सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/सप्तमोऽध्यायः

विकिस्रोतः तः
← षष्ठोऽध्यायः प्रकीर्णाऽधिकारः
सप्तमोऽध्यायः
[[लेखकः :|]]
अष्टमोऽध्यायः →

अथ सप्तमोऽध्यायः॥
परिवारालयलक्षणम्॥
अथाऽतः परिवाराणामालयस्य च लक्षणम्
विमानात्पादहीनं वा तदर्धं वा समाचरेत्॥ 1
वर्णयुक्तं ततश्श्रेष्ठं कनियोवर्णहीनकम्
सोमेशानद्वयोर्मध्ये विष्वक्सेनं प्रकल्बयेत्॥ 2
द्वारस्य दक्षिणे चेंद्र माग्नेय्यां पचनालयम्
तस्य पश्चिमदेशेतु पानीयस्थानमेवच॥ 3
याम्ये शयनमुद्दिष्टं तत्पूर्वे यागमंडपम्
ऐशान्ये पुष्पदेशन्तु दक्षिणे वस्त्रसंचयम्॥ 4
ईशानसोमयोर्मध्ये स्थापनं तथा
इंद्राग्न्योर्मध्यमेचैव धान्यस्थानं प्रशस्यते॥ 5
सोपानमध्ये श्रीभूतमर्चयेद्बहिराननम्
पुरस्ताद्गरुडं तस्य देवाभिमुखमर्चयेत्॥ 6
विमानपालान्‌ दिक्पालान्‌ भास्करेण समायुतम्
चक्रं ध्वजं च शंखं च भूतं वै भूतनायकम्॥ 7
प्रथमाऽवरणे देहुस्तत्तद्देशे समर्चयेत्
उत्सवं बलिमारभ्य अनपायिविशेषतः॥ 8
अमितस्याऽपि तंतत्र प्रदक्षिणमथाऽचरेत्
देवस्य कंठसीमान्तं बाह्यन्तं स्तनसम्मितम्॥ 9
नाभ्यन्तं वा विशेषेण परिवारोदयं क्रमात्
धात्रादिभूतपर्यन्तं परिवारान्विशेषतः 10
वर्णवाहनकेत्वाद्यैर्नामनक्षत्रपूर्वकम्
मयाक्रियाधिकारे तु व्यक्तमुक्तन्तुलक्षणम्॥ 11
बेरलक्षणम्-(शैलादि भेदः)
अथ वक्ष्ये विशेषेण बेरलक्षणमुत्तमम्
शैलजं रत्नजं चैव धातुजं दारवं तथा॥ 12
मृण्मयं स्यात्तथैवेति पंचधाबेरमुच्यते
चतुर्विधं तु शैलं स्यात्सप्तधा रत्नजं तथा॥ 13
अष्टधा धातुजं प्रोक्तं दारुजं षोडशोच्यते
मृण्मयं द्विविधं प्रोक्तं क्रमाल्लक्षणमुच्यते॥ 14
शैलजलक्षणम्॥
श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुष्टयम्
शैलजं भेदमाख्यातं तस्य लक्षणमुच्यते॥ 15
गोक्षीरसन्निभाचैव शंखकुंदेंदु सन्निभा
शीला श्वेता समाख्याता सा तु वश्यप्रदायिका॥ 16
जपाकुसुमसंकाशा शिला शोणितसन्निभा
बंधूकपुष्पप्रतिमा जातिहिंगुळिकोपमा॥ 17
शिला रक्ता समाख्याता जयदा लक्षणाऽन्विता
पीता सुवर्णसदृशा रजनीचूर्णसन्निभा॥ 18
शिला लक्षणसंयुक्ता धनधान्यसुखप्रदा
माषमुद्गल?संकाशा तथाजंबूफलोपमा॥ 19
भृंग? मुत्पलसंकाशा प्रजावृद्धिकरास्मृता
शिला कृष्णा तु सर्वेषां सर्वसिद्धिप्रदायिका॥ 20
विप्रक्षत्रियवैश्यानां शूद्राणांच यधाविधि
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम्॥ 21
द्विजानां च त्रिवर्णानां शिला रक्ता जयप्रदा
श्वेता मोक्षप्रदा प्रोक्ता ब्राह्मणानां विशेषतः 22
एतैन्तुध्रुवबेरन्तु कारयेद्यदिभक्तितः

  • * *


माणिक्यं च प्रवालं च वैदूर्यं स्भटिकं तथा॥ 23
मरतकं पुष्यरागं च नीलं चै तेषुरत्नजाः
माणिक्यं श्रीकरं प्रोक्तं प्रवालं वश्यकारकम्॥ 24
आकर्षणं तु वैढूर्यं स्फाटिकं पुत्रवृद्धिदम्
विद्वेषणं मरतकं स्तंभनं पूष्यरागकम्॥ 25
नीलं तुरमणैः कार्यं रत्नजानां फलं भवेत्
एतेषां कौतुकं कुर्या दन्येषां च विधीयते॥ 26
हैमं रैप्यं तथाताम्रं कांस्यं चैवारकूटकम्
आयसं सीसकं चैव त्रपुकं चेति धातुजम्॥ 27
हैमंतु श्रीप्रदं प्रोक्तं रौप्यं राज्यप्रदायकम्
ताम्रं पुत्रसमद्ध्यर्थं कांस्यं विद्वेषकारकम्॥ 28
प्रोच्चारणे चारकूट मायसं क्षयकारणम्
सीसं नीरौगकरणं त्रपुरायुर्विनाशनम्॥ 29
एवं तु लोहजं प्रोक्तं ततो दारुजमुच्यते

  • * * *

देवदारु श्शमीवृक्षं पिप्पलं नन्दनं तथा॥ 30
असनं खदिरंचैव वकुलं शंखि वातनम्
मयूरपद्मडुंडूक कर्णिकारं तथैव च॥ 31
निबूकांजनिकाचैव प्लक्षमौदुंबरं तथा
एतैर्वर्ज्यास्तु? चत्वारो द्विजातिक्रमयोगतः॥ 32

  • * *

मृण्मयं द्विविधं प्रोक्तं पक्वापक्वं तथैव च
पक्वं नाशकं चैव मपक्वं सर्वसिद्धितम्॥ 33

  • * *

निमित्तदर्शनम्-(शुभनिमित्तानि)
यस्मिन् देशे शिलाऽस्तीति गच्छेन्निश्चितमानसः
प्रयाणकाले शकुना श्शुभाश्शुभ फलप्रदाः॥ 34
शुभवाक्योदकुंभाऽस्थि गजराजद्विजोत्तमाः
चर्ममांसदधिक्षीर दुंदभिध्वनयश्शुभाः॥ 35
(अशुभनिमित्तानि)
अशोभनांस्तथावक्ष्येशपमाना यथायति
विकीर्णकेशाविप्रैक्यघृततैलाक्तदर्शनम्॥ 36
रिक्तकुंभनिरोधोक्ति तैलभाजनदर्शनम्
प्रयाणकाले नष्टास्तु विपरीतफलप्रदाः॥ 37

  • * *

शुभे प्रयाणं कर्तव्यं स्थित्वा शोभनलक्षणम्
शिलां प्राप्य शुभेस्थाने वास्तुहोमं समाचरेत्॥ 38
वैष्णवं पौरुषं सूक्तं श्रीभूसूक्तं तथैव च
परिषेकं ततःकृत्वा कलशान्‌ पंच सुन्यसेत्॥ 39
मृद्गंधाक्षतजप्यांश्च सर्वौषध्युदकंतथा
संस्थाप्याभ्यर्च्य पाद्याद्यै न्तत्तद्देवां त्समर्चयेत्॥ 40
अभिषिंचेच्छिलां सूत्रे? मुहूर्तेकरणान्विते
अतोदेवादिमंत्रेण शिलां छित्वाविचक्षणः॥ 41
अधोभागं मुखं तत्र शिर ऊर्ध्व प्रकल्पयेत्
पूर्वतश्चोत्तरे वाऽथ शिरोभागं प्रकल्पयेत्॥ 42
मुखं पृष्ठं तथापादं पार्श्वं चैव शिरस्तथा
लांछयित्वा विधानेन ततस्तक्षण माचरेत्॥ 43

  • * * *

बाला च युवती वृद्धाज्ञातव्या लक्षणाऽन्विता
स्निग्धा मृद्वी नता चैव बाला क्षीरस्वरातथा॥ 44
सुस्वरा का न्तिसंयुक्ता युवती सा शिला स्मृता
असिता झर्घरा रूक्षा वृद्धा या निस्स्वराशिला॥ 45
बाला क्षयप्रदा प्रोक्ता युवती सुसमृद्धिदा
कार्यनाशकरी वृद्धा ग्राह्या ज्ञात्वाशिलास्तथा॥ 46
मूर्धनस्तक्षणंकृत्वा शिलादोषांन्तु लक्षयेत्
शिलां प्रलिप्यक्षीरेण सर्पिषा सीसगैरिकैः॥ 47
एकरात्रोषितशिलां संप्रक्षाळ्यांभसाततः
शिलादोषं परीक्ष्यैव कर्तव्यं विधिचोदितम्॥ 48
रेखाबिंदुः कलंकश्च शिलादोषाः प्रकीर्तिताः
मंडलं तु भवेत्तत्र यत्र गर्भं विनिर्दिशेत्॥ 49
सिते तु मंडले सर्पोरक्तेतु कृकलासकम्
पीते तु मंडले गोधा मंजिष्ठे दर्दुरो भवेत्॥ 50
कपिले मूषिका प्रोक्ताऽसितवर्णे तु वृश्चिकः
श्वेतरक्तविमिश्रेतु वृश्चिकश्श्वेतरक्तके॥ 51
रक्तमिश्रेतु मंडूको मंडलोभवेत्
सिंदूरवर्णे खद्योतः कपोते गृहगौळिका॥ 52
गुडवर्णेतु पाषाणं निस्स्वशोभे जलं भवेत्
वर्जयेद्गर्भ संयुक्तां विमलै रंचिंतां तथा॥ 53
विमलं हेमकांस्याख्यं लोहाख्यं चत्रिदा स्मृतम्
परीक्ष्यैवं प्रकर्तव्यमेव मेव प्रमाणतः 54

  • * * *

प्रासादगर्भमानं वा हस्तमानमथाऽपि वा
प्रत्येकं त्रित्रिभेदं स्याद्द्वारमानं प्रवक्ष्यते॥ 55
द्वारादध्यर्धकं चैव द्वारात्पादाधिकं तथा
मध्यमं च कनीयस्स्याद्द्वारमेवं विधीयते॥ 56
अधमोत्तमयोर्मध्ये त्वष्टधा कारयेद्बुधः
कनीयस्त्रीणि विज्ञेयं त्रीणि मध्यमकं तथा॥ 57
त्रीणि चोत्तमकं विद्यादुत्सेधं नवथा भवेत्
स्तंभादध्यर्धकं तुंगमुत्तमं तु विशेषुः॥ 58
उत्तमाधमयोर्मध्ये द्वारमानेन योजयेत्
गर्भगेहसमं मध्यं त्रिपादं चाऽधमं भवेत्॥ 59
पादाऽधिकं तु विज्ञेयं श्रेष्ठमेवं विधीयते
(उत्तमाधमयोर्मध्ये द्वारमानेन योजयेत्)

  • * * *

हस्तमानं तधावक्ष्ये नवहस्तं तधोत्तमम्॥ 60
षडंगुलैस्सहाऽन्यान्तु सार्धद्विहस्तकाऽवधि
एवमुत्सेधमानन्तु स्थावरस्य प्रशस्यते॥ 61
जंगमानां भवेन्नाम मूलबेरवशात्तथा
बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा॥ 62
बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा॥
वेदांशं तु भवेदुच्चं जंगमस्य प्रकीर्तितम्॥ 63
मानांगुलेन सप्तादि द्विद्व्यंगुलविधानतः
पंचाशत्सवनांगुल्या विधिस्सर्वोविधीयते॥ 64
मूलबेरांऽगुलान्मानमारभ्यैकादशांऽगुलम्
द्विद्व्यंगुलविवृद्ध्यातु सषष्टित्य्रंगुलं? भवेत्॥ 65
प्रत्येकं तु त्रिभेदं स्यादुत्तमाधममध्यतः
उत्कृष्टं नवतुंगं स्यान्मध्यमं नवतुंगकम्॥ 66
निकृष्टं तु तथा प्रोक्तं सप्तविंशतितुंगकम्
एतैरुत्तममानं स्यास्मध्यमं च तथैव हि॥ 67
कर्मार्चोत्सवस्नानाच्च योज्यं स्यादन्यधा नतु
अधमैस्तु भवेद्यत्र बलिबेरं विधीयते॥ 68
मात्रांऽगुलेन यन्मारं गृहार्चाणां तु नान्यथा॥ 68 1/2
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णाधिकारे सप्तमोऽध्यायः॥