सामग्री पर जाएँ

प्रकीर्णाऽधिकारः/सप्तदशोऽध्यायः

विकिस्रोतः तः
← षोडशोऽध्यायः प्रकीर्णाऽधिकारः
सप्तदशोऽध्यायः
[[लेखकः :|]]
अष्टादशोऽध्यायः →

अथ सप्तदशोऽध्यायः॥
अदिमूर्ति कल्पः
अथ वक्ष्ये विशेषेण केशवादिविनिर्णयम्
केशवं तु प्रकुर्वीत सौम्यरूपं चतुर्भुजम्॥ 1
शंखचक्रगदापद्मधरं स्वर्णाभवे व च
सर्वालंकारसंयुक्तं मुक्ताहारविभूषितम्॥ 2
स्थितमेवं प्रकुर्वीत देवीभ्यां सहितं प्रभुम्
नारायणं प्रकुर्वीत घनश्यामं चतुर्भुजम्॥ 3
शंखपद्मधकं देवं बिभ्रन्तं च गदामसिम्
भूषितं मणिभूषाभिः वीतवाससमच्युतम्॥ 4
प्रकुर्याच्च विशेषेण लक्ष्मीनारायणं शुभम्
उत्तमं दशतालेन मानोन्मानप्रमाणतः॥ 5
सिंहासने समासीनं दक्षिणांऽघ्रिं प्रसार्य च
आसने निहितं वामं लक्षणं पूर्ववत्तथा॥ 6
लक्ष्मीं सन्न्यस्य वामोरौ मुखे हर्षसमन्विताम्
प्रसारितकरां देवीं पंचतालप्रमाणतः॥ 7
प्रांजलीकृतहस्तां तां सर्वाभरणभूषिताम्
वामेन तां परिष्वज्य दक्षिणेनाऽभयप्रदम्॥ 8
अन्याभ्यां च कराभ्यां च शंखचक्रधरं परम्
तार्क्ष्यंस्कन्धासनस्थं वा अन्यत्सर्वं च पूर्ववत्॥ 9
तार्क्ष्यं नवार्धतालेन अर्धेषद्भृकुटिं? मुखम्
दक्षिणोरौ स्थितां लक्ष्मीं केचिदिच्छन्तिसूरयः 10
नागभोगे समासीनमेवं कुर्यात्तु वा हरिम्
सप्तभिः पंचभिर्वापि फणैर्विस्तारितैर्युतम्॥ 11
शेषं सम्यक्प्रकुर्वीत समुत्तुंगशरीरिणम्
माधवं चोत्पलनिभं चक्रचावगदाऽसिभिः॥ 12
चतुर्भुजधरं कुर्याच्चित्रमाल्यांबरं हरिम्
गोविंदं पांडुराभं च चतुर्भुजधरं हरिम् 13
गदाशंखारिपद्मानि बिभ्रन्तं कारयेद्बुधः
विष्णुं नीलोत्पलाभन्तु शंखार्यब्जगदाभृतम् 14
सर्वाभरण संयुक्तं पीतवाससमच्युतम्
रक्तोत्पलाभं कुर्वीत देवं तु मधुसूदनम्॥ 15
शंखार्यब्जगदापाणिं चतुर्भुजमनामयम्
त्रिविक्रमं नीलवर्णं शंखार्यब्जगदाभृतम् 16
चतुर्भुजधरं देवं सर्वाभरणभूषितम्
वामनं मेघवर्णं तु चतुर्बाहुं महाबलम्॥ 17
गदाशंखारिपद्मानि बिभ्रन्तं छलरूपिणम्
अथ वा कारयेत्कुंभं दध्यन्नं च करद्वये 18
दधिवामनमाहुस्तं श्वेताभं द्विभुजं हरिम्
अथ वा वटुरूपं तु धृत्वा दंडकमंडलू॥ 19
स्वर्णच्छमि बालरूपं द्विभुजं कारयेद्धरिम्
सिताऽसिताभं कुर्वीत श्रीधरं तु चतुर्भुजम्॥ 20
कौमोदकीशंखचक्रपद्मधारिणमीश्वरम्
हृषीकेशं प्रकुर्वीत श्यामाभं च चतुर्भुजम्॥ 21
गदाशंखारिपद्मानि बिभ्रन्तं हरिमव्ययम्
सितमेचकवर्णन्तु पद्मनाभं प्रकल्पयेत्॥ 22
कौमोदकीचक्रपद्मशंखपाणिं रमाधवम्
दामोदरं प्रकुर्वीत सितगौराभमीश्वरम्॥ 23
पद्मशंखगदाचक्रधरं देवं चतुर्भुजम्
संकर्षणं तु कुर्वीत श्वेतवर्णं चतुर्भुजम् 24
शंखार्यब्जगदापाणिं सर्वाधारं सनातनम्
वासुदेवं प्रकुर्वीत तरुणादित्यसन्निभम्॥ 25
शंखचक्रगदापद्मधरं सर्वधरं विभुम्
चंद्राभं नवकुंदाभमथ वा कालयेद्धरिम्॥ 26
प्रद्युम्नं तु सुवर्णाभं कुर्याद्देवं चतुर्भुजम्
चक्रशंखगदापद्मधरं देवं महाबलम्॥ 27
अनिरुद्धं हिरण्याभं सर्वालंकारसंयुतम्
शंखचक्रधनुःखड्गधरं देवेश्वरेश्वरम्॥ 28
सिताऽसिताभं कुर्वीत देवेशं पुरुषोत्तमम्
शंखचक्रगदापद्मधरं देवं चतुर्भुजम्॥ 29
अथोक्षजं प्रकुर्वीत शंखाभं च चतुर्भुजम्
चक्रशंखगदापद्मधरं भूषणभूषितम्॥ 30
नारसिंहं तु मेघाभं सर्वालंकारसंयुतम्
शंखपद्मगदाचक्रधरं भक्ताभयप्रदम्॥ 31
सितमेचकवर्णं तु कुर्वीत विभुमच्युतम्
गदाब्जचक्रशंखांकं चतुर्भुजविराजितम्॥ 32
जनार्दनमुदारांगं नीलवर्णं समाचरेत्
चक्रशंखगदापद्मधरं देवं सनातनम्॥ 33
अथ वा कटिविन्यस्तवामहस्तं प्रकल्पयेत्
उपेन्द्रं घनकृष्णाभं सर्वाभरणभूषितम्॥ 34
शंखचक्रगदापद्मधरं देवं जगत्प्रभुम्॥
हरिं पांडुरकृष्णाभं सर्वालंकारशोभितम्॥ 35
शंखपद्मगदाचक्रधरं कुर्यान्मनोहरम्
कृष्णं तु नीरदश्यामं पुंडरीकनिभेक्षणम्॥ 36
शंखचक्रगदापद्मधरं कुर्याद्विचक्षणः
सर्वेषां तु विमानानि विष्णोरुक्तवदाचरेत्॥ 37
सभ्यकुंडे प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च
`केशवं क्लेशसंहारं विष्णुं चैव परात्परम्' 38
`नारायणं नरं विष्णुं नरकान्तक' मित्यपि
`माधवं पुंडरीकाक्षं विष्णुं सर्वात्मकं' त्विति, 39
`गोविंदं परमानन्दं विष्णुं चैव सनातनम्'
॥विष्णुं व्यापिनमीशानं सर्वलोकाऽधिपं तथा॥ 40
`मधुसूदनमुद्योगं महान्तं विष्णु'मित्यपि
`त्रिविक्रमं त्रिलोकेशं लोकाधारं सनातनम्' 41
`वामनं वरदं चैव काश्यपिं चाऽदितिप्रियम्'
`श्रीधरं पुरुषं चेति विष्णुं श्रीवत्सवक्षसम्'॥ 42
`हृषीकेशं जगन्नाथं विष्णुं विश्वमयं' तथा
`पद्मनाभं सुरेशं च विष्णुं चैव जगत्पतिम्॥' 43
`दामोदरं सदाधारं विष्णुं प्रणवरूपिणम्'
`संकर्षणं यदुवरं विष्णुं हलधर'न्तथा॥ 44
`वासुदेवं पुण्यमूर्तिं भद्रेशं पुण्यरूपिणम्'
`प्रद्युम्नं जगदीशानं विष्णु पुण्यात्मकं' तथा 45
`अनिरुद्धं महान्तं च वैराग्यं सर्वतेजसम्'
`पुरुषोत्तममानन्दं विष्णुं पंचात्मकं' तथा 46
`अधोक्षजमनादिं च विष्णुं व्यापक' मित्यपि
`नारसिंहं तपोनाथं महाविष्णुं महाबलम्' 47
`अच्युतं चाऽपरिमितमैश्वर्यं श्रीपतिं' तथा
॥जनार्दनमनाद्यन्तं विष्णुं तेजोमयं' तथा॥ 48
`उपेन्द्रमिन्द्रावरजं विष्णुं वैकुंठ'मित्यपि
`हरिं पापहरं चेति विष्णुं मंगलविग्रहम्॥ 49
`कृष्णं नारायणं पुण्यं त्रिदशाधिप'मित्यपि
आवाह्य तु क्रमेणैव निरुप्याज्याहुतीर्यजेत्॥ 50
`विष्णोर्नुका'दभिष्षड्भि`रतोदेवा'दभिस्तथा
केशवादिद्वादशानां मंत्रैर्द्वादशभिर्हुनेत्॥ 51
नारसिंहस्य कृष्णस्य मंत्रः पूर्वमुदीरितः
इतरेषां दशानां तु दशमंत्राः प्रकीर्तिताः॥ 52
`विष्णुस्सर्वेषा'मित्यादि `यं यज्ञै'रन्तमीरिताः
तं तं देवं समुद्दिश्य तत्तन्मन्त्रेण चाऽत्वरः॥ 53
शतमष्टाऽधिकं हुत्वा शेषं पूर्ववदाचरेत्

  • * *

एवं सर्वत्र कुर्वीत देवीभ्यां सहितं विभुम्॥ 54
तद्रूपं कौतुकं कुर्यात्सर्वलक्षणलक्षितम्
कर्षणादिक्रियास्सर्वा विष्णोरिन समाचरेत्॥ 55
लक्ष्मीकल्पः
अथ वक्ष्ये विशेषेण लक्ष्मीस्थापनमुत्तमम्
अष्टधा प्रोच्यते लक्ष्मीः प्रथमा त्वनपायिनी॥ 56
विष्णोर्वक्षस्थ्सलेकार्या सर्वालंकारसंयुता
दक्षस्तनस्योर्ध्वभागे वह्न्यश्रेदिव्यमंडले॥ 57
पद्ममध्ये समासीनां पद्मद्वयकरांचिताम्
वरदाभयहस्तां च मन्दस्मित मुखांबुजाम्॥ 58
एवं रूपां प्रकुर्वीत योगलक्ष्मीस्तुसा मता
योगलक्ष्मीं प्रतिष्ठाप्य श्रीकामस्सम्यगर्चयेत्॥ 59
देवेशेन समं कुर्यादस्यास्थ्चापनमुत्तमम्
कालान्तरे प्रकुर्याच्छेद्धेमरूप्यादिना पुनः 60
कृत्वा श्रीवत्सरूपं तु धारयेद्विष्णुमव्ययम्
तत्तद्बिंबानुरूपं च कुर्याच्छ्रीवत्सलक्षणम् 61

  • * *

भोगलक्ष्म्यस्समाख्याता श्श्रीभूनीलाः क्रमादिमाः
ध्रुवादिषु तु बेरेषु श्रीभूम्यौ देवपाशन्व्‌गे॥ 62
वैकुंठमार्गसंचारा नीला नित्यसमाश्रिता
श्रीभूम्योस्थ्सापनं पूर्वं देवेशेन सहोदितम् 63
देवीभ्यां रहिते देवे कुर्यात्कालान्तरे पुनः
पृधक्प्रतिष्ठां श्रीभूम्योः कुर्यादांगिरसोक्तिवत् 64

  • * *

वीरलक्ष्मीरिति प्रोक्ता पृथगालयसंगता
अलयाद्दक्षिणे पार्श्वेकुर्यात्तु पृथगालयम् 65
दशतालेन मानेन कुर्याद्देवीन सलक्षणाम्
पद्मद्वयकरां चैव वंदाऽ भयधारिणीम्॥ 66
किरीटमुकुचोपेतां सर्वालंकारशोभितम्
पद्मासने समासीनां हेमाभां सर्वमंगलाम्॥ 67

  • * *

गोदामन्यां प्रकुर्वीत लक्ष्मीं तु विजयाऽभिधाम्
नवतालें मानेन कुर्यादन्यालयाश्रिताम्॥ 68
दक्षिणॆन तु हस्तेन कल्हारं दधतीं तथा
प्रसारितेतरकरां बद्धधम्मिल्लशोभिनीम्॥ 69
सर्वालंकारसंयुक्तां तिष्ठन्तीमेव कारयेत्
गोदा भूम्यंशजा प्रोक्ता तन्मन्त्रेणाचरेत्क्रियाः 70

  • * *

पाकलक्ष्मीस्समाख्याता पचनालयसंगता
अष्टतालेन मानेन कुर्यात्तां पचनालये॥ 71
पद्मद्वयांचितकरां वरदाभयधारिणीम्
आसीनां वाऽथ तिष्ठन्तीं कुर्याद्भूषणभूषिताम्॥ 72

  • * *

द्वितीय मंडपद्वारे द्वारलक्ष्मीं समाचरेत्
पतंगपट्टिकामध्ये सर्वालंकारशोभिताम्॥ 73
पद्मद्वयांचितकरां वरदाभयधारिणीम्
पद्मासने समासीनां किरीटादिविभूषिताम्॥ 74
गजै तु पाशन्व्‌योःकुर्याद्धेमकुंभकरौ पुनः
सिंचन्तौ तौ महालक्ष्मीं कुर्यात्कुंभजलैस्तथा॥ 75

  • * *

श्रीभूम्योर्वीरविजयलक्ष्म्योरेव विधीयते
ध्रवबेरानुरूपेण बेरान्तरसमर्चनम्॥ 76
तद्रूपं कौतुकं कुर्यादुत्सवादि यथेच्छया
अन्यासांनैव कुर्वीत ध्रुवार्चामेव कारयेत्॥ 77

  • * *

पौंडरीके प्रधानाऽग्नौ हौत्रं तत्र प्रशंस्य च
श्रीभूम्योर्मूर्तिमंत्रैश्च क्रमेणावाहनादिकम्॥ 78
`गोदां कृष्णप्रियां लक्ष्मीं रुक्मिणी'मिति चाह्वयेत्॥
आवाहनक्रमेणैव तन्मंत्रैर्जुहुयात्क्ररूत्॥ 79
प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेत्॥
नवषट्पंचमूर्तीनां विमानस्यालयस्य च॥ 80
द्विमूर्तिस्थापनं तद्वत्रिमूर्तस्थापनं तथा
अन्येषां परिवाराणां स्थापनं विधिवच्चरेत्॥ 81
यद्यत्समर्प्यते वस्तु देवेशस्य तु मन्दिरे
तत्तत्सर्वं विधानेन प्रतिष्ठाप्य समर्पयेत्॥ 82
असंस्कृतं तु न ग्राह्यं न तद्देवप्रियं भवेत्
भूषणानि च वा सांसि पात्राण्यन्यत्परिच्छदम्॥ 83
बेराऽलंकारयोग्यानि धामाऽलंकरणानि च
यथाहंन्‌ संस्कृतान्येव गृह्णीयात्सफलं भवेत्॥ 84
तत्तद्द्रव्याधिदैवत्यं देवतामूर्तिमंत्रकम्
जुहुयात्सर्वमन्यच्च प्रतिष्ठोक्तवदाचरेत्॥ 85
द्रव्याऽधिदेवताकल्बस्सम्यगुक्तो मयाखिले॥ 85 1/2
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां
प्रकीर्णाऽधिकारे सप्तदशोऽध्यायः ।