिह्नैश्च हीने नाऽत्रवसेद्धरिः 46
यत्नेन तानि निक्षिप्य वैष्णवं विष्णुसूक्तकम्
पुरुषसूक्तं च ब्राह्मं च मुनिमंत्रांश्च पावकम्॥ 47
जुहुयाद्दशकृत्वन्तु विप्राणां भोजनं चरेत्
आचार्यदक्षिणांदद्यात्सफलं भवति ध्रुवम्॥ 48
भिन्ने तु साधिते कुंभे वैष्णपं विष्णुसूक्तकम्
पुरुषसूक्तं ब्राह्ममैन्द्रमाग्नेयं चार्षमेव च॥ 49
हुत्वा विंशतिकृत्वन्तु दद्यादाचार्यदक्षिणाम्
ब्राह्मणान्‌ भोजयित्वैव संपूज्यैव च वैष्मवान्‌॥ 50
अन्यत्कुंभं समाहृत्य पूर्ववत्साधयेद्बुधः
स्पृष्टे तु साथिते कुंभे पतितैः कुक्कुटादिभिः॥ 51
तद्व्यपोह्यार्यदादाय पूर्ववत्साधयेत्तथा
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च॥ 52
ब्राह्मं सौरमथाऽग्नेयमष्टाधिकशतं यजेत्
आचार्यदक्षिणां दद्याद्वैष्णवान्‌ पूजयेद्विधिः॥ 53

  • * *

स्पर्शदुष्टे तथा बेरे स्नपनं शास्त्रतश्चरेत्
पूर्वोक्तां निष्कृतिं कृत्वा पश्चात्कार्यं समाचरेत्॥ 54
न्रुवादीनामलाभेतु स्रुवेणैव हुनेद्धविः
श्वकुक्कुटाद्यैस्संस्पृष्टे कुंडे तं तं व्यपोह्य च 55
कुंडं तु पूर्ववत्कृत्वा कृत्वाऽघारं यथाविधि
आग्नेयं वैष्णवं पंचवारुणं मूलहोमकम्॥ 56
शतशो जुहुयात्कुर्याद्ब्राह्मणानां च भोजनम्
अलाभे समिधां कृह्य पालाशीर्वटसंभवाः॥ 57
आग्नेयं वैष्णवं ब्राह्मं हुत्वाकार्यं समाचरेत्
दर्भान्‌ कुशान्वा समिधो मासातीतान्‌ प्रगृह्य च॥ 58
वारुणं वैष्णवं ब्राह्मं सौम्यमाग्नेयमेव च
आदित्यं जुहुयाच्चैव दोष शान्तिर्भवेत्तथा॥ 59
दधि क्षीरं गृहीतं चेदाजं माहिषमेव वा
वैष्णवं ब्राह्ममाग्नेयं सौरं च व्याहृतीर्हुनेत्॥ 60
अनुक्तदेशादानीता मृदो वा वालुका स्तथा
अग्निकुंडार्थमाहृत्य वारुणं वैष्णवे हुनेत्॥ 61
आर्द्रं सधूमं दुर्गंधं लेपयुक्तं सकंटकम्
जंतुयुक्तं क्षिपेद्वह्नाविंधनं तत्परित्यजेत्॥ 62
अन्यत्प्रक्षिप्य चाग्नेयं वैष्णवं व्याहृतीर्हुनेत्
वस्त्रादिद्रव्ये दर्भेषु प्रपायां कूट एव वा॥ 63
दग्धायामग्निना ब्राह्मं वैष्णवं सौरमेव च
आग्नेयं वैष्णवमिति प्रत्येकं दशशो हुनेत्॥ 64
कलशन्यासरचनाविपर्याने तु वैष्णवम्
पंक्तीशदैवत्यं च हुनेत्ततश्शास्त्रवदाचरेत्॥ 65
स्नपने तु विपर्याने बेरस्य जुहुयाद्बुधः
पंचवारुणमंत्रांश्च वैष्णवं च यथाविधि॥ 66
शयने चेद्विपर्यासो वैष्णवं श्रीमहीमनून्‌
कलशस्नानशयने प्रत्येकं दशशो हुनेत्॥ 67
हीने वा विपरीते वा तत्र हौत्रप्रशंसने
ब्राह्मं मुनींद्रमंत्रांश्चहुनेत्पारिषदामपि॥ 68
अवाहनादावर्चायां विपरीते विवर्जिते
वैष्णवं विष्णुसूक्तं च ब्राह्मं रौंद्रं हुनेद्दश॥ 69
सर्वेषामुक्तहोमानां विपरीते विवर्जिते
पद्माग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषम्॥ 70
शयानमुद्धरेद्देवमकाले चाऽप्यमन्त्रकम्
हुत्वा श्रीभूमिदैवत्यं चतुष्कृत्वन्तु शाययेत्॥ 71
हीने चाऽध्ययने सारस्वतमष्टाधिकं शतम्
प्रायश्चित्तं च हुत्वैव यथाशास्त्रं समाचरेत्॥ 72
यथालाभं च गृह्णीयादलाभे षोडशर्त्विजाम्
तंत्रेण कारयेत्सर्वमेष शास्त्रविधिस्स्मृतः 73
प्रतिष्ठायामुत्सवेवा तथान्यच्छुभकर्मणि
कुर्वतां तु पुरश्चर्यामाचार्यस्य र्त्विजां तथा॥ 74

  • * *

आस्नानाद्दीक्षितानां तु नाऽशौचःपरिकीर्तितः
मोहादनुष्ठिताशौचाःपतन्तिनरकेऽशुचौ॥ 75
गृह्णीया त्संस्कृतांस्तान्वा पुनरन्यानथाऽपि वा
आचार्य स्थ्सापकादींस्तु भर्त्सनादिकमाचरन्‌॥ 76
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च
ब्राह्मं सारस्वतं हुत्वा ताननुज्ञाप्य चाऽचरेत्॥ 77
आचार्यदक्षिणाकालेऽतीते हुत्वा तु वैष्णवम्
मुनिमंत्रंच जुहुयात्पृथगष्टोत्तरं शतम्॥ 78
यथोक्तदक्षिणां दद्यादर्थलोभं न कारयेत्

  • * *

ब्राह्मणानामन्नदाने विहीने शान्तिमाचरेत्॥ 79
त्रियहं तु महाशान्ति स्तद्दोषविनिवारिणी
हन्त्यल्पदक्षिणो यागः फलं दद्यात्सदक्षिणः॥ 80
यज्ञस्य दक्षिणा जीवस्तस्माद्यत्नेन पालयेत्
इयं तात्कालिकीज्ञेया भूमिमग्रे प्रदापयेत्॥ 81
अर्चकस्यार्चनार्धं च कुटुंबार्थं विशेषतः
भूमिभोगमकल्प्यैव महाशान्तिं समाचरेत्॥ 82
असंकल्पितवृत्तिस्तु देवावासो न वर्धते
अर्चकः प्रणिधिर्यस्माद्राज्ञो राष्ट्रस्य कल्पते॥ 83
तस्मात्समाहितः कुर्याद्यथा पूजा न लुप्यते
आपद्यपि च कष्टायां पूजामेतां न लोपयेत्॥ 84
यदैव लुप्यते पूजा येन केनाऽपि हेतुना
अग्रेऽर्चकमियाद्दोष आर्द्रमेषोऽपराध्यति॥ 85
तस्माद्दायेन भूम्यादि स्थिरदानेन सादरम्
रूढाधिकार एवाग्रे प्रवर्तेताऽर्चनेऽर्चकः 86
यस्मादर्चनहीने तु राजराष्ट्रादिसंक्षयः
तद्ग्रामवासिनस्तस्माद्राजा राष्ट्रगता अपि॥ 87
भगवत्पूजनाहेतो रुपकुर्युः प्रयत्नतः
आर्द्रापराधो भवति यस्माद्दोषेषु पूजकः॥ 88
तं वृत्तिकर्शितं दृष्य्वा राजा च ग्रामवासिनः
सुखितं तं तथा कुर्युर्यथा देवस्तथार्चकः 89
दत्वृत्तिमधिकां चापिन शंकेयुरसूयवः
यथार्हमुपयुंजीरन्‌ स्वशक्तिं तत्सुखाय वै॥ 90
प्रतिष्ठान्ते तु विधिवदर्चके त्वप्रकल्पिते
आसुरी सा भवेदर्चा कर्ता नैवाप्नु यात्फलम्॥ 91
देवेन सार्थमुद्दिष्टं यत्कुलं पूजकस्य तु
तदतिक्रम्य पूजां तु कारयेदितरेण चेत्॥ 92
रौरवं नरकं याति कर्ता कारयिता च यः
तस्मा त्सर्वप्रयत्नेन शास्त्रोक्तं परिपालयेत् 93
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
न हि प्रतीक्षते मृत्युः कर्तव्यो धर्मसंग्रहः 94
न त्य क्तविभवो जातु भवेच्च विभवे सति
यथाशक्ति प्रकुर्वीत विभवांश्च न लोभयेत्॥ 95

  • * *

अलाभे कौतुकादीनां सुवर्णं न्यस्य वैष्मवम्
विष्णुसूक्तं नृसुक्तं च वायव्यं दिगधीश्वरम्॥ 96
सभ्येऽन्तहोमहीने तु वैष्णवं पावकं तथा
व्याहृतीश्च हुनेद्विद्वान्‌ दशकृत्वस्समाहितः 97
अग्निग्रहणहीने तु हुत्वा पूर्वोक्तनिष्कृतिम्
श्रोत्रियावसथादग्निमाहृत्याऽघारवूर्वकम्॥ 98
नित्यहोमं च जुहुयात्ततः प्रभृति चाचरेत्
ध्रुवादावाहयेद्यस्मात्कौतुकादि चतुर्ष्वपि॥ 99
प्रमादात्कुंभतीर्थेन तेषामावाहने कृते
`इषेत्वे'त्यादिना स्नाप्य शीघ्रं शुद्धेन वारिणा॥ 100
अनुमान्य च देवेशं वैष्णवं विष्णुसूक्तकम्
जुहुयात्पौरुषंसूक्तं ध्रुवादावाहयेत्पुनः॥ 101

  • * *

अथनित्यार्चनायान्तु प्रायश्चित्तं प्रवक्ष्यते
सूर्योदयाच्च मध्याह्नात्पूर्व मस्तमयादपि 102
कवाटोद्घाटने हीने नित्याऽग्नौ वा महानने
वैष्णवं धात्रादिदैवत्यं हुत्वा दौवारिकं तथा 103
शीघ्रमुद्घाटयेद्द्वारं देवदेवं प्रणम्य च
अमंत्रकमथान्यैर्वा कवाटोद्घाटने कृते॥ 104
पूर्वोक्तं जुहुयाच्छान्तिं जपेद्द्वादशसूक्तकम्
मार्जनादिषु हीनेषु निर्माल्येचाऽप्यशोधिते॥ 105
वैष्णवं वारुणं हुत्वा वायव्यं शान्तमेव च
यथावत्कारयेत्सर्वं मंत्रेणैव पुनर्गुरुः॥ 106
द्रव्यप्रतिनिधिस्तोयमलाभे तेन चाऽचरेत्
देवस्य स्नपने हीने वैष्णवे वारुणं हुनेत् 107
`अपो हि'ष्ठादिभिर्मंत्रैस्स्नावये न्निष्कृतिर्भवेत्
पश्नान्नित्यं प्रकुर्वीत स्नानं नित्यार्चनोदितम्॥ 108
अशक्तौस्नापने प्रोक्ष्यं मंत्रेण कुशवारिभिः
वस्त्रादींश्च व्यपोह्यैव धौतवस्त्रं समर्पयेत्॥ 109
नित्यं स्नानमशक्यं चेद्विष्णुपंचदिनेषु वै
स्नापयेद्देवदेवेशमिति केचिद्वदन्तिहि॥ 110
ध्रुवपीठेतु निर्माल्यं संशोध्य पुनरेव च
पुष्पन्यासं प्रकुर्वीत ध्रुवे नित्यार्चनं भवेत्॥ 111
पुष्पन्यासं विनाकुर्यात्कौतुकस्यार्चनं यदि
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तधैव च 112
हुत्वा च विष्णुगायत्रीं पुष्बन्यासं क्रमाच्चरेत्
संबंधकूर्चहीनेतु वैष्णवं मुनिमंत्रकम्॥ 113
हुत्वासन्न्यस्य कूर्चं तु पश्चात्कार्यं समाचरेत्
धात्राद्यर्चनहीने तु तद्दैवत्यं सवैष्णवम् 114
हुत्वार्चये द्धातृमुखान्‌ तथा परिषदः क्रमात्
उपचारविपर्यासे `क्षम'न्वेति प्रणम्य च 115
अनुमान्यार्चये द्देवं हीने चैव तु विग्रहे
तद्देवतामनुं जप्त्वा वैष्णवं च विशेषतः 116
पुनस्तदुपचारादि पूजये त्सर्वविग्रहैः
उक्तद्रव्ये ष्वलब्धेषु पुष्पं तोयमथाऽक्षतम् 117
गृहीत्वा चैव तत्सर्वं ध्यात्वा देवं समर्चयेत्

  • * *

अर्चाकालेऽन्यकालं वा स्मये वा मूषिकादिभिः॥ 118
मरुता वाऽपि विच्छिन्नमजस्रं दीपमादरात्
द्विगुणं तु समुद्दीप्य सौरं रौद्रं च पावकम्॥ 119
वैष्णवं च तथाहुत्वा पुनरर्चनमाचरेत्
तत्काले सर्वदीपानां नाशे दोषो महत्तरः 120
देवं शुद्धोदकैस्स्नाप्य कुशोदैरभिषिच्य च
पूर्वोक्तां निष्कृतिं हुत्वा द्विगुणं तु निदेवयेत्॥ 121
बहुदीपेषुचैकस्मिन्नष्टे तेनन दुष्यति
मंत्राणां स्खलने मूर्त्याप्रणवेन सहाचरेत् 122
अर्चाकाले यवनिकाहीने चैव प्रजापतिम्
वैष्णपं चैव हुत्वा तु पटं कृत्वाऽर्चयेत्पुनः॥ 123
वेददूषक पाषंड पापरोगान्वितैर्जनैः
प्रतिलोमादिभिर्ल्मेच्छैरन्त्यजातिभिरेव च॥ 124
तत्काले दर्शने हुत्वा वैष्णवं ब्राह्ममेव च
रौद्रं च पावकं हुत्वा व्याहृतीश्च ततोऽर्चयेत्॥ 125

  • * *

यदि चावरणाद्बाह्ये पंचाशद्दंडकान्तरे
मनुष्याणां मृतिस्स्यात्तदुद्धृत्यैवार्चयेद्धरिम्॥ 126
नैवार्चनं हविर्दानं ततः पूर्वं समाचरेत्
ध्रुवकौतुकयोः कुर्यात्पुष्पन्यासावसानकम्॥ 127
पश्चात्कालात्यये शान्तिं हुत्वा द्विगुणमर्चयेत्

  • * *

एककालार्चने हीने द्वितीये द्विगुणं चरेत्॥ 128
तृतीये त्रिगुणं कुर्यादेकाऽहेऽर्चाविवर्जिते
वैष्णवं विष्णुसूक्तं च पुरुष सूक्तं तथैव च 129
हुनेच्छ्रीभूमिदैवत्यं द्व्यहे तु द्विगुणं भवेत्
त्य्रहे त्रिगुणमेवन्तु द्वादशाहान्तमाचरेत्॥ 130
अतीते द्वादशाऽहेतु संधायौपासनाऽनले
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च 131
आलये परिषद्देव मंत्रान्‌ हुत्वा च शक्तितः
कलशैस्स्नाप्य देवेशमभ्यर्च्य हविरर्पयेत्॥ 132
मासं हीनेऽर्चने कुर्यादालयाऽभिमुखे गुरुः
सभ्याग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषम्॥ 133
हुत्वा श्रीभूमिदैवत्यं सर्वदैवत्यमेव च
कलशैरष्टभिश्च त्वारिंशद्भिस्स्नापयेद्धरिम् 134
विशेषेण हविर्दद्याद्द्वितीयेद्विगुणं तथा
तृतीये त्रिगुणं चैवं वत्सरानन्तु वर्धयेत्॥ 135
अतीते वत्सरे चैवं पद्माग्नौ सप्तवासरम्
महाशान्तिं तु हुत्वैव कृत्वा वैष्णवपूजनम्॥ 136
ब्राह्मणान्‌ भोजयित्वैव शताष्टकलशैः पुनः
संस्नाप्य देवदेवेशं पुनस्थ्सापन माचरेत्॥ 137
अक्ष्युन्नेषाधिवासौ तु पुनस्थ्सापनकर्मणि
हित्वान्यत्सकलं कर्म पूर्ववत्तु समाचरेत्॥ 138
हविर्हीने जनास्सर्वेतद्ग्रामस्थास्समीपगाः
पीडिताः क्षुत्पिपासाद्यैर्भवेयुर्व्याधिता अपि 139
तस्मादतिप्रयत्नेन हविस्सम्य ङ्निवेदयेत्
हीने हविष्येक काले द्वितीये द्विगुणं भवेत् 140
तृतीये त्रिगुणं कुर्यादेकस्मिन्‌ दिवसे गते
वैष्णवं श्रीमहीमंत्रान्‌ मूर्ति होमं तथा हुनेत्॥ 141
देवं शुद्धोदकैस्स्नाप्य प्रभूतं तु निवेदयेत्
सोपदंशमपक्वं च शीतं पर्युषितं तथा॥ 142
पात्रान्तरेष्वनिक्षिप्तं सावशेषं च लंघितम्
विवृतं स्रावितं चैव विकृतं दृष्टि दूषितम्॥ 143
अप्रोक्षितमथास्पृष्ट मगृहीतममुद्रितम्
हविर्निवेदयेच्चेत्तु वैष्णवं श्रीमहीमनून्‌ 144
आग्नेयं वारुणं चैव वायव्यं दशशो हुनेत्
द्विगुणं तु पुनःकृत्वा प्रभूतं तु निवेदयेत्॥ 145
निवेद्य चाशुमिस्पृष्टं देवं संस्नाप्य मंत्रतः
वैष्णवं विष्णुगायत्रीं त्रयस्त्रिंशत्क्रमाद्धुनेत् 146
जुहुयाद्विधिनाशान्तिं प्रोक्षणैरपि प्रोक्षयेत्
पुण्याहं वाचयित्वैव द्विगुणं चार्चनं हविः॥ 147
व्रीह्यंगारतुषैर्युक्तेशर्करादिविमिश्रिते
निवेदिते तु हविषि मंत्रेणाऽष्टाक्षरेण तु॥ 148
वैष्णप्या चैव गायत्य्रा मंत्रैस्संस्तूय वैष्णवैः
`क्षम'स्वेत्यनुमान्यैव प्रणमयैव च याचयेत्॥ 149
मक्षिकाद्यैर्जंतुभिश्च केशाद्यैरपि दूषिते
निवेदिते तु हविषि शुद्धोदैस्स्नाव्यवै हरिम् 150
वैष्णवं विष्णुसूक्तं च श्रीभूदैवत्यमेव च
अष्टोत्तरशतं हुत्वा द्विगुणं तु निवेदयेत् 151
महाहविषि चैतैन्तु संयुक्ते तत्र दूषितम्
पुरुषाशनमात्रं तु व्यपोह्य तदनन्तरम्॥ 152
भस्मांऽभसाकुशै `रापो हिरण्य पवमान'कैः
प्रोक्ष्य देवं सुसंप्रार्ध्य तद्गृहीत्वा निवेदयेत्॥ 153
पूर्वमर्कोदयात्पक्व मुपदंशमथो हविः
कोष्णं चेदर्पये त्प्रातरर्चनान्तेन दोषभाक्॥ 154
पूर्व मस्तमयात्पक्वं तथा सायं निवेदयेत्॥

  • * *

असंस्कृतं तु तांबूलं लेपकेशान्वितं तथा॥ 155
जंतुस्पृष्टं निवेद्यैव वैष्णवंश्रीमहीमनुन्‌
हुत्वा संस्कृत्य तांबूलं पुनरन्यन्निवेदयेत्॥ 156
अर्चनांऽगेषु चान्येषु पदार्थेष्वेवमेव हि
दूषितेष्वध हीनेषु तस्य तस्याऽधिदैवतम्॥ 157
मंत्रं स वैष्णवं हुत्वा पुनरन्यैस्समर्चयेत्
अलाभे चैव सर्वेषां पुष्पं तोयं प्रगृह्यच 158
संकल्प्यैव प्रतिनिधिं तत्तत्स्मृत्वा समर्चयेत्

  • * *

नित्यहोमे विहीनेतु वैष्णवं दशशो हुनेत्॥ 159
यथोक्तहोमं द्विगुणमाचरेत्तदनन्तरम्
अग्निसंरक्षणेऽशक्ता `वयंते यो'निमुच्चरन्‌॥ 160
समिध्यारोपयेत्कुंडात्पश्चात्संस्थाप्य लौकिके
न्यस्य `चोपावरो'हेतिप्रत्यहं जुहुयात्क्रमात्॥ 161
सुरर्षिमनुजानां तु बलं यस्मात्पृवर्धते
तस्माद्बलिस्समाख्यातस्तदर्थं प्रत्यहं हरिम्॥ 162
उक्तद्रव्येषु चावाह्य त्रिषु कालेषु देशिकः
अभ्यर्च्य भ्रामयेदेवमशक्तः कर्तुमुत्तमम्॥ 163
यथोक्तपात्रे निक्षिप्य बलिद्कव्यंतु केवलम्
तस्योपरि यथोक्तं तु बलिबेरं च विन्यसेत्॥ 164
शिरसा धारयन्‌ पात्रं त्रिर्द्विर्वा सकृदेव वा
देने ततः परीयाच्च देवागारं प्रदक्षिणम्॥ 165
अथ हित्वा बलिद्रव्यं शिबिकादौ गजेऽथवा
अरोप्य याने विधिवत्कारयेच्च प्रदक्षिणम्॥ 166
प्रातर्भ्रमणहीने तु वैष्मवं सौरसौम्यकम्
प्राजापत्यं च जुहुयाद्धीने चोक्तप्रदक्षिणे॥ 167
वैष्णवं गारुडं हुत्वा बलिभ्रमणमाचरेत्
हीने प्रातर्बलौ कुर्यान्मध्याह्ने द्विगुणं बलिम्॥ 168
तथा हीने च मध्याह्ने रात्रौ त्रिगुणमाचरेत्
एकाहे तु बलौ हीने नित्याग्नौ वा महानने॥ 169
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च
दिग्दैवत्यं च हुत्वा तु प्रदक्षिणनुथाचरेत्॥ 170
देवालंकारहीने तु श्रीदैवत्यं यजेद्बुधः
छत्रपिंछाद्यलाभे तु वारुणं जुहुयात्तथा॥ 171
अलाभे चामरादीनां वायव्यं चैव हूयते
दीपालाभे पावकं च व्याहृत्यन्तं यजेत्त्रयम्॥ 172
द्व्यहे तु द्विगुणं कुर्वात्त्य्रहे त्रिगुणमेव च
द्वादशाहान्तमेवं स्याद्द्वादशाहे गते ततः॥ 173
औपासनाऽग्निमाधाय वैष्णवं विष्णुसूक्तकम्
पुरुषसूक्तं च श्रीभूमिदैवत्यं ब्राह्म मेव च॥ 174
रौद्रं दिग्देवतामंत्रं हुत्वैव भ्रमणं चरेत्
मानेऽतीते तु पद्माग्नौ वैष्णवं विष्णुसूक्तम् 175
नृसूक्तं पारमात्मीकमींकारादीं स्तदालये
परिषद्देवमंत्रांश्च हुत्वा भ्रमणमाचरेत्॥ 176
द्विमासे द्विगुणं कुर्यात्त्रिमासे त्रिगुणं चरेत्
वर्धये द्वत्सरान्तं चाऽप्यतीते वत्सरे पुनः 177
सभ्यं संसाध्य देवाऽभिमुखे वा दक्षिणे नलम्
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च॥ 178
श्रीभूम्योश्चैव दैवत्यं सर्वदैवत्यमेव च
हुत्वा चार्यं च संपूज्य बल्युद्धरणमाचरेत् 179
पतितेऽन्नबलौ भूम्यां भिन्ने जीर्णे च पूर्ववत्
बलिमापाद्य हुत्वा च वैष्णवं गारुडं तथा॥ 180
प्राजापत्यं तु विधिना ततः कुर्यात्प्रदक्षिणम्
बल्युद्धरणकाले तु विघ्नश्चेदापतेत्तदा॥ 181
सौरं सौम्यं वैष्णवं च हुत्वा पुनरथाचरेत्
पात्रालाभे हविःपात्रं हुनैदादाय वैष्णवम्॥ 182
प्रमाणहीनेऽन्नबलौ वैष्णवं च प्रजापतिम्
जुहुयाद्दोषदुष्टे तु हविर्निष्कृतिमाचरेत्॥ 183
आवाहनं विना चान्नबलौ तु भ्रमणेकृते
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च 184
हुत्वा श्रीभूमिदैवत्यं विधिना भ्रमणं चरेत्
बल्यग्रखंडे विधिना शान्ताय त्वनिवेदिते॥ 185
वैष्णवं मूर्तिमंत्रं च हुत्वैव दशशः क्रमात्
निवेद्य विष्वक्चेनाय प्रदाय मुखवासनम्॥ 186
पुनश्च बल्युद्धरणं विधिना कारयेत्ततः

  • * *

अकृते बलिदाने तु प्राश्य पादोदकं हरेः 187
प्रसादं चापि संप्राश्य पुनर्द्विगुणमर्चयेत्
प्रवृत्तायां तु पूजायां हविर्दानान्तमेव च 188
तीर्थप्रसाददानं वा पादुकाग्रहणं तथा
नशस्तमन्यथा कृत्वा शान्तिहोमं समाचरेत्॥ 189
पूजान्ते पूजकात्पूर्वमन्यस्तीर्थादिकं पिबेत्
प्रसादं वापि गृह्णीयात्तत्पूजा निष्फला भवेत्॥ 190
महाशान्तिं तथा हुत्वा पुनःपूजां समाचरेत्
तीर्थं पुष्पं ततः क्षीरं गन्धं च तदनन्तरम्॥ 191
सर्वाण्वपि हवींष्यत्र नागवल्लीदलान्यपि
यद्यन्निवेदितं देवे दद्यादग्रेऽर्चकाय च॥ 192
अर्चकस्तु हरिस्साक्षाच्चररूपो यतस्स्मृतः
नित्ये कर्मणि सर्वत्र पूजकं पूर्वमर्चयेत्॥ 193
आचार्य मर्चकं वाथ तथा नैमित्तिकेऽर्चयेत्॥
यद्यवैखानसो विप्रः कदापि हरिमन्दिरे॥ 194
समिच्छेदग्रसन्मानं तद्देवस्य विमाननम्
यजमानो विपन्नस्स्याद्राजराष्ट्रं विनश्यति 195
अज्ञानादथ वा मोहादाचले दन्यथायदि
द्विगुणं तु समभ्यर्च्य चान्यद्द्विगुण माचरेत्॥ 196
अशुचिर्वा प्यनाचार स्सदावैखानस श्शुचिः
पिता मृष्यति पुत्राणां विशंकं दोषसंचयम्॥ 197
पिता हि भगवान्‌ विष्णुपुत्रास्स्युः पूजका हरेः
तस्मात्तेषु न कुप्येत दीर्घम्युर्जिजीविषुः 198

  • * *

अतःपरं प्रवक्ष्यामि निष्कृतिं स्नपनाश्रिताम्
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नपनं भवेत्॥ 199
विषुवे चायनद्वंद्वे स्नपनं नित्यमुच्यते
चंद्र सूर्योपरोगे यन्नैमित्तिकमिति स्मृतम्॥ 200
शेषेषु स्नपनं यत्तत्काम्यं तु परिकीर्तितम्
नित्यस्नापनहीने तु वैष्णवं विष्णुसूक्तकम् 201
पुरुषसूक्तं वारुणं च दशकृत्वो हुनेत्पुनः
स्नपनं विधिवत्कुर्यान्नि त्यस्नपन निष्कृतिः 202
ग्रहणे स्नपने हीने पूर्ववन्निष्कृतिं चरेत्
काम्ये च पूर्ववत्कृत्वा शुद्धोदैरभिषेचयेत्॥ 203
अन्यथा चेन्महादोषो यजमानो विनश्यति
आलयात्पुरतश्चैव उत्तरे वा मनोरमे॥ 204
उत्तमं स्नपनागारमैशान्यां मध्यमं भवेत्
पश्चिमे दक्षिणे चैवमधमं संप्रकीर्तितम् 205
आग्नेय्यादिषु कोणेषु स्नपने वैष्णवं तथा
विष्णुसूक्तं नृसूक्तं च दिगीशानां मनुं हुनेत्॥ 206
स्नपनं कारयेत्पश्चादेषा व्यत्यय निष्कृतिः
संध्याकालेतु संप्राप्ते निमित्तस्नपने तथा 207
नैमित्तिकं समाप्यैव नित्यपूजं समाचरेत्
अन्यथा वैष्णवं मंत्रं शतवारं जपेत्सुधीः 208

  • * *

पूर्वरात्रौ प्रतिसरे हीने च शयने तथा
वैष्णवं श्रीमहीमंत्रान्‌ हुत्वा सौदर्शनं तथा॥ 209
शय्याधिवासनं हित्वा बंधयेत्कौतुकं पुनः
एमबेरे कौतुके तु कर्तव्ये शयनं विना॥ 210
बद्ध्वा प्रतिसरं सद्यस्स्नपनं सम्यगाचरेत्
कृतेंऽकुरार्पणे हीने स्नपने वैष्णपं तथा॥ 211
सौम्यं श्रीभूमिदैवत्यं वैघ्नं हुत्वाऽभिषेचयेत्
विनांऽकुरार्पणं चाऽथ स्नापयेदिति केचन॥ 212
प्रमाणहीनेऽधिके वा पंक्तौ स्नानाऽवटेऽपि च
वैष्णवं भूमिदैवत्यं पंक्तीशस्य मनुं यजेत् 213
हीने शान्ताद्यर्चने च वैष्णवं शान्तमेव च
पंक्तीशस्यार्चने हीने तन्मंत्रं च जयादीकान्‌॥ 214
इंद्राद्यर्चनहीने तु तन्मन्त्रं वैष्णवं हुनेत्
कलशेष्वप्रमाणेषु वैष्णवं वायुदैवतम्॥ 215
आग्नेयं जुहुयान्मृत्सु हीनास्वत्र च वैष्णवम्
भूदैवत्यं च जुहुयान्मृत्सु सर्वास्वयं विधिः॥ 216
पर्वतेष्यप्रमाणेषु वैष्णवं पावकं हुनेत्
धान्येषु वैष्णवं चैव वायव्यं च हुनेद्बुधः॥ 217
अंकुरेषु विहीनेषु वैष्णवं गारुडं तथा
जुहुयाद्व्याहृतीश्चैव यथार्हं संभरेत्पुनः 218
वर्णहीनेष्वमानेषु मंगलेषु तु वैष्णवम्
ऐंद्रं च जुहुयात्कुर्याद्यथार्हं संभरेदपि॥ 219
पंचगव्ये मंत्रहीने विहीने योगकर्मणि
जुहुयाद्वैष्णवं रौद्रं मंत्रेणैव सुयोजयेत्॥ 220
उक्तप्रमाणहीनेषु पंचगव्यादिषु क्रमात्
प्रधानेषु जलैःपूर्व द्रव्याधिपमनुं तथा॥ 221
वैष्णवेनैव मंत्रेण सह हुत्वा समाचरेत्
प्राशनं प्रोक्षं वापि शास्त्रेऽस्मिन्‌ यत्र चोद्यते॥ 222
अयमेव विधिर्ज्ञेयः पंचगव्यस्य सर्वतः
साधिते कलशेभिन्ने त्वन्यमादाय पूर्ववत् 223
आपूर्याभ्यर्च्य दशशो वैष्णवं जुहुयात्ततः
कलशानां विपर्यामे तद्धृतेनैव चाप्लुते॥ 224
वैष्णवं द्रव्यदैवत्यं हुत्वा संशोध्य तत्पुनः
शुद्धोदैस्स्नापये च्चैव यथावच्च पुनर्न्यसेत् 225
कृते तु कलशन्यासे श्वकाकादिभिरेव वा
अस्पृश्यैर्वापि संस्पर्शे संसाध्यान्यत्तु पूर्ववत्॥ 226
शान्तिं वैष्णवमंत्रांश्च हुत्वा कार्यं समाचरेत्
कृमिकीटादिपतने तत्तद्द्रव्यं परित्यजेत्॥ 227
अन्यदादाय जुहुयाद्वैष्णवं द्रव्यदैवतम्
रत्नालाभे वैष्णवं तु हुत्वा स्वर्णं तु निक्षिपेत् 228
वस्त्रालाभे वैष्णवं च श्रीदैवत्यं च हावयेत्
यथोक्तस्नपने हीने कथं चित्स्नपनं चरेत् 229
अथ वा कारये च्छुद्धस्नपनं वा विधानतः

  • * *

अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तमथोत्सवे 230
कालादिभेदन्तेषां च लक्षणं च पुरोदितम्
पुरस्कृत्य तिथिं केचि त्केचिन्नक्षत्रपूर्वकम् 231
संकल्पयन्त्यवभृथं वरमृक्षापवर्गकम्
अकृते नियते कालं कृते वाऽनियते तथा॥ 232
कालोत्सवे महान्‌ दोषस्तत्र कुर्यात्तुनिष्कृतिम्
उत्सवात्पूर्वमुद्दिस्य महाशान्तिं त्य्रहं चरेत्॥ 233
विज्ञाप्य देवदेवेशं ततः कालोत्सवं चरेत्
अन्यथा तु कृतं कार्यमकृतं स्यादसंशयम्॥ 234
अन्यस्मिन्‌ वापि मासे तु न कुर्याद्यदि चोत्सवम्
एष एव विधिः प्रोक्तः परस्मिन्वत्सरे कृते॥ 235
एवं त्रिवत्सरेभ्यस्स्यादत ऊर्ध्वं विशेषतः
सप्ताहन्तु महाशान्तिं कृत्वा तूत्सव माचरेत्॥ 236
एवे द्वादशवर्षान्तं ततश्चस्थापनं पुनः
तत्र देवो न रमते योऽसावुत्सव दैवतम् 237
यत्र देवालये विष्णुस्थ्साप्यते प्रथमं ततः
तेनैव कारयेत्सर्वमाचार्येणाऽर्चकेन च 238
तदभावे तु तत्पुत्रैःपौत्रै स्तद्वंशजैस्तथा
तन्नियुक्तै स्तदीयैर्वापूर्वाभावे परैश्चरेत्॥ 239
अन्यथा क्रियते चेत्तु यजमानो विनश्यति
उत्सवाहस्सु हीनेषु प्रायश्चित्तं समाचरेत्॥ 240
वर्धयेद्वैष्णवं कार्यं ह्रासयेन्न कदा चन
प्रमादाद्वाऽप्यशक्तौ वा कृत्वा संप्रार्थयेद्धरिम्॥ 241
महाशान्तिं तु हुत्वैव शेषं कुर्यात्प्रयत्नतः
एष एव विधिर्वृद्धौ स तु श्रेयोऽभिवृद्धिदः 242
यदा त्ववभृथेदैवात्कृते विनिमयेन तु
असंकल्पितवत्कुर्यात्तत्र पूर्वोक्त निष्कृतिः॥ 243
प्रमादाद्बुद्धिपूर्वं वा तत्तद्वेलोत्सवादिषु
अकृतेषु यथाशास्त्रं कृत्वा तंत्रेण वैपुनः॥ 244
मंत्रेण वा पुनस्सूक्ष्मं कालेऽवभृथमाचरेत्
यज्ञस्यापभृथोऽन्तस्स्यान्नोत्सवस्तदनन्तरम्॥ 245
अकृतोत्सवकार्याणि यथोक्तं पूर्वमाचरेत्
नित्योत्सवं हरेः कुर्यान्नित्यश्री र्नित्यमंगलः॥ 246
हरिर्नारायणो देवो नालं देवा स्तमर्चितुम्
आचार्ये यजमाने वा पूजकेऽन्यपदार्थिनि॥ 247
नष्टे सद्यस्तदान्यन्तु वरयित्वा समाचरेत्
न दैवं प्रतिबध्नाति कार्यं यत्कर्म मानुषम्॥ 248
देवेशमनुमान्याऽथ महाशान्तिं तु पद्मके

  • * *

समृतो ब्रह्ममेधाऽर्हः पूतं तद्गात्रमुच्यते॥ 249
सर्वे पदार्थिनः प्रोक्ता गुरुपूर्वाःपदार्थिनः
ग्रामान्तरं प्रयाते तु दीक्षामध्ये पदार्थिनि॥ 250
अस्पृश्यस्पर्शदोषेण सुरापानादिना तथा
अनुक्तदोषैर्वा दुष्टे रोगाच्छौचाद्यसंभवे॥ 251
शावाद्याशौसयोग्ये वा शवानुगमने तथा
वाहने दाहने चैव प्रेतान्नश्राद्धभोक्तरि॥ 252
श्राद्धस्य याजके श्राद्धशिष्टभोक्तरिभोक्तरि
दोषस्स्याद्विधिना तत्र महाशान्तिमथाचरेत्॥ 253
श्राद्धकर्तिरि नो दोष स्तत्र दाता भवेत्सहि
परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहात्॥ 254
परस्त्रीभिर्मनोदग्धं ब्रह्मशापः कुतः कलौ
दीक्षामध्ये नाऽन्यदीक्षां गर्भदीक्षां विना चरेत्॥ 255

  • * *

विधुरे यजमाने तु दीक्षितः पुरुषो भवेत्
सदारो वा प्यदारोवा दीक्षितस्स्यात्कलत्रवान्‌॥ 256
दंपती यजमानो चेदयमभ्युदयो भवेत्
अनग्निमत्यदारे वा गुरौ तं तु न दीक्षयेत्॥ 257
अन्यस्मिन्‌ पदभाजी स्याद्यथासंभवमादरः
वैधुर्यसंभवे त्वेषां मध्ये दुष्यन्ति नैव ते॥ 258
वत्सराशौचमितरच्चाशौचं न प्रवर्तते
मातापित्रोर्मृतौ यत्तु प्रोक्तमभ्युदये पुनः 259

  • * *

ध्वजारोहणहीने तु कृते निष्फल उत्सवः
कृत्वैवारोहणं तस्माद्ध्वजस्योत्सवमाचरेत्॥ 260
ध्वजस्यारोहणं कृत्वा नाचरेद्यदि चोत्सवम्
अज्ञानादर्थलोभाद्वामासेऽ न्यस्मिंत्समाचरेत्॥ 261
नकुर्याच्चेद्द्वितीये तु मासे कर्ता विनश्यति
तस्मान्निष्कृतिमब्जाऽग्नौ हुत्वा तूत्सवमाचरेत्॥ 262
वैष्णवं विष्णुसूक्तं च नृसूक्तं चैव गारुडम्
ध्वाजं शान्तं च चक्रं च तथैवोत्सवदैवतम्॥ 263
व्याहृत्यन्तं च हुत्वा तु वैष्णवान्‌ पूज्य चाचरेत्

  • * *

ध्वजस्य लक्षणं वक्ष्ये येन मानेन कारयेत्॥ 264
विमानेन समं वाथ पादेनाऽर्धेन वाऽधिकम्
पादेनार्धेन हीसं वा पंचधापि प्रकल्पयेत्॥ 265
जयश्रीकीर्तिविजयमंगलाख्याः प्रकीर्तिताः
अर्धहीनं न कुर्वीत तदेवाऽगतिकं भवेत्॥ 266
तस्माच्चहीनं नैव स्यादधिकं स्यात्तु शक्तितः
अवक्रमृजुमन्येनाऽसंबद्धं कीलितादिभिः॥ 267
श्लक्ष्णं मनोहरं दारु गृहीत्वाऽखंडमुत्तमम्
तं चतुर्दशधा कुर्याम्मालाग्रे तेन कारयेत्॥ 268
भागमेकं विहायाग्रे तत्र कुर्यात्त्रिमेखलाः
मेखलानामथाऽयामस्तद्भागेन समो भवेत्, 269
त्रितालविस्तृतं कुर्याद्दंडविस्तृतमेव वा
अन्तरं च समं तेषां तिस्रः कुर्यात्तु यष्टिकाः॥ 270
यष्टी द्वे पुरतः कुर्यात्पश्चादेका विधीयते
सर्वत्र किंकिणीनां तु कुर्याच्छतम शेषतः 271
पश्चाच्छेषं त्रिधा कुर्याच्चतुर्धा वा ध्वजं बुधः
अष्टाश्रं च षडश्रं च चतुरश्रं च वृत्तकम्॥ 272
मूलादारभ्य कुर्वीत चतुर्धा विहितं ध्वजम्
त्रिधा कृते न कुर्यात्तु षडश्रं शेषमाचरेत्॥ 273
आद्यं भागं त्रिधा कृत्वा केचिदेवं प्रकुर्वते
शिखरं शिर इत्याहुरर्धेन शिखरं भवेत्॥ 274

  • * *

प्रमादात्पतितं गृह्य शिखरं स्थापयेद्विधिः
स्पुटितेवाऽथ भिन्ने वा बिंबस्योक्तवदाचरेत्॥ 275
अधिष्टिते तु शिखरे द्विजैर्गृध्रादिभिस्सकृत्‌
विष्ठादिकरणे वापि उषिते वा निरन्तरम्॥ 276
वास्तुहोमं च हुत्वैव पर्यग्निकरणं चरेत्
एष एव विधिः प्रोक्तो विमानशिखरादिषु॥ 277
अधिष्ठानेन पादेन प्रस्तरेण च संयुतम्
ध्वजमूले त्विष्टकाभिर्वेदिं कुर्यान्मनोहराम्॥ 278
न तामप्यधितिष्ठेत नरो दीर्घं जिजीविषुः
किं पुनस्तत्र वक्तव्यमालयाद्यवरोहणे 279
विमानं विष्णुरूपं स्यान्न तत्पादादिवा क्रमेत्
धामप्रदक्षिणे पूर्वं कुर्यात्तत्र नमस्त्रियाः॥ 280
न लंघयेद्ध्वजछायां प्रदक्षिणविधिं विना
गोपुरस्य विमानस्य प्राकारस्यालयस्य च॥ 281
प्रमादादतिलंघ्यैव प्राणायामशतं चरेत्
शिवदृष्टिं विष्णुवृष्ठं दुर्गायाः पार्श्वतो दृशम्॥ 282
विघ्नेशस्योर्ध्वदृष्टिं च तीक्ष्णमाहुर्मनीषिणः
यावच्छावतरे च्छाया तावती दोषभूमिका॥ 283
दोषभूमिं परित्यज्य निवासं परिकल्पयेत्
त्यागे संपत्समृद्धिस्स्यादन्यथा विपरीतकृत्॥ 284
रध्यादिभिर्यथा भूयादन्तरं तन्न दोषकृत्
अथ वा शतदंडान्तं त्यक्त्वान्वे वसतिं जगुः 285
यावद्धामायतं दावत्पृष्ठं वा मुघमेव वा
ततोधिकं तच्च तच्च केचिदाहुर्मनीषिणः 286
ध्वजं नित्यमुशन्त्येके यत्रैको ह्यनवायिषु
तत्रारोहणकर्मादि नेच्छन्ति परमर्षयः॥ 287
औत्सवं ध्वजमास्थाप्य तत्र कार्यं प्रकुर्वते
ध्वजमेकं तु सर्वत्र केचिदाहुर्मनीषिणः 288

  • * *

अतः परं प्रवक्ष्यामि ध्वजदंडे तु निष्कृतिम्
प्रमादात्पतिते भूम्यां ध्वजे वातादिना दृढे॥ 289
अभग्ने वाऽथ भग्ने वा ध्वजं तत्र पूनः क्षिपेत्
अभग्ने तं ध्वजं गृह्य कृत्वा मंत्रेण तक्षणम्॥ 290
अधिवासादिकं कृत्वा तत्थ्साने स्थापयेद्बुधः
भग्ने ध्वजे न सग्राह्यस्तमप्सु विधिना त्यजेत्॥ 291
ततोऽन्यं ध्वजमादाय स्थापयेदविलंबितम्
चोराद्यैर्बुद्धिपूर्वं वा पातिते पूर्ववद्विधिः॥ 292
तत्राऽधिकं प्रकुर्वीत शिल्पिभिस्तक्षणं पुनः
अभग्नध्वजवत्कुर्यादन्यत्पूर्ववदत्वरः॥ 293
भागेनाऽनुपयुक्तस्य ध्वजस्य त्याज्यतैव हि
दुष्टभागस्य दानेन न कदाचित्परिग्रहः 294
अथ वा सुदृडं गृह्य प्रतिष्ठां महतीं चरेत्
दुष्टं भागं व्यपोह्यैव प्रमाणं लक्षयेत्पुनः॥ 295
प्रमाणमप्रमाणं वा ध्वजं नाऽन्येन दारुणा
संयुतां वर्धितां कुर्यादेष सार्वत्रिको विधिः॥ 296
यन्तु ताम्रादिना कुर्याल्लोहेन कवचादिकम्
बालालयं प्रकल्प्यैव तत्रकार्यं समाचरेत्॥ 297
स्थितमेव ध्वजं कुर्यान्न तु तं चालयेत्क्वचित्
दग्धं ध्वजं परित्यज्य पुनरन्यं समाहरेत्॥ 298
ध्वजेऽन्त्यजातिभिस्स्पृष्टे महाशान्तिमथाचरेत्
तैस्समीपमुपेतैन्तु सहस्राहुतिमाचरेत् 299
पतिते वात्यया चैवं ध्वजस्य शिखरे तथा
मेखलासु च तत्सर्वं नवीकृत्य यथाविधि॥ 300
ध्वजदंडे तु संयोज्य प्रतिष्ठां पुनराचरेत्
ध्वजस्य चलने चाऽपि प्रमादाद्व्रश्चने तथा॥ 301
भग्नाऽभग्न ध्वजस्योक्तनिष्कृतिं तु समाचरेत्
एष एव विधिः प्रोक्तो दंडेष्वन्वेषु सर्वतः 302
अशन्यादिनिपातेन धामन्यन्तरिते यदि
देवे नष्टे ध्वजे सुस्थे ध्वजस्याराधनं भवेत्॥ 303
आलयं च पुनःकृत्वा तमेवाराधयेद्ध्वजम्
निरीक्ष्यत्रीणि वर्षाणि देवागारे त्वनिर्मिते॥ 304
तत्र देवो न रमते तद्ध्वजं तु त्यजेत्सुधीः
अथ वा यत्र कुत्रापि प्रतिष्ठाप्य समर्चयेत्॥ 305
अथ वक्ष्ये ध्वजस्थानं यथाशास्त्रविनिश्चितम्
पिठगोपुरयोर्मध्ये पंचभागं प्रकल्प्य च॥ 306
पीठात्त्यक्त्या चतुर्भागं पंचमे ध्वजसंस्थितिः
तत्संधौ तु प्रशस्तं स्याद्यथा संफवमाचरेत्॥ 307
यदि प्राकारबाह्ये स्याद्ध्वजश्शास्त्रवदाचरेत्
अनुक्तस्थाननिहितं तं च शास्त्रवदाचरेत्॥ 308
अशक्तौ पुनरन्यं च प्राकारं कारयेत्क्रमात्
देवदृग्विषयं कुर्याद्ध्वजं लैवापरोक्षयेत् 309
यदा चान्यालयैर्वापि गोपुरादिभिरेव वा॥
अभ्यन्तरं भवेच्चेत्तु छिद्रं कुर्यात्तु दृक्पथे॥ 310
वृक्षाद्यैःपतितैर्नष्टे चालितेऽवनतेऽपि च
तद्ध्यजं पूर्ववत्कुर्यात्त्रिमासाभ्यन्तरेऽत्वरः॥ 311
कृम्यादिभिर्विहंगैर्वाकोटरादौ कृते ध्वजे
कृत्वा बालालयं पश्चात्समीकृत्यार्चयेत्पुनः॥ 312
रज्जुबंधादिकरणे ध्वजस्यारोहणे कृते
बालालयं न तत्र स्याद्वास्तुशुद्धिं समाचरेत् 313
प्राक्षयेत्पंचगव्यैस्तु ध्वजमंत्रेण हूयते

  • * *

अत ऊर्ध्वं प्रवक्ष्यामि निष्कृतावर्चनक्रमम्॥ 314
उक्तेन विधिना यत्र नष्टे दुष्टेऽपि वा ध्वजे
पुनस्थ्सापनपर्यन्तं कुर्याद्वेणुध्वजं शुभम्॥ 315
अथ वा कारयेद्विद्वान्‌ सुवर्णरजतादिभिः
ध्वजं तालोन्नतं स्थाप्य गर्भगेहे तु पूजयेत्॥ 316
अधिवासादि तत्सर्वं प्रतिष्ठोक्तवदाचरेत्
अचलो वेणुदंड स्स्याद्गर्भगेहे भवेच्चलः 317
उत्सवादौ तु सर्वत्र वेणुदंडं समाचरेत्
चलदंडो वेणुदंड इति स्यादुत्सवेद्वयम्॥ 318
उत्सवादौ प्रवृत्ते तु उक्तदोषे त्वयं विधिः
ध्वजस्थं गरुडं तस्मादवमुच्य समाहितः॥ 319
नीत्वातु यागशालायां संस्थाप्य तु समर्चयेत्
वेणुदंडं प्रतिष्ठाप्य सद्यस्तस्मिन्‌ प्रयोजयेत्॥ 320
महाशान्तिं तथा कुर्यात्सहस्राहुतिमेव च
वैष्णवं विष्णुदैवत्यं गारुडं ध्वाजमेव च॥ 321
सौदर्शनं च कूश्मांडान्‌ शतमष्टाधिकं यजेत्
तथैव दीपदंडस्य भवेत्सर्वत्र चक्रमः॥ 322
ध्वजे नारोपयेद्दीपं दीपदंडः पृथग्भवेत्
तत्र दीपं समारोप्य न लभेत्फलमव्ययम्॥ 323
ध्वजे दीपं समारोप्य वैष्णवं शतशो यजेत्
आपत्कल्पं प्रवक्ष्यन्ति ध्वजे दीपावरोहणम्॥ 324
दीपयुक्ते ध्वजे नष्टे पूर्ववन्निष्कृतिं चरेत्
वीशप्रतिष्ठाहीने तु ध्वजस्यारोहणे कृते॥ 325
वैष्णवं विष्णुसूक्तं च नृसूक्तं ध्वाजमेव च
गारुडं दशशो हुत्वा प्रतिष्ठां पुनराचरेत् 326
ध्वजदेवस्य चक्रस्य शांतनंदीशयो स्तथा
हीनेऽर्चने वैष्णवं च तद्दैवत्यसमन्वितम्॥ 327
हुत्वैव पुनरभ्यर्च्य पश्चात्कार्यं समाचरेत्
भेरीताडनहीने च रौद्रं च व्याहृतीस्तथा 328
हुत्वा महाव्याहृतीश्च भेरीताडनमाचरेत्
अर्चनादिषु सर्वत्र यत्र घंटानिनादनम्॥ 329
एष एव विधिः प्रोक्तः प्रायश्चित्तं समाचरेत्
आरोपिते तु गरुडे हीने चैव निवेदने॥ 330
वैष्णवं ध्वंमेत्रौ च हुत्वा गारुडमेव च
निवेदयेत्तुद्विगुणं `क्षम'स्वेत्यनुमानयेत्॥ 331
मुद्गान्ने तु तथा हीने वैष्णवं वायुदैवतम्
आग्नेयमींकारादींश्च गारुडं ध्वाजमेव च॥ 332
हुत्वा यत्नेन बहुशो मौद्गिकं च निवेदयेत्
वर्षवातातपैस्सम्यगुपघातादिसंभवे॥ 333
विष्ठाद्युपहते चैव पक्षिणामसकृत्सकृत्‌
रज्ज्वादित्रुटने चैव प्रमादात्पतनेऽपि च॥ 334
पातिते बुद्धिपूर्वं वा अकालेऽप्यवरोपिते
शूद्राद्यैरनुलोमैर्वा स्पृष्टे ध्वजगते पटे॥ 335
अशुचिं शोधयित्वान्यत्समीकृत्यासमीकृतम्
उत्सवाधिपदैवत्यं षड्वारं जुहुयाद्गुरुः 336
गारुडं ध्वजमंत्रं च सहस्तं चैव हूयताम्
ततश्शेषं समाप्येत विपरीतं न कारयेत्॥ 337
प्रमादाद्बुद्धिपूर्वं वा पटे दग्धेऽन्यमाहरेत्
शान्तिं पूर्वोदितां कृत्वा प्रतिष्ठां पुनराचरेत् 338
अवरोहणमुद्वासन्तं च मंत्रेण कारयेत्
अवरोहणहीने तु मंत्रेणोद्वासनं भवेत् 339
ततश्शेषं प्रकूर्वीत अशक्ताववरोहणे
अप्रमाणं पटं गृह्य महाशान्तिं समाचरेत्॥ 340
पुनरन्यं समादाय कर्मशेषं समाचरेत्
हीने तु चोत्सवारंभस्नपने वैष्णवं तथा॥ 341
विष्णुसूक्तं नृसूक्तं च वारुणं चैव हूयते
शुद्धोददै रभिषाकस्स्यात्प्रायश्चित्तविधिस्स्मृतः 342
हीने कौतुकबंधे तु वैष्णवं शान्तमेव च
सौदर्शनं च हुत्वा तु कौतुकं बन्धयेत्पुनः 343
यज्ञागारे कुंभवेद्याहीने वाऽप्यधिकेऽपि वा
वैष्णवं पावकं भूमिदैवत्यं च हुनेद्बुधः 344
तोरणानामलाभे तु हुनेद्दौवारिकान्मनून्‌
हीनायां दर्भमालायामार्षं हुत्वेतरांक्रियात् 345
अलंकारविहीने तु श्रीदैवत्यं तधा हुनेत्
प्रातर्बलिं तु निर्वाप्य हीने नित्योत्सवे तथा॥ 346
वैष्णवं शांतवीशौ च हुत्वा चोत्सवदैवतम्
सायं कुर्यादुत्सवं तु द्विगुणं कारयेत्क्रमात् 347
सायं हीनं तु द्विगुणं प्रातरुत्सवमाचरेत्
एककालोत्सवश्चेत्तु कृत्वा कालद्वयं बलिम्॥ 348
सायाह्ने चोत्सवं कुर्यात्कालातीतेऽप्ययं विधिः
दिग्देवतास्समावाह्य प्रथमेऽहनि पूजयेत् 349
प्राच्यादि बलिदानं स्यादीशानान्तं प्रदक्षिणम्
देवाह्वाने व्यत्ययस्स्याद्व्यतीहारोऽथ वा भवेत् 350
पूर्वोक्तां निष्कृतिं कृत्वा द्विगुणं तु बलिं ददेत्
ब्रह्मणश्च दिगीशानां बलिदानं तु नैत्यिकम् 351
अदाने निष्कृतिं कृत्वा पूर्वोक्तं षड्गुणं बलिः
चतुष्पथाधिदेवानां वृक्षादीनामथेच्छया 352
प्रथमावाहनादर्वाग्व्यत्यये पूर्वनिष्कृतिः
प्रथमं वास्तुशुद्धिस्स्याद्य6वै दीयते बलिः 353
अन्तं शुद्ध्यन्ति रथ्यास्ताश्शुर्ध्यन्ति समये पुनः
अकृतायां वास्तुशुद्धौ दद्याद्रथ्यासु चेद्बलिम्॥ 354
शान्तिं कृत्वातु पूर्वोक्तां वास्तुशुद्धिं पनर्बलिः
अन्तश्शचे वास्तुनि तु न बलिभ्रमणं चरेत्॥ 355
शवमुद्धृत्य पश्चात्तु पर्यग्नि करणं भवेत्
अकाले बलिदानं स्यादसुरप्रीतिवर्धनम्॥ 356
अकाले तु बलिं दत्वा काले तु त्रिगुणं बलिः
बलिभ्रमणदेशस्स्याद्देवस्य भ्रमणाय हि 357
नान्यत्र चर्या देवस्य लघुप्रोक्षण मन्यथा
न हि श्रद्धोत्सवे दोषमुशन्त्येनं स हीतरः 358
वास्तुवृद्धौ तथा ह्रासे ग्रामसीमानवीकृतौ
अनुमान्य च देवेशं शताष्टकलशाप्लवः॥ 359
कृत्वा सीमां विनिश्चित्य ततः कार्यं समाचरेत्
अस्तरा चोत्सवं कुर्यात्सहस्रकलशाप्लवः 360
देवतावाहनं कृत्वा तथैवोत्सव माचरेत्
देवादीनां बलं यस्माद्वर्धते स बलिस्स्मृतः 361
श्वसूकरादिभिर्दुष्टैर्नभक्ष्यो बलिरुच्यते
बलिभुग्वायसः प्रोक्तो गोमुख्या मेध्यजंतवः 362
विपरीते महान्‌ दोषस्तन्मंत्रैर्हावयेच्छतम्
बलिशेषं न शूद्रोऽद्यादर्चको बलिशेषभाक्॥ 363
बलावमंत्रकं क्षिप्ते संक्षिप्ते विधिवर्जिते
भक्षिते चाऽनुलोमाद्यैःपूर्वोक्तां निष्कृतिं चरेत् 364
बलौ पर्युषितेऽत्युष्णे तथा चैवाऽनिवेदिते
निवेदनात्प्रागर्वाग्वादृष्टे शूद्रादिभिर्बलौ 365
पूर्वोक्तां निष्कृतिं कृत्वा सर्वत्र द्विगुणं बलिः
देवतावाहनं यत्र देशेप्राक् क्रियते ततः 366
तत्रैव बलिदानं स्याद्यावदुद्वासनं भवेत्
मंडलं च जलं कूर्चमाह्वानाधार उच्यते॥ 367
रथ्यासु बलिदानाय पीठं शैलादिभिर्भवेत्
बलिदानं तु गुप्तं स्यान्न तत्बश्यन्त्यवैदिकाः 368
तत्थ्सावं तु तिरस्कुर्यात्काले यवनिकादिभिः
बलिप्रदानहीने तु वैष्णवं बलिरक्षकम् 369
हुत्वा तु निष्कृतिं कुर्याद्बलिदानं पुनस्तदा
बलिद्रव्येऽथ वा पात्रे पतिते भूतले तथा॥ 370
भिन्ने नष्टे च पूर्वोक्तं हुत्वान्यं बलिमाहरेत्
बलिदानं तु कृत्वैव भुतपीठे क्षिपेत्ततः 371
बलिशेषमनुक्ते तु स्थाने बुद्ध्या तु निर्वपेत्
वैष्णवं चाक्षहमनुं वैष्वक्चेनं च गारुडम् 372
सौदर्शनं च हुत्वैव भूतपीठे बलि क्षिपेत्
हविर्निवेदने हीनेहीने च द्विगुणार्चने 373
शान्तिं च वैष्णवं हुत्वा तथाऽभ्यर्च्य निवेदयेत्
यथोक्तहोमे हीने तु वैष्णवं विष्णुसूक्तकम् 374
नृसूक्तं च त्रयस्त्रिंशत्कृत्वो हुत्वा हुनेत्पुनः
चक्रवीशामितानां च कुंभस्थानामथाऽपिवा॥ 375
देवानामर्चने हीने वैष्णवं विष्णुसूक्तकम्
नृसूक्तं सान्तमंत्रौ च गारुडं चाक्रमेव च॥ 376
हुत्वा पुनस्समभ्यर्च्य विशेषेण निवेदयेत्
देवालंकरणे हीने श्रीदैवत्यं च वैष्णवम्॥ 377
हुद्वालंकारमासाद्य विधीना भूषयेद्गुरुः
अलंकारेषु द्रव्येषु निर्यासं चन्दनं सुमम्॥ 378
तद्धित्वान्यत्समादाय द्रव्यं प्रक्षाळ्यमंत्रतः
पंचगव्यैस्समभ्युक्ष्य तेनालंकार उच्यते॥ 379
नृत्ते गेयेऽथ वा हीने वैष्णवं रुद्रदैवतम्
स्तोत्रहीने तथा ब्राह्मं हुत्वा सारस्वतं ततः 380
भक्तबृंदैः परिवृतौ हीनायां वारुणं तथा
वैष्णवं शान्तदैवत्यं हीने पिच्छादिके तथा॥ 381
वैष्णवं जुहुयात्तद्वद्धविरक्षमनुं ततः
यानात्काले यागशालां देवे न प्रतिगच्छति॥ 382
भवेन्नित्यार्चनं तत्र यत्रदेवोऽधिवासितः
ध्रुवार्चनं यथा पूर्वं न तत्राऽस्ति व्यतिक्रमः 383
देवं प्रत्यागतं दृष्ट्या पुनरन्योत्सवं चरेत्
दिनव्यपाये कुर्याच्च तत्कालनियतोत्सवम्॥ 384
अतीतमुत्सवं चापि तंत्रेणात्र समाचरेत्
तद्दिनेप्यप्रमादाच्चेद्भूयात्कालस्य यापनम्॥ 385
न जह्या देवकुर्याच्च तत्कालोचितमुत्सवम्
अत्र प्रमादेतु भवेत्पूर्वोक्तैव हि निष्कृतिः॥ 386
दीक्षितो वस्त्रमाल्याद्यैः पंचागार्पितभूषणैः
चरेन्नित्यं विशुद्धात्मा विपरीते तु दोषकृत्॥ 387
दीक्षांगस्य तु वस्त्रस्य तथा प्रतिसरस्य वा
नाशे तत्र महान्‌ दोषस्तदान्यत्पुनराहरेत्॥ 388
सहस्रं विष्णुगायत्रीं हुत्वा शान्तिमथाचरेत्
यावद्दीक्षाभवेत्तावद्दीक्षांगस्य परिग्रहः 389
अन्तेतु तद्गताशक्तिस्स्वयमेवाऽवहीयते
अथ वा मोचनं कुर्यादिते के चिद्वदन्तिहि॥ 390
तत्र पूर्णाहुतिं कालं प्रवदन्ति विपश्चितः
प्रतिष्ठान्ते तु सा दीक्षा भवेदुत्सवसंगता॥ 391
न तत्र दीक्षासांकर्यं द्वयमेकत्र चेद्यदि

  • * *

अन्योन्यं कलहायन्ते यद्याचार्यादयःक्रतौ॥ 392
महाननर्थस्तत्र स्यात्प्रतिभूर्गुरुरत्र हि
गुरुवाक्यं च राजाज्ञां सममाहुर्महर्षयः॥ 393
दीक्षिते वर्तमाने तु नान्यं तत्र प्रवेशयेत्
नह्येकस्मिन्‌ भवेत्कार्य आचार्यद्वय संगतिः॥ 394
प्रमादाद्बुद्धिपूर्वं वा कलहे क्षतजस्रुतिः
क्षतानि वा भवेयुस्तं विसृज्यान्येन कारयेत्॥ 395
न तस्य तु भवेद्दीक्षा महाशान्तिं तु कारयेत्
स दीक्षितो भवेदेव पूर्वस्य प्कणिधिस्स हि॥ 396
यावदाशौचसंक्रान्ति राशौचेत्वशुचिर्भवेत्॥
पुनरन्यं समादाय शेषं पूर्ववदायरेत्॥ 397

  • * *

आदौ मध्ये तधाऽन्ते च हीने ब्राह्मणभोजने
त्रिवाकं तु महाशान्तिं हुत्वा ब्राह्मणभोजनम्, 398
द्विगुणं कारयेच्चैव वैष्णवानां तु पूजनम्
पुनाति पूजितस्सद्यः पाप्मभ्यो वैष्णपस्सकृत्॥ 399
अवैष्णवैश्च पाषंडैरूढे देवे द्वनर्थकृत्
तद्दोषशान्तये कुर्यात्सहस्रकलशाप्लवम्॥ 400
अवैष्णवकृतापूजा हन्ति पुण्यं पुरातनम्
यानात्तु पतिते देवे शीघ्रमुद्धृत्य सादरम्॥ 401
`क्षम'स्वेत्यनुमान्यैव शुद्धोदैरभिषिच्यच
वैष्णवं विष्णुसूक्तं च नृसूक्तं सहितं क्रमात्॥ 402
दिनाधिपस्य दैवत्यं हुत्वा चोत्सवमाचरेत्
चक्रवीशाखमितादीनां बिंबाभावे पृथक् पृथक् 403
तंडुलोपरिपात्रेषु कूर्चेष्वावाह्य मंत्रतः
तत्तद्रूपं तु संस्मृत्य समभ्यर्च्य विधानतः 404
हुत्वा च तत्तद्दैवत्यं पश्चादुत्सवमाचरेत्
पतने तु तथैतेषामुद्धृत्यैव च पूर्ववत्॥ 405
स्नापयित्वा हुनेत्तत्तद्दैवत्यं वैष्णवं तथा

  • * *

यानात्तु पतिते बिंबे हीनांगे दोषगौरवे॥ 406
पद्मानले महाशान्तिं हुत्वा तद्दोषशान्तये
ध्रुवबेरे समारोप्य तच्चक्तिं विधिना ततः 407
कौतुकं स्नापनं वाऽथ बलिबेरमथाऽपि वा
यथार्हं समलंकृत्य समावाह्य यथाविधि॥ 408
समभ्यर्च्योत्सवं कुर्यान्न तत्रस्याद्व्यतिक्रमः
बेरान्तरस्यालाभे तु रत्नं वा कांचनं तथा॥ 409
न्यस्य पात्रे समावाह्य समभ्यर्च्य दिने दिने
महाशान्तिं च हुत्वैव पुनरुत्सवमाचरेत्॥ 410

  • * *

हीनांगं च पुनर्बेरं संधानविधिना पुनः
संधाय चात्वरेणैव प्रतिष्ठां पुनराचरेत्॥ 411

  • * *

पतने गायगादीनां श्रीदैवत्यं च वैष्णवम्
वादकानां तु पतनै ब्राह्मं रौद्रं तथैव च॥ 412
आचार्यादीनां तु पतने संक्षोभे च तथाकृते
आर्षभं वैष्णवं तद्वद्ध्वजादीनां च पातने॥ 413
ध्वाजं च वारुणं चैव वायव्यं च हुनेद्विधिः
वर्षधारासु वात्यायां विद्युद्व्रजसमाहतौ॥ 414
काले न चोत्सवं कुर्यात्कुर्याच्चेद्वैष्णवं तथा
विष्णुसूक्तं नृसूक्तं च श्रीभूदैवत्यमेव च॥ 415
हुत्वोत्सवं प्रकुर्वीत विपरीते तु दोषकृत्
वीथ्यन्तरे वर्षधाराप्रवेशेऽशनिगर्जिते॥ 416
तृणपांसु समायुक्तवातस्पर्शे विशेषतः
कलहध्वनिसंयुक्ते देवं संस्नाप्य मंत्रवित्॥ 417
वैष्णवं दिग्दैवत्यं च वारुणं वायुदैवतम्॥
यद्देवादींश्च हुत्वैव पुनरुत्सवमाचरेत्॥ 418
कलहे रुधिरस्रावे दाहे चाप्युत्सवे ततः
वैष्णपं चाग्निदैवत्यं ब्राह्मं रौद्रं तथैव च॥ 419
तद्दिनाधिपदैवत्यं जुहुयात्प्रार्थयेद्धरिम्
आलयाभ्यन्तरे चैव शस्त्राद्यैर्मरणे सति॥ 420
तच्छीघ्रमपहायैव पद्माग्नौ जुहुयात्तथा
महाशान्तिं तद्दिनाधिदैवत्यं च विशेषतः 421
वीथ्यां चेन्मरहणादौतु तच्छीघ्रं तु व्यपोह्य च
शान्तिहोमं च हुत्वैव पुनरुत्सवमाचरेत् 422
नाडिकाया अथार्याक्चेत्पुनरुत्सवमाचरेत्
आलयस्याशीतिदंडाभ्यन्तरे तु शवे सति॥ 423
तत्रोत्सवं न कुर्यात्तु कुर्याच्चेत्स विनश्यति
तच्छीघ्रमपहायेव प्रायश्चित्तं यथोदितम्॥ 424
महाशान्तिं पार्षदं च चहुत्वा चोत्सवमाचरेत्
लगरे विधिरेषस्स्याद्ग्रामेनैष विकल्प्यते॥ 425
अन्तश्सवेनैव कुर्यादुत्सवं ग्रामवृद्धये

  • * *

ध्वजस्वारोहणादुर्ध्वं यावत्तीर्थदिनं भवेत् 426
अन्यात्सवं शुभं कर्म कुर्याच्चेदाभिचारिकम्
तद्दोषशमनायैव वैष्णवं विष्णुसूक्तकम्॥ 427
नृसूक्तं पार्षदं चैव हुत्वा विप्रांस्तु भोजयेत्
तीर्थाहात्पूर्वरात्रौ तु हीने कौतुक बंधने॥ 428
शयने वा वैष्णवं च श्रीभूदैवत्यमेव च
सौदर्शनं च हुत्वान्ते यथोक्तं तु समाचरेत्॥ 429
तीर्थस्नाने तु कालस्याऽतीते हीने च वैष्मवम्
वारुणं स्कंददैवत्यं हुत्वा चौक्तं समाचरेत्॥ 430
ध्वजावरोहणे हीने तद्रात्रौ ध्वाजमेव च
गारुडं वैष्णवं हुत्वा देवेशं प्रार्थयेद्गुरुः 431
अवरोहणकारे तु बलौ हीने विशेषतः
ध्वजदेवं सुसंपूज्य वैष्णवं विष्णुसूक्तकम् 432
तदालयस्थदेवानां मंत्रांश्चैव विशेषतः
हुत्वा देवेशमभ्यर्छ्य ध्वजं समवरोहयेत् 433
उत्सवान्ताप्लवेहीने वैष्णवं विष्णुसूक्तकम्
पुरुषसूक्तं जयादीनश्च मूर्तिमंत्राश्च हावयेत् 434

  • * *

अत्राऽनुक्तेषु दोषेषु प्रायश्चित्तं भवेदिदम्
वैष्णवं विष्णुसूक्तं च नृसूक्तं च तथैव च 435
हूयते विष्णुगायत्री सर्वपापप्राणाशिनि
एवमष्टाविंशतिर्वा शक्तावष्टोत्तरं शतम् 436
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे सप्तविंशोऽध्यायः॥